भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.10

4.10.13

न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

4.10.14

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत् ॥

4.10.15

यदा न कुरुते भावं सर्वभूतेषु पापकम्
समदृष्टेस् तदा पुंसः सर्वाः सुखमया दिशः ॥

4.10.16

या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः
तां तृष्णां संत्यजेत् प्राज्ञः सुखेनैवाभिपूर्यते ॥

4.10.17

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यतः ॥

4.10.18

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः
तथाप्य् अनुदिनं तृष्णा ममैतेष्व् एव जायते ॥

4.10.19

तस्माद् एताम् अहं त्यक्त्वा ब्रह्मण्य् आधाय मानसम्
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥

4.10.20

पूरोः सकाशाद् आदाय जरां दत्त्वा च यौवनम्
राज्ये ऽभिषिच्य पूरुं च प्रययौ तपसे वनम् ॥

4.10.21

दिशि दक्षिणपूर्वायां तुर्वसुं प्रत्य् अथादिशत्
प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥

4.10.22

उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान्
सर्वपृथ्वीपतिं पूरुं सो ऽभिषिच्य ययौ वनम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc