विनयसूत्र · भाग 14
विनयसूत्रम्
[1 प्रव्रज्यावस्तु]
[(इ) श्रामणेरत्वोपनयम्]
॥ ंअमः सर्वज्ञाय ॥
[संग्रहार्थं बोधिसत्त्व]श्चकारासौ गुणप्रभः ।
सूत्राणि विनयस्येयं वृत्तिस्तेषां निगद्यते ॥
तत्रेदमादिसूत्रम् (1) अथ निर्याणवृत्तम् ॥ अथेतिशब्दो ऽधिकारार्थम् । आसूत्रसंदर्भपरिसमाप्तेर्निर्याणवृत्तमधिकृतं वेदितव्यम् । प्राप्तिरत्रयानं, न गमनम् । निर्याणं याति निर्याणं निर्याति अनेनेति । तद्यथा - ग्रामं प्राप्तं इ[तिवत् । निः-शब्दो ऽपुनरावर्तनख्यापनार्थम् । अपुनरावर्तकं यानं निर्याण]मिति शेषः । निरूपधिशेषनिर्वाणप्राप्तेरुक्तिः । तद्वा अपुनरावर्त्तकं यानम्? । अथ किमिति । निर्यान्ति तदिति निर्याणमिति । अनेन शब्देन सोपधिशेषनिर्वाणप्राप्तिः अत्रोक्ता इति न गम्यते । निर्याति अनेन इति वा मार्गो ऽभिहित इति [चेत्], ऽयस्मान्न निःशब्दो उपक्रमणार्थमागतः, [नापि पर्यन्तार्थं । एतदाश्रित्य सोपधिशेषनिर्वाणो]क्तिः ॥ संसारवृत्तस्योपक्रमभूतं अतो यानं निर्याणं, पर्यन्तगमनं संसारवृत्तस्य वा इति, स च नाश्रितः । किं तर्हि अपुनरावृत्त्यर्थो निःशब्दो ऽत्र अभीष्टः । तेन यदेवापुनरावर्त्तकं यानं तस्यैवानेनोक्तिः, नान्यस्य । यतश्च यां समापत्तिकक्षा[मागम्य वज्रोपमाया अनन्तरं सोपधिशेषनिर्वाणसंप्राप्तिः] ॥ तत्कक्षातो यद् व्युत्थानेन कक्षान्तरे गमनं न सा न पुनरावृत्तिः । अर्हत्वादितः परिहाणिः सा अन्तर्धानमेव ॥ मार्गस्य पुनः प्राप्तिरत्र यानम्, न गमनमिति ॥ [तस्मात्] गमनार्थासंश्रयादपि निर्याणत्वाप्रसङ्गः ॥ निर्याणगामिवृत्तं निर्याणवृत्तम् ॥ वृत्तं पुनरत्रेदं धर्मकाणां [मुद्रा । यद्वृत्तं तदशेषतः विनयेन प्रोक्तं वेदितव्यम् । ततो ऽत्रप्रव्र]ज्या विभङ्ग-पोषध-वर्ष-प्रवारणा-कठिन-चीवर-चर्म-भैषज्य-कर्म-प्रतिक्रिया-कालाकालसंपात-भूम्यन्तरस्थचरण-परिकर्म-कर्मभेद-चक्रभेद-अधिकरण-शयनासनवस्तु-इत्यनेनानुक्रमेण कृत्स्नस्य विनयविधेः संनिवेशनम् । यस्मात् अयमत्र अभिसंधिः - न्या[य्या एतेन विधिना प्रव्रज्योपसंपदोः उपलब्धिः । ऽएतेषां च एवंविधानां] चेह संग्रहः, एवंविधाश्चात्र वर्ज्याः । इत्यस्य पूर्वं वक्तुं योगः इति आदौ प्रव्रज्यावस्तुनः संनिवेशनम् । शासने प्रविष्टस्य अनुपेते ऽत्र वृत्ते शिक्षानिः क्षेपणादिना इयं शिक्षा । इत्यतो ऽनन्तरं विभङ्गस्य [संनिवेशनम्] ॥ पोषधवस्त्वादीनामपि इमान्यत्र क्रमकारणानि - परिपोषणं यथा समात्ताया शि[क्षाया काले-काले सूत्रमाश्रित्य । तस्मात् पोषधावस्तु अभिहि]तम् ॥ यस्मिन् काले एकत्रावस्थानेन अर्थसंपत्तिः तदवस्थानगतौ विधिः इत्यतो वर्षवस्तु
॥ नियतवासात्मके वर्षवासान्ते दृष्टादिभिः त्रिभिः स्थानैः ( विन्सू 4 ) संघं प्रवारयामीति शुद्धौ सत्यां उत्सर्गदानस्य युज्यमानता इत्यतो ऽनन्तरं प्रवारणावस्तु ॥ व्यूहबन्धः कश्चिदस्य वर्षावसात्मनो [नियतवासस्य प्रति-कञ्चुकभूतः विद्यते । प्रस्रब्धिविहारितार्थं अवलम्बनीयः । अस्य अनन्तरं तस्य क्रमः इति कठिनवस्तु निवेशितम् ॥ पृथक्तत्र नापत्तौ चीवरविभागस्य योगः इति अपगतत्त्वेन तयोः व्यूहबन्धयो चीवरदानस्य कालः इति चीवरविधेः आश्रयणम् । चीवरप्रभेदभूतं ज्ञानं चर्मं इत्यतोनन्तरं चर्मवस्तु [निवेशितम्] ॥ न विना रोगप्रतीकारेण एक(ः) पृथग्वा विहर्तु शक्यत इ[ति सहप्रत्या] सन्नाभ्यां पूर्वापरकालाभ्यां प्रथ(म)मेव चीवरदानकाले प्रायशो ग्लान्या पातस्य भावः । तद्गतो ऽस्मात् प्रतिक्रियाविधियुक्तरूप इति भैषज्यवस्तु ॥ उत्पन्नोत्पन्नेषु एवं विहरतां करणीयेसु अनुष्ठानविधिः, इत्यतोनन्तरं कर्मवस्तु ॥ उद्वृत्तानां प्रणिधिकर्मार्हादीनां प्रणिधिकर्मकरणादिना नियमनं प्रत्यापादनं च अवसारणादिना युक्तमित्यतः प्रतिक्रियावस्तु ॥ आपन्नसंघावशेषस्य च कालाकालसंपात-भूम्यन्तरस्थचरणवस्तुनोः नियमनप्रत्यापादनार्थं संनिवेशनम् । कौशाम्बक-पाण्दुलोहितक-पुद्गलपरिवासिकवस्तूनि प्रतिक्रियावस्त्वादि नामभिः उक्तानि । संज्ञान्तरनिवेशनप्रयोजनं तत्रैव क्रमे वक्ष्यामः ॥ नियमनादौ अनुपतिष्ठतां परिदमनं युक्तरूपमित्यतः परिकर्मवस्तु ॥ [पोषध]स्थापनवस्तुनः एतत्संज्ञान्तरं वक्ष्यमाणार्थं द्वैधगतेषु वृत्तमित्येतत्कर्मचक्रभेदवस्तुनी ॥ व्यवहारगतो विधिः अतो ऽनन्तरं युज्यते । इत्यस्मादधिकरणवस्तु ॥ यत्रैतद् सर्वं अन्यश्च कुशलपक्षो ऽनुष्ठीयते स्थाने, तद्गतो ऽस्माद्विधिः युक्त इति शयनासनवस्तु निवेशितम् ॥ क्षुद्रकादीनां चैतद् - प्रभेदभूतत्वात् अनतिरेक एभ्यः इति न पृथक्सूत्रणम् ॥ यत्र यस्य योगः ततस्तत्रैव निवेशितम् । आचार्योपाध्याह्यानुज्ञानात् [अनन्तरं] यः प्रव्रज्योपनयविधिः तदुपदर्शनार्थमाह - (2) सर्वस्मिन् सन्निपतिते संघे कृतेदवेषं निपत्य प्रगृहीताञ्जलिं उत्कुटुकस्थं वृद्धान्ते याचितवन्तं त्रिर्ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदौ उपनयेयुः इति पुरा-कल्पः ॥ मण्डलके संघैकदेशसन्निपातप्रतिषेधार्थं सर्वस्मिन् इति वचनम् ॥ न मण्डलकस्थे ऽपि संघै(क)देशे, किंतर्हि तदन्तसीमानिवासिनि सर्वस्मिन् ॥ कृतो ऽयं वेषो ऽनेन इति
कृतेदंवेषाः ॥ अयमिति बुद्धशासनभिक्षुवेषापदेशः । अपनीतकेशश्मश्रुं भिक्षुवेषं च प्रावृत्रिचीवरं इत्यर्थः । निपत्य इति वृद्धान्त इति यद्वक्ष्यते, तस्य चाभिसंबन्धः । वृद्धान्ते निपत्य पञ्चमण्डलकेन वन्दनां कृत्वा इत्यर्थः ॥ प्रगृहीताञ्जलिमिति कृताञ्जलिम् ॥ उत्कुटुकस्थमिति उत्कुटुकिकया ऽवस्थितम् । नासनोपविष्टम् । क्वावस्थितमित्याह वृद्धान्ते ॥ ननू निषण्णस्य उत्कुटुकिकया वृद्धान्ते प्रगृहीताञ्जलित्वं इत्येतत्संघाधीने कर्मणि-परिभाषायां सर्वकर्माधिकारिकं सूत्रितम् । तत एव इहापि कर्मत्वात् अस्य त्रितयस्य प्राप्तौ सत्यां ( विन्सू 5 ) किमिति पुनर्वचनम् - ऽवर्तमानकल्पाधिकारिकत्वात् प्रगृहीताञ्जलिऽ मित्यादेः परिभाषातो अस्त्यस्येह पुराकल्पे सिद्धिरितिवचनम् ॥ याचितवन्तमिति किम् । प्रव्रज्योपसंपदौ । याचनं पुनः - "शृणोतु, भदन्ताः संघो, अहमेवंनामा आकाङ्क्षामिस्वाख्याते धर्मविनये प्रव्रज्योपसंपदं भिक्षुभावम्" इति विस्तरः ॥ अनेन मन्त्रेण त्रिर्याचितवन्तं ज्ञप्तिचतुर्थेन कर्मणा इति तिस्रो वाचना ज्ञप्तिचतुर्था यस्मिन् कर्मणि तद् ज्ञप्तिचतुर्थं कर्म, तेन ॥ सहप्रव्रज्योपसंपदौ इति प्रव्रज्योपसंपच्च समानकालं, न क्रमेणेति ॥ उपनयेयुरिति संघभूता भिक्षवः ॥ तथा च मन्त्रः"शृणोतु, भदन्ताः संघो, अयमेवंनामा आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं यावत् प्राव्राजित उपसंपादित एवंनामा संघेनेति" ॥ इति पुराकल्पः ॥ इति-शब्दः प्रकारवाची ॥ पुराकल्प इति वर्तमानकल्पात् प्राक् एवं-प्रकारः प्रव्रज्योपसंपद्विधिरित्यर्थः ॥ अथ किमिति वर्तमानकल्प एव भगवता न प्राक्प्रज्ञप्तः, किं ना पुराकल्पत्यागेन अस्य विधेः पुनः प्रज्ञपनम्? [इति चेत्], विशुद्धसत्त्वा हि ते तदानीं प्रतिपत्तारः । तेषां न क्रमेण विनियम्यत्वं, न परावष्टंभेन परिशिक्षणं वा । [न] ग्लान्यमेषां, कृतपुण्यत्वात् असत् न संपद्यते - ऽसंपन्ने वा भवन्त्येषां स्वयमेवानुकम्पकाःऽ । आन्तरायिकधर्माणां तदानीं अनापत्तेः । तथा ऽपसर्तॄणां इत्यतः पुराकल्पप्रज्ञपनम् । यदा त्वन्यविधा अप्येते जाताः तदोत्तरस्य संप्रत्तं नैव कश्चिदुपयोगः । किमनेनेहोपनिबद्धेन? यद्यप्यनेन कल्पेना[धुना] ऽव्यवहारः,
तथापि नास्त्यस्योत्तरादन्यत्वं, परिकरमात्रकं तदस्य यदुत्तरत्र विशेषः । तत्रेदं मन्त्रतन्त्रम् । एतावन्मात्रकमेवासीत्, द्विकमेवैतदासी(त्) । विनयवशादस्य अपरस्यात्रविधेः व्यवस्था-[न]-मित्यास्यार्थस्य ख्यापनार्थं अस्योपनिबन्धः । एवं सप्रयोजनः पुराकल्प उपदर्शितः ॥
वर्तमानकल्प इदानी[मुच्यते] - (3) निश्रितस्य कंचिद्भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसंपदौ ॥ कंचिद्भिक्षुमिति । नावश्यं, यन्निश्रित्य प्रव्रज्या तमेवोपसंपदिति प्रदर्शनार्थं कंचित् - इति वचनम् । ऽकथं निश्रित्यऽ आह उपाध्यायतया । ऽकिमर्थ निश्रितस्यऽ इत्याह तत्र इति । प्रव्रज्योपसंपदपेक्षं । निमित्तसप्तमी चैषा । प्रव्रज्योपसंपन्निमित्तं उपाध्यायत्वेन कंचिद्भिक्षुं निश्रितस्य प्रव्रज्योपसंपदौ भवतः, न यथा पुराकल्पे कंचिदनिश्रितस्यैवेति ॥ प्रव्रज्या पुनरत्र यत्तस्यां अर्हवृत्तं श्रामणेरसंवरः, तेनानुसक्ता वेदितव्याः । प्र[व्र]ज्या श्रामणेरसंवरश्च उभयमप्येनं निश्रितस्य । विशेषः पुनरत्र उपाध्यायादेव प्रव्रज्या, संवरः पुनरन्यत इति । निश्रितस्य निश्रयपरिग्रहे विधिमाह - (4) पृष्ट्वा आन्तरायिकं परिशुद्धाय पूर्वो [पाध्यायत्वेना वका]शं कुर्यात् । प्रव्रज्याया यदान्तरायकरं मातृवधादि तदान्तरायिकमत्र अभिप्रेतम् । अतो ऽसौ निश्रयः प्रव्रज्यापेक्षमान्तरायिकं पृष्त्वा, न सन्ति चेत् अस्य ते धर्माः ( विन्सू 6 ) ततः परिशुद्धायास्मै पूर्वोपाध्यायत्वेन श्रामणेरोपाध्यायत्वेन अवकाशं कुर्यात् - ऽअहं भदन्तं प्रव्राजयामिऽ इति । तथा च ग्रन्थः - "यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति, स तेनान्तरायिकान् धर्मान् पृष्ट उद्गृहीतव्य" इति । संवराणां आनुपूर्व्यं दर्शयन्नाह - (5) नानुपपन्नस्य पूर्वं उपासकत्व-श्रावणेरत्व-भिक्षुत्वानामुत्तरम् । एषामुपासकत्वादीनां पूर्वं-पूर्वं पर्वानुपपन्नस्य तादात्म्योपगत्या अनुपगतस्य उत्तरं उत्तरं पर्व न कार्यम् । व्यवस्थाख्यानमेतद् ॥ पृष्ट्वा आन्तरायिकान् प्रव्रज्यापेक्षं आदावुपासकत्वं ग्राहयेत्, ततः श्रामणेरत्वं, ततो भिक्षुत्वं भवति इत्यस्य बोधनार्थं । न त्वेतदर्थं पूर्वस्मिन्नसमात्तेन भवत्युत्तरस्य रूढिरिति ॥ भिक्षुसंवरस्य पूर्वं संवरान्तरेणापि रूढौ मुख्यमस्त्येव [मूल]वचनम् । श्रामणेरसंवरस्तु उपासकसंवरं विभवति इति रूढिः । भिक्षुसंवरः प्रतिशरनं न त्वस्ति[इति] वचनम् । शरणगमणपूर्वकं संवरादानमिति दर्शयन्नाह - (6) शर[ण]गत्यभ्युपग[मवच]नोपक्रमं उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत ॥ गतिर्गमनम् । शरणगमनस्याभ्युपगमः शरणगत्यभ्युपगमः - बुद्धं शरणं गच्छामीत्यादि । तदभिधायकं वचनं शरणगत्यभ्युपगमवचनम्, तद्वचनम् । उपक्रम आरम्भः । उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत ॥ को ऽसौ? प्रतीपत्ता, अयमर्थः । एवं समादात्रा वक्तव्यम् - "सामन्वाहर भदन्त अहं एवंनामा बुद्धं शरणं गच्छामि यावत् गणानामग्र्यम्, उपासकं मां भदन्तो धारयतु यावज्जीवम्, समन्वाहर भदन्त अहमेवंनामा बुद्धं यावत् गणानामग्र्यं । श्रामणेरं मां आचार्यो धारयतु ॥" एवं भूतावेव संदर्भौ त्रिः आवर्तयितव्यौ ॥ ये[न]तु के[न]चिच्छरणगमनं आदौ त्रिरावर्त्य ततः पश्चादुपासकं मां भदन्तो धारयतु, श्रामणेरं मामाचार्य इत्यभिधीयते, सो ऽसौ वेदयितव्यः ॥ - यस्मादनयोः संवरसमादानवचसोः, एवं सति, शरणगमनोक्तिः नैव अङ्गभावं प्रतिपद्यते । किञ्च येन प्रागेव शरणगमनमात्रं [अभ्युपगम्यते] तस्य संवरादानकाले शरणगमनस्यावचनीयतापत्तिः
॥ अवश्यं चैतद् निर्वाणाशयप्ररूपणार्थं अस्मिन्काले वक्तव्यम् । एवम् ह्येतद् संवरसमादानवचसोः अङ्गं भूतं भवति, नान्यथा । न च निर्वाणाशय-दार्ढ्यमन्तरेण संवरस्योत्थानम् ॥ यस्मात् निर्वाणानुगुण्यः संवरः, उपसंपदस्तर्हि शरणगमनवचनमन्तरेण कथं रूढिः? नैष दोषः । उपसंपच्छब्दादेव तदर्थसिद्धेः । सर्वाकरनीयविरतिलक्षणत्वात्, सर्वात्मना हि निर्वाणोपगतिः उपसंपद् । यतः उपसंपदि स्थितः निर्वाणानुगुण्यो व्यवस्थितो भवति ॥ कुर्वीत इत्यात्मनेपदं प्रतिपत्त्या एतत् करनीयं इत्येतत्संदर्शनार्थम् । यदत्रपरो ऽभिधत्ते शिक्षणं तदिति मन्तव्यं, न दानग्रहणम्, उपोषधे ऽपि प्रतिपत्तुरेवैतत्करणीयं इति मन्तव्यम् । यत्ते दानग्रहणधर्मः तत्र इति केचिद् वर्णयन्ति शिक्षणादेव । भ्रान्तिरसौ तेषामिति ज्ञेयम्, तुल्यत्वात्समादानस्य ॥ (7) अनन्तरमस्य शिक्षोत्कीर्त्तनं ( विन्सू 7 ) [अभ्युपगमरूपेण] इति ॥ अस्य इति उपासकत्व-श्रामणेरत्वाभ्युपगमवचनस्यानन्तरं उपासक-श्रामणेरकशिक्षायाः तच्छिक्षापदानां यथायोगमुत्कीर्तनम् । पूर्वत्र पञ्चानां, उत्तरत्र दशानाम्, केन प्रकारेण इत्याह - अभ्युपगमरूपेण । इतश्च इतश्च प्रतिविरमामि इति, नो तु इदं चेदं च रक्ष्यं यत्त्वया समात्तम् इति ॥ (8) स्वयं उपासकतां उपनीय, आरोचकाय संघस्य अर्पयेत् भिक्षवे ॥ स्वयमिति प्रकृतत्वात् उपाध्यायः, स हि तत्प्रव्राजने कृतावकाशः । स स्वयमेवोपासकतामुपनीय उपासकसंवरं दत्त्वा । यस्तं प्रव्रज्यापेक्षं संघस्य आरोचयते, तस्मै समर्पयेत भिक्षवे - ऽआरोचयैनऽमिति । भिक्षुसंबन्धादस्येति - कर्तव्यताजातस्य । स्वार्थमेवैतदुपाध्यायस्येति प्रदर्शनार्थमात्मनेपदम् ॥ [ज्ञप्त्यादि]-कर्मात्मकत्वादस्य अनुपसंपन्नेनापि संघे प्रव्रज्यापेक्षस्य आरोचनं न विरुध्यत इत्यस्य विकल्पस्य व्युदासार्थं भिक्षवे इति वचनम् । तथा च ग्रन्थः - ततः पश्चात् भिक्षुरध्येषितव्यः - यो ऽस्यारोचयते इति ॥ आरोचको ऽपि (9) ऽकच्चित्परिशुद्धऽ इति समर्पितारमुपाध्यायं पृष्त्वा, शुद्धं सन्तं प्रव्रज्यापेक्षं आरोचये[त्] - "श्रुणोतु भदन्ताः, संघो समन्वाह्रीयतां - अयमेवंनामा प्रव्रज्यापेक्षो गृहीतावदातवसनः" इत्यादिना मन्त्रेणारोचयेदिति यत्परस्मैपदं तद् परव्यापारेणास्य प्रवृत्तेरस्वार्थत्वात् । न हि अत्र यथा उपाध्याये पुत्र इव प्रवृत्तेः स्वार्थत्वमेवास्य ॥ कथं अवस्थिते संघे आरोचयेदित्याह - (10) सर्वसन्निपाते वा [सन्निषण्णे ऽ]नुलयने वा ॥ अनुपरिगणिकया इत्यस्येदं विवरणं अनुलयनमिति । परिगणो हि लयनविशेषः ॥ येषां संनिधौ आरोच्यते तेषां यो विधिः तद्दर्शयन्नाह - (11) स चेत्परिशुद्ध
इति सर्वे ब्रू युः ॥ स चेत् यदीर्यर्थः । आरोचनोत्तरकालं प्रव्रज्यापेक्षः ॥ (12) उपाध्यायं याचेत याञ्चामन्त्रेण । उपाध्यायश्चास्य(13) केशश्मश्रूनव[तारयेताचूडम्] ॥ उपाध्यायत्वेन अधिष्ठापयन् नापितकार्य-संदर्शनार्थं अवतारयेत इति आत्मनेपदम् । न तु एवं मन्तव्यं उपाढ्यायेनैवैतद् स्वयं कर्तव्यमिति । न पारंपर्येण कारितमकारितं मन्तव्यं, अर्थार्थत्वात्प्रवृत्तेः । तस्मात् संपन्ने ऽर्थे प्रवृत्तिलोपः । तत्र अप्रतीक्ष्योपाध्यायोपयोगं केशश्मश्रु-अवतारने अन्येन संपादिते न पुनरुपाध्याये - नात्र प्रवर्तितव्यमिति मन्तव्यम् ॥ आचूडमिति चूडातो ऽन्यत् । दढिकापनये ऽपि न तथा वैरूप्यबुद्धिर्यथा स्यात् । तस्मान्निश्चितो ऽयं न वा इति प्रश्नेन विज्ञानार्थमस्य स्थापनम् - (14) अवतार्यतां चूडेति पृष्टेनानुज्ञाते, तम् ॥ अवतार्यतां चूडा इति पृष्टेन सता प्रव्राज्येन यद्यनुज्ञातं भवति, ततो ऽनुज्ञाते तेन चूडावतरणे तां चूडां अवतार[येदि]त्यनुवर्तते । एवम[व]तारि तकेशश्मश्रुः (15) स्नायात् ॥ कालानुरूपेणाम्भसा । स्नानोत्तरकालं च (16) उपाध्यायः काषा[या]णि वस्त्राणि दद्यात् ॥ सो ऽप्युपाध्यायस्य (17) पादयोः निपत्य प्रतिगृह्णीत ॥ ततः स्वयं तस्य (18) उपाध्यायः ( विन्सू 8 ) प्रावृणुयात् । प्रावृण्वंश्च षाण्ढ-पण्डक-अव्यञ्जन-उभयव्यञ्जनत्वदोषपरिहारार्थं (19) व्यञ्जनं प्रत्यवेक्षेत असंचेतितम् ॥ न च विनग्नं कृत्वा, अपि तु असंचेतितं - यथा ऽसौ न [जा]नी ते ऽदृष्टं मे ऽनेन व्यञ्जनऽमिति । अभ्युपगमादुपाध्यायस्यैतत्कर्म । अन्येना ऽपि भिक्षुणा प्रत्ययितेन कृतमागमितम् । कृतमित्येव उपाध्यायेनेति मन्तव्यम् ॥ (20) प्रव्रज्यामुपनयेत् शरणगमनोपक्रमम् ॥ ऽअहं एवंनामा बुद्धं यावद् गणानामग्र्यं, तं भगवन्तं शाक्यमुनिं ऽयावत्प्रव्रज्यालिङ्गं समाददेऽ इत्यनेन म[न्त्रेणोपाध्याय]ः शरणगमनप्रारम्भं प्रव्रज्यामुपनयेत्, न विना शरणगमनेनादिभूतेन इत्यर्थः । नान्वयं संवर? इति । को ऽस्यां श[र]णगमनोपक्रमत्वेनार्थ इति केचिदाहुः । तदसम्यक् । यस्मात् प्रव्रज्या नाम निवेशनपरित्यागः, सर्वं च सास्त्रवं वस्तु, अभिरतस्य तत्र निवेशनं, तस्मात् संसारवैमुख्यं निवेशनपरित्यागस्य कार्त्स्न्यम् । न च निर्वाणा पाश्रयेण संसारवैमुख्यस्य संपत्तिः । तस्मात्, संवरवत् अत्रापि निर्वाणाशयप्ररूपणं कर्तव्यम् इत्यत्रापि शरणगमनोपक्रमम् । केचित् प्रव्रज्योपनयनमन्त्रे ऽप्रव्रज्यालिङ्गं समाददेऽ इत्यतः पुरस्तात् ऽश्रामणेरं मां उपाध्यायो धारयतुऽ इति पठन्तिऽ तदयुक्तम् । प्ररूढस्य पुनः प्ररोहाभावतः, समात्तस्य च समादान [अनुपपत्तेः], आचार्येण मन्त्रे चास्य पठितव्ये ऽनुपपत्तिः । श्रामणेरत्वोपनयनमन्त्रे प्रव्रज्योपगतिरपि तैः पठ्यते - ऽतं भगवन्तं शाक्यमुनिं यावत् - प्रव्रज्यालिङ्गं समाददे । अर्थहेतोः उपाध्यायस्य नाम गृह्णामि । एवं नाम्नोपाध्यायेन श्रामणेरं मामाचार्यो धारयतुऽ इति । समात्तस्य च समादानानुपपत्तेः अयुक्तम् ॥ (21) याञ्चानन्तरं वा । इति प्रव्रज्या[मुपन]येत इति वर्तते । वा शब्दो मतविकल्पार्थः । केषांचित्पाठः - ऽउपाध्याययाञ्चानन्तरमेव अनवतारितकेशश्मश्रुः
प्रव्राजयितव्यऽ इति । अयमभिप्रायः तेसां - यथा श्रामणेरत्वं एवं केशावतारणादिकमपि प्रव्रजितस्यैव वृत्तमिति । त[त] एव पाठविकल्पस्योपनिबन्धः । एवं प्रव्रज्योपाध्यायः तं - (22) श्रामणेरत्वोपनायिने अर्पयेत् भिक्षवे । यो ऽस्य श्रामणेरत्वमुपनयति, श्रामणेरत्वमुपनेतुं शीलमस्येति शामणेरत्वोपनायी । यदस्य शामणेरसंवरोपनेतुः उपनयनाभिज्ञानं प्रति चेतसः प्रगुणत्वं ए(त)दत्र तच्छील्येन आश्रितं वे(दि)तव्यम् । यस्योपनयनार्थं अर्प्यते । सौ - (23) ऽकश्चित् परिशुद्धऽ इति पृष्ट्वा शुद्धमुपनयेत् ॥ (24) स आचार्य इति ॥ य एष श्रामणेरत्वोपनायी स आचार्यो द्रष्टव्यः ॥ (25) रहोनुशासक-कर्मकारक-निश्रयदायक-पाठकाश्च । आचार्या इति । समुच्चयार्थः च-शब्दः ॥ कियतैषां आचार्यत्वानां जातत्वमित्याह - (26) वृत्ते ऽर्थे भूतत्वम् । इत्याह - येनार्थेन मन्त्रव्यवस्था, तद्यथा - श्रामणेरत्वोपनयनेन अर्थेन श्रामणेराचार्यत्वे वृत्ते तस्मिन्नवसिते अर्थे, आचार्यत्वादेः भूतत्वम् - जातता । तस्मात् वृत्तेषूपनयनादिषु एषां आचार्यत्वानां जातत्वं वेदितव्यम् । किमुपाध्यायत्वस्यापि ( विन्सू 9 ) येनार्थेन असौ उपाध्यायः तस्मिन्नवसिते ऽर्थे जातत्वमित्याह - (27) अभुपगतावुपाध्यायस्य याञ्चायां तदुद्भूतिः ॥ याञ्चाकाले उपाध्यायस्य य ऽभ्युपगतिः तस्यां उपाध्यायत्वस्य उद्भूतिः । न प्रव्रज्योपनयने उपसंपन्नलक्षणस्य वा आवृत्ते ऽर्थे । येनर्थेन वृत्तेनैषां [आचार्यत्वोपा]ध्यायत्वानां जन्म, तस्यार्थस्य कदा वृत्तता इत्याह - (28) आवृत्तौ तृतीये ऽङ्गे अन्त्यायां वृत्तत्वम् ॥ यत्रावर्त्ती सो ऽर्थो, यदंशं आचार्यत्वादीनां वृत्तत्वं सा आवृत्तिः । तस्यां अर्थस्य वृत्तत्व । तिस्रश्च ताश्चावृत्तयः । तत्र न ज्ञायते क[त]रस्यामावृत्तौ आवृत्तेर्वा कतमस्मिन्नंश इति । तत्र इदमुच्यते - तत्र अन्त्यायां पश्चिमा[याम् । तदावृत्ति]स्तस्याः तृतीयो योऽंशः, तस्मिन् तस्यार्थस्य [वृत्तत्वं] मन्तव्यम् ॥ उदाहरणेन एनमर्थं प्रज्ञपयति - (29) तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य ॥ परस्य पुअनेतुः उत्कीर्तनकाले । श्रामणेरं च ममित्यतः परस्तात् ऽआचार्यऽ इति यत्परोत्कीर्तनं, तत्र श्रामणेरत्वकारके यः उपनेतुः अर्थः श्रामणेरसंवरो नाम, तस्य वृत्त[त्वं मन्तव्यं, आ]चार्यो धारयतु इत्यत्र मन्तव्यम्, न भदन्तो धारयतु इति ॥ (30) पश्चिमे ऽत्र उपाध्यायत्वस्य इति । वृत्तत्वं इति वर्तते ॥ अत्रेति परोत्कीर्तनकाले बहूपाध्याययाचने ऽसमन्वाहरऽ इति शब्दात् भिक्षुसंबंधोत्कीर्तनात्पराणि उपाध्यायोत्कीर्तनानि । तत्र यत्तृतीयोत्कीर्तनं उपाध्यायेन प्रव्रजिष्यामि उपसंपत्स्ये वा इति, अतः पूर्वं यः [तस्मिन्काले] उपाध्यायार्थः तस्य अम्युपगम[स्य] आत्मनो वृत्तत्वम् । तस्मिन्नेव काले प्रव्रज्यायामुपाध्यायेन इति वक्तव्यम् । उपसंपदि च । यदि पूर्वमेव नोपाध्यायो भवति, नाचार्येण वा, भदन्तेन वा इति । अप्रच्छेदतः चात्र तृतीयों ऽशो वेदितव्यः, नाक्षरपरिमाणतः । एवं हि उपाध्याययाचने त्रयः प्रच्छेदाः भवन्ति - ऽअहं एवंनामा भदन्तमुपाध्यायं याचेऽ । ऽ[भदन्तो] मे उपाध्यायो भवतुऽ । ऽभदन्तेनोपाध्यायेन प्रव्रजिष्य, उपसंपत्स्ये वाऽ इति ॥ श्रामणेरत्वोपगतौ तु प्रबंधप्रच्छेदौ - शरणगमनं श्रामणेरत्वाभ्युपगमश्च । तत्र पश्चिमं प्रच्छेदं अवान्तरार्थानुगत्या श्रामणेरं मामिति, आचार्यो धारयतु इति द्विधा कृत्वा त्रित्वमध्यवसितम् । कस्मात्पुनः असमाप्तायामेव आबृत्तौ तृतीये ऽङ्गत्वस्य वृत्तत्वं भवति,
यद्भूयः कृतं इति कृत्वा सर्वेष्वेव चायं सीमाबन्धादिषु विधिर्द्रष्टव्यः । तदेवं रहोऽनुशासकस्य अपर्यवसितायां रहस्यनुशिष्टौ आचार्यत्वं श्रामणेरत्वोपनायिनो ऽत्र काले कर्मकारकस्य एवंविधमिति कृतम् ॥ निश्रयदायकपाथकयोः कदा इति न ज्ञायते । अनवस्थितत्वात् निश्रयदानपाठकयोः परिमाणस्य ॥ तत्र यावता अनयोः आचार्यता-कृ[त]त्वं तदाख्यायते - (31) पर्यन्तो निःश्रयदानस्यैकरात्रं निश्रयत्वेन प्रत्युपस्थानम् । एकरात्रः एको ऽहोरात्रः, एकरात्रम् । निश्रयाचार्यस्य निश्रितं प्रति निश्रयत्वेन यत्प्रत्युपस्थानमेव [पर्यन्तत्वं], निश्रयदानस्य पर्यन्तः । तथा च ग्रंथः - ऽनिश्रयाचार्यः कतमः, यस्यान्तिके एकामपि ( विन्सू 10 ) रात्रिं निश्रयेणोषितो भवतिऽ इति । अतः प्रभृति अस्य परिपूर्णरूपत्वं, अर्वाक् तत्स्पृष्टिमात्रकं अगतपर्यन्तं अकृतत्वेन मनसि निलीयमानं न निश्रयसंख्यां गन्तुमर्हति ॥ (32) पाठस्य त्रिरेकगाथा-परिवर्तनम् ॥ यस्यान्तिकात् पठनाभिप्रायेण त्रिरेकागाथा परिवर्तिता स पाठाचार्यः । एवं हि पाठस्य पर्यन्तः । तथा च ग्रंथः - ऽपाठाचार्यः कतमः? यस्यान्तिकात् आवृत्तस्य द्विका ऽपि गाथा त्रिः परिवर्त्यं उद्गृहीता भवतिऽ इति । तद् [य]मत्र आर्षग्रन्थाभिप्रायो लक्ष्यते ॥ पाठाचार्येण उक्तस्य पठितुः अनुवदनमुद्ग्रहः । सकृदुक्तौ च स्पृष्टिमात्रकं अपरिपूर्णरूपं पठनं मनसि निलीयते । त्रिःप्रभृति तु गतपर्यन्त इव प्रबन्धो ऽवलक्ष्यते । तस्मात् एष न्याय्यः पाठपर्यन्तः इति ॥ आचार्यो रत्नसिंहस्तु आह - पाठपर्यन्ताः एवं-विधा एव, यद्दर्शनाट् तेनेदं सूत्रं प्रणीतम् ॥ एवं तु युज्यते, यस्माद् यदसौ ग्रन्थं अनपेक्ष्य सूत्रयति ॥ तत्रोपपत्तिमाचष्टे, इदं तु युक्तिमन्तरेण सूत्रमात्रमेवोपनिबद्धम्, तस्य नियमेनात्र क्वचिदेवंरूपेण आर्षेण भवितव्यमिति ॥ (33) ना ऽपठनाभिप्रायेण उच्चारणे पाठत्वम् । अपठनाभि[प्रायेण]यदुच्चारणं । तद्यथा, स्वाध्यायनिकादौ पाठ एवासौ न भवति । अभ्यसनाभिप्रायेण उच्चारणे अस्य व्यवहारस्य प्रसिद्धत्वात् । तस्मात् नातः आचार्यत्वस्योत्थानम् ॥ (34) नान्यथा एनौ उपपदयेत् ॥ एनौ आचार्योपाध्यायौ । उपो[च्चारि]पदं उपपदम् । आयुष्मन्तभदन्त-स्थविरोपपदैः नोपपदयितव्यौ । निरुपपदनामग्रहणं तु अनयोः [ऽवृद्धस्य निरुपपदं नांअ न गृह्णीयात् इत्यनेनैव प्रतिषिद्धं वेदितव्यम् ॥ आचार्यः ऽआचार्यऽ एव वक्तव्यः । उपाध्यायश्च ऽउपाध्यायऽ इति ॥ (35) नैवमन्यमिति ॥ आचार्योपाध्यायाभ्यामन्यः पुद्गलः उपाध्यायाचार्यशब्दाभ्यां नोपपदयितव्यः ॥ (36) नानुक्त्वा सहितं अर्थहेतोः नाम गृहणामि इत्युपाध्यायनाम गृह्णीयात् ॥ सहितमिति उपाध्यायनामग्रहणेन । अर्थहेतोः नाम गृह्णामीत्यनेन वाक्येन सहितं उपाध्यायनाम गृह्णीयात्, नैतत्पदं अनुक्त्वा इत्यर्थः ॥ तच्चास्मिन् समनन्तरसहितकरं, यत्र वचने विरतो ऽयं प्रवृत्तेः इति
बुद्धिः ॥ श्रामणेरत्वोपनयविधिः ॥
(इइ) उपसंपद्विधिः
(37) संघादुपसंपत् ॥ न यथा प्रव्रज्याश्रामणेरत्वोपगमश्च पुद्गलात्, अपि तु संघादुपसंपत् ॥ (38) उपाध्यायतायां उन्मुखीभूतः कर्मकारकं अधीच्छेत् रहोनुशासकं च भिक्षुम् ॥ उपाध्यायतायां उन्मुखीभूत इति उपसंपदुपाध्यायत्वेन प्रत्य्पस्थितः । अधीच्छेत् इति अध्येषेत् । रहोनुशासकञ्चेति अधीच्छेत् । भिक्षुमिति रहोनुशासकार्थं भिक्षुग्रहणं, न कर्मकारकार्थम् । कर्मपरिभाषायां यः कर्मविधिरुक्तः तत एव तस्य भिक्षुत्वसिद्धेः ॥ (39) उपाध्यायं याचेत । इति उपसंपाद्यः [संघ]-मध्ये ॥ (40) स स्वयमेनं त्रिचीवरमधिष्ठापयेत् ॥ स इति ( विन्सू 11 ) उपाध्यायः । स्वयमिति ना ऽत्र उच्छ्वासकल्पो मुण्डनादाविव अस्य, स्वयमेतत्कर्तव्यमित्यर्थः । एनमिति उपसंपाद्यम् । सति संभवे, [अधिष्ठापयेत्] छिन्नस्यूतम्, असति अन्यदिति चीवरवस्तुनः प्रतिपत्तव्यम् ॥ वेषार्थत्वा अधिष्ठान्, अधिष्ठानानन्तरं एषां प्रावरणमिति मन्तव्यम् ॥ (41) पात्रं चोपदर्श्य मोनं अधिकं पाण्डरे (रं) वेति संघे ॥ उपदर्श्य इति संघे इत्यनेनास्य संबन्धः ॥ किमर्थमुपदर्शनमित्याह - मोनमधिक पाण्ड[रं]वेति एतद्दोषपरिहारार्थ, एवंविधस्य अधि[ष्ठा]नमन्याय्यम् । उपदर्श्य संघे अधिष्ठापयेत् इत्यनुवर्तते ॥ (42) सुपात्रमिति अनेवंत्वे ब्रू युः सर्वे ॥ इति यथासंनिपतिता भिक्षवः । एवं-भावः एवंत्वम् । [तदूनत्वा]-दिदोषोपेतत्वम् । नैवं-त्वं अनैवं-त्वं, एतद्दोषविमुक्तत्वं इत्यर्थः ॥ (43) अपक्रमिते, क इति आख्याप्य रहोनुशासकं उत्साह्य कर्मकारकः संघ एनमनुज्ञापयेत् ॥ अपक्रमित इति मण्डलकस्थानादन्यत्र अपनीतोपसंपाद्ये, रहोनुशासकगतस्य कर्मणो न श्रवण, अत्र अपकासनार्थः, ना ऽन्यो दृश्यते । तस्मात् यत्र स्थितस्यास्य एतच्छ्रवणं न गच्छति, तत्र इति कर्मविधेः गन्तव्यम् । पुरस्ताद् वक्ष्यते - दर्शनोपविचारे एनं अपकासनेन स्थापयेयुः गणाभिमुखं प्रगृहीताञ्जलिमिति । क इति आख्याप्येति को ऽधीष्टः एवं-नाम्ना एवं-नाम्ना रहोनुशासकः इत्यनेन मन्त्रेण ऽअहमेवं-नामाऽ इत्याख्याप्य रहोनुशासकम् । उत्साह्य इति त्वमेव रहोनुशासकः, उत्सहसे त्वं इत्या दिना एनमिति रहोनुशासकं अनुज्ञापयेत् इति । एतदर्थं कर्मकारकः ज्ञप्तिं कुर्यात् ॥ केचित् एतद्गते मन्त्रे यत् संघस्य एवं-नामानं रहोनुशासकं संमन्येत इति पठन्ति तद् अयुक्तम्, कर्मवाचनायाः अपि कर्तव्यता ऽपत्तेः, अकारणाच्चास्याः । नैषा संमतिरनुज्ञपनमेतद्, इति व्यवस्था । तद् यदेवं-नामा रहोनुशासकः एवं-नामानं रहसि अनुशिष्यादित्यत्र [अभ्यनुज्ञायां युक्तं, तदनु]ज्ञपनं एवं सूत्रितं, न संमतिः
॥ (44) श्रुणु त्वमिति रहसि अनुशिष्यात् ॥ रहोनुशासक इति सामर्थ्यात् गन्तव्यम् ॥ श्रुणु त्वमायुष्मन्, अयं ते सत्यकालः इत्यादेः मन्त्रस्य शृणु त्वमित्यनेन पदेन् उल्लिङ्गनम् । तिष्ठ, मा । शब्दितः आगमिष्यसि इत्येनमुक्त्वा इति समनुशिष्टे ॥ (45) समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य ॥ इति व्यवस्था ॥ श्रुणोतु भदन्तः संघो ऽय मनुशिष्तो मया एवं-नामेत्यादिना मन्त्रेण । किमागच्छतु इति आगमणं पृच्छेत् ॥ इति संघः ॥ (46) स चेत् परिशुद्ध इति सर्वे ब्रूयुः ॥ इति उपसंपादक-भिक्षवः ॥ केचिदत्र पूर्वत्र च प्रव्रज्यार्थमारोचनावचने प्रतिवचनं अधीयते - सर्वसंघेन वक्तव्यं स चेत् परिशुद्ध इति । तेन वक्तव्यं परिशुद्ध इति - तदनुपपन्नम् । वक्तुरे[तद्भारारो]पणं, रहोनुशासकेन प्रथममेवाख्यातत्वात् ॥ (47) उपसंपदं कर्मकारको याचयेत् ॥ उप[संप]त्प्रेक्षो ॥ (48) अनुज्ञापयित्वा संघं आन्तरायिकं पृच्छेत् ॥ आन्तरायिकपरिप्रश्नार्थ ज्ञप्तिं कृत्वा । ( विन्सू 12 ) श्रुणु त्वं आयुष्मन्, अयं ते सत्यकालः, अयं ते ब्नूतकाल इत्यादिना मन्त्रेण आन्तरायिकपरिप्रश्नः ॥ (49) उपसंपदमुपनयेत् ॥ ज्ञप्तिचतुर्थेन कर्मणा ॥ [अवसरार्थ कर्म]कारकः ॥ (50) छायां वेदयेत अनन्तरं मितामिति । उपसंपदुपनयनान्तरं छायामुपसंपन्नाय वेदयेतेत्यर्थः । अनन्तरं अविलम्बितम् । कथं वेदयेत इत्याह - मितां सशेषकार्यस्य आसनभङ्गायोगात् कर्मकारकादन्येन अस्य मानस्य योगः । तत्पुनः मानमस्य पदादीनां केन इत्याह - (51) शंकुनां चतुर [ङ्गुलेन एत] त्साधु ॥ एतदिति मानं चिरत्वाभावाय चतुरङ्गुलेन मानं शोभनम् ॥ (52) पुरुषत्वेन अस्यानुव्यवहारः ॥ साधु इति वर्तते । अस्येति चतुरङ्गुलस्य शंकोः, यावन्तः शङ्कवः तावत् पौरुषीच्छाया वक्तव्या इत्यर्थः ॥ (53) अहोरात्रांशं पूर्वाहणादिकं । वेदयेत इत्यनुवर्तते । पूर्वाहणो मध्याहन् इत्यादि ग्रन्थोत्तम् ॥ (54) समयं च [पञ्चैते ॥ वेदये]त । पञ्चैते इति समयाः (55) हैमन्तिको, ग्रिष्मिको, वार्षिको, मितवार्षिको, दीर्घवार्षिकः इति ॥ परिमाणमेषामुच्यते - (56) चातुर्मासिकौ पूर्वौ । हैमन्तिको ग्रीष्मिकश्च ॥ (57) मासं परं । इति वार्षिकः ॥ (58) ततो अहोरात्रह् इति । ततो वार्षिकात्परो मितवार्षिकः एको अहोरात्रः ॥ (59) तदूनं अन्त्यो मासत्रयम् इति । तेनै केन अहोरात्रेण ऊनं मासत्रयं, अन्त्यः समयो दीर्घवार्षिकः ॥ समयवेदनान्तरं उपसंपन्नमात्राय कर्मकारको - (60) निःश्रयानारोचयेत् ॥
पांसुकूलादयस्ते चत्वारः ॥ (61) पतनीयान् धर्मान् । पाराजिकान् ॥ (62) श्रमणकारकांश्च । आक्रुष्टेनन प्रत्याक्रोष्टव्यमित्यादिकान् आरोचयेदिति वर्तते ॥ (63) संपन्नतां सम्यक्तया च प्रेप्सितस्य उद्ग्राह्य शीलसामान्यगतता ऽरागणे नियुञ्जीत ॥ प्रकर्षेणेप्सितं प्रेप्सितं अभिप्रेतम् । यस्ते भूतपूर्व आशासकः ऽकच्चिदहं लभेयऽ इत्यादि इदमस्याभिलषितम् । तस्य संपन्नतामुद्ग्राह्य सत्त्वं,एतर्हि प्रव्रजित-उपसम्पन्नेत्यादिना । सम्यक्ता पुनः सम्पन्नतायाः प्रतिरूपेणोपाध्यायेन इत्यादिना अभिहिता । संपन्नतामुद्ग्राह्य किं कर्त्तव्यम् इत्याह - शील सामान्य गतता-आरागणे नियुञ्जीत ॥ यत्र वर्षशतोपसंपन्नेन इत्यादिना शीलेन सामान्यगतता शीलसामान्यगतता । तस्या आरागणं आराधनम् ॥ (64) पात्रिकसंबन्ध-प्रतिबिम्बने नियुञ्जीत । इति सर्वत्र अधिकृतं वेदितव्यम् ॥ पात्रिकसंबन्धो मातापितृसम्बन्धः, तस्य प्रतिबिम्बनं - अद्याग्रेण ते उपाध्यायस्य मातृपितृ-संज्ञेत्यादिना । एवं ते सो ऽभ्यस्तो गृहिसंबंधः प्रतिबिम्बयितव्यः इति ॥ (65) विनीत-संवासतायाम् । अद्याग्रेण ते सगौरवेण इत्यादिना ॥ (66) प्रयोजनानुष्ठाने ॥ अद्याग्रेण ते उद्देष्टव्यमित्यादिना । (67) संपत्यस्यमानतां असमाख्यातां समात्तपरिज्ञानस्य आचक्षीत ॥ इमानि च इमानि ते मया औदारिकौदारिकौ [इत्ये]वमादिना, संप्रति अनाख्यातस्य समात्तस्य वृत्तस्य ( विन्सू 13 ) परिज्ञामेव संपत्स्यते इति ॥ (68) आदरे नियुञ्जीत ॥ ऽएषत्वमुपसंपन्नऽ इति गाथाभ्यां ऽप्रास्तदिकस्यऽ इति अनया क्षणसम्पदो दौर्लभ्यं दर्शयति, यस्मात् असत्स्वपि अन्येषु अक्षणेषु, लब्धे ऽपि प्राप्ये ऽनुकम्पकैः दृष्टि संपन्ने च मनुष्यत्वे बहवो ऽत्र अपरिशुद्धिसंख्या अन्तराया [वैरू]प्यं च । तस्मात् दुर्लभा एषा ॥ (69) सोपायाख्यानं च संपादने ॥ सहोपायाख्यानेन सोपायाख्यानम्, यदर्थं प्रव्रज्योपसंपत् तत्संपादने नियुञ्जीत - उपसंपन्नस्त्वं आयुष्मन् अप्रमादेन संपादय इत्यनेन । तद्यथा अनुप्राप्तस्त्वं एतत्स्थानं, अभिरतिरिदानीमत्र कर्तव्या इति । सामीच्याम् आदौ त्रिःकरणं संघसंघटितायां अनुशिष्टौ च निष[ण्णस्यो]त्कुटुकिकया पुरतः इष्टके पार्ष्णिभ्यां रहोनुशिष्टौ उपसंपदि स्थितस्य पात्रं वामे पाणौ प्रतिष्थाप्य, प्रतिच्छाद्य दक्षिणेन पाणिना इत्यादेः कर्मवस्तुनि वक्ष्यमाणत्वात् इह अनुपनिबन्धः ॥ उपसंपद् विधिः ॥
(इइइ) निश्रयगतम्
(70) नानवलोक्य निश्रयम् निश्रितकरणीयं कुर्यात् ॥ अपृच्छनं अनवलोकनम्, अपृष्त्वा न किञ्चित्कुर्यादित्यर्थः ॥ करणीयेषु अवलोकनप्रसक्तस्य किंचित्करणीयस्य अपृष्त्वा ऽपि करणमुक्तं भगवता, इत्याह - (71) मुक्त्वा उच्चारप्रस्रावं दन्तकाष्ठविसर्जनं सोपविचारविहारचैत्याभिवन्दनम् ॥ यद् अन्तर्व्यापारसंख्येन कण्डनादिना व्यापारेण अभिव्याप्यते तच्चैत्याङ्गनम्, सो ऽत्रोपविचारो युज्यते । सह उपविचारेण सोपविचारः, तत्र चैत्यं, तस्याभिवंदनम् ॥ (72) एकान्नपञ्चाशत्-व्यामपर्यन्ताद्विहारतो गमनम् ॥ मुक्त्वा इत्यनुबन्धः । एकान्न[पञ्चाशत्] इति ऽआटऽ-सन्धिः एकान्नपञ्चाशत्-व्यामस्य पर्यन्ताद्यावत् इत्यर्थः ॥ यत्र विहारे खातको वा प्राकारो वा अन्यो वा परिवारो विद्यते, तत्र स विहारान्त इति अध्यवसानं युज्यते । अनेकप्राकारादि-सद्भावे सर्वबाह्यः । तस्मात् तत्र तस्य बाह्यपार्श्वमस्य प्रमाणस्यावधिः । यस्तु[नोप]-विचारः तत्र विहारभित्तिरेवावधिः । यदत्र परतः पूर्वोक्तस्योपविचारस्य स्थानं, न तद्गतं चैत्यं अभिवन्दितव्यम्, इत्यत्रोपतिष्ठते ॥ परिसर्पणभूतस्य एतदनुज्ञानम् ॥ अन्यच्च, अतः चैत्याभिवन्दनमिति तत्र किं प्रतिपत्तव्यम्? - तदर्थ न गन्तव्यम् अनापृष्ट्वा । परिसर्पणार्थं तु गतेन वन्दितव्यमिति ॥ द्विविधमेतत्करणीयम् - [आरम्भ]-भूतं अभिनमनभूतं च । तत्र यदारम्भभूतं तस्यैव प्रतिषेधः, अभिनमनभूतस्य तु अप्रतिषेध्यत्वं व्यवतिष्ठते ॥ नानापृच्छ्य आलपितव्यं, न संलपितव्यं, न प्रतिसंमोदितव्यं, न प्रतिवचनं दातव्यं, नोदकदिग्धेन पाणिना धर्मितेन पादौ वा मुखं वा हृदयादिकं वा अनुपरिमार्ष्टव्यं, नोदकेन हस्तादेः [परिमार्जनं(?) रजोवकीर्ण]-वस्रादि प्रस्फोटयितव्यं इत्यादेः इति हासपदभूतस्य वृत्तस्य आपत्तेः ॥ ( विन्सू 14 ) उपानह-दन्तकाष्ठ-पाठः स्वाध्यायोपसंहाराणां करणप्रतीष्टोः तज्जातीयस्य भिक्षोरन्तिकादिति विशेषपरिग्रहात् अभिप्रेतमत्र अभिनमनभूतं इति गम्यते । दुष्टो ऽत्र प्रव्रजितो ज्ञातः शंकितो वा अनापृष्टो [अपरित्यक्त]व्यो(?), नान्यः । न हि पठति, स्वाध्यायं वा कुर्वति, उपसंहारस्य तदनुरूपे काले करणं इत्यादेः करणयीत्वेन प्रज्ञानम् । अभिनमनप्रकारत्वेन ह्येतस्य मनसि निलयनम् । दुष्टे तु विपक्षानुगतित्वेन एतत्प्रतिभाषामाणं आरम्भत्वेन ख्यातिमुपगच्छति । तस्मात् यत्र यत्नः कर्तव्य इत्यत्राभिप्रायो दृश्यते ॥ उदकपानस्य अनापृच्छाकरणं अनेन प्रविचारेण कृतं वेदितव्यम्
॥ तद्विधं ह्येतद् यद्विधं धर्मितस्य गात्राणामुदकेन संस्पर्शनम् ॥ निश्रितवृत्तं उच्यते - (73) पात्रचीवरकर्मणि, ग्लानोपस्थाने, कौकृत्यप्रतिविनोदने, पापकदृष्टिगतप्रतिनिःसर्गे तीव्रं औत्सुक्यमापद्येत - अहो बत अहं कुर्याम् कारयेयं वा इति ॥ रङ्गकर्म अपि अत्र केचित् पठन्ति । तस्य चीवरकर्मणो नातिरेकात् ग्रहणम् ॥ (74) संघे प्रणिधातुकामे - उत्क्षेपणीयादि-प्रणिधिकर्म कर्तुकामे संघे अहो बत संघो निश्रयस्येदं प्रणिधिकर्म न कुर्यात् ॥ इति तीव्रमौत्सुक्यमापद्यते, निवर्तते - यावत् आवृहेत् इति सर्वत्रैतदनुषक्तं वेदितव्यम् ॥ (75) कृते अवसारयेत् ॥ इति प्रणिधिकर्मणि कृते - अहो बत संघो ऽस्य अवसारयेत् इति ॥ (76) परिवा[स]-मूलपरिवासमानाप्य-मूलमानाप्य-आबर्हणार्थिनि निश्रये अहो बत संघो अस्य अप्रिवासादिचतुष्कं दद्यात्, आबर्हणार्थिनि अहो बत आबृहेत् इति ॥ (77) सो ऽप्येतदस्मै कुर्यात्, उत्सृज्यावलोकनम् ॥ सो ऽपि निश्रयः । एतद् पात्रचीवरकर्मादि । अस्मै निश्रिताय कुर्यात् । उत्सृज्यावलोकनं अवलोकनमेकं मुक्त्वा ॥ (78) नोनदशव[र्षः उपसंपदः उ]पाध्यायत्व-निःश्रयत्व-अनिश्रितवासान् कुर्यात् ॥ उपसंपदाय ऊनदशवर्षः स एतत् त्रयं न कुर्यात् ॥ (79) अनून-दशवर्षो ऽपि उपसंपदा, नासमन्वितिः केनचिदनन्तरेभ्यः समायोगेन ॥ ये ऽनन्तरं वक्ष्यमाणाः पञ्चाङ्गिकाः समायोगाः तेभ्यः येन केनचित् एकेना ऽपि समन्वितो योग्यो[ना ऽन्य इ]ति भावः । एवञ्च यदुक्तं अपरैरपि पञ्चभिर्धर्मैः समन्वागतेन इत्यत्र न समुच्चयो विज्ञातव्यः एभिः इमैश्च अपरैरिति । अपि तु एभिः तावत्कर्तव्यं इत्युक्तम्, इमैरपि अपरैः इति विकल्पः ॥ कुत एतद्? । असंभवात् सर्वासामासां पञ्चिकानां साक्ष्यस्य ॥ आद्यायां तु पञ्चिकायां दशवर्ष[त्वाङ्ग] उक्ते दशवर्षो भवत्युपसंपदेति । तदेभिः दशवर्षग्रहणं आदौ सर्वस्य उत्तरस्य एष विषयपरिग्रह इति ख्यापनार्थम् । स्थितार्थत्वं विनये, दशवर्षत्वे सति उपाध्याकरणादौ कारणं । विशेषभूतत्वं शेषस्य तत्रा ऽस्ति चेत् सविशेषत्वं उत्तमकल्पः । न चेत् एतन्मात्रकमपि अत्रावलम्बि[तव्यम् । यथा] शैक्षत्वादेः विशेषस्य लङ्घ्यत्वम् एवमस्यापि दशवर्षत्वे सति विनये स्थितार्थत्वस्येति । ते इदानीं समायोगां ( विन्सू 15 ) उच्यन्ते । (80)
ग्लानोपस्थान-कौकृत्यप्रतिविनोदन-पापकदृष्टिगतप्रतिनिःसर्ग-अनभिरतिस्थानप्रमीलनानां करणकारणे सामर्थ्यम् ॥ कौकृत्यप्रतिविनोदनकरणसामर्थ्यग्रहणेन [विनये स्थितार्थ-]त्वस्य प्रतिपादनम् । दृष्टिगतप्रतिनिःसर्गग्रहणेन धर्मस्थितौ कुशलत्वस्य । अनभिरतिस्थितिप्रमीलनग्रहणेन अपयुज्यत्वस्य आदेयवाक्यत्वस्य वा ॥ ना ऽत्र कारणग्रहणेन अशक्तेना ऽपि करणं कृतं मन्तव्यम् । अपि तु विनेयवशात् गम्यत्वे सति, परप्रवर्तनायां व्यापारगमने सामर्थ्यस्य उपगृहीतत्वम् । एवञ्च अत्र भवति अनतिलङ्घ्यस्य कारणस्य विनये स्थितार्थत्वस्य अलङ्घनम् ॥ (81) प्राक्शैक्षत्वात् अपञ्चके स-शीलवत्ता बाहुश्रुत्यम् ॥ शैक्षत्वं अशैक्षता इत्यतः प्राक् यत्सहोक्तं पञ्चकं न भवति, तद्यथा - श्रद्धाशीलादिसमायोगाभ्यामन्ये समायोगाः तद् शीलवत्तया ऽपि बाहुश्रुत्येन च सहितं वेदितव्यम् । सह शीलवत्ता-बाहुश्रुत्याभ्यां शीलवत्ता-बाहुश्रुत्यं पञ्चकम् । शीलवत्ता अत्र दुःशीलेन सार्धं संवासस्यैव अयोगात् प्रतिविशिष्टा, यथा कल्याणो ऽयम् इति मन्यन्ते [सा] ऽस्य वेदितव्या ॥ बाहुश्रुत्यं पुनः यस्मिन् समायोगे पिटकानां ग्रहणं विद्यते, तत्र तद्विपक्षभूतानां परप्रवादानां, वस्तु-पद-वाक्याद्यङ्गानां, छन्दोविचित्यादेः, इतिहासवृत्तकानां वा अभिज्ञत्वं यत्र न विद्यते तत्र पिटकानां ग्रहणं बोद्धव्यम् ॥ (82) पिटकाभिज्ञत्वम् ॥ सूत्र-विनय-मातृकाभिज्ञत्वं, शीलवत्ता बाहुश्रुत्यं च प्रक्षिप्य पञ्चकम् । विनये उक्तम् - ऽसूत्रधरो, विनयधरो, मातृकाधरः; सूत्रव्यक्तो, विनयस्य व्यक्तो, मातृकायाः व्यक्तः, सूत्रकुशलो, विनयकुशलो, मातृकाकुशलः, सूत्रकोविदो, विन[य]कोविदो, मातृकाकोविदःऽ इति । तत्र उद्गृहीतस्या विस्मृतिः सूत्रादिधारणम्, पिटकत्रये चेदम् ॥ एकत्र गतस्य इतरत्रदर्शनात् सांकर्येण अवस्थितम् । तथावस्थितस्यास्य विवेकेन परिच्छेदसामर्थ्यं इदं कौशलम् । युक्त्यागमाभ्यां सूत्रादियोजनं कोविदत्वम् ॥ तथा योजितेन यत्परप्रतिपादनसामर्थ्यम् एतद् व्यक्तत्वम् ॥ सहाविस्मृत्या सर्वमेतद् अभिज्ञत्वमिति सामान्येन अभिज्ञावचनेनोक्तम् ॥ (83) ग्राहेण एषां प्रतिबलत्वम् ॥ पिटकानां नानभिज्ञः तेषु तद्-ग्राहणे प्रतिबलो भवति, तस्मात् विशेषस्यैतद् पिटकाभिज्ञवचनं वेदितव्यम्
॥ (84) अधिशीलचित्तप्रज्ञा शिक्षत्ता ॥ शिक्षद्भावः शिक्षत्ता, द्वंद्वैकवद्भावः ॥ अधिशीलग्रहणेन सर्वस्य विनयवृत्तस्य ग्रहणम्, अधिचित्तग्रहणेन [ध्यानानाम्], अधिप्रज्ञग्रहणेन सत्यदर्शनाभ्यासस्य ॥ (85) प्रतिबलत्वं वा शिक्षणायाम् ॥ अधिशीलादाविति संप्रत्ययोत्पादनार्थं वा-शब्दः कृतः, न विकल्पार्थम् । नाशिक्षितः अधिशीलादौ तच्छिक्षणे प्रतिबलो भवति । विशेषस्यैव एतद् ऽशिक्षाऽ इति वचनं इति वेदितव्यम् ॥ (86) एवं अध्याचारविनयं प्रातिमोक्षम्, इति । एवं इति अनेन शिक्षत्ता, प्रतिबलत्वं वा शिक्षणायां इत्यस्य ( विन्सू 16 ) परामर्शः ॥ ततश्च द्वावेतौ समायोगौ भवतः । तत्र अध्याचारः आसमुदाचारिकम्, विनयः शेषभूतम् । प्रातिमोक्षशिक्षणाः वस्तुविधयश्च सपरिकराः प्रातिमोक्षः तदाख्यः । तत्र पर्यापन्नानि शिक्षापदानि ॥ (87) श्रद्धा-शील-श्रुत-त्याग-प्रज्ञासंपन्नत्वम् ॥ शीलग्रहणेनात्र विनयस्य ग्रहणम् ॥ (88) शील-समाधि-प्रज्ञा-विमुक्ति-तज्ज्ञान दर्शनैः ॥ संपन्नत्वमित्यनुबन्धः । शीलसंपन्नग्रहणेन अत्र विनयख्याक्षिप्तत्वं, नान्यथा, भिक्षोःशील-संपत्तेः संभवः इति । तज्ज्ञाने इति तच्छब्देन विमुक्तेः परामर्शः, विभुक्तिज्ञानदर्शनमिति ॥ (89) सारब्धवीर्यत्वप्राज्ञत्वं च ॥ प्राक्शैक्षत्वाच्छीलवत्ताबाहुश्रुत्यं इत्यस्य च-शब्दात्प्रत्युपस्थानम् । इत ऊर्ध्वं प्राक्शैक्षत्वात् यत्सहोक्तं पञ्चकं न भवति तदारब्धं-वीर्यत्वप्राज्ञत्वाभ्यां च सहोक्तं वेदितव्यम् । शीलवत्ताबाहुश्रुत्याभ्यां च त्रीण्यत्र एककान्युक्तानि - (90-92) स्मृतिमत्वम् ॥ प्रतिसंलीनत्वम् ॥ समाहितत्वम् । इति ॥ तेषां एतच्चतुष्क-पूरणम्-शीलवान् भवति बहुश्रुतः, आरब्धवीर्यः, प्राज्ञः, स्मृतिमान् । पुनरेतच्चतुष्कमुक्त्वा प्रतिसंलीनश्च भवतीति वक्तव्यम् । पुनः समाहित इति ॥ (93) शैक्षत्वमिति । शैक्षेण शीलस्कन्धेन समन्वागतो भवति । शैक्षेण समाधि-प्रज्ञा-विमुक्ति-विमुक्तेः ज्ञानदर्शनस्कन्धेन इत्यस्य एषा संग्रहः ॥ (94) अशैक्षता इति ॥ अशैक्षेण शीलस्कन्धेन इत्यादेः यद् अनयोः धर्मता-विनियतं वृत्तं तत्र यत्साध्वसाधुतापरिज्ञानं,
तद् तावत् अनयोः आधिगमिकमेव । यदापत्तिव्यवस्थापरिज्ञानं [यच्च शिष्टस्य] विनयविधेः, तत्राप्येतौ दशवर्षादित्वात् स्वातन्त्र्ये व्यवस्थितौ नियतं कृतप्रयत्नौ इति न अत्र अनतिलङ्ध्यकारणा[द्] अतिलंघनं कृतं वेदितव्यम् ॥ (95) उत्पत्ति-प्रज्ञप्ति-अनुप्रज्ञप्तिः-प्रतिक्षेप-अभ्यनुज्ञा-भिज्ञत्वम् ॥ अत एतद् उत्पन्नमिति शिक्षपदोत्पत्तिनिदाने अस्योत्पत्तिशब्देना-भिधानम् । शिक्षापदव्यवस्थापनं प्रज्ञप्तिः । प्रज्ञप्तिग्रःअणेन इयता अन्तिके च स्थूलात्ययो देशयितव्यः इत्यादेः ग्रहणम् । इदमत्र पुनः प्रतिक्षिप्तं अभ्यनुज्ञातं चेति अनुप्रज्ञप्तिः । तद्यथा - उपानदभ्यनुज्ञानेन सणसणापत्तिः इत्यादेः विशेषस्य प्रतिषेधः । अकालभोजनप्रतिक्षेपे च ग्लानस्य वैद्यवचनादभ्यनुज्ञानम् । अत्यन्तमिदं न कर्तव्यमिति हि विधानं प्रतिक्षेपः । तद्यथा - तृणाग्रेणापि मद्यस्यापानं अब्रह्मचर्यादि च । अभ्यनुज्ञा पुनः यस्य करणीयस्य अकरणे वा ना ऽस्ति दोषः कामचारो ऽत्र प्रवृत्तौ । तद्यथा - परवादिनिग्रहार्थं बहिःशास्त्राणि अध्येयानीत्यादि । अत्र अकरणे करणे [च] न कश्चिदापत्तिदोषः । एतावच्च करणीयाकरणीयपरिज्ञानं प्रतिविनये शेयम् । तदे तद् अविनयाभिज्ञत्वं अधिकं पञ्चकेन ख्यापितं वेदितव्यं, आपत्त्यादिपञ्चकेन च ॥ (96) आन्तरायिक-अनान्तरायिकाभिज्ञत्वं आख्यापिता ऽनशासकत्वं (च) ॥ आन्तरायिक-अनान्तरायिक-अभिज्ञत्वं च आख्यापिता च अनुशासकत्वं ( विन्सू 17 ) चेति विग्रहः । अकरणीयं यद्विनये तद् आन्तरायिकं, करणीयं यत्तद् अनान्तरायिकं, तयोः अभिज्ञ-त्वं विनये स्थितार्थत्वस्य एतद्-द्वयं उद्भावकम् । आख्यापिता पुनः वक्तुं बोधयितुं वा अस्यैतद्-द्वयस्य कौशलभूतं सामर्थ्यं अनालस्यं वा । अनुशासकत्वं व्यातिक्रमे संस्थापनानुरूपं वक्तृत्वं, आलस्ये च अवर्तनानुरूपं आचक्षको भवति, अनुशासक इत्यस्यै[व] पाठस्यार्थ उक्तः ॥ केचिदनयोः स्थाने ऽअववदतिऽ ऽअनुशास्तिऽ इति पठन्ति । तत्र अनुशास्ति इति तुल्यं अनुशासको भवतीति - अनेन । अववदतीति मनसिकारार्थं य उपदेशः तस्यानेन अभिधानम् ॥ एतदर्थं प्रव्रज्या । तस्मादेषो ऽत्र विशेषतो अर्हति, पर्षत्संग्रहं इति वा अस्योपसंग्रहः ॥ (97) सह ग्रहणप्रतिबलत्वेन निश्रयस्योपनिश्रयस्य वा ॥ ग्राहणे प्रतिबलत्वं ग्राहण अतिबलत्वं, सह अनेन ग्राहणप्रतिबलत्वेनैत दान्तरायिका
ऽभिज्ञत्वादिपञ्चकम् । द्वावेतौ समायोगौ, एको निश्रयगतं अत्र चतुष्के प्रक्षिप्य, अपरः उपनिश्रयगतं इति प्रतिपादनार्थं वा शब्दः । उपाध्याये अन्यत्र प्रक्रामति, निश्रयग्राहणे प्रतिबलत्वमुपयुज्यते । उपाध्याये अन्यत्र वा निश्रये तावत्कालिकाभिप्रायेण प्रक्रामति तिष्ठति च कस्यचि ज्जनस्य वशात् उपनिश्रयग्राहणे (प्रतिबलत्वं) उपयुज्यते ॥ (98) आपत्ति-अनापत्ति-गुरुलघुताभिज्ञत्व-प्रवृत्तप्रातिमोक्षविस्तरत्वम् ॥ तत्र आपत्यनापत्ति-अभिज्ञत्वस्य करणीय(-अकरणीय-)विनियोगे निश्रित-प्रत्युपयोगः, गुरुलघुताभिज्ञत्वस्य स्थूलात्ययदेशनायाम् । प्रवृत्तप्रातिमोक्षविस्तरत्वेन विनये अधिष्ठितार्थत्वं दर्शितम् । [त]च्चानेन विस्तरशब्देन विनयस्य गृहीतत्वम् । न च मन्तव्यः प्रातिमोक्षविस्तरशब्दो न विभङ्गात्-शिष्टस्य वस्तुक्षुद्रकादेः प्रतिपादकः इति । सर्वस्यास्य प्रातिमोक्षविस्तरभूतत्वात् । सर्वस्य आद्यादपि प्रातिमोक्षादुत्थानम् । ऽयः पुनः भिक्षु-भिक्शुणीभिः सार्धंऽ इत्यतः प्रव्रज्यावस्तुनः (उत्थानम्) । ऽपोषधं आयुष्मन्तऽ इति [पोषधव]स्तुनः, ऽपोषधविशेषः प्रवारणा ऊनवर्षकाः" इति वार्षिकवस्तुनः । अत एव प्रवारणावस्तुनो वर्षावासाभिसंबंधेन व्यवस्थापनात् । ऽउद्धृते कठिन" इति कठिनवस्तुनः, "निष्ठितचीवरेण भिक्षुणा" इति चीवरवस्तुनः । ऽचीवरपक्षं चर्म-भैषज्यपक्षं चेतिऽ तदुत्थानकारणादेव चर्मवस्तुनः, ऽयानि तानि भगवता ग्लाना[नां भिक्षूणां भैषज्यानि अम्यनुज्ञातानिऽ इति भैषज्यवस्तुनः । ऽअनागतानां आयुष्मतां च छन्दं च परिशुद्धिं च आरोचयत, मा समग्रस्य संघस्य भेदय पराक्रमतऽ इत्यादेः कौशाम्बिकवस्तुनः संघभेदवस्तुनश्च । अतश्च प्रव्रज्यादिकर्म-संसूचकात् अलाभश्च, इहापि तेनेत्यादेश्च कर्मवस्तुनः । संक्रामं तेन भिक्षुणा संघे परिवस्तव्यम् इति [आदिना पाण्डुलोहितवस्तुनः । अकामत्वेन कर्मादिना परिवासवस्तुनः । ( विन्सू 18 ) यद् आपत्तिव्यवस्थानस्य पश्चात् करणदेशना संघावशेषप्रतिदेशना च, तस्मात् पोषधस्थापनवस्तुनः । ऽभिक्षूणां महाविहारऽ इत्यनेन शयनासनवस्तुनः । अधिकरणसामर्थ्यप्रदर्शनार्थ अपि आपत्तिपोषधव्यवस्थापनात् अधिकरणवस्तुनः । वचनाङ्गभूतं तज्जातीय-अन्यच्छीला (चारो इति) द्विविधत्वेन प्रातिमोक्षः वस्तूनां शेषश्च । क्षुद्रकाणां मातृकागतवस्तूनां च उक्तिः इत्यादीनां निर्देशः पृच्छा । चर्यानिर्देशस्तु पृच्छा-विनीतकरणानि
। चर्मवस्त्वादयः दारकेषु । तथाहि एतदनवशिष्टं प्रातिमोक्षविस्तरत्वं न भवति । विभङ्गमात्रेण प्रवृत्ते प्रव्रज्यादिकरणं न भवति, एवं करणीयत्वेष्वपि एतन्मात्रप्रदर्शनत्वात् ॥ (99) वृद्धाभावे नवकं निश्रयेत् ॥ यदि वृद्धः येन केना ऽपि प्रतिरूपकेन पञ्चकेन समन्वागतः न स्यात्, तदा ऽयं विधिः - भदन्तः भिक्षुः उपसंपदः ऊनषष्तिवर्षः, अनेन प्रातिमोक्षसूत्रं विस्तरेण उद्गृह्य पठित्वा (धारितं) न भवति तेन, अन्यत्र प्रक्रमितं वा तेन, उपालि, अन्यनिश्रयेण भवितव्यम् इति उक्तम् । अत्र षष्टिवर्षः अस्वतंत्रः (=निश्रितः) अपि बाहुश्रुत्यस्य विशेषाभावात् ऽवृधाभावेऽ इत्यादि उक्तम् । (100) सामीचिं केवलं स्थापयित्वा । इत्यस्मिन् वन्दना न शीलव्रते पर्यांपन्ना, अन्यत्र वृद्धस्य निश्रितेन नवकेन (सह) अनुसंवासयितव्यः इत्यभिप्रायः ॥ (101) चरेत् अनिश्रितः पञ्चवर्षः पश्चिमसमायोगेन समन्वितः जनपदचारिकाम् ॥ आपत्ति-अनापत्ति-इत्यादिः पश्चिमसमायोगः, तेन च समन्वितः पञ्चवर्षः अनिश्रितः जनपदचारिकां चरेत् ॥ (102) नान्यथा त्रैविद्यो ऽपि ॥ पञ्चधर्मैः समन्वागतः, ऊनपञ्चवर्षो ऽपि, यतो मार्गात् विनयभ्रष्टो ऽपि ततो पञ्चवर्षशीलभाव-समायोगात् दुःखविपरिणतो भवति । अपरिपूर्णवर्षो न भवति इत्यत्र अभिसंधिः दृष्टः । ऽत्रैविद्यौ ऽपिऽ इति । निश्रये निश्रितार्थं करणीयाकरणीयपरिज्ञानं द्विविधं च परिविनीतम् । तत्र यद्यपि अस्य धर्मता अभिज्ञानत्वात्, पूर्वनिवासज्ञानत्वेन प्रवृत्ति-दर्शनत्वात्, दुष्कर-अल्पसंवित्प्रतिसेवनया आगतसंपदा च करणीयाकरणीयेसु परिज्ञानं सिद्धं भवति । एवं परिविनेयार्थं निश्रयं निश्रयेत् । यदर्थेंन दुःखव्यवहारविनयत्वे पूर्वात्म-सहितभावस्य स्वभावपरिहारात् । अर्हतां पूर्वस्वभावपरिहारः श्रूयते । कश्चिदर्हन् पूजाक्षेत्रः, पूजाक्षेत्रेभ्यः संतीर्णः, आयुष्मान् ( विन्सू 19 ) पिलिन्दवत्सः च गङ्गादेव्यै ऽवृषलीऽर्ति चोदितवान् इत्यादि । अन्यच्च, विनयपरिज्ञानं कथमपि न कृतं भवति, दुष्करत्वात् । स्थूलकुमार्योः सार्धं एकभूमौ अनवस्थानवत् उद्यमेषु च अन्तरायबाहुल्यात् । यतः प्रकरणमिदं
विविधं भवति ॥] (यदुत) चेत् भदन्त त्रैविद्यः त्रिवर्ष-त्रिमलप्रहीणः, स च पञ्चभिर्धर्मैः समन्वागतः [न] स्यात्, तेना ऽपि अनिश्रितेन जनपदचारिका चरितव्या? नोपालिन् इत्युक्तम् ॥ रक्ष्यं चानेन विनयगतं, दूरेण दूरं अपसारयतु एनं परिहृततासंपत्त्यर्थम् । यदध्याचारात् परेषां अप्रसादः स्यात् तत्परिहारार्थम् । शिक्षसु कृतार्थो ऽपि अत्रादरवान्, गौरवोत्पादनार्थम् । [शास]नस्थित्यर्थं च प्रसिद्धताद्यतिक्रमो गच्छति । केनचिदतिक्रमे सति इति ध्वंसो ऽन्यथा शासनस्य संपद्यते । तस्मात्, यथैव अन्यस्य अत्र अननुज्ञानं तथैव त्रिविद्यस्य ॥ निश्रयगतम् ॥
(इव्) संग्राह्यगतम्
(103) मा ऽसि तीर्थ्यः इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च ॥ पृच्छेत् इत्युपाध्यायः । पृच्छेयुः इति परिणातस्य उपसं[पादका इ]त्यनेन संबंधः । उपसंपादकैरेव स प्रश्नः यो रहोनुशासकेन, तन्नियुक्तत्वात्तस्य ॥ (104) न-अनाराधितचित्तं, उत्सृज्य शाक्यं आग्नेयं च जटिलं, तीर्थ्यं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ शाक्याग्नेयजात्योः नूनं किञ्चिदाशयसभाग्यं लक्षितम् - ऽनियतं अनयोः प्रतिपत्तौ सत्यां भा[वतः प्रति-]पत्तिः न कृतकेनऽ इति ॥ यतः एतदनुज्ञातमिति प्रतिपत्तव्यम् - यच्च उक्तं - ऽददाम्यहं ज्ञातीनां ज्ञातिपरिहारम्ऽइति, तत्र ज्ञातित्वं अननुपश्यतां एषां भवतः प्रतिपत्तिः भविष्यतीति भगवता ऽवबुद्धम्, ततो ज्ञातिनिमित्तं-परिहारो दत्त इति उक्तमिति । आग्नेयो ऽत्र प्रवृत्तः अग्निपरिचरणकर्मणि भावतः, तदाशय[-परिशुद्धौ वर्त-]मानो गृहीत इति वेदितव्यम्, तद्भूतस्य आशयविपत्तेः असंभाव्यत्वात् ॥ कृत् एतद् तीर्थ्य-अनाराधितादि-तीर्थ्यान्त-वर्जं[न]म् इति शब्दात् पूर्वतीर्थ्यशब्दं वर्जयित्वा, ऽअनाराधितचित्तंऽ उत्सृज्य ऽशाक्यं आग्नेयं च जटिलं तीर्थ्यंऽ इत्येतच्च अनाराधितशब्दादि-तीर्थ्यशब्दान्तं वर्जयित्वा यदेतद् ऽमा ऽसिऽ इत्याद्यु[क्तं त]त्कृत्-संज्ञं वेदितव्यम् । यत्र ऽकृत्ऽ इत्युच्यते तत्र ऽमा ऽसिऽ इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न प्रव्राजयेयुः उपसंपादयेयुर्वाऽ इति उच्चारितं प्रतिपत्तव्यम् ॥ कृत्-प्रदेशा इति ऊर्ध्वं अत्रैव प्रव्रज्यावस्तुनि क्षुद्रकेषु च एतद्गतेसु । कियता तीर्थ्यः आराधितचित्तो वक्तव्यः इति निर्ज्ञानार्थं आह - (105) रत्नानां वर्णस्य तीर्थ्यानामवर्णस्य भूतस्य उक्तौ अकुप्यत्वं आराधितचित्तता ॥ न कुप्यतीति अकुप्यम्, अकुप्यद्भावो ऽकुप्यत्वम् ॥ ( विन्सू 20 ) (106) तदर्थ अतद्वन्तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेत् संघो दत्वा [परिवासं कर्मणा ॥ ऽतदर्थमितिऽ आराधितचित्ततार्थं, तच्च अतद्वन्तं इति अन्(?) आराधितचित्तवन्तम् । ऽतद्ऽ इति तीर्थ्यम् । कृतोपासकतान्तं इति उपासकतान्तविधिं कृत्वा उपासकतान्तः । एवं तत्र ज्ञप्तिचतुर्थेन कर्मणा संघः चतुरो मासान् परिवासं दत्त्वा परिवासयेत् ॥ परिवासदाने (107) संघात् तस्य भक्तम् ॥ (108) उपाध्यायात् चीवरम् ॥ (109) कर्तृत्वं कर्मादानस्य (110) परिपूर्ण]पञ्चदशवर्षो ऽसि इति प्रव्रज्यार्थ उपसंक्रान्तं पृच्छेत् ॥ उपाध्यायः ॥ (111) नोनं असमर्थं काकोड्डायने, समर्थ वा सप्तवर्षं प्रव्राजयेयुः ॥ द्वावेतौ न प्रव्राज्यौ - असमर्थश्च पञ्चदशवर्षत्वादूनः समर्थश्च सप्तवर्षत्वात् । न प्रव्राजयेयुः इति बहुवचनं किमर्थम् । आरोचकेन अयं अशुद्ध इति ज्ञात्वा न आरोचयितव्यम्, संघे[न] न अनुज्ञातव्यम्,
श्रामणेरत्वोपनायिना श्रामणेरत्वं नोपनेतव्यम् इति उपसंग्रहार्थम् ॥ (112) न एकत ऊर्ध्वै श्रमणोद्देशमुपस्थापयेत् ॥ द्वितीयश्रमणोद्देशानुपस्थापने द्वितीयस्याप्रव्राजनमपि आपन्नं तदपवादार्थम् आह - (113) अरुचिश्चेत् अनकध्यं प्रव्रज्यायां, प्रव्रज्यातिरिक्तं उपसंपादयेत् ॥ द्वयोः प्रव्रज्यार्थं एकत्र आवाभ्यां प्रव्रजितव्यम् - इत्येवं निश्चित्य आगतयोः यदि अनैकध्यं पृथक्प्रव्रज्यायां अरुचिः, ततः उभौ प्रव्राज्य एकस्मादतिरिच्यमानः उपसंपाद्यः ॥ (114) ऊनश्चेत् अन्यस्म उपनिश्रित्यर्थं अर्पयेत् ॥ विंशतिवर्षत्वाद्यदि ऊनः ततो अन्यस्मै भिक्षवे उपनिश्रयार्थं अर्पयितव्यः ॥ यस्य उपनिश्रयार्थं अर्पितः - (115) नासौ तमाच्छिन्द्यात् ॥ येन अर्पितः स एनं (116) उपसंपादयेत् । अप्रयच्छतो बलात्* अनादाय ॥ यतः कल्पार्थं परस्य उपनिश्रयेण दानं, न समर्पितकतया, तस्मात्* अ[ना]च्छेदः ॥ (117) कृत्* दासः ॥ कृदित्यनया संज्ञया ऽमा ऽसिऽ इत्यादेः संज्ञिनो दासे संबन्धिनः प्रत्युपस्थानम् । अतो ऽस्मिन् संज्ञानिदशे यो ऽतिरिक्तो ऽङ्गीक्रियते, स यथार्थं परिणतो ऽपि यथास्थानं संनिविशते । वाक्यं चेदमत्र ज्ञायते । ऽमा ऽसि दासऽ इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न दासं प्रव्राजयेयु[रुपसंपा]दयेयुः वा इति ॥ (118) व्यसिस्ते कस्यचित्किंविद्देयं अल्पं वा प्रभूतं वा ॥ विगतासिर्व्यसिः । असिशब्दवर्जितः कृत्* वाच्यः इत्यर्थः । ऽअसिऽ इत्यस्य च स्थाने ऽतेऽ इति वक्तव्यम्, ततश्च इदं वाक्यम् - "मा ते कस्यचित्किंचिद्देयं अल्पं वा प्रभूतं वा" इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न ऋणवन्तं प्रव्राजये[युरुप]संपादयेयुश्च इति मन्त्रात् । अत्र शक्ष्यामि प्रव्रज्योपसंपदं वा आदातुं इति प्रतिजानानं मुक्त्वा, ( विन्सू 21 ) न ऋणवन्तं इति विशेषः प्रतिपत्तव्यः ॥ (119) जीवत्पितृकं अननुज्ञातं ताभ्यां अदूरदेशं प्रव्रज्यापेक्षं सप्ताहं धारयेत् । जीवतः पितरौ यस्यासौ जिवत्पितृकः, ताभ्यामिति मातापितृभ्याम् । ताभ्यां शब्दाच्च मातापित्रोरत्र पितृ-शब्दः इति ॥ (120) नानारोचितं दूरदेशमपि एनं संघे प्रव्राजयेत् ॥ एनमिति जीवत्पितृकं अनुज्ञातम् । ताभ्यां आजीवत्पितृकस्य तु अनुज्ञातस्य वा मातापितृभ्यां अनारोचनमपि निर्दोषमिति प्रतिपत्तव्यम् । तथा वा ऽजीवात्पितृके पृच्छापाठः - यस्य तावत् भदन्त मातापितरौ कालगतौ भवतः तिर्यग्योनिगतौ वा त[स्य केशावरो-]पणाय सर्वसंघो ऽवलोकयितव्यः, ऽनो हीदं उपालिन्ऽ इति । दूरदेशग्रहणं किमर्थं कृतम् । यतो अन्यतमया गृहपतिपत्न्या पुत्रः प्रव्रजितः आगत्योक्तः - ऽत्वं एषां
शाक्यपुत्रीयाणां चौराणां मध्ये कस्मात् प्रव्रजितः, एहि गच्चावःऽ, तयाऽसौगृहीत्वा गृहं नीतः । तदेवं चौर्येण समुदाचारो ऽत्र आदीनवः, न च दूरदेशके अस्या-भावः, स्वस्थानस्थाभ्यामपि श्रुत्वा कृतस्य आदीनवभूतत्वात्, आगत्यापि च आदीनवकरणस्य संभवत्वात्, तस्मात्* दूरदेशमपि इति सूत्रितम् ॥ (121) युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानम् ॥ युक्तमिति नैष नियमः, अवध्याने तेसां भिक्षूणां प्रवृत्तेः इति ख्यापयति ॥ (122) कृत्* अनुज्ञातो ऽसि मातापितृभ्यां अन्ते मुक्त्वा दूरदेशकम् ॥ अनुज्ञतो ऽसि ति मा ऽसीत्यस्य स्थाने एतद् । कृदिति अनेन उक्तस्यान्ते मुक्त्वा दूरदेशकमित्ययं शब्दो ऽधिकः प्रतिपत्तव्यः । ततश्च इदं वाक्यं - अनुज्ञतो ऽसि मातापितृभ्यामिति । प्रव्रज्यार्थमित्यादि यावत् नाननुज्ञातं मातापितृभ्यां प्रव्राजयेयुरुपसंपादयेयुर्वा मुक्त्वा दूरदेशकम् इति ॥ (123) मा ऽसि ग्लान इत्युपसंपसंक्रान्तं पृच्छेत् ॥ प्रव्रज्यार्थमिति प्रकरणात् गन्तव्यम् ॥ (124) मा ते ग्लान्यं किञ्चिदस्तीति वा ॥ पाथविकल्पस्य एष उपनिबन्धः । द्वयोः अन्यतरः वक्तव्य इति दर्शयति ॥ (125) विशेषत उपसंपादकाः ॥ पृच्छेदित्यस्य परिणतस्य पृच्छे[यु]रित्यनुषङ्गः भवन्ति खलु पुरुआआणामेते एवं-रूपाः काये कायिकाबाधाः, तद्यथा - कुष्ठं गण्डं [च] इत्यादि-विशेषयुक्तम् । न एतावन्मात्रकं ऽमा ऽसि ग्लानऽ इति ॥ (126) न ग्लानं प्रव्राजयेयुरुपसंपादयेयुर्वा ॥ आरोचक-प्रव्राजक-श्रामणेरत्वोपनायिसंघानां बहूनां व्यापार इति बहुवचनम् ॥ (127) कृत् प्राक्प्रणिहितात् ॥ "न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं" इत्यतः प्राक् यावन्निर्देशः सर्वत्र कृदिति अधिकृतं वेदितव्यम् । सर्वे ते कृत्संबंधिनः ॥ (128) नास्ति अस्य प्ररोहणधर्मता इति च ॥ यो ऽत्र प्रतिषिध्यते निर्मितादिः तस्य ऽचऽ-शब्दः प्राक्प्रणिहितादिति संबंधार्थः ॥ (129) नाशनं एवंविधस्य लिङ्गिनः ॥ एवंविधस्येति अप्ररोहणधर्मिनः । लिङ्गि [न] इति प्रव्रजितस्य उपसंपन्नस्य वा ॥ गृहस्थभूतस्य तु भिक्षुमध्ये ( विन्सू 22 ) वसतो यात्रिक-प्रयोजनवशात् नाशनं न वा ॥ इदानीं कृदादिसंबन्धिनो निर्दिश्यन्ते (130) निर्मितः ॥ ऽमा ऽसि निर्मितऽ इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न निर्मितं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ ऽनास्त्यस्य प्ररोहणधर्मता, नाशनं एवं-विधस्य लिङ्गिनःऽ
इत्येवं अन्यत्रापि पण्डकादौ योज्यम् ॥ (131) पण्डकः ॥ पाञ्चविध्यमस्येति ॥ अस्येति पडाकस्य ॥ [पञ्चविधं कतमम् ।] ॥ (132) जात्या-, पक्ष-, आसक्तप्रादुर्भाव-, ईर्ष्या[प्रादुर्भाव]-आपत्कृत्* इति ॥ जात्या जाति पण्डको, यो जन्मना एव नस्त्री न पुरुषः ॥ पक्ष इति यः पक्षे स्त्री पक्षे पुरुषः स पक्षपण्डकः । पक्षो ऽर्धमासः ॥ आसक्तप्रादुर्भाव इति यस्य परेण उपक्रान्तस्य प्रादुर्भावो भवति [स] आसक्तपण्डकः ॥ ईर्ष्यया यस्य परेण उपक्रान्तं स्त्रियं दृष्ट्वा प्रादुर्भावो भवति स ईर्ष्यापण्डकः ॥ आ[प]त्कृत् इति आपत्पण्डको, यस्य छेदादिना पुरुषेन्द्रियं विनष्टं भवति ॥ (133) अन्त्यस्यात्र दोषभक्तौ नाशनम् ॥ अन्त्यस्येति आपत्पण्डकस्य ॥ सपदि पण्डकदोषं भजते, ततो नाशयितव्यो, नान्यथा इत्यर्थः ॥ (134) स्तेय-संवासिक ॥ इत्यस्य लक्षणमाह-जानतो अकृततां विधेः उपसंपदो अप्ररूढतां वा द्वितीयायां संघेन सार्धं कर्मणः प्रत्यनुभूततायां तत्त्वम् । उपसंपद्गतो यो विधिः ज्ञप्त्यादिकः तस्य अकृतत्वं जानतः, कृतत्वे ऽपि अरूढतां, यद्यपि विधिकृतो न तूपसंपद्रूढः, ऊनविंशति-वर्षता[दि]ना दोषेणेति । संघेन सार्धं द्वितीयस्य कर्मणः प्रत्यनुभवे तत्त्वं इति स्तेयसंवासिकत्वम् ॥ ननूक्तम् - ऽयतश्चोपालिन्, प्रकृतिस्थैः भिक्षुभिः सार्धं द्वे त्रीणि वा पोषधकर्माणि प्रत्यनुभूतानि भवन्ति इयता स्तेय-संवासिकऽ इति । अथ कस्मात् ऽत्रीणि वाऽ इत्येतन्न सूत्रितम्? - यतो नैतन्नियमकारि वचनम्, अपि तु प्रबन्धस्यैतद् प्रदर्शनम् । प्रबन्धमारभमाणो ध्वस्यत इति । इतरथा द्वे इति अस्य व्यवस्थानस्य ऽत्रीणि वाऽ इत्येतद् उच्छ्वास इति विज्ञायते ॥ ततश्च कृत्रिममेतद् प्रज्ञप्तिकं, न धर्मतया व्यवस्थायीत्यापद्यते च ॥ अत्र च ग्रन्थो ऽपि । कथावस्तुनि स्यात्, येन वस्तुना स्तेयसंवासिको न प्रव्राजयितव्यो नोपसंपादयितव्यः, तेनैव वस्तुना प्रव्राजयितव्यः उपसंपादयितव्य स्यात् [इति चेत्] आह - येन द्वौ त्रयो वा पोषधाः प्रत्यनुभूता भवन्ति, अयं न प्रव्राजयितव्यो नोपसंपादयितव्यः । येन तु सकृत्पोषधः अनुभूतो भवति अयं प्रव्राजयितव्य उपसंपादयितव्यश्चेति, न हि अन्यथा एकंशेन, द्वयप्रत्यनुभवेन अर्हत्वम् ॥ युक्तिः पुनः यस्मादत्र प्रथमं प्रवर्तमानः साशंको भवति, नास्य तस्मिन् मिथ्यात्वं प्रकृतितां गतं भवति, प्रबध्नंस्तु तन्मयतां आपद्यत इति ॥ ननु
अत्र पोषधग्रहणं कृतम्, तदेह कस्मात् अविशेषेण सर्वकर्मप्रत्यनुभावः, उच्यते - संघसंनिश्रये एतद्-करणीये अन्तर्भवनम्, यत् पोषधे तुल्यं वा अन्येषामपि कर्मणां संघाभिनिश्रयत्वम् ॥ तस्मात् निदर्शनत्वेन ( विन्सू 23 ) पोषधग्रहणं व्यवस्थितम् ॥ अपरिपूर्ण-उपसंपद्-आपत्तिपृच्छाकर्मणि अत्र आगमो ऽपि भवति । ज्ञप्तिचतुर्थेन कर्मणा अनुपसंपन्ने संघकर्मणि पोषधे वा प्रवारणायां वा द्वादशपुद्गलो द्दीष्टानुभूतिः, एतावता स्तेयसंवासको भवति इत्युक्तम् । यावत् अनुपसंपन्नेन अकरणीयानुलक्षितं संघस्य प्रव्रज्या ऽरोचनादि तद् सर्वसंघाघीनत्वात् [संघ?] कर्मपक्षत्वम् । ततः कर्मग्रहणमपि अत्र प्रतिपत्तव्यम्, यदि तस्य प्रव्रज्या ऽरोचन-श्रामणेरत्वोपपत्ति-रहोनुशासन पारिशुद्धि संग्रह-परिवासाद्यारोचनानां अनुप्राप्तीनां अपि प्रत्यनुभूतस्य स्तेयसंवासिकत्वं व्यवस्थितम् ॥ (135) तीर्थिकप्रक्रान्तक इति ॥ तत्स्वरूपपरिज्ञापनार्थम् - (136) समात्तेदं-प्रव्रज्यस्य तद्दृष्टेः निक्षिप्येदं चीवरं तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम् ॥ इत्युक्तम् । समात्तेदं प्रव्रज्यस्य इति समादानेन प्रव्रज्या अस्य, तद्दृष्टेरिति तीर्थिकानां दृष्टौ, अस्यां स्थितः तद्दृष्टिकः । चीवरमिदं निक्षिप्य इति सुगतभिक्षुवेषं उत्सृज्य । तेन ध्वजेन इति तीर्थिकस्य ध्वजेन । तत्र इति तीर्थिकस्य अवस्थितौ । अरुणोद्गमने तत्त्वम् तीर्थिकावक्रान्तकत्वम् ॥ (137) तदकृतमपि स्तेयवत् ॥ तथागतवेषमुत्क्षिप्य अभिकांक्षितस्य तीर्थिकस्य अभिकांक्षितलिङ्गेन आच्छाद्य उषिते अरुणोद्गमनं इति । इदं तथागतलिङ्गसमादानम्, न तीर्थिकदृष्टिः । इदं तदकृतम् ॥ पश्चात् इमस्मिन्नकृते अन्यथापि तीर्थिकगतत्वं भवति चेत्, तद्यथा स्तेयवत् ॥ स्तेयस्या ऽपि अन्तर्भूतम्(?) ततो अनुभूतिद्वयमित्यर्थः । (इति) स्तेयसंवासिकत्वं उक्तम् ॥ (138-145) मातृघातकः ॥ पितृघातकः ॥ अर्हद्घातकः ॥ संघभेदकः ॥ तथागतस्यान्तिके दुष्टचित्तेन रुधिरोत्पादकः ॥ भिक्षुणीदूषकः ॥ चतुर्णां पाराजिकानां अन्यतमामापत्तिं आपन्नः [न वेति] ॥ न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं प्रव्रज्योपसंपदोः अकरणम् ॥ इति निमित्तविपर्ययः इति येन निमित्तेन कलहविवादादिना तर्जनीयादि इष्टकर्मकरणं भवति तस्य विपर्ययः कलहविवादाद्यभावः ॥ प्रणिहितानभ्युपगमो हि साधनत्वाभावः ॥ (146) उपसंपदः क्षान्ति-ज्ञप्तिरिति ॥ अक्षान्ता अनुपसंपन्नाः, उपसंपन्नत्वक्षमत्वात् पुनः अन्यक्षान्तिकार्यं
न क्षान्तिरिति क्षान्तिकार्यम् । ऽभदन्ताः भिक्षवः, तर्जनीयकर्मणः तावत् उपसंपत्करणे उपसंपदितिकरणं अनुपसंपदिति वा करणं (इति) ( विन्सू 24 ) उपमण्डलोपसंपद् उक्ता । उपसंपत्करणे सातिसारे सति, क्षान्तिर्हि ज्ञप्तिः इति निदाने उक्तम् ॥ (147) उपसंपदं अनुपपन्नश्चेत्, सामग्री पुनः प्रणिधानम् ॥ इति उपसंपदः कलहाकरणत्वादि निमित्तविपर्यये अनुपपन्नः चेत् सामग्र्यां पुनः कर्म कर्तव्यमित्यर्थः ॥ (148) अदर्शनोक्तौ मृषा चेत्, प्रायश्चित्तिकम् ॥ इति आपत्तिः मया न दृष्टा इति मृषोक्तौ आपत्तिकरणे अस्य प्रायश्चित्तिकम् ॥ एतादृशन्यायवतः मृषावादेषु प्रायश्चित्तिकाभावः न प्रज्ञप्तव्यः ॥
हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः ।
अनोष्ठकाश्च चित्राङ्गाः अतिवृद्धा अतिबालकाः ॥
खञ्जः काण्डरिकः काणः कुणिः कुब्जो ऽथ वामनः ।
गलगण्डमूकबधिराः पीठसर्पी (च) श्लीपदः ॥
स्त्रीच्छिन्ना भारच्छिन्ना मार्गच्छिन्नाश्च ये नराः ।
तालमुक्ताः कन्दलीच्छिन्ना एवं-रूपा हि पुरुषाः ॥
-प्रतिक्षिप्ता महर्षिणा ॥
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसंपदा ।
आख्याता सत्यनाम्ना वै संबुद्धेन प्रजानता ॥ इति ॥
हस्तच्छिना इति मणिबन्धमुद्गृह्य येषां हस्ताः छिन्नाः ॥ पादच्छिन्ना इति येषां आगुल्फं छेदः ते पादच्छिन्नाः ॥ येसां हस्ताङ्गुलयो नागफणसडृशाः अङ्गुलीफणहस्तकाः । येषां ओष्ठकद्वयाभावः ते अनोष्ठकाः ॥ येसां काये चित्रचिह्नानि ते चित्राङ्गाः । हस्तादिषु चित्रितः चित्राङ्गाः । अविरतं स्रवन्त इव इत्यादयः ॥ अतिवृद्धा इति शतवार्षिकादयः । अतिबालका इति काकोड्डापने ऽसमर्थः असप्तवर्षकः ॥ खञ्जा इति पादेन खञ्जगमनाः ॥ काण्डरिक इति सक्थिपक्ष-गृध्रसीवातेन संध्वस्तगमनः ॥ काणः एकाक्षः ॥ कुणिः यस्य मणिबन्धपक्षे चिह्नमात्रहस्ते सति किञ्चिदपि करणे असमर्थः ॥ गलगडः ग्रीवा-गण्डिका यस्य स गलगण्डः ॥ मूकः वागसमर्थः ॥ पीठसर्पि इति आधारार्थं हस्तद्वयं प्रतिष्ठाप्य चतुरूपेण सर्पति । द्वितीयः पर्यायः फक्कः इत्यपि । स्त्रीच्छिन्नः ॥ स्त्रीणां उत्कटसेवनया क्षतवीर्यः, यस्य कायः असुखः स्त्रीच्छिन्नः ॥ तथैव अक्षमभारधारणात् ( विन्सू 25 ) मार्गगमनातिशयत्वात् च यथानुक्रमेण भारच्छिन्ना मार्गच्छिन्नाश्च ॥ तालमुक्ताः, ये सम्यग्भोजने असमर्थत्वात् उद्गिरन्ति ॥ केचिदेवं वदन्ति - ये निरुद्धक्रमणेन हतग्रन्थित्वात् गमनावरोधेन इव परिक्रमाकारिणः, ये च युवानः कर्षान्तर्व्यांध्यादिभिः तथैव असमर्थिताः अपर्यन्ताः, प्रबलजीर्णतया च उपक्लिष्ट -?-सदृशाः सर्वकार्येषु असमर्थाः ते कन्दलीच्छिन्ना इव, तैः न यौवनहानिः इत्यर्थः ॥
इति संग्राह्यगतम् ॥
समाप्तं च प्रव्रज्यावस्तु ॥
(व्) क्षुद्रकादिगतम्
(149) कृत्* राजभटः । अननुज्ञातं राज्ञा अदूरदेशिकम् ॥ इत्यस्मिन् ऽन राजभटो ऽसिऽ इति प्रव्रज्यात्वमुपसंक्रान्तं प्रष्टव्यम् । उपसंपादकैरपि राजभटः राज्ञा ऽननुज्ञातः अदूरदेशिकः न प्रव्राजयितव्यः उपसंपादयितव्यश्च इति ॥ यः प्रव्रज्यावस्तुमार्गं गृह्णाति तस्मै एतेन उपदेष्टव्यम् । यो राजा वा तद्विजितः प्रभुर्वा, तेन येन केनचित् मार्षेंण वा तत्पदसंबद्धः स अत्र अदूरदेशिकः ॥ (150) कृत्* चौरो प्रज्ञातः ॥ इति राज्ञा ना ऽननुज्ञातः अदूरदेशिकः इत्येतन्निराकरणार्थ पुनः कृच्छब्दः । चौरो] नासि ध्वजबद्धकः इति प्रव्रज्यार्थं उपसंक्रान्तः पृच्छेत् उपसंपादकाश्च, न चौरं ध्वजबद्धकं प्रव्राजयेयुः उपसंपादयेयुर्वा । इत्येतावता एवमपि अत्र विधानस्य भावः ॥ प्रज्ञातचौरो ध्वजबद्धकः । यत्र यस्य न प्रज्ञायमानत्वं न तत्र तस्य ध्वजबद्धकत्वम् ॥ (151) न रथकार-[चर्मकार]-चण्डाल-पुक्कल-तद्विधान् प्रव्राजयेत् ॥ रथकारः चर्मकारः, तद्विधान् इति अभोक्ष्य-[अनु]श्रामणेरत्वशिक्षमाणत्व-उपसंपादना ऽनर्हत्वं रथकारादीनां अप्रव्राजने निमित्तम् । तस्मात् आसां अपि एतदकरणीयत्वस्य प्रतिपादनम् ॥ (152) निदर्शनं हस्तच्छिन्नादयः ॥ यदेतद् प्रव्रज्यावस्तुनि हस्तच्छिन्न-पादच्छिन्नेत्यादि उक्तं निदर्शनं तद्वेदितव्यम्, न परिसंख्यानम् । येषामेतद् निदर्शनं तानीदानीं उपन्यस्यति-
हरिद्रकेशा हरिकेशा हरितकेशास्तथैव च ।
अवदातकेशाश्च ये नरा नागकेषा अकेशकाः ।
घातीशिरा बहुशिरा अतिस्थूला विपाटकाः ।
खरसूकरशीर्साश्च द्विशीर्षा अल्पशीर्षिकाः ।
हस्तिकर्णा अश्वकर्णा गोणमर्कटकर्णकाः ।
खरसूकरकर्णाश्च एककर्णा अकर्णकाः ।
लोहिताक्षा अतीवाक्षा चुल्लाक्षा अतिपिङ्गलाः ।
काचाक्षा बुद्बुदाक्षाश्च एकाक्षाश्चाप्यनक्षकाः ।
[हस्ति]नासा अश्वनासा गोणमर्कटनासकाः ।
खरसूकरनासाश्च एकनासा अनासकाः ।
हस्तिजोडा अश्वजोडा गोणमर्कटजोडकाः ।
खरसूकरजोडाश्च एकजोडा अजोडकाः ।
हस्तिदन्त अश्वदन्ता गोणमर्कटदन्तकाः ।
खरसूकरदन्ताश्च एकदन्ता अदन्तकाः ।
अतिग्रीवा अग्रीवाश्च स्कन्धाक्शा अतिकुब्जकाः ।
लाङ्गूलच्छिन्ना वाताण्डा एकाण्डा अप्यनण्डकाः ।
अतिदीर्घा ऽतिह्रस्वाश्च कृशाश्चा ऽतिकिलासिनः ।
चतुर्भिश्च छविवर्णैः खेलाविकटकास्तथा ।
एवं-विधानामपि तं प्रतिक्षेपं अधारयेत् ॥
तमिति हस्तच्छिन्नाः पादछिन्नाः इत्येवमादिकं प्रतिक्षेपं एवं विधानामपि प्रधारयेत् इत्यर्थः ॥ हरिद्रा इव रक्ता केशा येषां ते हरिद्रकेशाः । सिंहकेशा हरिकेशा ॥ नील्या इव रक्ता केशा येषां हरितकेशाः ॥ जन्मना एव शुक्ला केषा येसां ते अवदातकेशा, न तु पलितिनः ॥ हस्तिन इव येषां केशा ते नागकेशा ॥ ताम्रभाजनमिव श्लक्ष्णं विगतकेशशिरो येषां ते अकेशकाः ॥ यस्य शिरसि तस्रः चतस्रो वा स्थूलवलयः, याभिः निम्नोन्नतं लक्ष्यते, स घाटोशिरः ॥ येषां पिश्वितमिव शरीरं वैपुलवतः ॥ [पृथग्वत्] संक्षिप्तकं ते विपातकाः ॥ यस्य अतिसंक्षिप्ते वर्तुलाक्षिणी ते संचूर्णाक्षाः [=चुल्लाक्षाः?] ॥ शिरसो ऽन्तः प्रविष्टत्वात् स्कन्धस्थाने अक्षिणी यस्य असौ स्कन्धाक्षः ॥ लाङ्गूलं यस्य प्रस्रवकरणं त[द् यस्य छिन्नं] स लाङ्गूलछिन्नः ॥ येसां स्वल्पेना ऽपि व्यापारेण विशिष्टश्रमोत्पत्तिः ते ऽतिकिलासिनः, क्लमस्यैतदभिधानम् ॥ चतुर्भिश्च छविवर्णैः इति नीलपतीलोहितावदातैः (निन्दितरूपाः) । ये एवंविधा वर्णविशेषाः तेषां एव प्रतिक्षेपः न तु ये देवानामिव प्रशस्यरूपाः ॥ एवं तावत् एवंविधानां प्रव्राजनादिकं प्रतिक्षिप्तम् । प्रव्रजितोपसंपन्नानामेषां अपि संग्रहो न इत्यु पदर्शनाय आह ॥ (153) न जातिकायदुष्टं प्रव्रजितं उपस्थापयेत् ॥ रथकारादिकं अभोक्ष्यं जातिदुष्टम् । हस्तच्छिन्नादिकं वर्णतः संस्थानतो वा कायेन ( विन्सू 27 ) दुष्टं । नोपस्थापयेत्, वासस्थाने ऽपि अन्तर्दाने, न अनुपरिवारित्वेन च, न केवलं निश्रयदाने । तथा च भिक्षुणा पर्षद् दूषकपर्षद्, न उपस्थापयितव्या, उपस्थापयति सातिसारो भवति । इत्युक्त्वा कियता पर्षद् दू[षका] पर्षद् इति वक्तव्या? । जातितो वर्णसंस्थानेन च ॥ कथं जातितः? । रथकारचण्डालपुक्कसकुलात् ॥ कथं वर्णसंस्थानतः? हरिद्रकेशा इत्याद्यत्रोक्तम् ॥ (154) युज्यते नैकस्योपाध्यायस्य एकेन वचसा उपसंपादनं आत्रयात् । अनेकस्येति द्विप्रभृतेः । एक उपाध्यायः अस्येति एकोपाध्यायः, तस्य । एकेन वचसा इति एकप्रज्ञप्त्या । कि यतो ऽनेकस्य इत्याह । आत्रयात्* त्रिभ्यो यावत् युज्यते, न परेण इत्यर्थः
॥ ऽन गणो गणस्य कर्माणि करोतिऽ इत्यागमात् ॥ केचित् - अंगीकृतोपाध्यायभेदं अत्र ग्रन्थं कुर्वते - ऽलभ्यं भदन्त एककाले एकक्षणे एकेन कर्मकारकेण एकया ज्ञप्त्या द्वाभ्यां कर्माणि कर्तुम्? कृतानि च वक्तव्यानि? न च संघः तेन सा तिसारो भवतिऽ? - ऽलभ्यं उपालिन् स चेत् कर्मकारको भिक्षुः प्रतिबलो भवति । उपाध्यायानां नामपरिकीर्तनं कर्तुं उपसंपत्प्रेक्षाणां च ज्ञप्तिं च न हापयति कर्म च करोतिऽ इत्यादि ॥ आर्य-उपालिनो दासकः पालकश्च श्रामणेरकौ सप्रेमकौ गतौ, अन्योन्यानुरक्षया ऽयुगपत् नोपसंपाद्यौ, [तस्मात् पृथक्] द्वौ नोपसंपद्यते ॥ एतन्निदानं एकोपाध्यायस्य अनेकस्य उपसंपादनानुज्ञाने, अस्मान्निदानात् एकोपाध्यायस्य अनेकस्याङ्गीकरणं अत्र निदानात् दृश्यते । इत्येवं अङ्गीकृतं न चैतं प्रयुज्यते ॥ (155) आभावः तुल्यसमयानां परस्परं सामोचीकरणस्य ॥ एककाले एककर्मवाचनोपसंपादितानां, पृथग्वा उपसंपन्नानां, येषां तुल्यसमयः तेसां सामीचीकरणस्य परस्परं अभावः । सामीची वन्दना ॥ (156) संप्राप्ते प्राथम्यम् ॥ तुल्यसमयानां लाभकर्मादानोद्देशादि स्थानं, यः प्रथमं संप्राप्तः ऽयथागतिकया लाभो ग्रहीतव्यःऽ इति वचनात् तस्य लाभग्रहणे प्राथम्यम् ॥ कर्मादाने यः पश्चादागतः तेन पूर्वकर्म कर्तव्यम् पश्चादागतः कर्मादाने प्रथमं इति वचनात् । प्रथमं कार्यतादि अयमर्थः । लाभग्रहणे प्रथमं स्थानं संप्राप्ते प्राथम्यम्, कर्मादानकरणे पञ्चात्स्थानं संप्राप्ते प्राथम्यमिति ॥ (157) न द्व्यङ्गुलादूर्ध्वं आरण्यकः केशान् धारयेत् ॥ (158) नैतद् अर्वाक्त्वात् ग्रामान्तिकः ॥ अर्वाग्भावः अर्वाक्त्वम् । एतस्य द्व्यङ्गुलस्य अर्वाग्भावात् ऊर्ध्वं द्व्यर्घाङ्गुल प्रमाणता संप्राप्ता । यावन्न धारयितव्या इत्यत्र ज्ञानं भव[तीति वेदितव्यम् । ग्रन्थो ऽ]त्र - आरण्यकेन भिक्षुणा द्व्यङ्गुला बाला धारयितव्या, अर्वाक् ग्रामान्तिकेन इति ॥ केचित् - ऽद्व्यङ्गुलावर्ताऽ इति द्व्यङ्गुलस्थाने अधीयते । यद्यस्य पाठस्य द्व्यङ्गुलप्रमाण आवर्तो येषां इत्यर्थः, अनर्थान्तरत्वं पूर्वकात्पाठात् ॥ अथ द्व्यङ्गुलस्य आवर्त इत्ययुक्तता । लिङ्गान्तर्धानभूतत्वात् इयतो ( विन्सू 28 ) दीर्घत्वम्, अस्य येन च निदानदोषे शिक्षा पदं प्रज्ञप्तं तद्दोषापातस्य च तदवस्थत्वात् । यस्मात् अतिरिक्तपञ्चाङ्गुलमेत्त्प्रमाणं, प्रव्रज्याकालिकमुण्डनादिविधानात् परतो ऽपि मुण्डनादिः करणीयत्वं न्याय्यम् । इत्यत्र अस्य स्थाने विनिवेशनम् ॥ (159-162) न गोलोमकान् केशान् छेदेत् ॥ मुक्त्वा व्रणसामन्तकम् ॥ न चूडां कारयेत् ॥ न संबाधि-[प्रदेशे]रोमकर्म कारयेत् ॥ इति ॥ न कारयेदिति अनुषङ्गः । संबाध-प्रदेशो गुह्यस्थानम् ॥ (163) कारयेत्* व्रणनिमित्तं अरूढौ अन्यथा विज्ञान् स्थविरस्थविरान् अवलोक्येति ॥ अरूढौ अन्यथेति - भगवानाह - ऽकषायैः (पञ्चभिः ततः) शोधयितव्यम् । पश्चात् यदि स्वास्थ्यं न भवति, सूत्रधर-विनयधर-मातृकाढरान् भिक्शून् आपृष्ट्वा संबाधश्मश्रु कारयितव्यम्ऽ इत्यत्र
ग्रन्थः ॥ तत्र निदर्शनमेतद्, शोचनविधानं युज्यते इति प्रकारान्तराण्यपि चिकित्सितस्य अवरुद्धानि, स्थविरस्थविरान् भिक्षूनवलोक्य व्रणनिमित्तं प्राणकनिमित्तं वा संबाधे प्रदेशे रोमकर्म कारयितव्यमिति । अपरेषां अत्र ग्रन्थः, तत्र प्रमुखविदितं कृतमिति एतदवलोकनम् । द्वाभ्यां च वृद्धाभ्यां प्रमुखत्वं शीलतो धर्मविनयाभिज्ञतया च, इत्युभयमपि एतद् अवलोक्यगतं संगृहीतम् विज्ञातं तत्र । पिटकधरत्ववचनं विज्ञानम् । प्राणकनिमित्तं अत्र व्रणगतप्राणकाभिप्रायं युज्यते, न यूकाद्यभिप्रायम् । अस्य च व्रणनिमित्तत्वेनैव अन्तःकृतत्वमिति न गृहीतम् ॥ (164) न अङ्गनाडीमपि [तन्निमित्तं] कारयेत् ॥ अतन्निमित्तं इति अव्रणनिमित्तं । जङ्धामुण्डनं अङ्गनाडी ॥ (165) न अन्यत्र काये ॥ इति ॥ संबाध-अङ्गनाडीभ्यां अन्यत्र काये ग्रीवातः प्रभृति यः कायानुव्यवहारः तत्र एष रोमकर्म-प्रतिषेधः । तस्मान्नानेन केशश्मश्रुणो ऽपि कर्तव्यताप्रतिषेधः । नासारोम्णः शातनस्य अभूद्वचनं इति प्रसिद्धे प्रत्ययः ॥ मातृकायामत्र ग्रन्थः - केशश्मश्रू स्थापयित्वा तदन्येषु अंगप्रत्यंगेषु रोम न शातयितव्यम् । यः शातयेत्* दुष्कृतः स्यात् आपत्तिः इति ॥ (166-168) क्षुरधारकं वा नखच्छेदं भजेत वासीमुखं वा । नैषां मृष्टिं भजेत् ॥ भजेत लेखं मलावकृष्ट्यै । न चीवरेण केशश्मश्रू अवतारयेतेति ॥ उपरिप्रावरणस्य अत्र ग्रहणं युज्यते, न अन्तर्वाससः । सर्वस्य च न संघाटि-उत्तरासंगयोः एव । अत्र परिभुक्तस्य अन्यदुपरिप्रावरणं युज्यते । इत्यत्र प्रतिक्षेपनिमित्तस्य व्यवस्थापनात् ॥ (169) धारयेत् केशप्रतिग्रहणम् ॥ इति चीवरं केशप्रतिग्रहणम्, तदर्थमेव यस्य उपयोगः । प्रतिगृह्यन्ते अनेन केशाः इति तु निरुक्तिः । चीवरमिति कुत एतद्, ऽचीवरं केशप्रतिग्रहनं अधिष्ठानंऽ इति अधिष्ठानमन्त्रे वचनात् । कथं पुन एतद् विज्ञायते प्रावरणार्थमिति? न पुनः तत्रैव केशानामवतारणार्थमिति । अभावे संकक्षिकाभिधानात् । अप्रतिक्षेपं हि संकक्षिकायां केशावतारणम् ॥ (170) अभावे ( विन्सू 29 ) संकक्षिकया ॥ केशप्रतिग्रहणस्य चीवरस्याभावे संकक्षिकया आवृतया केशश्मश्रू अवतारयेत् ॥ (171) न संस्तरे । इति न केशश्मश्रू अवतारयेत् । निदानेष्वपि आदावेव नखच्छेदनम् इति एतदन्ते ग्रन्थः ॥ (172) न यत्र सांधिक-संमार्जनीनिपातः ॥ इति विहाराधिकारिकमेतद् ॥ (173-174) अवतारयेत प्रासादादौ जीर्णो ग्लानो वा वातातपवर्षेषु च ॥ तं प्रदेशं परिकर्मयेत्
॥ निष्केशत्वं निरुदकत्वं च परिकर्मणः । तद्यथा संपद्यते तथा करणीयम् ॥ (175) संकिर्णे बालोच्छारणम् ॥ ससंकारे प्रदेशे इत्यर्थः ॥ (176) एवं नखच्छेदनम् ॥ न संस्तरे इत्यादेः एषो ऽतिदेशः । केशप्रतिग्रहे निपुणग्राहिणी क्रियमाणा भूमौ कृता भवति । तस्मात् नात्रच्छेदनेन यत्र सांधिक-संमार्जनी निपातः । इत्यस्य अतिक्रान्तत्वं, परिकर्मभव्यता वा भूमेः । केशश्मश्रु-अवतारणे अस्य परिहारस्य असंभवो वेदितव्यः ॥ (177) न अनधिष्ठिता भिक्षुणी एषा पुरूषेणावीतरागा केशांश्छेदयेत् ॥ एषा इति भिक्षुणी अवीतरागा इति ऽअनापत्तिर्यदि वीतरागा स्यात्ऽ इत्यत्र ग्रन्थः । छेदयेत इति मुण्डनस्य चैतदत्रिअवं वचनम् । अथ महाप्रजापती गौतमी पञ्चभिः शाक्यायनिकाशतैः सार्धं स्वयमेव केशांश्छेदयित्वा काषायाणि वस्त्राणी आच्छाद्य इति केशच्छेदनस्य उक्तस्य ऽ[एवमेव त्वं गौतमी मुण्डा शोभना]ऽ इति मुण्डात्वेन अभिधानात्; दीर्घत्वात् केशानां अन्य-मुण्डने सनिमित्तमेतदभिधानम् । अन्यत्र अनुव्यवहारः - अवीतरागा भिक्षुणी भिक्षुण्या अनधिष्ठिता न [पुरुषेण] केशांश्छेदयेत् इत्यर्थः ॥ (178) संरज्यमानां अधिष्ठात्री समनुशिष्यात् - ऽस्मृतिमुपस्थापय किमस्मिन् कलेवरे सारमस्तिऽ इति । संरज्यमानां इति कल्पके तां भिक्षुणीम् ॥ (179) मातृसंज्ञा भगिन्या दुहितुश्चेति कल्पके [उपस्थापय] इति । संरज्यमानां अधिष्ठात्री समनुशिष्यात् - मात्रादिसंज्ञामुपस्थापय इति ॥ (180) स्नानं कृते ऽत्र कुर्वीत इति ॥ अत्र इति केशश्मश्रु-अवतारणे ॥ (181) पञ्चाङ्गिकं वा शौचमिति ॥ कल्पान्तर-उपादानार्थं वा शब्दः ॥ सत्यपि पानीयस्य संभवे, कल्पत एवैतद् - ऽभिक्षुणा केशप्रतिग्रहणं धारयितव्यम्, स्नातव्यं वा, अन्ततो हस्तपादा प्रक्षालयतिव्याःऽ इत्यत्र ग्रन्थः ॥ (182) न नग्नं स्नायात् इति । त्रिमण्डलाच्छादितत्वे परिपूर्णं अनग्नत्वम् । यावत् त्रिमण्डलाच्छादिते रोमाङ्गजातयोः छादित्वम्, तावत् छादितत्वेन सर्वस्य (अपरस्य) अपरिहर्तव्यता इति एतद् अत्र सामर्थ्यात् गन्तव्यम् ॥ (183) न भिक्षुणी पुरुषतीर्थे स्नायात्, न स्त्रीतीर्थे चूर्णेन इति ॥ पुरुषतीर्थे भिक्षण्याः स्नानस्य एव प्रतिषेधः । स्त्रीतीर्थे तु मुद्गचूर्णादिना, केवलस्य (प्रादेशिक स्नानस्य) अप्रतिवेधः । ऽद्वादशवर्गिण्यः स्त्रीतीर्थे स्नान्ति, गृहपति-पत्नीनां स्नान्तीनां औद्धत्यं कुर्वन्ति, माषचूर्णादि क्षिपन्ति
। भगवानाह - न भिक्षुण्या स्त्रीतीर्थे चूर्णेन स्नातव्यम्ऽ इत्यत्र ग्रन्थः ॥ (184) कल्प्यते ( विन्सू 30 ) मुद्गादेः गन्धपरिभावितम् चूर्णमिति ॥ सर्वाधिकारिता ऽत्र ॥ (185-186) प्रतिग्रहणमस्य ॥ भैषज्यपरिभावितस्य च ग्लानेन ॥ इति, ऽकल्पयतेऽ इत्यनुषङ्गः ॥ (187) न भिक्षुणी योषिति चूर्णं क्षिपेत् ॥ स्नानकाले अपि अन्यदा ऽपीति-विशेषापरिग्रहात् प्रतिपत्तिः नग्न (त्व)-परिहारप्रसंगेन उच्यते ॥ (188) नो ऽग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तो निश्रयणीमधिरोहेत् ॥ निवसितस्य वाससः पूर्वपश्चिमाधस्त्यः अधस्ताद्भवान्तः अग्रथितो येन इत्यर्थः । कौपीनदुष्टि-परिहारम् एतद् । वृक्षाद्यधिरोहे ऽपि च कौपीनदर्शनस्य संवित्तिः । तस्मात् निदर्शनमत्र निश्रयनी-ग्रहणं प्रतिपत्तव्यम् । आपदि अधिरोहे यत्प्रतीकारार्थं यो ऽधिरोहः तस्य चेत् निवसनस्यैव ग्रथनेनोपरोधः अनुरक्ष्यत्वमस्य । न चेन्नेति, वृक्षाधिरोहानुज्ञानात् गन्तव्यम् ॥ (189) न अन्यदा एवं स्यात् ॥ निश्रयण्यधिरोहणाद् अन्यस्मिन्काले न ग्रथिताधस्त्यपूर्वपश्चिम निवसितान्तेन [सामीचीस्थितेन] भवितव्यमित्यर्थः । अन्तर्मुखस्य कौपीनपक्षत्वं इति तन्नाग्न्यस्य अत्र प्रदेशे परिहरणमुच्यते । (190) न अप्रतिच्छन्न-वक्त्राय अवृतिं भजेत ॥ अप्रतिच्छन्नस्य वस्त्रादिना या अवृतिः अप्रतिच्छन्नवक्त्राय अवृतिस्तां न भजेत् । ऽविजृंभमाणेन भिक्षुणा हस्तेन मुखं प्रतिछादयितव्यम्ऽ इत्यत्र ग्रन्थः । निदर्शनमत्र हस्तो व्यवतिष्ठते ॥ विजृंभणं च कामकारो यद्विधारणं प्रतीतमधिकृत्य एतदेवमुक्तम् । असति आशक्तौ यदपावरणं न तद्भजने दोषः ॥ (191-192) धारयेत् स्नात्रशाटाकम् ॥ आसक्तिः द्विपुटे प्राणकानाम् । सक्तिरिति वक्तव्यं ग्रन्थच्छायायां संपत्त्यर्थं आ-इति उपादानम् । कारणादेशमेतद् । यस्मात् सक्तिः द्विपुटे वाससि प्राणकानां, तस्मान्न सप्राणके ऽम्भसि तद्विधेन वाससा स्नातव्यमित्यर्थः ॥ (193) त्रैचीवरिको ऽपि इति ॥ धारयेत् स्नात्रशाटकमित्युनुबन्धः । ग्रन्थो ऽत्र - "भगवानाह - त्रैचीवरिकेण भिक्षुणा स्नात्रशातको धारयितव्यः" इति ॥ केचित् ऽअनधिष्ठाय धारयितव्यःऽ इत्यधी यते, तद्युक्तम् । स्नात्रशाटकं समेत्य अनुत्पादिते संकल्पे नैःसर्गिकस्य उत्थानात् नियतं एष संकल्पो ऽत्र उत्पादयितव्यः । अस्य चोत्पादने जातं भवति अत्र मानसस्य अधिष्ठानस्य कर्तव्यत्त्वम् । ततश्च अन्यस्याधिष्ठानस्य करनं युक्तम्, सुकरत्वात् वाचिकस्य अस्मादेव अनुज्ञानात् न अनेनास्य समादानम्रंशो भवतीति वेदितव्यम् ॥ (194) पत्राणि अभवे दत्त्वा पुरतः पृष्ठतश्च
प्रतिगुप्ते प्रदेशे स्नानमिति ॥ सर्वे न त्रैचीवरिका एव । [अत्र ग्रन्थः] - अपरेषां स्नात्रशाटकस्य प्राप्तिर्नास्ति, भगवानाह - तैः पत्राणि पुरतः पृष्ठतश्च दत्वा प्रतिगुप्ते प्रदेशे स्नातव्यमिति अविशेषेण एतदभिहितम् ॥ (195) मोचनेन सक्तस्य प्राणिनः अपगतिः ॥ एकपुटात् अत्यासक्तिः द्विपुटे प्राणकानामिति अतः प्रतिपत्तिः । नास्य शाटके द्विपुटत्वस्य अभावः । तस्मात् नानेन सप्राणके ऽम्भसि स्नातव्यमित्यत्र स्थितं वेदितव्यम् ॥ (196) उदकभ्रमे ( विन्सू 31 ) विहारे एतदिति ॥ विहारे चेदिति एतद् स्नानं क्रियते उदकभ्रम एव कर्तव्यं नान्यत्र ॥ (197) च्छोरणं च द्रवस्य ॥ इति पादप्रक्षालनादिकस्य द्रवस्य उदकभ्रम एव च्छोरणं नान्यत्र ॥ (198-199) करणं स्नात्रशालिकायाः ॥ [अस्यां] इष्टकास्तारस्य आदानम् ॥ [अस्यां] स्नात्रशालिकायाः ॥ (200) उदकभ्रमस्य मोक्षः । स्यन्दनिकायाः शोचनम् ॥ भगवानाह - उदकभ्रमो प्रोक्तव्यः ॥ स्यन्दनिका भवति, भगवानाह, कालानुकालं शोचयितव्या । अपि तु उदकभ्रमे एव स्नातव्यमिति, तत्संग्रहार्थमाह ॥ (201) भ्रमे स्नातौ अनुत्थानम् ॥ स्यन्दनिकाया इत्यनुबन्धः । स्नातिः स्नानम् । स्यंदनिका इति प्रतिविधेः आख्यानमेतद् । भ्रमे स्नाने सति अनुत्थानं स्यन्दनिकायाः । न तु भ्रमे एव स्नातव्यमिति नियमभूतं, स्नानार्थत्वात् शालिकायाः ॥ (202) नेट्टनोद्घर्षेण कायं शोधयेत् पादाभ्यामन्यम् ॥ न इट्टनेन भिक्षुणा कायो घर्षितव्यः इति ग्रन्थः । अन्यमिति पादव्यतिरिक्तम् । तयोः तु अप्रतिषेधः ॥ (203) निदर्शनमेतद् तीक्ष्णशौटीरयोः । ईट्टनम् कीदृशस्य द्रव्यस्येत्याह - तीक्ष्णशस्त्रकादि, शौतीरं षौनकादि चित्तविकारसंपादनात् । आज्ञप्तं भगवता - न इट्टनेन कायो घृषितव्य इति । भिक्षवः शुक्त्या घृषन्ति, भगवानाह - मुण्डशुक्तिः करनीया इत्यत्र ग्रन्थः । अत्र हि तीक्ष्णत्वात् शुक्तेः प्रतिषेधः । तस्मात् निदर्शनं इट्टनम् । अन्यस्यापि तीक्ष्णस्य शौटीरस्य च द्रव्यस्य तेना पि कायो नो घृषितव्यः ॥ (204) अग्निना शुक्तेः शोधनम् ॥ प्रतापनमात्रकं च अग्निना अस्याः शोधनम् । अन्यथा शुक्तेर्नाशात् ॥ (205) न किञ्चित्केनचित् आमुष्टिचैलवर्त्ते(ः) भिक्षुणी उद्धृषेत् ॥ न किंचिदिति कायम्, मृदुष्त्रीशरीरम्, मृदुश्लक्ष्णादपि तस्मिन् विकारस्य संपत्तिः । सुनिकृष्टेनापि एतत्करणे स्त्रियः सौटीरपितत्वमिति भिक्षुणीषु सर्वप्रतिषेधः भवति । किञ्चिन्मुष्टि[तः]
सुकुमारान्तरं वस्त्रमिति, मुष्टिमात्रत्वेन उक्त्वा चैलवर्त्तेः वचनम् ॥ (206) न अनपगतसंभावकोदकः चीवराणि प्रावृण्वीत ॥ प्राव्रियमाणचीवरविनाशपरिहारार्थमेतद् । तस्मादेषां उदकं अनपगतं यस्य इति गतिः । यः आधानं न इच्छेत्प्रतीक्षितुं, तं प्रति उत्तरौ विधी ॥ (207-208) धारयेत्कायप्रोञ्छनम् ॥ अभावे मुहूर्त्तं उत्कुटुकेन स्थित्वा स्नात्रशाटकेन प्रोञ्छनमिति ॥ यावता वा अनेन संपन्नेन स्नात्रशाटकप्रोञ्छनार्थसंपत्तिः तावता ऽस्य यावत्या कालमात्रया संपत्तिः तदुपलक्षणमत्र मुहूर्तः । स्तोकस्य वा यस्य तस्य मुहूर्तमिति अभिधानमेतद् । उत्कुटुकेन स्थित्वा इति एवं आशु-अपगमस्य अम्भसः कायात् संपत्तिः गुप्तरूपं चैतदवस्थानम् । अतो ऽस्य [नाग्न्यस्य] न युक्तं भजनमित्यत्र संश्रयणम् ॥ (209-210) प्रतिषेवेत जेन्ताकम् ॥ करण्डस्य करणं उच्छर्करे साधु ॥ जेन्ताकार्थं आवासः करण्डकः । उद्गतशर्करम्, उच्छर्करे प्रदेशे करण्डः ( विन्सू 32 ) कर्तव्यः ॥ इत्यत्र ग्रन्थः - ऽसंपद्यते अन्यप्रदेशे गतादपि अतो अपरिपूर्णार्थः । उच्छर्करे तु परिपूर्णार्थसंपादकत्वात् साधुत्वंऽ इत्यर्थः । ए [वम]त्रापि ऽसाधुऽ शब्दप्रयोगे वेदितव्यम् । तत्र करण्डे यत्कर्तव्यं तद्दर्शनार्थमाह - (211) वहिः संवृत्तस्य अन्तर्विशालस्य समुद्राकृतेः वातायनस्य मोक्षो मध्ये ॥ करण्डगतभित्तिमध्ये ना ऽधो ना ऽप्यूर्ध्वमित्यर्थः ॥ (212) जालवातायनक-वाटिका-चक्रिका-घटिका-सूचीनां अत्र विनिवेशनम् ॥ अत्र इति वातायने ॥ (213) अज[पदकद]ण्डोपस्थापनं च ॥ अत्र इत्यस्य संबंधोपनयनार्थः ऽचऽ-शब्दः ॥ तेन अजपदकेन दण्डेन वातायने सूची प्रवेश्यते निष्कास्यते ॥ (214) द्वारे कवाट-अर्गुड-कटकायां घट्टसमायोजनम् ॥ द्वार इति करण्डद्वारे ॥ (215) तप्तजलस्थापनार्थं अभ्यन्तरपार्श्वकपोतमालाकरणम् ॥ पिण्डिका ऽत्र कपोटमाला यस्यां [जलघटा]ः स्थाप्यन्ते ॥ (216-217) अग्निकरणस्थाने भूमौ इष्टका-स्तार-दानम् ॥ अग्नेः अनिर्वाणाय संवर्त्तनम् ॥ (इति) वर्तुलीकरणम् ॥ (218) तदर्थ आयसस्फिजधरणम् ॥ तदर्थमिति अग्निसंवर्त्तनार्थम् ॥ (219) ज्वलत्यग्नौ अक्लमाय प्रवेशपरिहरणम् ॥ जेन्ताकशालायाम् ॥ (220) तमिकानुत्पत्तये सक्तूनां कटुतैलम्रक्षितानां अगनौ प्रक्षेपः ॥ अग्निमदः तमिका ॥ (221) दौर्ग-न्ध्यविनिवृत्तये धूपदानम् ॥ यद् तत्सक्तुभिर्दौर्गन्ध्यं कृतम् ॥ (222-223) चिक्कसपिण्डिकया क्षिप्रतैलधरणे प्रतिविधानम् ॥ आमलकपिण्डिकया च । कक्षपिण्डिको ऽत्र आसनम् ॥ अत्र जेन्ताके कक्षपिण्डकासनम् । नास्य स्नेहेन आसनार्थम्, इत्यस्य अनुज्ञानम् ॥ (224) तृणैर्भूमेरास्तरनं आद्रैः, औत्पत्तिकेन आर्द्रेण तेमनेन वा ॥ तत्र औत्पत्तिकं उत्पत्त्या एव यदार्द्रत्वम्, [तदभावे]तेमनेन यदार्द्रत्वं तत्संश्रयणीयम्, अदाहो ऽत्र अर्थः ॥ (225-226-227-228) कण्डूयनार्थं आयसदर्विकाकरणम् ॥ चिद्रेण उपनिबध्य सूत्रकेण अस्याः स्थापनं उपधिवारिकेण गुप्ते प्रदेशे
॥ निर्मादिततासंपत्यर्थं अस्यां अग्निकल्पकरणम् ॥ अस्नानं तत्र ॥ तत्र इति जन्ताके ॥ (229) शालायाः तदर्थ करणम् ॥ तदर्थमिति स्नानार्थम् ॥ (230) अनाशाय स्नपयनचीवराणां इष्टकाबद्धगर्त करणम् ॥ [स्नपयनची]वराणां अनाशार्थं गर्ते अवतीर्णेन स्नानं उत्तमस्थेन उदकदानम् । इत्यतः आपन्नं वेदितव्यम् ॥ (231) उदकभ्रमस्य अस्य मोक्षः ॥ अस्य इति गर्तस्य ॥ (232) शिष्टानां अत्युष्णतायां जलस्य आरोचनमिति । उष्णं उदकं इत्यवेत्य परिशिष्टानां प्रव्रजितानां आरोचयेत् इत्यर्थः ॥ (233) शीतेनास्य भेदः इति ॥ उष्णस्य अम्भसः ॥ (234) सेकादौ अपि ॥ सेकाद्यर्थ मपि शीतेन अस्य भेदः ॥ (235-236-237-238-239) पाषी-गोमय-दन्तकाष्ठपरिपुर्णकर्परोपस्थापनम् ॥ क्षामता चेत् पुरोभक्तिका(क?)-करणम् । मध्यपातेन प्रत्युपतिष्थमानं ( विन्सू 33 ) अज्ञातं अत्रैतद्गतो निर्ज्ञानार्थं पृच्छेत ॥ [द्वारपालस्य एतदर्थं स्थापनं ॥ अप्रवेशार्थं च भिक्षोः] इति ॥ मध्यपातेन इति युष्मदन्यतमो ऽहं एत्यन्तर्भावेन । एतद्गत इति जेन्ताकगतः । किमयं भिक्षुः उत आजीविकादिः इति [निर्ज्ञानार्थं] पृच्छेत् ॥ द्वारपालस्य एतदर्थं स्थापनम् इति अज्ञातस्य मध्यपातेन प्रत्युपतिष्ठमानस्य निर्ज्ञानाय प्रश्नार्थं अप्रवेशार्थं च इति । नायमस्मदन्यतम इति प्रश्नेन अस्य ज्ञातस्य । कीदृशस्य द्वारपालस्य इत्याह भिक्षोः । निदर्शनमेतद् अनुपसंपन्नस्यापि प्रव्रजितस्यः; भिक्षुनीषु वा तत्पक्षस्येव पुद्गलस्य ॥ (240) नाश्रद्धस्य अत्र प्रवेशं दद्यात् ॥ अत्र इति जेन्ताके । प्रत्युपतिष्थमानस्यापि मध्यपातेन, एषो ऽत्र अपरो द्वारपालस्यार्थः ॥ (241) सार्धविहारी-अन्तेवासिकैः अत्र परिकर्मकरणम् ॥ अत्र इति जेन्ताके ॥ (242) नवकेरिति अपरमिति ॥ मतान्तरस्यैतत्प्रदर्शनम् । केषांचित् पाथान्तरम् । नवकैः परिकर्म जन्ताके कर्तव्यमिति । रूपदर्शनार्थं परिकर्मणः आह - ॥ (243-244) दीपनकटाहक-तैल-दन्तकाष्ठ-गोमय-मृच्चूर्ण-पाणीयाद्युपस्थापन-काष्ठप्रत्यवेक्षण-उद्वर्त्तन-स्नेहेन स्नपन-संमार्जन-संकारोच्छोरणादौ ॥ परिकर्मणः करणं तेसां परस्परेण । इति सार्धं-विहार्यन्तेवासिनां उद्वर्त्तनादेः परिकर्मणः परस्परं करणम् ॥ (245) पीठशुक्तिकयोः चौक्षितां कृत्वा निक्षेपो यथास्थाने ॥ इत्यादि शब्दैर (पेक्षितस्य? ) परिकर्मणः संग्रहमातृकायां "एतदादिना अग्रतः स्थित्वा "वितपेत्" इत्यन्तम् ॥ (246) सर्वत्र एष भाण्डे विधिः ॥ चौक्षतां कृत्वा यथास्थाणे निक्षेप इति ऽएषःऽ ॥ (247) सर्वमुपकरणं सुगुप्तके लायितं कुर्यात् ॥ न भाण्डग्रहणेन कस्यचिदुपकरणस्य अग्रहणम्, अन्यत्र तु जेन्तकान्तान् । विधानार्थमेतत्सूत्रम् - । (248) अल्पशब्दो ऽत्र प्रविशेत् ॥ जेन्ताके ॥ (249-250) प्रासादिकः । सुसंवृत्तेयः [ईर्यापथ-प्रासादिक-]संप्रजानन् । सुसंवृतः स्वीर्यश्च कायवाचोः अविक्षेपं सुसंवृत्तेयत्वेन दर्शयति । संप्रजानन्नित्यनेन चेतसः । [ईर्यापथ]-प्रासादिकत्वस्य एतत्प्रकारद्वयेन दर्शनम् ॥ (251) नाग्रतः स्थित्वा वितपेत् ॥ न परं वितपंतं व्यवधाय आत्मना वितपेदित्यर्थः
॥ (252) संगणिकावर्जनमिति ॥ अत्रेति वर्तते, कामानुगुणं प्रतिपद्य जेन्ताके वृत्तं, ऽसंदीपिका च कामानां संगणिकाऽ इति अतो ऽस्या वर्जनं अत्र विशेषतः ॥ (253) आर्यतूष्णीभावावलंबनमिति ॥ अत्रेत्येव [संबध्यते] । असद्-विकल्प-तदनुगुणचित्तविनिवर्तनार्थं एतत्सूत्रम् । योनिसो-मनसिकार-संमुखीकरणं आर्य-तूष्णीभवो वेदितव्यः ॥ (254) त्रिदण्डकादानं गन्तव्ये ॥ गमनकाले ॥ (255) नैकर्चावरः परिक[र्म कुर्यात] ॥ जेन्ताकग्रहणमत्र कैश्चित्क्रियते कायगतख्यापितं परस्पर-ग्रहणम् । न भिक्षुभिः जेन्ताके एकचीवरैः परस्परं परिकर्म कर्तव्यमिति । सर्वत्र परिकर्मणि न कायगत एव सर्वत्र च स्थाने, ( विन्सू 34 ) न जेन्ताके एव अस्य विधेः व्यवतिष्ठमानता, इति तन्नाश्रितम् ॥ (256) नैतद् कायस्य अश्रद्धेन कारयेत् ॥ ऽएतद्ऽ इति परिकर्म, यद् [बाह्यं] भारोद्वहनादिकं कर्म न प्रतिषिध्यते ॥ (257) अनित्वरा अत्र पूर्वत्र च श्रद्धा अभिसंहिता ॥ ऽअनित्वराऽ इति चिरकालोत्पत्त्या या अनिष्कम्पा सा अनित्वरा । ऽअत्रऽ इति अनन्तरोके परिकर्मविधौ । ऽपूर्वत्र चऽ इति ऽनाश्रद्धस्य अत्र प्रवेशं दद्यात्ऽ इत्यत्र । ऽअभिसंहिताऽ इति अभिप्रेता ॥ (258) न सिंहसमः शृगालसममु(प)तिष्ठेत ॥ शीलवता दुःशीलस्य उपस्थापनं न कार्यमित्यर्थः । अपवादो ऽस्य क्रियते ॥ (259-260) परमदुःशीलौ आचार्योपाध्यायौ उपस्तिष्ठेत ॥ मातापितृग्लानांश्च अगारिकानपि ॥ परमोपकारित्वादेषां इत्येतद् अभ्यनुज्ञानम् ॥ (261) स्नानं संभारकस्नात्रेण ॥ [ग्लानः] । अत्र निदानं पठ्यते । ग्लान-ग्रहणं प्रज्ञप्तौ न कृतम्, [न चान्यस्य] अन्यत्र अप्रतिरूपत्वम् । विशेषापरिग्रहात् सर्वाधिकरिकं उपनिबद्धम् । त त्स्वरूपोपप्रदर्शनार्थं आह - ॥ (262) वातहरमूल-गण्ड-पत्रपुष्प-फलक्वाथस्नानं तदाख्यम् ॥ संभारकस्नात्राख्यं इत्यर्थः ॥ वृंहणं स्नाने ऽर्थः । इत्येषां अत्र अङ्गत्वम् । कथं स्नानमित्याह - ॥ (263-264) अभ्यक्षा ऽरूक्षतार्थम् । उपस्नानकेन अपगत्यै तस्य ॥ तस्य अरूक्षतार्थस्य [तैलादि-]अभ्यंगस्य अपगत्यर्थं उपस्नानकेन, अभ्यक्षा इत्यर्थः ॥ (265) [पूर्वार्थं] उदकुम्भे पश्चिमे द्वित्रस्नेहबिन्दु-दानम् ॥ पूर्वार्थमिति अरूक्षतार्थम् । द्वौ त्रयो वा स्नेहबिन्दवः पश्चिमे उदकुम्भे देयाः इत्यर्थः ॥ (266) स्नायात् अयोद्रोणिकायाम् । धारयेदेनां ग्लानः इति ॥ एनामिति अयोद्रोणिकाम् । धरणं अग्लानेन अस्याः न युज्यते, न उपयोजनं अयस्पिण्डवत्, इत्यस्य प्रतिपत्तव्यम् । [औ]द्धत्यं एवं-जातीयकस्य विनार्थेन करणम्,
तच्च सर्वं दुष्कृतमिति गम्यमानत्वात् न सूत्रितम् ॥ (267) दद्यात् उपरि अस्याः पिधानकम् ॥ उष्ण स्योदकस्य शीतभावपरिहारार्थम् ॥ (268) ग्रीवायां चात्र गण्डोपधानिकाम् ॥ दद्यात् इति वर्तते । अविलंबितमत्र स्नानम्, अदुःखनार्थम् । अतो अस्याः दानम् ॥ (269) न यत्र क्व चन पादौ प्रक्षालयेत् ॥ विहाराधिकृतमेतद् ॥ (270) स्थानमस्य प्रनाडिमुखम् ॥ ऽअस्यऽ इति पादप्रक्षालनस्य । भगवानाह ऽप्रनाडीमुखे प्रक्षालयितव्यम्ऽ इत्यत्र ग्रन्थः ॥ (271) कारयेरन् पादधावनिकाम् । अनया विना प्रनाडीमुखादौ अर्थसिद्धेर्विधातः । इति कामकारो ऽत्र, न नियमः इति संदर्शनार्थम् आदौ क्रियापदस्य प्रयोगः । सांघिकं वस्तु अस्याः स्थानम् । न च सांघिके वस्तुनि एकस्य प्रसंगः इति बहुवचनम् । कस्मिन्प्रदेशे इत्याह - ॥ (272) उपरिविहारस्य पूर्वदक्षिणकोणे ॥ किमाकारमिति - (273) कर्माकृतिं खराम् । मलापहरणमत्र अर्थः ॥ (274) उपस्थापयेत् कठिल्लम् ॥ प्रतिग्रहस्यैतन्नाम् । किम्मयं ( विन्सू 35 ) इत्याह - मृण्मयम्, न सुवर्ण-रूप्य-वईडूर्य-स्फटिकमयानि कठिल्लानि उपस्थापयितव्यानि, अपि तु मृण्मय[मि]त्यत्र ग्रन्थः । किं-संस्थानम् - ॥ (275) हस्तिपदबुध्नं कर्णिकावन्तम् इति । अलुठनमत्र अर्थः । कर्णिकावन्त मिति धाव्यमानपादावस्थानार्थं एतत्करणम् । क्व संनिविष्टया कर्णिकया तद्वन्तमित्याह - ॥ (276) मध्ये संनिविष्टया । किमाकारया इत्याह - ॥ (277) कदम्बपुष्पाकारया खरया च ॥ पादा ऽपिच्छलनार्थं खरत्वम् ॥ (278) प्रक्षाल्य स्थापनं अवाङ्मुखस्य ॥ प्रासादिकतार्थ एतत्प्रक्षालनम् । नैर्मल्यं प्रासादिकत्वम् । न चास्य यद् तत्र शौचोदकं अवतिष्ठते । ततः न संपत्तिः, तस्मात् अन्येनाम्भसा इति मन्तव्यम् । ऽपादौ प्रक्षाल्य बहिर्विहारस्य प्रनाडीमुखे वा पादोदकं छोरयित्वा पुनः प्रक्षाल्यऽ इत्यत्र ग्रन्थः । क्व स्थापनमित्याह - ॥ (279-282) तलकोपरि सांधिकस्य । पौद्गलिकस्य लयने कपाटसंघौ ॥ पात्रनिर्मादनादि यत्रप्रदेशे विहारे कुर्यात्, तस्या मार्जनं उदकेन प्रलेपनं वा ॥ कुन्तफलाकारेण मृदङ्गस्य वा । आकारेणेति वर्तते । केन प्रलेपनमित्याह - ॥ (283) गोमयेन मृदा वा ॥ [इत्युच्यते] ॥ (284) न विद्यते रत्नार्थतायां प्रलिप्तेः आकारस्य [नियमः] ॥ (285-287) न अपात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वां ॥ नोनेन अधिकेन पाण्डुना वा । त्रीणि पात्राणि, ज्येष्ठं मध्यं कनीय इति ॥ तत्प्रमाणनिर्ज्ञानार्थ
उच्यते - ॥ (288) शेषेण ऊर्ध्वभागान्त-अनन्तरात् अंगुष्ठोदरात् पक्वतण्डुलप्रस्थस्य ऊर्ध्वं वा, तद्द्वयान्मागधकस्य उद्वाहि ससूपसव्यंजनस्य एतन्मध्यं [तज्ञाय्यम्] ॥ ऊर्ध्वभागस्य नाधोभागस्य । अन्ततो नान्यस्मात् प्रदेशादनन्तरं, यद् अंगुष्ठोदरं, पर्वप्रदेशे या अंगुष्ठस्य पृथुता, तन्मात्रम् । ततः शेषेणाधरेण [अंशेन] प्रस्थं वा पक्कानां तण्डुलानां मागधकं, तत ऊर्ध्वं वा द्विगुणं प्रस्थं, यावत् स्वानुरूपव्यंजनसहितं यावदुद्वहति, तदेतद् अनपेतं आप्यं इत्यर्थः । तैल-घृत-मधु-उदकादीनां द्वात्रींशत्पलानि मागधकः प्रस्थः । अन्येषां अद्रवाणां षोडशेति द्रव्यमात्रव्यंजकानाम् ॥ ततः, षोडशानां अत्र पलानां मागधकेन प्रस्थेन अभिधानं इति प्रतिपत्तव्यम् ॥ "यत्र द्वौ मागधकौ पक्कतण्डुलप्रस्थौ ससूपव्यंजनौ प्रक्षिप्तौ अङ्गुष्ठोदरेण तित्तिकं न स्पृशतः तद् ज्येष्ठम् । यत्रैकः तत्कनीयो, अत्रान्तरात् मध्यम् । " इत्यत्र ग्रन्थः । व्यंजनीयार्थत्वेन अत्र सूपव्यंजनयोः ग्रहणात् भागशः सूपव्यंजनयोः अत्र तेमनत्वं इति श्रितम्, तस्मात् अनेकत्वे व्यंजन-प्रभेदानां भागशो ऽत्र अभिनिश्रेयत्वम् । यावता व्यंजनेन भोजनीयं व्यंजितं भवति, तवतो व्यंजनस्य पात्रप्रमाणे संश्रेयता, न परेण इत्यर्थः । पलस्य देशभेदेन हीन-मध्य-उत्कृष्ट-सांकर्यदोषव्युदासार्थ आम्नायागतं प्रमाणमुच्यते । - "माषो ऽष्टरक्तिको ज्ञेयः । तोलो [माषाष्ट]कः स्मृतः ॥ तोलं ( विन्सू 36 ) सुवर्णमित्याहुः । पलं त्वष्टसुवर्णकम्" ॥ (289) न भिक्षुणी ऊर्ध्वं भिक्षुकनीयसः । धारयेत् ॥ यद् भिक्षूणां कनीयः तदस्याः जेष्ठम् । कनीयो ऽस्याः यावत्पात्र मात्रकपिण्डपातसंपादनं इत्यर्थात् प्रतिपत्तिः ॥ (290) त्रपुमण्डलकस्य अनया ऽत्र निषादे दानम् । अनया इति भिक्षुण्या । अत्र इति पात्रे । येन प्रदेशेन अस्य निषादो भूमौ तिष्ठापनं सस्तु निषादः, तत्र इत्यर्थः । किमाकारस्य इत्याह - ॥ (291) बोधिवटपत्रकस्य पाणितलकस्य वा (292) परिमाणश्च ॥ न केवलं आकारतः परिमाणतो ऽपि एतावदेव एतद्देयम् । न अधिकम् अतिक्रमादर्थस्य । मोनसंपत्तेः इत्यर्थः । भूस्पर्शे कोटक-अलगनं अत्र एतद् दाने ऽर्थः ॥ (293) भवति सतत्त्वं याचितेन ॥ स-तत्त्वं याचितसपात्रत्वम् । न याचितेनानेन नापात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ "न वर्षासु अपात्राकः स्यात्" - इत्येवमादिकं अतिक्रान्तं भवति इत्यस्यैतत्करणम् ॥ (294) तद्वत्पञ्चकम् ॥ त्रिचीवरं, निषदनं, परिश्रावणं च यथापात्रेण भवति स-तत्त्वं एवमनेनापि इत्यर्थः ॥ "तस्मात् अनुजानामि याचितकैरपि षड्भिः परिष्कारैः प्रव्राजयितव्यम्" इत्यत्र ग्रन्थः । परिस्रावण-निषदनाभ्यां अपि विना न प्रव्रजयितव्यं इति [त्रितयम्] । अतः आपन्नं वेदितव्यम् ॥ (295-296-297) न वर्षासु अपात्रकः स्यात् ॥ न जनपदचारिकं चरेत् ॥ चरेत् सभयतायां कुपात्रकेण । "उपनन्देन अपात्रकः प्रव्राजितः, स भिक्षुभिः सार्धं जनपदचारिकं चरन् कर्वटकं अनुप्राप्तः । तत्र गृहपतिना
भिक्षवो भक्तेन उपनिमन्त्रिताः । यावत् तस्य नवप्रव्राज्यस्य पात्रं नाष्ति, स गृहपतिः अवध्यायति भगवानाह - ऽन भिक्षुणा पात्रेण विना जनपदचारिका चरितव्या । अदत्त-आदायिकैः मुस्यन्ते, भगवानाह - ऽकुपात्रं नेतव्यं, पात्रं स्थापयितव्यम्, वर्षासु पात्रं उपस्थापयितव्यम्ऽ इत्यत्र ग्रन्थः ॥ (298-299-300) न प्रव्राजयेत् अभावे ॥ न उत्थितः पात्रं कर्षयेत्, प्रक्षिपेत्, शोषयेद्वा ॥ मात्रया परिभुंजीत । तद्-भोगप्रदर्शनार्थमाह - ॥ (301) न अन्येनात्र निःसर्गं अक्षिपेत् । अन्येन इति भाजनान्तरेण । निःसर्गमिति छोरणधर्मकम् ॥ (302) न अनेन संकारं छोरयेत् ॥ नावचं छोरयेत् इति वर्तते ॥ (303-308) न हस्तमुखोदकं दद्यात् ॥ न प्रमदनधर्मणा श्रामणेरेण निर्मादयेत ॥ न सवालुकेन गो-शकृता ॥ न अत्यार्द्रं प्रतिशामयेत । नातिशुष्कं अध्युपेक्षेत । न शिलायां स्थापयेत् ॥ तावत्कालिकमेतद् स्थापनम् ॥ (309) न अशुचौ प्रदेशे ॥ (310) न यत्र क्व चन ॥ प्रदेश इति वर्तते स्थापनं च ॥ (311) नास्मिन् निक्षिपेत् ॥ यत्र क्व चन अतिनामनार्थं एष निषेधः, न तत्कालार्थम् ॥ (312) मालकस्य एतदर्थं करणम् ॥ पात्रस्थापनार्थम् ॥ मालकमिति गवाक्षकस्य नाम । कथं करणमित्याह - ॥ (313) उत्तिष्ठतोर्विहारपरिगणयोः न खननेन भित्तेः ॥ (314) चकोरकस्य आरण्यकैः ॥ पात्रस्थापनार्थकरणम् । ( विन्सू 37 ) आकाश-मालकमित्यस्य पाठान्तरेण व्यवहारः किम्मयस्य इत्याह - ॥ (315) लतामयस्य रज्ज्वा वा । विकारस्य रज्जुमयस्येत्यर्थः ॥ (316) लिप्तस्य गोमयमृदा ॥ (317) स-तद्विधपिधानस्य ॥ पिधानकमपि अस्य लतामयं रज्जुमयं च आलिप्तं गोमयमृदा कर्तव्यमित्यर्थः ॥ (318-319-320) लम्बनमस्य कान्तारिकया वृक्षे साधु ॥ न भूमौ स्थापनम् ॥ न एनं अन्यत्र नयेत् ॥ (इति) चकोरकम् ॥ (321) प्रक्षिप्तं स्थविकायां नयेत् ॥ पात्रम् ॥ (322) न हस्तेन इति नयेत् ॥ (323) कक्षया अस्य ॥ इति पात्रस्य (324) नयनं आलयनकं दत्त्वा ॥ (325) पृथक्स्थवि[का]सु पात्रभैषज्यकोलाहलानि स्थापयेत् ॥ अन्यस्यां पात्रं, अन्यस्यां भैषज्यं, अन्यस्यां लोलाहलमित्यर्थः ॥ कोलाहलं पुनः आरा-वध्रिकादिद्रव्यम् ॥ (326) धारयेदेनः ॥ इति पात्रादिस्थविकाः ॥ (327) न तुल्यावलम्बनानां आसु आलयनकानां निवेशं उपयुञ्जीत ॥ आसु इति पात्रादिस्थविकासु न-तुल्यबलम्बनानां आलयनका दातव्या इत्यर्थः । तथा च "आर्य, किमयं मृदङ्गः" इति निदानम् । अतः तुल्यनिवेशोपयोगप्रतिषेधपरं एतद् ॥ (328) अविस्तीर्णानां च दुःखा ऽनिच्छुः] ॥ न आलयनकानां निवेशं उपयुञ्जीत । किंकार[ण]मित्याह - दुःखा ऽनिच्छुः । - (329) संकोचासंपत्तये न मतदानम् ॥ कस्मिन्प्रदेशे न मतदानमित्याह
- ॥ (330) मध्ये ॥ आलयन कमिति प्रकरणात् गन्तव्यम् । पृथक्त्वस्य अस्य मध्ये, न दीर्घस्य इति अर्थात् गन्तव्यम् ॥ (331) स्थानाय अस्येति अन्तरान्तरे काकपदकदानम् ॥ (332-335) चक्षुरिव पात्रं पालयेत् ॥ त्वचमिवसंघाटिम् ॥ शिष्टं च चीवरं च ॥ न प्रतिसंस्करणमुपेक्षेत ॥ बन्धन-पचन-धावन-सेचन-रंजनानि - । उभयं हि पात्रं चीवरं च अपेक्ष्य एतद्वचनम् ॥ (336) अनुतिष्ठेत् पात्र बन्धनं प्रतिगुप्ते प्रदेशे ॥ नाप्रतिगुप्त एतद् क्रियमाणं अप्रसादवस्तु इति ख्यापनार्थं एतत्सूत्रम् ॥ (337-338) उपस्थापयेत् संघः कर्मारभाण्डिकाम् ॥ छिद्रस्यतदिति ॥ बन्धनम् ॥ (339) न तु साधु गुड-जतु-सिक्थ-त्रपु-सीसैः ॥ केन तर्हि साधु इत्याह - ॥ (340) साधु पट्टिका-कीलिका-थिग्गलिका-मकरदन्तिका[भिः] ॥ (341) चूर्णिकया च । लोहस्य पाषाणस्य वा ॥ बन्धनं साधु इति अनुबन्धः ॥ (342) तैलेन धृष्टिरिति ॥ चूर्णिकया । कुतो यावदिति आह - (343) आसिक्थ-सादृश्यात् ॥ केन धृष्टिः इत्याह - ॥ (344) लोहेन कुरुविन्देन वा ॥ अनेन [चूर्णिकायाः तैलेन आर्द्रीकृत्वा यावत् सिक्थसदृशीभावः ता-[व]त्धृष्टिरित्यर्थः ॥ (345) उष्णे दानमिति ॥ पात्रे इति प्रकरणात् प्रतिपत्तिः । तां च पात्रे दत्तां चूर्णिकाम् ॥ (346) अवगुण्ठ्य ऊर्जेन (?) मृदा ऽनुलिप्य, पाकस्य दानम् ॥ इत्यनुषङ्गः । कीदृशस्य पाकस्य दानमित्याह - । मध्यस्य ॥ ( विन्सू 38 ) (347) धृष्टिस्तैलेन । तस्य बन्धस्य तैलतेमनेन धृष्तिः ॥ (348) गुड-मृदा मृण्मयस्य इति ॥ मृण्मयस्य पात्रस्य गुड-मृदा बन्धः ॥ पट्टिका इत्यादेः पञ्चकस्य स्थाने-गुड-मृद्-ग्रहणम् । तस्मात् शेषस्य अतो ऽत्र साधुत्वं न इत्याएः पूर्वस्यानुषङ्गः यथासंभवं वेदितव्यः ॥ भुज्यमानत्वे संस्कारस्य प्रत्युपयोगं उपायः । तत्र कियता कालेन पात्रस्य त[दसंस्कृ]तत्वं, येन तपनार्हता, इत्यत्र उच्यते - ॥ (349) भुज्यमानत्वे पाक्यत्वं मासषट्कान्ते ॥ तदेतद् विशेषोक्तं - मार्ते योत्यते - ॥ (350) मार्त चेत् पक्षस्य ॥ - अन्ते पाक्यत्वं इत्यनुषङ्गः । अभुज्यमानत्वे ऽपि यथायोगं पात्रस्य प्रतिसंस्करनं अनुष्ठेयम् ॥ (351) वर्षाश्चेत्, विरुक्षण-म्रक्षितत्वेन कार्यांन्तराले संयोज्यत्वम् ॥ प्राण्युपघानमन्तरेण [अशक्यतायां] अदेयत्वे वर्षासु पाकस्य अदेयत्वे अवस्थिते, यापनस्य एतदाख्यानम् । द्वयोः उपयोगकालयोः मध्यं कार्यान्तरालम् । तत्र अस्य पात्रस्य विरूक्षणेन म्रक्षितत्त्वेन च संयोज्यत्वम् । कार्यं कृत्वा म्रक्षयित्वा स्थापयितव्यम् ॥ अपरत्र कार्यकाले विरूक्षयितव्यं इत्येवमेतत्संयोजनं इत्यर्थत्वात् गन्तव्याम् ॥ (352) पचनमस्या ॥ पात्रस्य ॥ (353) नैतदात्मना कर्तु अयुक्तम् ॥ प्रव्रजितस्य [आत्मना कर्तुं अयुक्तम्] इत्यर्थः ॥ (354) कटाहकस्य तदर्थं उपस्थापनम् ॥ तदर्थमिति पाकार्थम् । कीदृशस्येत्याह - ॥ तत्त्वोत्पत्तेः । तद्भावतत्त्वे कटाहकत्वेन एव यस्योत्पत्तिः, तद्भूततया एव यस्य करणं, न घटाद्यवयवद्वयेन इत्यर्थः । किमस्यैव एकस्य, न इत्याह - ॥ (355) तत्त्वोत्पत्तेः कर्परकस्य वा ॥ उपस्थापनमित्यनुबन्धः । यथास्य कर्परकामेन कटाहकस्य संपादनार्थं साधु घटादेः भेदनकेन [देशितत्वात्] - ॥ (356) भस्मना पूरयित्वा साधु भेदनं
घटभेदनकेन ॥ [कथमिति चेत् घटभेदकेन इत्युक्तम्] । लोहमयस्य एतद् कीलकस्य नाम - ॥ (357) धारणमस्येति ॥ घटभेदनकस्य ॥ (358) तेन अवच्छादनं अपलायिधूमम् ॥ तेन कटाहकेन पात्रस्या ऽवच्छादनं कीदृशमित्याह - अपलायीधूमम् । तद्विधं एतत्कर्तव्यं यद्विधेः धूमो न पलायते इत्यर्थः । किं अलिप्तेनैव बहिः कटाहकेन इत्याह - ॥ (359) दत्ततुषमृत्तिकाबहिल पेन ॥ दत्तः तुषमृत्तिकया बहिर्लेपो यस्मिन् तेनेत्यर्थः । अभ्यन्तरे किमदत्तेन अस्य कस्यचित द्रव्यस्य लेपेन इत्याह - ॥ (360) पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण ॥ किं अशुष्केन दत्तालेपेन इत्याह - ॥ (361) उपगतशोषेण । कीदृश्यां किमस्तरायां वा भूमौ निहितस्य पात्रस्य अनेन अवच्छादनं इत्याह - ॥ (362) कृतपरिकर्मायां भूमौ वा स्तृततुषायां अवकीर्णं रूचिरधूमकरकपिण्याकादिद्रव्यायां निहितस्य अधोबिलम् ॥ तुषाणामुपरि रोचनशील-धूमकरकानां पिण्याकादीनां द्रव्याणां अवकीर्णमित्यर्थः । कथं निहितस्य इत्याह - अधो बिलम् । किमतः परं कर्तव्यमित्याह - ॥ (363) गोमयै । पलालेन वा अवगुण्ठ्य आदीपनम् ॥ (364) ( विन्सू 39 ) सुशीतलस्य अपनयनमिति । पात्रस्य ॥ (365) आनिष्पन्न-रंग संपत्तेः आवृत्तिः ॥ तावत्पाको देयो यावत् रंगसंपन्नम् ॥ (336) निर्माद्य निर्माद्य आरोपणम् ॥ प्रतिपाकं निर्मादयितव्यमित्यर्थः ॥ (337) सामन्तकस्य प्राणकानां अनुकम्पया संमार्जनं सेकश्च ॥ अम्भसा सामन्तकस्यैव । उक्तं - ऽन अपात्रकं प्रव्राजयेयुःऽ इत्येतत्प्रसंगागतं सपरिकरं पात्रविधानम् ॥ अपरं प्रव्रज्यावस्तुसंबंधादुच्यते - ॥ (368) प्ररोहस्य परिव्यंजनं अज्ञातौ वर्षाग्रस्य उपसंपाद्यांगीकरणम् । प्ररोहस्येति बालप्ररोहस्य । कस्मिन्प्रदेशे इत्याह - । परिव्यंजनं, व्यंजनात्समन्ततः । अज्ञातौ वर्षाग्रस्य उपासंपाद्यस्य अंगीकरणम् । अप्रज्ञायमाने विंशतिवर्षत्वे उपसंपन्निभित्तं व्यंजनसामन्तकेन रोमजन्मनो अंगीकरणमित्यर्थः । व्यज्यते अनेन पुरुषभावः इति व्यंजनम् । पुरुषेन्दिर्यम् ॥ (369) व्याजेन अस्य प्रत्य्वेक्षणम् ॥ अस्येति परिव्यंजनं रोमप्ररोहस्य । कीदृशेन व्याजेनेत्याह - ॥ (370) ऊर्ध्वनागदन्तक-चीवरवंशस्थ भावावतारणादिना । उच्चे नागदन्तके चीवरवंशे ऽवतिष्ठतो वस्त्रादेः भावस्य अवतारण-आरोपणादिना ॥ (371) न उपसंपत्प्रेक्षं वृक्षमधिरोहयेत् । (372) न बहिः सीमां प्रेषयेत् ॥ उपसंपत्प्रेक्षमिति । अवदर्शन-उपविचारान्तः अत्र सीमा व्यतिष्ठते । कुतो दर्शनोपविचारान्तः उपसंपादनस्थानं तत्स्थानात् । उच्चलितायां उपसंपादनस्थानम् । तदर्थं व्यापृतात् शासनाधिमुक्तात् शीलवतः च भिक्षोः सोपधिवार-विहारस्थानतो गमने तन्मार्गप्रतिपन्नात् । अन्यदा विहार-तदितिकरणीय-चंक्रमण-अतिनामनस्थानगतात् - (373) दर्शनोपविचार एनं अपकासने स्थापयेयुः गनाभिमुखं प्रगृहीतांजलिम् ॥ एनमिति उपसंपत्प्रेक्षम् । अपकासन इति रहोनुशासकगतस्य कर्मणो अश्रवथं संघमध्यात् अस्य पृथक्ज्ञापनं यत्तदत्र अपकासनग्रहणेन गृहीतम् । अपकासने गणाभिमुखं प्रगृहीताञ्जलीः संघमध्यात् अनपकासितो न कर्तव्यः इत्यर्थः ॥ (347) न गृहिणो निश्रयानारोचयेत्
॥ (375) न उपसंपन्नमात्राय न आरोचयेत् ॥ निश्रयानिति वर्तते । ऽगृहनिश्रिताय निश्रयं न आरोचयेत्ऽ - यावत् ऽअप्रव्रजितायऽ इति । अस्य पश्चात् अयं ग्रन्थः - अन्यतमः ब्राह्मणदारकः प्रव्रज्योपसंपदार्थं उपाध्यायेन यावत्पिण्डपातं गच्छ इति आज्ञप्तः, तेन आज्ञप्ते सति स्वभिक्षा(याचन) हेतुना उद्विग्नः, किं प्रव्रजितेना ऽपि पिण्डपातः कर्तव्यः इति शिक्षां प्रतिषेधते, भगवता गर्हित्वा उक्तम् - "उपसंपन्नमात्राय चत्वारः निश्रया आरोचयितव्याः" इत्यत्र संग्रहो ऽयम् ॥ (376)यत्र निश्रया ऽभावः तत्र पोषधोपासना-निश्रयप्रतिज्ञा-ग्रहणं च न कर्तव्यम् ॥ (377) निःश्रयप्रतिज्ञाग्रहणं पूर्वं नानुरक्षितव्यम् ॥ निश्रयाभावे "प्रतिज्ञायाः पाश्चात् अर्थसिद्धिः दृश्यतेऽ (इति) एतद्वचनं दृष्टम्, तत्र पुर्वकस्मिन् सति पश्चात् प्रतिज्ञा कर्तव्या इति ज्ञायते, इति वेदितव्यम् ॥ (378) ( विन्सू 40 ) पश्चादपि द्विमासतोधिकम् ॥ पश्चादिति ग्रहणम् । द्विमासतो ऽधिकं निश्रया ऽभावे न रक्षितव्यम् इत्यस्य अनुप्रतिषेधार्थं ऽअपिऽ-शब्दः । द्विमासं नाश्रित्यापि निश्रितं कर्तव्यं इत्यत्र ज्ञातव्यम् ॥ (379) वस्तु-कर्म-उपस्थापकपरिहारेण एनं परीच्छेयुः ॥ एवं इति वस्तु, वस्त्वादिपरिहारैः एनं वस्तु परीच्छेयुः । वस्तु-परिहारः इति निश्रय-गृहे परिहारः । निश्रयार्हसंघे पुद्गलबहुलत्वात् परीच्छेयुः, इत्यलम् विस्तरेण ॥ (380) दहरमध्येषु अभावे वृद्धतरमापृच्छेत् ॥ अभावे इति निश्रयस्य । ऽवर्षावासे अनिश्रितःऽ इत्युक्ते वचने निश्रितानां मध्ये एकवर्षीयं आचार्यकालमतीत्य वर्षा-विच्छेदात् विहारे अनिश्रित्य गतानां विहारे अनाश्रयः अपि न कर्तव्यः, कृत्वा तु सातिसारो भवति । अथ च यस्तेषु अतिवृद्धः स प्रष्टव्यः । तदनन्तरं प्रवारितेन आचार्यपरिहारः कर्तव्यः । उक्तग्रन्थे एतद् संगृहीतं भवति । अर्थतः(?) तेसां वृद्धतरो दहरः स निश्रितः । वृद्धतरस्तत्र दहरेण प्रार्थितो भवति, ऽनिश्चये अनिश्रितऽ इति वेदितव्यम् ॥ (381) भावे ऽपि उपनिश्रयत्वेन ॥ इति निश्रये । भावे ऽपि आश्रय स्य आश्रये । दहरेषु वृद्धतरः प्रष्टव्यः । अत्रायं ग्रन्थः - "उपनिश्रयत्वेन अयमेव उपाध्यायसमः भवति । अयमेव तेन प्रष्टव्यः । अयमेव तस्य शिक्षितो भवति, पठितो ऽपि पाथितो भवति"
इति प्रव्रज्यावस्तुनि निर्माणे (?) उक्तम् ॥ (382) न अनवलोक्य तज्जातीयं परिकर्मयेत् तेन वा आत्मानम् ॥ अत्र तज्जातीयं निकायान्तर-प्रव्रजितं ज्ञातं आशंकितं वा ॥ (383) निर्दोषं अभावे [निश्रयार्हस्य] प्रवृत्तपर्येषणस्य अनिश्रितस्य वा ऽपि ॥ निर्दोषमिति निरपवादम् । अभावे इति आश्रयस्य । निरपवादः कस्मिन्निति चेत् - तदर्थं प्रवृत्तपरेषण इत्याद्युक्तम् ॥ कियत्कालमिति चेत् - ॥ (384) आपञ्चरात्रनिष्ठानात ॥ इत्युक्तम् । यावत्पञ्चरात्रपर्यन्तमित्य्रथः । यावत्पञ्चरात्रत्वं हि ऽलाभे अर्हत्वम्ऽ । अत्र ग्रन्थः निदानात् - ऽअनिश्रितं देशं, उपालिऽ, यावत् गत्वा परीक्ष्य पञ्चरात्रमुपादायऽ ॥ (385) अर्हत्वं च लाभे ॥ इत्युक्तं भवति ॥ तदपि अप्रतिहतसंबंधे निश्रयपर्येषणे चेति ॥ (386-387) विश्रम्य आगन्तुको द्वितीये तृतीये वा अन्हि निश्रयं गृह्णीत ॥ न एकाहस्य अर्थे ॥ इति निश्रयं गृह्णीत इत्येतेन अनुबन्धः ॥ (388) अन्यं असांनिध्ये निश्रितस्य आपृच्छेत् ॥ निश्रयकृतेन ऽनिश्रितःऽ । एष कर्मणि क-(=क्तः) (प्रत्ययः) निश्रयत्वेन ग्रहणे इत्यर्थः ॥ (389) निर्दोंषम-नापृष्टौ गतस्य कर्मादाने अपर-तद्-आगतौ ॥ कर्मादाननिमित्तं गतस्य अपरस्य कर्मादानस्य आगमने दोषाभावो ऽनापृष्टौ इत्यर्थः । विभङ्गादेतद् शयनासन-शिक्षापदात् । ऽनिश्रयं गृह्णीतंऽ इति वर्तते ॥ [(390) न यस्य तस्यान्तिकात् ॥] (391) निर्ज्ञाय वृत्त-ज्ञान-परिवारानुग्राहकत्वं प्रश्नादिना अस्य ग्रहणम् ॥ वृत्तं च ज्ञानं च परिवारश्च ग्राहकत्वं च अनुवादनादौ प्रवर्तमान तां अस्य पुद्गलस्य प्रश्नेन अन्येन वा समाचारेण ( विन्सू 41 ) ज्ञात्वा निश्रयस्य ग्रहणमित्यर्थः । [कतमेन विधिना इति चेत्] ॥ (392) संवरवत् ॥ इति उपासक-संवरादिवत् मन्त्रादिना विधिना इत्यर्थः ॥ प्रगृहीताञ्जलिना संवरस्य ग्रहणम् । अस्य तु - ॥ (393)-(394) प्रपीड्य उभाभ्यां पाणिभ्यां उभौ पादतलौ । परीक्ष्य दानमिति ॥ निश्रयस्य किमस्य संवरो रूढः शैक्षश्च । शासने स्थापयितुं इत्येषा परीक्षा ॥ (395) पुत्र-पितृ-संज्ञयोः निवेशनम् ॥ यथासंख्यं निश्रयनिश्रिताभ्यां परस्परम् ॥ (396) तत्त्वे एव उपाध्याये निश्रितत्वम् ॥ तद्भावः तत्ता, तच्छब्देन उपाध्यायस्य परामर्शः । उपाध्याये स्थिते उपाध्ययता एव निश्रित्वम् - [अत्रापि] कर्मणि क्तः । निश्रीयत इति निश्रितः, निश्रय इत्यर्थः । तद्भावे निश्रितत्त्वम् ॥ (397) तस्मात् अग्रहणमस्य तत्र ॥ अस्येति निश्रयस्य । तत्रेति उपाध्याये । एतदुक्तं भवति - यस्मादुपाध्यायत्वे एव निश्रयत्वं, तस्मात् ऽन यस्य तस्यान्तिकात्ऽ निश्रयो
ग्राह्यः इति ॥ (398) निरपेक्षतासंपत्तिः उभयोः आत्तनिश्रयध्वंसे कारणम् ॥ उभयोरिति निश्रितनिश्रितवतोः साक्षेण क्रमेण वा निरपेक्षतायाः संपत्तिः संपन्नता । आत्तस्य गृहीतस्य निश्रयस्य ध्वंसे कारणम् । एकत्र निरपेक्ष[ता-भूते] तावत् निश्रयस्यानुवृत्तिः यावत् अपरो निरपेक्षाभूतः इति । पर्षत्संबंध एष या [निश्रित-]निश्रितत्व-उपगतिः, न चैकस्य सापेक्षतायां पर्षत्संबंधस्य अपेतत्वम्, इत्येषा अत्र व्यवस्था ॥ [सहदर्शंनात् उपाध्यायस्य उद्घातो निश्रयो वक्तव्यः] - (399) सन्निपत्तौ अनौपाध्यायेन अभिमतेन प्रवृत्तिः ॥ यदुक्ते उपाध्याये संनिहिते नान्यः आप्राप्तव्यः इत्यस्य तत्प्रतिपादनम् । [सापे]क्षत्वे पर्षत्संबंधापगमस्य । उपाध्यायगतात् निश्रयादन्यो निश्रयः अनौपाध्यायः । सन्निपतनं सन्निपत्तिः, तेन सन्निपत्तौ सत्यां अभिमतेन निश्रयेण निश्रितस्य प्रवृत्तिः । यो ऽस्य रोचते तस्य निश्रयेण वस्तव्यम् इत्यर्थः ॥ (400)तेनैव तेन ॥ तेन उपाध्यायगतेन निश्रयेन सन्निपाते, तेनैव उपाध्यायेन प्रवृत्तिः । [नास्त्यत्र कादाचित्कं अकादाचित्कं च] ॥ (401) निरन्तरं दुष्टवा उपाध्यायं आसनं मुञ्चेत ॥ निदर्शनं उपाध्यायः, अन्यत्रा ऽपि निश्रये विधेः व्यवस्थानात् ॥ (402-403) त्रिर्दिवसेन निश्रित उपसंक्रामेत् तद्विहारस्थः ॥ अरण्यवासी क्रोशे चेत् प्रत्यहम् ॥ यदि क्रोशे तदरण्यं भवति, यत्र निश्रयो भवति प्रत्यहमागत्य उपसंक्रामेत् इत्यर्थः ॥ (404-405) पञ्चषैः अहोभिः क्रोशपञ्चके ॥ पोषधे च अर्ध-तृतीयेषु योजनेसु ॥ अतः परं एक [सीमात्व]-स्याभावात् निश्रयत्वस्याभावो वेदितव्यः ॥ (406-409) न निश्रितं अवसादनार्थं नावसादयेत् ॥ पञ्चावसादना - ॥ अनासायो, अनववादः, उपस्थानधर्माभिषैः ( विन्सू 42 ) असंभोगः, प्रारब्धकुशलपक्षसमुच्छेदो निश्रयप्रतिप्रश्रंभणं च ॥ अश्रद्धस्य एतदर्हत्वं कुसीदस्य दुर्वचसो, नाहतस्य, पापमित्रस्य च ॥ अवसादनार्हत्वमेव ॥ (410) अवसादितसंग्रहे अन्यस्य स्थूलात्ययः ॥ एवमपि क्रियमाणे यदि असौ क्षमाणे आदरं न कुरुते, तत्र किं कर्तव्यम् - । (411) अनादृतौ भिक्षोः प्रगुणीकरणाय प्रयोगः अभिज्ञस्य ॥ कीदृशस्येत्याह - अभिज्ञस्य, यस्तत्प्रगुणीकरणाय अभिज्ञः तस्य ॥ (412) त्यक्तः निमित्तस्य क्षमणं क्षमयतः ॥ येन निमित्तेन अवसादितः, तस्य परित्यागे क्षमणम् । न च एवमेव, किं तर्हि, क्षमयतः - ॥ (413-415) न अनर्हमवसादयेत् ॥ न अर्हस्य न क्षमेत ॥ न अनर्हस्य क्षमेत ॥ सर्वथा ॥ (416-418) निष्कासनं अक[र]णीयतायं लयनात् ॥ परिस्रावण-कुण्डिके दत्वा सान्तरोत्तरं च श्रामणेरस्य ॥ उपसंपत्प्रेक्षश्चेत् पञ्च परिष्कारान् ॥ दत्वा निष्कासनमिति अनुबन्धः । परिस्रावणस्य प्रागेव उक्तत्वात्, यदितिनोक्तं (त्रि)-चीवरं निषदनं पात्रं चेति पञ्च ॥ (419) उपसंपन्नस्य च ॥ पञ्चपरिष्कारानित्यबन्धः
॥ (420-421) न सिंहनिष्ठुरो भवेत् ॥ न विघातसं वर्तनं क्रियाकारं कुर्वीरन् ॥ संघभूता भिक्षवः ॥ (422) पलिगुद्धता पर्थुषितत्वं आस्यस्य ॥ (नाशो राधते(?), रात्रिवासादुत्थितेन दन्तकाष्थेन अन्येन वा मुखे, निश्रयस्य अन्यस्य वा वन्दनं अभ्यवहरणं वा अकार्यम् इति अस्यैतत्प्रतिपादनम् । "न भिक्षुणा दन्तकाष्ठं अविसर्ज्यं पिण्डपातः परिभोक्तव्यः । भुक्ते सातिसारो भवति" इति । वस्तुमनान्तरीयके निदाने यदुक्तं - ऽअप्रतिग्राहित-संनिहिताभ्यवहारः प्रतिक्षेपगतः एषः । अनवेत्य मुखमलं आहारपक्षतां भवद्भिः अतिक्रमः क्रियते इत्यस्य, तदेवं प्रतिपादनम् ॥ निश्रयवृत्तौ इहोक्तिकं - "सार्धंविहारी अन्तेवासी वा कल्यमेव उत्थाय परिमाण्डलं निवस्य आवृत्य च, दन्तकाष्ठं विसर्ज्य अन्तः सीम्नि चैत्यवंदनं कृत्वा इत्यादि यत्परिशोधत्वं मुखमालस्य तदेतद्दन्तकाष्थं विसृज्य" इत्यत्र वचनम् । अतः एतत्सूत्रम् - ॥ (423) विसर्जयेद्दन्तकाष्ठम् । ंऐतद् प्रतिरूपम्, तस्मात् मुखमालशोधनार्थं अवलंबनीयत्वमस्य । कथं विसर्जयेदित्याह ॥ (424) प्रतिच्छन्नमेव ॥ (425) उच्चारप्रस्राविक्रिया च ॥ प्रतिच्छन्नमेव ॥ (426) नोपभोग्यस्य अन्ते वृक्षस्य कुड्यस्य वा ॥ अन्ते इति समीपे, यत्र महाजनः सदा आस्ते तदत्र उपभोग्यः, न तत्र दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः ॥ (427) प्रमाणमस्य द्वादशकाङ्गुलीनां प्रभृत्या ऽष्टकात् ॥ अस्येति दन्तकाष्ठस्य । आ-अषटकादिपाठे ऽत्र संधिः द्वादशाङ्गुलमारभ्य यावत् अष्टांगुलत्वं प्रमाणमस्य इत्यर्थः ॥ (428) आचतुष्कोत्तरात् अभावे बहुश्लेष्मणः ॥ अंगुलिचतुष्कस्य यदुत्तरं अनन्तरं प्रमाणं तद् यावद्भावे ( विन्सू 43 ) पूर्वप्रमाणस्य, बहुश्लेष्मणे दन्तकाष्ठ स्य प्रमाणम् । ग्रन्थो ऽस्मिन् - "अत्रान्तरान्मध्यम्, अपि तु ये बहुश्लेष्माणः तैः चतुरंगुलविनिर्मुक्तं दन्तकाष्ठं विसर्जयितव्यम्" इति ॥ (429) न अयुक्तत्वं विसर्जनस्य लयने कठिल्लकस्योपरि ॥ विसर्जनस्य इति प्रकृतत्वाट् दन्तकाष्ठविसर्जनस्य ॥ (430) ना ऽसंपत्तिः अत्र गुप्तेः प्रनाडीमुखे ॥ अत्र दन्तकाष्ठविसर्जने प्रनाडीमुखे गुप्तिः प्रतिच्छन्नता संपद्यत एव इत्यर्थः ॥ (431) हस्तसामं तकस्य अत्र एवं-जातीयके संभाव्यत्वम् ॥ अत्रेति प्रणाडीमुखे । एवं-जातीयके इति दन्तकाष्ठविसर्जनजातीयके, पादधावनादौ करणीये । हस्तसामन्तकस्य संभाव्यत्वं न हस्तसामन्तकात् परेण दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः ॥ (432) जिह्वामस्य अनुनिर्लिखेत् । अस्येति दन्तकाष्थविसर्जनस्य ॥ (433) उपस्थापयेत् जिह्वानिर्लेखनिकाम्
॥ (434) सूचीद्रव्यम् ॥ सूचीपुटा क्रियते रैति-ताम्र-अयः-कांसैः तद्रूपैः इत्यर्थः ॥ (435) कल्पते अत्रार्थे दन्तकाष्थविदलः ॥ अत्रार्थे इति जिह्वानिर्लेपनार्थे ॥ (436) परस्परं अस्या ऽतीक्ष्णतायै धृष्टिः ॥ परस्परमिति अन्योन्यम्, अस्येति दन्तकाष्ठविदलस्य ॥ (437-438) न तीक्ष्णेन दन्तं जिह्वां कर्णं चोद्धृषेत् ॥ न अशनैः । शनैः उद्धृषेदित्यर्थः ॥ (439) अबाधयन्तं मांसम् ॥ इति दन्तमां सादि ॥ (440) - न अप्राक्षाल्य दिग्धं मुखमलेन प्रदेशं [अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत्] ॥ दन्तकाष्ठस्य पवनं छोरयेत् इत्यनेन संबंधः । असंभवे अम्भसः अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् । पवनं पुनः अनयोः यथाक्रमं दन्तकाष्थं विदलं च ॥ (441) न विशब्द्येति ॥ यथोक्तं द्वयं छोरयेत् ॥ (442) निदर्शनमेतद् ॥ विशब्दनस्य दन्तजिह्वयोः पवनं, अन्यदपि अनेन आक्षिप्तमित्यर्थः । निदर्शनेन यदाक्षिप्तं तद्दर्शयति - ॥ (443) उच्चार-प्रस्राव-खेट-सिंघाणक-वान्त-विरिक्तमप्यन्यच्च ॥ भवति अखेटभूतं वान्तं, विरिक्तं वानुच्चारभूतम्, - तद्यथा नासाविरेके अतिसारिणश्च, यथा पीतनिर्गमे । तस्मात् उच्चार - खेटाभिधाने सत्यपि वान्त-विरिक्त-ग्रहणम् । उच्चारिदिषु अतिरिक्त [स्य स]र्वस्य उपसंग्रहार्थं अन्यच्च-इतिवचनम् ॥ (444) निर्मादनस्य अतो ऽपि संपत्तिः ॥ उषाटुक-गोमयादपि ॥ इति दन्तकाष्थविसर्जनात् । उषाटुक-गोमयादपि संपत्तिः - । "दन्तकास्थस्य अलाभे गोमयेन उषाटुकेन च मुखं शोधयितव्यम्" इत्यत्र ग्रन्थः ॥ (445) चैत्यं अनन्तरं कायकरणीयानुष्ठानात् वन्देत ॥ दन्तकाष्ठविसर्जनान्तरं यत्करनियानुष्ठानं, तस्मात् - ॥
(अ) निश्रितप्रतिपद्
(446) अथ निश्रित-प्रतिपत् ॥ अथ-शब्दो ऽधिकरार्थं नानन्तर्यार्थः । इत ( विन्सू 44 ) ऊर्ध्वं निश्रित-प्रतिपत् अधिकृता वेदितव्या ॥ (447) अतो ऽनन्तरं काल्यं उपसंक्रम्य वन्दनम् ॥ अतः इति कायकरणीयानुष्ठानान्तरात् चैत्यवन्दनाट् नियतम् । निश्रितस्य स्वास्थ्यकल्ये कायकरणीयानुस्थानं, इत्यतः काल्यतरं निश्रयस्य इति प्रतिपत्तव्यम् । परिशुद्ध-आस्येन वन्दनस्य अग्रत्वे इष्टव्यत्वात् । अन्यथा निश्रितस्य विघातजातेः । न च मन्तव्यं - उषाटुक दन्तकाष्ठोपनामनं इत्यनेनास्य विरोधः इति, ग्लानादौ अवकाशसद्भावात् ॥ (448) वार्ता-पृच्छनम् ॥ (449) उषाटुकदन्तकाष्ठोपनामनम् ॥ (450)महानसं अवलोक्य आरोचनम् ॥ इति यत्तत्र उपकल्पितमनुपानं तस्य आरोचनस्य - ॥ (451) प्रियस्य उपनाम्यत्वेन मनसिकरणम् ॥ इति आरोचिते यत्रासौ प्रीतिं संदर्शयति तस्य प्रियस्य उपनामयिष्यामि अस्येदं इत्येवं मनसिकरणम् ॥ (452) पात्रनिर्मादनम् ॥ (453) पिण्डपातिकश्चेत् निश्चयो भवति रावकस्य च ॥ रवक्षरक-द्वितीय-नाम्नः निर्मादनम्, रैति शब्दं करोतीति रावकः ॥ (454) सप्रयोजनं चेत् परिस्रावणस्या ऽपि ॥ निर्मादनमिति संबंधः । प्रयोजनं पुनः कदाचित् बहिरेव भोक्तव्यं भवति । [तदपि भवति चेत् प्रष्टव्यम्] ॥ (455) सो ऽपि चेत् प्रश्नः ॥ पिण्डपतिको भवति, ततः पिण्डपात-प्रवेशार्थं साह्य-असाह्य-प्रवेशाभ्यां किमस्य अभिरुचितमिति ज्ञानार्थं प्रश्नः ॥ (456) साह्यं चेत् - ॥ निश्रयस्य निश्रितेन सह प्रवेशे ॥ - अभिरुचितं तेनैव निश्रयेन सह प्रवेशः ॥ (457) विषमादौ पुरतो गतिः ॥ (458) प्रणीतस्य तस्मै च परिणामनम् ॥ यदि प्रणीतः पिण्डपातो लभ्यते, तस्मै परिणामयितव्यो अस्मे देहीति ॥ (459) असहः चेत् - ॥ इति प्रवेशः ॥ - आगत्य उपदर्शनम् ॥ [इति] पिण्ड कस्य । [कीदृशं परिणामयितव्यं इति चेत् - ॥ (460) वरतरस्य उपनामनम् यत्तत्र प्रपीतखाद्यभोजनं भवति, तन्निश्रयाय उपनामयितव्यं गृहाण इति ॥ (461) मात्रज्ञ ऽसौ सर्वत्र स्यात् ॥ (इति) निश्रयः ॥ (462-463) उदकस्थालकपूर्णम् ॥ कालारोचनम् ॥ इति भोजन-कलस्य ॥ (464) भुक्ते पात्रादिनिर्मादनम् ॥ (465) स्थापनमस्य ॥ निर्मादितस्य पात्रादेः ॥ (466-471) चैत्याभिवन्दनायां उषाटुकोदकाद्युपनयः ॥ पादप्रक्षालनगतानुष्ठानम् ॥ शयनासनप्रज्ञपनम् ॥ प्रतिनिवासनार्पणम्
॥ निवासनग्रहणम् ॥ पादोदकाधिष्ठानकठिल्ल-उपनामनम् ॥ पादशब्दस्य उदकाधिष्ठानाभ्यां प्रत्येकं अभिसंबंधः । पादोदकपादाधिष्ठानां कठिल्लानां उपनामनम् ॥ (472-274) उपानत्-प्रोञ्छनम् ॥ असम्मतं उत्थानकारकत्वेन गृहितसंमार्जनीकं दृष्ट्वा अल्पोत्सु कं कुर्यात् ॥ गृहीत-सूचीकं च असम्मतं चीवर सेवकत्वेन ॥ दृष्ट्वा अल्पोत्सुकं कुर्यात् इति वर्तते । सम्मतं तु उत्थानकारकत्त्वेन ( विन्सू 45 ) [चीवरसेवकत्वेन वा] अल्पोत्सुकं अकुर्वतो नस्ति दोषः ॥ (475) कल्पिकीकरण-अल्पहरितापादान-पुष्पफल्लोच्चय-दंतकाष्ठोपसंहाराद्यपि श्रमणोद्देशे ॥ निश्रयं प्रति करणीयमिति अर्थात् गतिः । पूर्वोक्तं च सर्वं इति ऽअपिऽ-शब्दात् । संघे ऽपि व्यापरनीयतायां अस्यैतत्करणीयमिति अनुसाराद् गन्तव्यम् ॥ (476) अर्गडक-आकोटनेन अभ्यतरस्थं बोधयेत् ॥ निश्रयं अन्यं च भिक्षुम् । सर्वाधिकरिकः एष विधिः ॥ (477)शनैः एतद् ॥ अर्गडकाकोटनम् ॥ (478) नाति वेलम् ॥ इति न मुहुर्मुहुः अर्गडकं आकोटयेदित्यर्थः । न त्वेनं विध्येत् ॥ (479) एन नातिवेगेन प्रपीडयेत् ॥ एनं अर्गडकं कवाटद्वितीयसंज्ञं नातिवेगेन क्षिपेदित्यर्थः ॥ (480)शनः सप्रजानन् आप्रविशेत् निस्क्रामेच्च असंघर्षणेन द्वारशाखे ॥ यथा अन्योः धृष्टिः न भवति तथा इत्यर्थः ॥ (481) सत्कुर्यादेनम् ॥ [एनमिति] निश्रयम् । अन्तराले निश्रय-निश्रिताधिकारस्य अविच्चिन्नत्वात् एनं-शब्दो निश्रयपरामर्शार्थः ॥ (482) आलीयेत ॥ एनमित्यनुषङ्गः, संश्लिष्टेन निश्रयस्य विहर्तव्यम्, न दूरीभवितव्यमित्यर्थः ॥ (483) न तद्विरुद्धमिति ॥ आलीयेत इत्यनुबन्धः । निश्रयविरुद्धस्य न उपश्लिष्यात् इत्यथः ॥ (484) अपत्रपेत अतः ॥ अतः इति निश्रयात् । यावदुक्तं भवति - सलज्जेनास्य भवितव्यमिति ॥ (485) दक्षो ऽस्य कृत्ये स्यात् ॥ दक्षो ऽनलसः, अस्य निश्रयस्य ॥ (486) सत्कृत्यकारी ॥ यदस्य करणीयं तत्सकृत्य कतव्यमित्यर्थः ॥ (487) प्रासादिकप्रस्थानः ॥ प्रासादिकेन अभिक्रमादिना युक्तः ॥ (488) ह्रीमान् सगौरवः । यद्यपि ह्रीविशेषो गौरवं, तथापि नेतच्छब्दादस्य गतिः इत्यस्य ग्रहणम् । प्रसर-सं कोचो ह्रीः ॥ (489) सप्रतीश इति ॥ परायत्ततासंवेदनरूपो अपत्राप्यविशेषः सप्रतीशता ॥ (490) नीचचित्तः ॥ निहतमानः ॥ (491) संप्रजानन् अहापयन् स्वकार्यम् ॥ ध्यानाध्ययनादिकम् ॥ [(492) किं-कुशलगवेषी कृत्ये वा ॥ एतद्गत-निश्रयग्रहणा ऽपृच्छता परिवारदानादौ च अन्यत्र वा निश्रितेन किंकुशलगवेषिणा भवितव्यं, न लोकयात्रापरेण एतत्कर्तव्यं इत्यर्थः
॥ (493) विक्रियां] आपद्यमानं निवारयेत् ॥ यद्यसौ निश्रयः कांचिद्विक्रियामापद्येत, स निश्रितेन वारयितव्यः ॥ (494) अवृद्धौ कुशले अन्यत्र तत्करे समर्पणां याचेत ॥ यदि अस्य निश्रितस्य तस्मिन्निश्रये कुशलें न वृद्धर्भवति, ततो ऽसौ एनं अन्यस्मिन् कुशलवृद्धिकरे निश्रये समर्पणां याचेत ॥ सो ऽपि एनं प्रश्नादिना - (495) निर्ज्ञाय निश्रयार्हे अर्पयेत् ॥ [ततो ऽपि?] परं निश्रयेण निश्रितस्य करणीयम् - ॥ (496-497-498) पापमित्रात् वारणम् ॥ कुशले नियोगः ॥ तदुपसंहारः ॥ कुशलोपसंहारः इत्यर्थः ॥ (499) [व्युत्था]पनायां आपत्तेः आनुलोमिके जीवितपरिष्कारसंपत्तौ ( विन्सू 46 ) च उद्योगः ॥ यथा निश्रितस्य एतद्-द्वयं संपाद्यते तथा निश्रयेण उद्योगः करनीयः । सो ऽप्येतद् अस्मै कुर्यात् इति [चतुः]-अतिक्रान्तात्सूत्रात् निश्रितेनापि नि [श्रयस्य] एतद्-द्वयसंपत्तौ उद्योगः कर्तव्यः इति प्रतिपत्तव्यम् ॥ (500) सार्धविहारी अन्तेवासिक-उपाध्याय-आचार्य-समानोपाध्याय समानाचार्य-आलप्तक-संलप्तकसंस्तुतक-सप्रेमकं ग्लानमुपतिष्ठेत ॥ आलप्तको हि नाम प्रियतां आलपनादि-प्रियाचरणेन उपनीतः । संलप्तको येन सार्धं अस्य विश्वस्तकस्य कालेन कालं संलापो वर्तते ॥ संस्तुतको येन सार्धं अस्य एकत्र [स्थान-]गमनादिना संस्तवोपगमनात् अङ्गाङ्गीभावो जातः । सप्रेमको यद् दृष्ट्वा श्रुत्वा वा विना ऽङ्गाङ्गीभावेन प्रीतिमात्रकमुत्पन्नम् ॥ (501) पूर्वक्रिया ऽभावे उत्तर इति ॥ सार्धविहारी-अन्तेवास्यादिणां पूर्वेण उपस्थानकरणस्याभावे उत्तर-उत्तरः उपतिष्ठेत् । सार्धविहारिणा उपस्थानकरणस्या ऽभावे अन्तेवासिकः उपतिष्ठेत्, तेन उपाध्यायः, तेन आचार्य इत्यादि । गुरुत्वात् उपाध्यायस्य ततः पूर्वयोः प्रथमं अर्हत्वं, आचार्यच्च अन्तेवासिकस्य, सार्धांविहारिणो अन्तेवासिकात् । अतश्च प्रत्यसन्नतरत्वात् क्षिप्तस्य पूर्वस्य प्रथमं अर्हत्वम् ॥ (502) पाथाचार्यस्यापि अत्र गृहीतता ॥ इत्याचार्यग्रहणेन च ॥ (503) साह्ये अशक्तौ निश्रितं येन प्रवृत्तिः ॥ साह्य इति ग्लान्यस्य अनेकत्र उपस्थेये ॥ अशक्तौ इति यद्येकतः अपि उपस्थातुमशक्तिः, ततो निश्रितमुप[तिष्ठे] दित्यर्थः । कतमं निश्रितमित्याह - येन प्रवृत्ति, यमापृष्ट्वा करणीयं करोति । अन्तरा, यदा यस्य येन अतिपत्तिः, तदा तस्मिन् प्रव्रर्तितव्यम् । अत्ययकारिणां अतिपत्तौ, सर्वमुत्सृज्य इत्यर्थात् गन्तव्यम् ॥ (504) प्रव्रजितवत् अत्र प्रारब्ध-तल्लिङ्गः ॥ अत्रेति ग्लानोपस्थानविषयत्वे, यः प्रव्रज्यार्थं मुण्डनादिना
वेषमात्रेण योजितः नाद्यापि प्रव्राजितः स प्रव्रजितवत् द्रष्टव्यः । यथा प्रव्रजितस्योपस्थानं तथा तस्य ग्लानस्य कर्तव्यमित्यर्थ ॥ (505) न ग्लानं सब्रह्मचारिणं अभ्युपेक्षेरन् ॥ (506) उपास्थायकं अस्य अभावे ददीरन् आ ऽन्तात् । अभाव इति सार्धं विहार्यादेः । कुतो यावद्देयम् इत्याह - आ ऽन्तात् इति । यदि दत्तेना ऽपि एकेन अभवो भवति उपस्थायकस्य, त्ने अशक्त्या संभावनकार्य-असद्भावात् अपरं ददीरन् । एवं यावत्पर्यन्तभूतः संघस्य इत्यर्थः । "सर्वस्याभावे संघेन उपस्थायको देयो ग्लानावस्थां परिच्छिद्य, एको वा द्वौ वा संबहुला वा, अन्ततः सर्वसंघेन उपस्थापनं करणीयम्" - इत्यत्र ग्रन्थः ॥ [भैषज्यप्रतिशरणत्वात् -] (507) कल्पते भैषज्यं संघतः केवलस्य ग्लानस्य परिभोग इति ॥ मुण्डगृहपतिद्रव्ये भैषज्यं [यद्] तत्सांघिकायां ग्लानकोष्ठिकायां स्थापयितव्यम्, ग्लानैः भिक्षुबिः परिभोक्तव्यं इति ( विन्सू 47 ) यत्तस्यैतेन संग्रहः ॥ (508) असत्वे एतद् उपस्थापकः समादापयेत् इति ॥ अभावे सति एतद् उपस्थापकेन समादापयितव्यम् ॥ (509) असंपत्तौ सांधिकं ददीरन् ॥ यदि समादाप्यमानमपि न संपद्यते, ततः सांधिकं देयमित्यर्थः ॥ (510) अभावे (सांधिकस्य) बौद्धिकं आशरीरगतादिति ॥ आमुक्तकमपि यत्प्रतिमायां चैत्ये वा आभरणादिभिरपि यावद्देयं अन्याभावे कः [पुन]र्वादो ऽन्यस्येत्यर्थः ॥ (511) पानक-छत्रारोपणादिकारान् एनमुद्दिश्य [सांधिकात्] कुर्युः ॥ असंपत्ताविति वर्तते, स्वस्याभावे, सांधिकत् । अस्येति सांघिकस्य (512) अभावे अस्य बौद्धिकात् । (513) देयत्वं आभ्यां आर्तस्य तेनामृत्यौ सति विभवे ॥ आभ्यामिति सांघिकबौद्धिकाभ्याम्, असति तु दाने दोषाभावः ॥ (514) नोपस्थायकः एनं नोपतिष्ठेत् ॥ एनमिति ग्लानम् ॥ (515) न अर्थ्यां अस्य धर्म्या च आज्ञां विलोमयेत् ॥ अर्थ्यामिति जीवितपात्र-प्रतिसंयुक्ताम् । अस्येति ग्लानस्य । धर्म्यामिति पुण्योपस्थान प्रतिसंयुक्ताम् ॥ (516) नाध्यवसान-वस्तूपयाचितो विधारयेत् ॥ अध्यवसानवस्तु यत्र पात्रादौ ग्लानस्य तृष्णा । उपयाचित इति ग्लानेन, उपस्थायकः ॥ (517) न नाववदेत् इति ॥ ग्लानमुपस्थायकः ॥ (519) नैनं ग्लानो अतिलंघयेत् उपस्थायकेन कृतं अववादं न ग्लानो अतिक्रमेदित्यर्थः ॥ (519) सांघिकादेनं असौ उपस्थायकः - मरणशंकायां शयनासनादुत्थाप्य पौदगलिके निवेशयेत ॥ (520) अभ्यंजन-स्नपनपूर्वकताव्याजेन इति ॥ अभ्यंजन-स्नपनपूर्वकतया व्याजभूतया निवेशयेत् इत्यर्थंः । व्याजस्य अत्र प्रधानत्वात्, निदर्शनमेतद्-द्वयं वेदितव्यम् ॥ (521) यत्नवान् तदवस्थापरिच्छेदे स्यात् ॥ इति
मरणावस्थापरिच्छेदे यस्यां शरीरावस्थायां मरणाशंका भवति तस्यामित्यर्थः । यत्नश्च अत्र मुहुर्मुहुः प्रत्यवेक्षणम् ॥ (522) तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य ॥ तेन ग्लानेन कृतसंक्लेशानां तन्मृतचीवराणां इति यस्यासौ ग्लानस्य उपस्थायकः तस्य एव मृतस्य यदि तानि चीवराणि भवन्ति, न अन्यस्य, तेसां धावनम् । तस्य उपस्थायकस्य करणीयमित्यर्थः ॥ (523) संघस्य तत्स्थविरः संनिपाते पूर्वगमः स्यात् ॥ निश्रय-निश्रितप्रकार एषाः इत्येतस्मिन्नवधौ संघस्थविराधिकारस्य उपन्यासः । संघस्य संनिपाते संघस्थविरः पूर्वंगमो भवेदित्यर्थः ॥ (524) गमने विलंबितं उदीक्षेत ॥ तत्स्थविरः ॥ (525) ते ऽपि एनमिति । येषां असौ स्थविरः, ते ऽपि एनं गमनविलंबितं उदीक्षेरन् ॥ (526) अनिर्गतं च दूरं गत्वा ॥ (527) ग्रामान्ते च । समीपवाची अत्र अन्तशब्दः ॥ (528) प्रवेशश्चेत् अत्र अनुयान्तम् ॥ प्रवेशश्चेदभिप्रेतो अन्वागच्छन्तं एनं ग्रामान्ते उदीक्षेरन् । उदीक्षमाणानां - (529) दूतश्चेत् स्यात् "आगमय यावत्स्थविर ( विन्सू 48 ) आगच्छति" इति ब्रूयुः ॥ एनमिति दूतम् ॥ (530) पाण्युदकदाने च गतत्वे अभ्यवहाराय अस्ति चेत्कालः इति ॥ गतत्वे भोजनाय पानकाय वा पाण्युदकदानवेलायां यदि बिलम्बमानानां कालो ऽस्ति, ततो दूतमेनं ब्रयुः - "आगमय यावत् संघस्थविर आगच्छति" इति ॥ (531) असति अत्र उपदेशे अस्यासनं मुञ्चेरन् ॥ असति उदीक्षणकाले भोजनादि-उपवेशे संघस्थविरस्य आसनं मोक्तव्यम् ॥ (532) संनिषण्णतायां [बहिश्च प्र]त्यवेक्षेत ॥ संनिषण्णः अन्तर्गृहे, बहिः इति आश्रमपदात् ॥ अनयोः अवस्थयोः प्रत्यवेक्षणां संघस्थविरेण कर्तव्यम् ॥ मा ऽत्र कश्चित् दुस्प्रावृतो अनिवस्तो वा इत्येदर्थं - ॥ (533) दुस्प्रावृतत्वे दुर्निवस्ततायां वा सौष्ठवार्थं अनयोः निमित्तं अस्मै कुर्वीत ॥ अनयोः इति दुष्प्रावृतता-दुर्निवस्ततयोः । निमित्तमस्मै इति यो ऽसौ दुष्प्रावृतो दुर्निवस्तो वा ॥ (534) अप्रतिवेधे अनन्तरेण कारयेत् ॥ यदि असौ दुर्निवस्तः संघस्थविरेण क्रियमाणं निमित्तं न प्रतिविध्यति, ततो यस्तस्या ऽनन्तरः तेन कारयेत् ॥ (535) असंपत्तौ स्वयम् ॥ एवमपि सौष्ठवकारणस्य असंपत्तौ स्वयमेव कारयेत् । निमित्तस्य अप्रतिवेधे वचनेन कारयेत् ॥ (536) न एनान सं[ला]पयेत् नवकान् । येषां स तत्र संघस्थविरः - ॥ (537) यत्रैषां विहारारण्ययोः वृत्तिः तद्वृत्तं ग्राहयेत् [नियुञ्जीत च] ॥ येषामिति नवकानाम् । तद्वृत्तमिति विहारवृत्तं अरण्यवृत्तं च । नियुञ्जीत चेति, न केवलं तद्वृत्तं ग्राहयेत्, अपि तु तस्य वृत्तस्यानुष्ठाने नियोगो ऽपि एषां कार्यः ॥
(ब्) पश्चात्-श्रमणः
(538) आगन्तुकः प्रत्यवेक्ष्य आ[वा]सिकानां आरोचयेत् शयनासनार्थम् ॥ शयनासनार्थं आगन्तुकसंघस्थविरः प्रत्यवेक्षेत, येषां असौ संघस्थविरः आवासिकानां, आरोचयेत् शयनासनार्थम् ॥ (539) गमिको दिक्-सार्थ-आवास-शयनासन सहायकांश्चग्लान्ये न-सहायित्वेन तोलयित्वा प्रक्रमेत् ॥ गमिकः संघस्थविरः । गमिकानामिति अर्थात्प्रतिपत्तिः - यस्यां दिशि गन्तव्यां येन सार्थेन मार्गेण च य आवासः तत्र च गतस्य शयनासनं तद् सर्वं बुद्ध्या युक्तायुक्ततया संतोल्य, सहायकांश्च ग्लान्ये सति न केनचित् कश्चित्परित्यक्तव्यः, इत्येवं तोलयित्वा ततो यथाभिमतस्थानसंपादनार्थं प्रक्रमेदित्यर्थः ॥ (540) सर्वं पश्चात् मा कस्यचित् किंचित् प्रमुषितमिति अपेत्य आदूरं उत्स्मारयेत् ॥ संघस्थविर एव ॥ (541) अनुद्धतान् अनुन्नड्डत्वे न[व]कान् प्रतिष्ठापयेत् ॥ अनुपशमः औद्धत्यम्, स्तब्धत्वं [उन्नडत्वं] तद्विपर्यये प्रतिष्ठापयेदित्यर्थः ॥ (542) कुशलं च उपगतान् सर्वः सर्वान् इति ॥ अनुद्धताननुन्नड्डत्वे प्रतिष्ठापयेत् इत्यनुषङ्गः । न गमिकः स्थविर एव, अपि तु अन्ये ऽपि । न च नवकानेव अपि ( विन्सू 49 ) तु अन्यानपीत्यर्थः ॥ (543) संजानीत । गमिकः संघस्थविरः ॥ संघचर्या-ईर्या-उपदेश-उद्देशादिं-भक्तलाभ-ग्लानसंविधानादि-करनीय-संपादनेन अनु[गृ]ह्णीत ॥ चर्या-गोचरः । ईर्यापथ-ईर्या । तयोरुपदेशः, अयं गोचरः अयमगोचरः एवं गन्तव्यमित्यादि । उद्देशादि इत्यत्र स्वाध्यायनिकादीनां आदिशब्देन ग्रहणम् ॥ (544) वर्षोपगतो अनुसंज्ञाय विहारं अप्रतिसंस्कुर्वतः संस्कारयेत्, संस्कुर्वतो अभ्युत्साहयेत् ॥ (545) पर्षद्गतान् सर्वः कथैषितायां अनुलोमिकधर्मोपसंहारेणानुगृह्णीत ॥ स चेत् पर्षद्गताः कथां एषन्ते ततो यो यस्यानुकूलो धर्मोपसंहारः तेन अनुगृह्णीत । सर्वः इति संघस्थविरः, न च वर्षोपगतसंघस्थविर एव ॥ (546) तूष्णीत्वे र[ता]न् उपेक्षेत ॥ तूष्णीभावः तूष्णीत्वम् । आर्यः अत्र तूष्णींभावो ऽभिप्रेतः, न मौनमात्रम् ॥ (547) गृहिणः उपगतान् भक्तान् संविभाजयेत् ॥ युक्तमेषां भक्तं दातुमिति । भिक्षून् बोधयित्वा यदि ते भिक्षवः संघस्थविरेण उक्ताः संविभागं न कुर्वन्ति, ते वा गृहिणो भोक्तुं नेच्छन्ति ततः - ॥ (548) अकरणे अनिष्टौ वा धर्म्यामेतां कथां कृत्वा इदमस्माकं संविद्यते इति ब्रूयात् ॥ (549) पर्षदं तद्वान् सर्वः प्रत्यवेक्षेत ॥ सर्वः पर्षद्वान्, न संघस्थविरः एव इत्यर्थः ॥ (550) मुधाचारिणं निगृह्णीयात् ॥ सर्वः पर्षद्वान् इत्यनुषङ्गः । यथा न वृथा कालमतिनामयति, न निरर्थिकां प्रव्रज्यां करोति तथा कर्तव्यमित्यर्थः ॥ (551) गमनादि अत्र यथा एतत्कुर्यात् ॥ एवं गन्तव्यं, एवं स्थातव्यं इत्यादि संनिवेशापेक्षः ऽआदिऽ-शब्दः ॥ ऽअत्रऽ इति पर्षदि । ऽयथा एतद्ऽ इति
यथा पर्षद्, पर्षदनुरूपं इत्यर्थः ॥ (552) अ-नानातिर्यक्-कथः स्यात् ॥ अत्र इति वर्तते । धर्मविनयादपक्रान्ता ऽपार्श्वेन अस्य वर्तिनी, तिर्यक् कथा, नानाकथाविप्रकीर्णाः ॥ (553-554) न पुरः पश्चाच्छमणो गच्छेत् ॥ न तिष्ठेदिति ॥ पुरतः पश्चात् (वा) श्रमणे न तिष्ठेदित्यर्थ ॥ (555) उक्तो ब्रूयादिति ॥ नानुक्तेन किंचिद्वक्तव्यम् ॥ (556) संपादयेद्वेति ॥ यदस्य उच्यते पुरःश्रमणेन तत्संपादयेत् इत्यर्थः ॥ (557) न अन्तराकथां अवपातयेत् इति ॥ पुरःश्रमणे कथां कुर्वाणे, न अन्तरा-कथां कुर्यादित्यर्थः ॥ (558) अधर्मं भाषमाणं । (इति) पुरःश्रमणं । प्रतिवदेत् ॥ (559-560) धर्मं अनुमोदेत ॥ संपन्नधार्मिकं लाभं प्रतिगृह्णीत ॥ इति पश्चाच्छ्रमणः ॥ एतत्पश्चात्-श्रमणवृत्तम् ॥
(च्) कुलोपसंक्रामी-भिक्षुगतम् ।
कुलोपसंक्रमिणो वृत्तमुच्यते ॥ (561) अनुन्नडः । इति सर्वः । कुले स्यात् अनुन्नडः अनवस्थितः ॥ गृहादपक्रमितुकामता, अनवस्थितत्वम् ॥ (562) अवक्षिप्तचक्षुरिति ॥ विषयेभ्यः प्रतिसंवृतचक्षुरित्यर्थः ॥ (563) धर्म्यां गृहिभ्यः कथां कुर्यात् ॥ ( विन्सू 50 ) (564) दान-दम-संयम-ब्रह्मचर्यवासोपोषध-शरण-गमन-शिक्षापदग्रहणेषु एनान्नियुञ्जीत ॥ एनानिति गृहिणः । दमो वशीकरणम्, वशीकृतत्वं चेन्द्रियाणां कायवाचोश्च संयमो ऽविसरणं एषाम्, विनयनं विनियतावस्थानम् । ब्रह्मचर्यवासश्च इति प्रव्रजितवृत्तम्, गृहित्वे च यावज्जीविका ग्राम्यधर्मात् प्रतिविरतिः ॥ (565) सर्वत्र-आपत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत ॥ स्मृत इति आपत्तिषु इत्यर्थात् गतिः । कुल[प्रवे]शादौ यद्गमनादिप्रस्थानं आपत्ति-उत्थानद्वारभूतं, तत्र तथा स्मृत्रुपस्थाप्या यथा न किंचिदापद्यते ॥ (566) न न-शिष्टः अनुगम इति ॥ प्रतिपद्येत इत्यनुषङ्ग । नानुशिष्टो ऽयं अनुबद्धः, तेन न प्रतिपद्येत । न विलङ्घयेत अस्यानुशासनीमित्यर्थः ॥ (567) एहि इति स्वागतपूर्व-प्रियालाप्यभिगते स्यादिति ॥ एहि इति स्वागतालापी पूर्वं च आगतालपनात् प्रियालापी स्यादित्यर्थः । [अभि]गते इति गृहिणि प्रव्रजिते वा ॥ (568) उत्तानमुखवर्णः । इति अगहनायमानः ॥ (569) स्मितपूर्वंगम इति ॥ स्मितेन प्रथमं गन्ता, सांमुख्यस्य दाता इत्यर्थः ॥ भवति सान्तरे ऽपि प्रस्थाने सस्मितत्वमिति, आह - ॥ (570) विगतभ्रुकुटिःः ॥ (571) गृही चेदभ्यागतः, धर्म्यां अस्मै कथां कुर्यात् ॥ (572) [अनागच्छति अत्र ग्रामान्तिकः संरंजनीयं यथा शाक्ति प्रवर्तयेत्] ॥ [अनागच्छति इति गृहिनि । ग्रामान्तिको भिक्षुः । संरंजनीयं भोजनादिना] यथाशक्ति प्रवर्तयेत् ॥ (573) पानीया ऽसनमुपस्थापयेत् ॥ आरण्यके ऽपि, पानीयं आसनं चेति विग्रहः ॥ (574) संमार्ग-शयनासनप्रज्ञपनपानीयस्थापन-चारण-भक्तनिःसर्गान् नवकः कुर्यात् ॥ यत्र तत्र समागमे समागमे सर्वमेतत्तेन नवकेन कर्तव्यम् ॥ (575) उपगच्छेत् विलोमां परिजनक्रियां, न चेत् स्व-परोपघाताय ॥ उपगच्छेदिति अध्युपेक्षेत । न चेत् अभ्युपगम्यमाना आत्मनः परेसां वा उपधाताय भवति ॥ (576) अस्मै चेत् - ॥ परिजनस्य सा क्रिया उपघाताय चेत् ॥ शक्तौ सत्यां समुच्छिद्य एनां-विलोमां क्रियां अन्याम् ॥ धर्म्यां - ॥ क्रियाम् ॥ उत्पाद्य तथा - ॥ परिजनं ॥ संज्ञापयेत् ॥ (577) भङ्गे ऽप्ररोगे वा तन्निदानं
परिजनस्य प्रतिसंस्करणम् ॥ इति तस्यां धर्म्यायां क्रियायां उत्पाद्यमानायां तस्य परिजनस्य यदि चित्तभङ्गो भवति दुर्मनस्कता ऽप्ररोगे वा अन्येन प्रक्रमणं तस्य प्रतिसंस्करणम् । तथा दानादिना प्रतिसंस्कर्तव्यम् । परिजने यथा ऽस्य एतद् द्वयं न भवतीति ॥ (578) अशक्तत्वे अन्येन प्रक्रमणम् ॥ इति समुच्छेत्तुमशक्तत्वे अन्येन प्रक्रमितव्यम् ॥ (579) न तु तत्प्रत्ययं विगृह्य - ॥ परिजनस्य ॥ ब्रूयात् ॥ (580) संघारामे ऽपराध्यन्स्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत् ॥ (581) अगच्छन्तमनारोच्य सहसा कस्यचित् कुमार-मित्र-अमात्य-भट्ट-राजपुत्रेभ्यः ( विन्सू 51 ) पादमूलिकान् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात् ॥ ग्राहयित्वा इति बोधयित्वा । शुद्धिकापर्षद् यत्र न दण्ड्यते तत्र निहन्यात् पराजयेदित्यर्थः । कुमारादिनां तु यत्प्राग्बोधनं तदेतदर्थम् आपराजितः तदाश्रयेण नापकुर्यात् इत्यर्थः ॥ उक्तं प्रव्रज्यावस्तुसम्बद्धं भिक्षुगतम् ॥
(द्) भिक्षुणीगतम् ।
भिक्षुणीगतमिदानीमुच्यते ॥ तत्र यत् प्रव्रज्योपसंपदोः ऽपुरुषःऽ उक्तं, तदेव स्त्रियामिति अङ्गोकृत्य विशेषः आख्यायते ॥ (582) भिक्षुणी भिक्षुस्थाने ॥ संघैकदेशभूतः [एकभू]तो वा उपाध्यायरोचकादि यत्र भिक्षुरुक्तो भिक्षुनी तत्र द्रष्टव्या इत्यर्थः ॥ किं सर्वस्य भिक्षोः स्थाने ऽथ कस्यचिदित्याह - ॥ (583) सर्वस्य प्रव्रज्यायाम् ॥ प्रव्रज्याविषये सर्वस्य उपाध्यायादेः भिक्षोः स्थाने भिक्षुणी प्रतिपत्तव्या । उपाध्यायिकार्थ आरोचनं, श्रामणेरीसंवरदानं इत्येतत्सर्वं भिक्षुणीभिरेव अनुष्ठातव्यम् । नास्त्यत्र भिक्षोरधिकार [इत्यस्य] तत्-प्रतिपादनम् ॥ (584) उपसंपदि अन्यस्य तद्याचनादौ कर्मकतुः ॥ उपसंपदि न सर्वस्य भिक्षोः स्थाने भिक्षुणी द्रष्टव्या । अपि तु उपसंपद्याचनादौ, यः कर्मकर्ता ततो ऽन्यस्य भिक्षोः स्थाने भिक्षुणी उपसंपद्याचनात्प्रभृति कर्मकारको ऽत्र भिक्षुरेव न भिक्षुणी इति उक्तं भवति । प्राक् तु उपसंपद्याचना[याः] भिक्षुणी कर्मकारिका, या ऽसौ केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थाने संवृतिं ददाति इति ॥ (585) अत्राच[य]स्संघः ॥ अत्र उपसंपदि याचनादौ भिक्षुसंघः ॥ आचयभूतः प्रतिपत्तव्यः । उभयसंघे सन्निपतिते याचनात्प्रभृति कर्म कर्तव्यमित्यर्थः ॥ (586) कथनं भिक्षुण्यान्तरितं आन्तरायिको स्यात् वा ॥ इत्यान्तरायिककथने संघमध्ये क्रियेते - एकं केवलभिक्षुणीसंघमध्ये, ब्रह्मचर्योपस्थान-संवृतिदाननिमित्तद्वयमुभयसंघमध्ये ॥ द्वयस्या ऽपि एष विधिः प्रतिपत्तव्यः । लज्जानिमित्तमेतदुक्तम् - तस्मात् कामचारविज्ञानार्थं आदौ क्रियापद प्रयोगः ॥ (587) शिक्षमाणात्वं नाम स्त्रियामपरं पर्व ॥ श्रामणेरिकात्वं भिक्षुणीत्वं इत्येतत्पर्वद्वयं पुरुषसाधारणम् । इदं तु तृतीयं अस्याः पर्व । तच्च - ॥ (588) निश्रितायामेव ॥ श्रामणेरिकात्व-भिक्षुनीत्वाभ्यां अविशेषतासंदर्शनार्थः ऽएवऽ-शब्दः, यथा इमे पर्वणी । निश्रितायामेवं एतदपीति । अतश्च उपाध्यायिकात्वेन भिक्षुणीं काञ्चिच्च, न तामेव यां श्रामणेरिकार्थं इति प्रतिपत्तिः । तदेवं स्त्रियां त्रित्वमुपाध्यायस्य, पुरुषे तु द्वित्वं इति जातं भवति । कस्यामवस्थायां शिक्षमाणात्वं नाम स्त्रियां अपरं पर्व, कियन्तं वा कालं अस्य चरणं इत्याह - ॥ (589) श्रामणेरिकात्व-भिक्षुणीत्वयोः अन्तराले वर्षद्वयचरणस्य कालः ॥ तावन्तं कालं आचरित्वेन उपसंपादनं इत्येवं कालपरिग्रहो, ( विन्सू 52 ) न अत्रोर्ध्व चरितव्यमेतद् व्रतमिति । तस्मात् न पूर्णत्वे ऽस्य कालस्य प्रागुपसंपत्तेः अशिक्षितव्यं अस्यां शिक्षायाम्,
ध्वंसो वा अस्य संवरस्य इति प्रतिपत्तव्यम् । को ऽस्य शिक्षमाणात्व-प्ररोहस्य काल इत्याह - ॥ (590) तदूनोपसंपत्कालाद्यादिकः प्ररोहस्येति ॥ उपसंपत्कालस्यादिः । स द्वि[वि]धो ऽस्याः । कुमारिकायाः विंशतिवर्षत्वं, गृहोषितायाः द्वादशवर्षत्वम् । तेन चरणकालेन वर्षद्वयेन ऊन-उपसंपत्कालादिना आदिः, [तदूनोपसं पत्कालादिः] अस्य कालस्य सो ऽयं कालः तदूनोपसंपत्कालाद्यादिकः । एषो ऽस्य शिक्षमाणात्वप्ररोहस्य कालः । कुमारिकायाः अष्टादशत्वं वर्षाणां, गृहीषितायाः दशवर्षत्वमित्यर्थः ॥ ग्रन्थो ऽत्र भिक्षुनीविभङ्गे - "या गृहोषिता दश वर्षा, कुमारिकाभूता वा अष्टादशवर्षा । तस्याः द्वे वर्षे शिक्षा संवृतिर्देया" इति ॥ उपसंपत्कालस्य अत्र विघौ अंगीकृतस्य विशेषः आख्यायते - ॥ (591) द्वादशत्वं वर्षाणां उपसंपदि-ऊढतायां आदिः ॥ ऊढतायां कृतावाहनतया कृतविवाहतायां, द्वादशत्वं वर्षाणां उपसंपदि कालस्य आदिः ॥ (592) दानादुत्थानम् । शिक्षमाणात्वस्य इत्यनुषाङ्गः । केन [दा]नादित्याह - ॥ (593) भिक्षुणीसंघेन ॥ कथमित्याह - ॥ (594) शिक्षासंवृतिरिति दानम् ॥ "इयं एवंनामा शिक्षासंवृतिं याचते, यावत्तत्संघः शिक्षासंवृतिं ददाति" इत्येवमादेः मन्त्रस्य एतदुल्लिंगनम् ॥ (595) अनन्तरमस्य शिक्षोत्कीर्तनम् अस्य शिक्षासंवृतिदानस्य अनन्तरं शिक्षायाः उत्कीर्तनम् - षण्णां धर्माणां, षण्णां अनुधर्माणाम् ॥ तत्र षट् धर्माः कतमे -
नै काकिनी प्रव्रजेत् मार्गम् । नदीपारं न संतरेत् ॥
न स्पृशेत् पुरुषं, तेन । नौकागारे सह स्वपेत् ॥
सांचरित्रं तु नो कुर्यात् । अवद्यं छादयेन्न च ॥
इत्येते शिक्षमाणायाः । षट्-धर्माः परिकीर्तिताः ॥
षट् अनुधर्माः कतमे । -
जातरूपं न गृह्णीयात् । न गुह्ये रोम शातयेत् ॥
न खनेत् पृथिवीं चा ऽपि । न छिन्द्यात् हरितं तृणम् ॥
ना ऽप्रतिग्राहितं स्वादेत् । स्वादेत्संनिहितं न च ॥
उक्ता इमे ऽनुधर्माः षट् । शिक्षमाणेषु शिक्षणात् ॥
(596) न अलब्धब्रह्मचर्योपस्थान-संवृतेः उपसंपद् ॥ उपसंपद् अत्र ब्रह्मचर्यम्, तस्योपस्थानं उपजननं, ब्रह्मचर्योपस्थानाय संवृतिः ब्रह्म्चर्योपस्थानसंवृतिः, सा न लब्धा यया सा इयं अलब्धब्रह्मचर्योपस्थानसंवृतिः, तस्याः । उपसंपद् न भवति, [यस्मात्] उपसंपदार्था सैषां संवृतिः । क्षेत्रतायां नियमनं इत्यतो अस्यां अलब्धार्था ( विन्सू 53 ) नोपसंपद् । कदा अस्याः दानम् - (597) रहोनुशासनादूर्ध्वं तद्दानम् ॥ तस्य ब्रह्मचर्योपस्थानसंवृतेः दानम् ॥ केनेत्याह - ॥ (598) संघेन ॥ प्रकृतत्वात् भिक्षुणीसंघेन प्रतिपत्तिः ॥ किं एवमेव अस्या दानमित्याह - ॥ (599) पृष्ट्वा आन्तरायिकम् ॥ तदेवं अस्याः त्रयः आन्तरायिकप्रश्नाः भवन्ति । एको-रहोनुशासिकया भिक्षुण्या, द्वितीयः-केवलभिक्षुणी संघमध्ये ब्रह्मचर्योपस्थान-संवृत्यंगभूतः, तृतीयः उभयसंघे याचितायामुपसंपदि उपसंपदङ्गभूतः । यचनमत्र याचिते । कर्मादानं इत्यतः प्राप्तम्, ततो ऽस्यामपि याचितायामेव दानं युक्तरूपं, इत्याह - ॥ (600) याचितायामिति ॥ याचितायां ब्रह्मचर्योपस्थानसंवृतौ अस्याः ब्रह्मचर्योपस्थानसंवृतेर्दानं, न अयाचितायामित्यर्थः ॥ (601) पंचत्वं चीवरेषु ॥ भिक्षुण्याः त्रिचीवरं, कुसूलकं संकक्षिका च अधिके ॥ (602) निश्रयेषु विवृक्षमूलत्वम् ॥ विवर्जितवृक्षमूलत्वं, वृक्षमूलं वर्जयित्वा अन्ये त्रयो ऽस्याः निश्रयाः ॥ (603) अष्टत्वं पतनीयेषु ॥ ऽस्पर्शः पंजरनिक्षेपः प्रतिच्छादो निवारणंऽ इत्यधिकाश्चत्वारः ॥ (604) गुरुधर्मारोचनम् ॥ अष्टौ गुरुधर्मा आरोचयितव्याः । ते पुनः - "उपसंपद् भिक्षुभ्यः । प्रतिपक्षं चाववादपर्येष्टिः ॥ ना ऽभिक्षुक आवासे । कुत्रचि वर्षोपगमनं च ॥ भिक्षोराप त्सुचोदनम् । अरोषणं वन्दना च नवकस्य ॥ उभयगणात् मानाप्यम् । प्रवारणा चेति गुरुधर्माः ॥ " कस्मिन् काले तदारोचनमित्याह - ॥ (605) पतनीयश्रमणकरकान्तराले ॥ (606) कृत्-षट्के ॥ ऽपूर्वप्रव्रजितेऽ ति - अतो यावत्कृत् इति अस्य यः संज्ञावान् ऽमा ऽसिऽ इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् उपसंपादकाश्च न प्रव्राजयेयुरुपसंपाद[ये]युर्वा इति स प्रतिपत्तव्यः इत्यर्थः ॥ (607) नास्ति अस्याः प्ररोहणधर्मता इति च ॥ एतच्च अत्र विधिषट्कं प्रतिपत्तव्यम् । नाशनं एवंविधस्य लिङ्गिनः इत्येतत्सर्वाधिकारिकत्वात् वक्तव्यम् । पुनरिहेति वेदितव्यम् । कतमत्षट्कमित्याह - ॥ (608)-(613) उभयव्यंजना ॥ संभिन्नव्यंजना ॥ सदाप्रस्रवणी ॥ अलोहिनी ॥ नैमित्तिकी ॥ केयं नैमित्तिकी नाम इत्याह - ॥ निमित्तमात्रभूतव्यंजना तदाख्या ॥ निमित्तमात्रभूतं व्यंजनं यस्याः तस्याः नैमित्तिकीति आख्या, संज्ञा ॥ (614) पूर्वप्रव्रजिता । ऽमा ऽसि उभयव्यंजनाऽ यावत् ऽमा ऽसि पूर्वं प्रव्रजिताऽ इति
प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् ॥ यावत् ऽनास्ति अस्याः प्ररोहणधर्मताऽ इत्येष अत्र नयः प्रतिपत्तव्यः ॥
क्षुद्रकादिप्रव्रज्यावस्तुगतम् ॥
(वि) पृच्छागतम् । (अ) संवर-असंवरौ
(615) न अमनुष्यगतिकौत्तरकौरवकयोः सवरस्य क्षेत्रत्वम् ॥ मनुष्यगतेः अन्यस्यां गतौ उपपन्नः, मनुष्यगतिकत्वे ऽपि औत्तर-कौरवकः [च]; नैषां संवरः ( विन्सू 54 ) आरोहति इत्यर्थः ॥ (616) न तृतीयस्यां परिवृत्तौ व्यंजनस्य ॥ संवरस्य न क्षेत्रत्वमित्यनुबन्धः ॥ यस्य त्रिर्-व्यंजनं परिवर्तते, न तस्य संवरो रोहतीत्यर्थः ॥ (617) न प्रथमद्वयोः ध्वस्तिरिति ॥ न प्रथमद्वितीययोः व्यंजनपरिवृत्योः ध्वंसः संवरस्येत्यर्थः । क्षुद्रकेभ्यः एतद्विधिद्वयं सादृश्याद् हृष्टम् ॥ (618) उत्थानं गृह्यमाणत्वे ॥ समादीयमानत्वे व्यंजनपरिवृत्तौ सत्यां उत्थानं संवरस्य ॥ "उपसंपदापेक्षिणो व्यंजनं परिवर्तते - उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः ॥ आह - अनुपसंपन्नो वक्तव्यः ॥ भिक्षुभ्यो हि भिक्षुण्या उपसंपदा भिक्षुणीभावः पर्येषितव्यः" इति अत्र ग्रन्थः ॥ निदर्शनमत्र पुरुषस्यव्यञ्जनपरिवृत्तिः । निराशङ्क-तरत्वात् अन्यत्वमत्र विधेः । उपसंपद्यमानावस्थो ऽत्र उपसंपत्प्रेक्षी गृहीतः, प्राक्परिवृत्तो भिक्षुमात्रसंनिपातस्य अयोगात् ॥ (619) अनुपाध्यायकतायां तद्वतः ॥ तद्वतः इति उपाध्यायवतः । संवरस्य विना ऽपि उपाध्यायेन भवति उत्थानम् ॥ (620) अनुपसंपन्नत्वे ऽस्य ॥ उपाध्यायस्योप संपन्नत्वे ऽपि उपाध्यायवतः संवरस्य भवत्युत्थानम्? - ॥ (621) न, जानाने ऽस्य अभिक्षुत्वम् ॥ न उत्थानं उपाध्यायवतः संवरस्य जानाने समादातरि अस्योपाध्यायस्य अभिक्षुत्वं अनुपसंपन्नत्वं ध्वस्ततां वा । ग्रन्थो ऽत्र - ऽउपसंपदापेक्षी स्तैन्यसंवासिकेन उपाध्यायेन उपसंपाद्यते, उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः? - । आह - यदि जानीते स्तैन्यसंवासिको मे उपाध्यायः इत्यनुपसंपन्नो वक्तव्यः । यदि न जानाति, उपसंपन्नो वक्तव्यः ॥ एवं पूर्वापन्नकेन उपाध्यायेन"........इत्यादि ॥ आदिव्यग्रकेणागारिकेण उपाध्यायेनेति । ननु च अनुपाध्यायत्वे ऽपि संवरस्योत्थानम्, तत्कथं जानाने अस्या ऽभिक्षुत्वं न भवति, यस्मात् विपन्नो जाना[ती]त्याशयो भवति, शीले ऽनाहतो भवति, अनर्थो वा शीलेन इत्यतः एतदुत्थानम् [इति चेत्, तन्न] । नाजानाति अनुपाध्यायतां यावत्, तस्मात् अविरोधो ऽत्र अनुत्थानस्य ॥ यत्तु उपाध्यायस्य अनुपसंपन्नत्वे संवरस्य उत्थानमुक्तं संघमधिकृत्य एतद्, संघस्यानुपसंपन्नतां जानानेन भवति उत्थानं, न उपसंपत्प्रेक्षी [इति] ॥ (622) नैनं प्रत्याचक्षणे ॥ संवरमुखत्वात् उपाध्यायस्य तद्-प्रत्याचक्षणे नास्ति संवरस्य उत्थानम् ॥ ग्रन्थो ऽत्र - उपसंपद्यमानः उपाद्यायं प्रत्याख्यातं उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः? - आह - अनुपसंपन्नो वक्त[व्य] इति ॥ (623) न अनयोः नाम-अनुद्भावने ॥ अनयोः क्षेत्रोपाध्यायोः समादात्रा [कर्म]कारकेण वा नामानुत्कीर्तने न भवति संवरस्य उत्थानम् ॥ (624) न संघस्य तद्योनेः ॥ समादातृ-कर्मकारकाभ्यां अन्यतरेणा ऽपि संघस्य नाम्नो ऽनुद्भावने, तद्योनेः, संघयोनेः, तद्वंशस्य, संवरस्य न भवत्युत्थानम् ॥ ग्रन्थो ऽत्र - "समादातारं ( विन्सू 55 ) प्रति त्रयः पुद्गलाः अनुपसंपन्नाः, आत्मनो नाम न आचष्टे, उपाध्यायस्य नाम नाचष्टे, उपसंपदं च न जानाति" इति । कर्मकारकं प्रति अयं ग्रन्थः - "त्रयाणां नाम न परिकीर्तयति - उपाध्यायस्य, उपसंपदाप्रेक्षिणः, संघस्य च । उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः इति । [आह - अनुपसंपन्नो वक्तव्य इति] । अप्रत्युपस्थापनमेतद्,
गृहीतत्वेन यदत्र समादातुः आत्मनो नामा ऽनुकीर्तनम् । संघस्यैतद् प्रत्युपस्थापनम् । अनुगृहीतत्वेन यत् संघस्या नेन नामानुद्भावनम् । यद् कर्मकारकेण समादातुः तद्विषयत्वस्य उपनीतेः तदकरणम् । यत्संघस्य संघकर्तृकत्वस्य उपनीतेः तद्करणम् । यदुपाध्यायस्य कर्मकारकेण नामा ऽनुद्भावनं, तदपि संघकर्तृकत्वस्यैव उपनीतेः अकरणम् । यस्मात् यत्र कर्मणि तत्र संघस्य कर्तृत्वप्रतिपत्तिः, ततो ऽन्यस्य तत्कर्मणः करणम् । यदुपाध्यायस्य समादात्रा नामानुद्भावनं, तद् यस्य कर्मणः करणं सोपाध्यायकस्य, न तत्र तस्य विषयत्वेन प्रत्युपस्थानम् । तदनुत्थानं एषां नामानुद्भावने संवरस्य ॥ (625) ना ऽगारिक-तीर्थिकध्वजे ॥ प्रत्येकं ध्वजशब्दस्य परिसमाप्तिः । आगारिकध्वजे तीर्थिकध्वजे इति बहुव्रीहिश्चात्र समासः । आगारिकध्वजो ध्वजो यस्य, तीर्थिकध्वजो ध्वजो यस्य । आभ्यां ध्वजाभ्यां गृहीताभ्यां न भवति संवरस्योत्थानम् । वेषश्चात्र ध्वजः ॥ (626) न नग्नकुपित पुंफालिनीषु ॥ संवरस्योत्थानं इत्यनुषङ्गः । समादानतो नग्नीभूतस्य तीर्थिकध्वजः इति अनेनैव संग्रहात् । अन्यार्थं नग्नग्रहणम्, प्रमुक्तप्रग्रहत्वं अस्यामवस्थायां चित्तस्य इति संवरस्यानुत्थानम् । कुपितत्वे स्थैर्यभङ्गः । पुंफालिणीं तावता भदन्ता उपसंपादयन्ति, उपसंपन्ना वक्तव्या अथ अनुपसंपन्ना? [आह] - अनुपसंपन्ना वक्तव्या । उपसंपादकाश्च सातिसारा इति । पुंफालिनी पुरः यत्संयोगात् पुरुषो म्रियते ॥ (627) न निमित्तविपर्यया ऽनभ्युपेतौ उत्क्षिप्तकस्य ॥ स-दृष्टेः विरति आशयस्य संवरसंपत्तिः, तस्मात् येन निमित्तेन आपत्त्यदर्शनादिना - उत्क्षेपणीयं कर्मकृतं भवति, तद्विपर्यय-अनभ्युपगमे नाष्ति संवरस्य उत्थानम् । निदर्शनमत्र उत्क्षिप्तकः । सर्वप्रणिहितेषु एष विधिः । कलहकरणादि-आशयस्यापि अविरति-आशयत्वात् ॥ (628) दुष्कृतमात्रकं अपूर्व-पर्वतायाम् । विना उपासकत्वेन श्रामणेरत्वोपगतौ, विना श्रामणेरत्वेन भिक्षुत्वोपगतौ दुष्कृतमात्रकं भवति, न अनुत्थानं संवरस्य ॥ ग्रन्थो ऽत्र - "आगारिक-अप्रव्रजितकं उपसंपादयन्ति, उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्य इत्याह - ऽउपसंपन्नः, उपालिन्, उपसंपादकाश्च आपद्यन्ते दुष्कृता [पत्ति]मिति" ॥ (629-630) अयाञ्चायामुपाध्यायस्य अन्तरायिकया ऽप्रश्ने ॥ उभयत्र अत्र दुस्कृतमात्रकम्, न अनुत्थानं ( विन्सू 56 ) संवरस्येत्यनुषरङ्गः ॥ (631) प्रतिज्ञाने ऽस्य असतो दाने ॥ असतो इति असंविद्यमानस्य, समादात्र अन्तरायिकस्य ऽअस्ति मे ऽन्तरायिकम्ऽ इति प्रतिज्ञाने संवरस्य दाने दुष्कृतमाट्रकं, न अनुत्थानम् ॥ निदानेष्वत्र ग्रन्थः - "अन्तरायिकैः तावत् भदन्त धर्मैः समन्वागतम्, ऽसमन्वागतो ऽस्तिऽ इति वदन्तं उपसंपादयन्ति । उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः, आह - ऽउपसम्पन्नःऽ उपसंपादकास्तु सातिसाराः" इति । तद् अत्र अन्तरायिकं अभिप्रेतं व्यवतिष्ठते, यद्विधे तु अहमुपसंपन्नः ॥ (632) न पुरुषानुकृतित्वं स्त्रिया, स्त्र्यनुकृतित्वं च पुरुषस्य व्यंजनान्तरप्रकारः ॥ नात्र अनुत्थानं संवरस्य, एतत्प्रदर्शनं - व्यञ्जनान्तरस्य प्रकारत्वात् अत्रोत्थानं न स्यात् । न चैतदेष भवति
- ॥
(ब्) आक्षिप्तत्वम् ॥
(633) आक्षिप्तत्वमस्य हस्तच्छिन्नादिना । अस्य पुरुषस्य अनुकृतित्वस्य हस्तच्छिन्नाः पादच्छिन्ना इत्यादिना आक्षिप्तत्वम्, आक्षिप्तत्वाच्च दुष्कृतामा[त्रमि]त्युक्तं भवति ॥ (634) पापलक्षण-भिन्नकल्पद्वीपान्तरजयोः ॥ अनयोरपि हस्तच्छिन्नादिना आक्षिप्तत्वमित्यर्थः ॥ "पापलक्षणं उपसंपादयन्ति" [इति] यावदुपसंपन्नो वक्तव्यः । भिक्षवस्तु उपसंपादकाः आपद्यन्ते दुष्कृतामिति" पापलक्षणे ग्रन्थः ॥ [निदान]-द्वीपान्तरजो ऽपि ग्रन्थः - जम्बुद्वीपका भिक्षवः पूर्वविदेहकमुपसंपादयन्ति, उपसपन्नो वक्तव्यः ऽ.......... यावद् - ऽउपसंपन्नः, उपालिन्ऽ । ऽउपसंपदकास्तु सातिसाराःऽ । [इति] विस्तरेण चक्रपेयालं कर्वत्यम् ॥ संस्थान-प्रमाण-दशाभेदो मनुष्याणां यत्र द्वीपे तन्मात्रव्युदाशसवरं अत्र द्वीपग्रहणं व्यवतिष्ठते । एतदत्र भिन्नकल्पग्रहणेन विशेषितमुखादिभेदो ऽपि अत्र कल्पभेदो ऽभिप्रेतः । एवं च एकद्वीपकानामपि एष मुख-कर्णप्रावरणादीनां प्रतिक्षिप्तत्वं वेदितव्यम् ॥ (635) एकनख-समुद्रलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश-अन्तर्बहिर्द्वि-कुब्ज-षट्सहिता ऽनङ्गुलि-पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-अक्षिशाल-शन्त्र-दर्द्रु-विचर्चिक-पीत-अवदात-रक्त-नाडीकर्ण-कण्डु-पिण्ड-स्थूलकच्छु-अण्डलाङ्गूलप्रतिच्छन्न-मूढ-अजिह्व-एकहस्तपाद-[अहस्तपाद]-नीलकेश-हस्त्यश्वश्वगोमेषमृगमत्स्याहि-दीर्घबहुशीर्ष-तालकङ्ठशूलेर्यापथच्छिन्नेभ्यश्च अनाबाधिकानां, ग्लानेन च इतरेषाम् ॥ एकनखादीनां च अधुक्तानां [हस्त]छिन्नादिना आक्षिप्तत्वं, इतरेसां तु आबाधिकानां, ग्लानेन ऽमा ऽसि ग्लानःऽ इत्यनेन आक्षिप्तत्वं इत्यर्थः ॥ एकनखो, यस्य एकमेव नखम् । समुद्रलेखो, यस्य मुद्रायुक्तमिव लेखं शरीरावयवः । पक्षहेतो, यस्य एकं पार्श्वं शुष्कम् । लिङ्गशिरा, यस्य लिङ्गाकारं शिरः । गुल्मकेशो ( विन्सू 57 ) यस्य विदूषकस्य इवा ऽन्तरागुल्मेन अवस्थिताः केशाः । अन्तर्बहिद्विकुब्ज
इति प्रत्येकं कुब्जशब्दस्य परिसमाप्तिः, अन्तः कुब्जो बहीः कुब्जः अन्तर्बहिः कुब्ज इति, उक्तमेतद् अन्यत्र- ऽकाणः, कुणिः, कुब्जो ऽथ, वामऽ इति, प्रभेदसंदर्शनार्थं त्वेतद् । षट्-सहिता ऽनङ्गुलि[रिति] अङ्गुलिशब्दस्य प्रत्येकं परिसमाप्तिः । षड्ङ्गुलिः सहिताङ्गुलिः अनङ्गुलिश्चेति । ष्डङ्गुलित्वं, सहिताङ्गुलित्वं, (अनङ्गु)लित्वमात्रकम् । अङ्गुलिफणाहस्तकत्वेना ऽत्र सक्ताङ्गुलित्वस्य अन्तर्भावः । पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-इति अक्षशब्दस्य प्रत्येक समाप्तिः - पक्षमाक्षः, नकुलाक्षः, किंपिलाक्षः, विपरीताक्षः, मिलिताक्षः, शिक्याक्षः, कश्मीलिताक्षः, अक्षाक्षः । पक्ष्माक्षो, यस्य अक्ष्णो ऽन्तः चर्मपुटे पक्ष्मसंभवः । [नकुलाक्षः यस्य अक्षः नकुलाक्षवत् ।] उलूकाक्षः किंपिलाक्षो [कपिलाक्षाक्षत्वात्] रक्षाक्षः सदृशाक्षो वा । अपाङ्गसमीपवर्ति यो अक्ष्यवयवः स यस्य नासासमीपे, तत्समीपवर्ति च अपाङ्गं समेत्य, असौ विपरीताक्षः । यस्य विगतनासावंशे परस्परं अक्षिणी-संश्लेष्टे, असौ मिलिताक्षः । शिक्याक्षो, यस्य शिक्यवत् अतिलंबिते अक्षिणी । गलितपक्ष्मरोमत्वात् विगलद्रक्तमासवत् अक्ष्णः पर्यन्तो यस्य असौ कश्मीलिताक्षः । अक्षाक्षः इति अक्षयोः अक्षिणी यस्य असौ अक्षाक्षः । अक्षिशाल-शन्त्र दर्द्रु-विचर्चिका इति अक्षिशब्दस्य प्रत्येकं निपातः । अक्षिशालः, अक्षिशन्त्रः, अक्षिदर्द्रुः अक्षिविचर्चिका । अतिविशाले यस्य अक्षिणी असौ विशालाक्षः ॥ पीतावदातरक्तनाडीकर्ण इति कर्णशब्दस्य प्रत्येकं निपातः-पीतकर्णः, अवदानकर्ण,
रक्तकर्णः, नाडीकर्ण इति ॥ कण्डु-पिण्ड-स्थूलकच्छुरिति कच्छुशब्दस्य प्रत्येकं संबन्धः-कण्डुकच्छुः, पिण्डकच्छुः, स्थूलकच्छुरिति ॥ अण्डलाङ्गुलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छनः ॥ मूढ-अजिह्व-एकहस्तपाद इति, मूढ इत्यनेन उपसंपदं न जानातीत्यस्य संगृहीतत्वम् ॥ अजिह्व इति [जिह्वाही]नस्य । मूकवधिर इति मूकग्रःअणेन सत्यां जिह्वायां वक्तुमसमर्थः जिह्वाहीनः, अन्यस्य अजिह्व इति उक्तत्वात् ॥ [एकहस्तपादः इति एकशब्दस्य] हस्तपादशब्दयोः प्रत्येकं संबन्धः - एकहस्तः, एकपादः, अहस्तपाद इति ॥ नीलकेश इति अहरितभूतं नीलं, तस्मात् हरितग्रहणेन नीलस्योक्तत्वम् ॥ हस्ति-अश्व-श्व-गो-मेष-मृग-मत्स्य-अहि-दीर्घ-बहुशीर्ष इति शीर्षशब्दस्य प्रत्येकं अभिसंबंधः - हस्तिशीर्षः अश्वशीर्षः, श्वशीर्षो, गोशीर्षः, मेषशीर्षः, मृगशीर्षः, मत्स्यशीर्षंः, अहिशीर्षः, दीर्घशीर्ष, बहुशीर्षः इति । ऽसर्वनीलः सर्वपीतः सर्वलोहितः सर्वावदातऽ इति एतदपि यत्पठ्यते, एषामपि चतुर्भिः भूतं छवि-वर्णैः इत्युक्तत्वम् ॥ तालकण्ठ[वत्-शूल-]शूलच्छिन्न-ईर्यापथच्छिन्न इति ॥ (636) चौरेण दस्योः ॥ आक्षिप्तत्वमिति अनुषङ्गः । पापवृत्तिरूपता सामान्येन । ननु नैव अस्य अतः पृथक्त्वम्? - भवनि हि अदस्युभूतो ऽपि चौरः ( विन्सू 58 ) सघृणः परहरणः, सर्वेण सर्वं यद्भूयसा यस्य वा अभिप्राणातिपातप्रवर्त्ता । दस्युश्च अचौरभूतः निर्घृणो वध्यघातकादिः । तस्मात् पृथक्त्वमेवास्य भवति ॥
(च्) अनुज्ञा
(637) पितृ-वत् पित्राशयत्वे अनुज्ञायां राजा ॥ पित्राशयत्वेन राज्ञा ऽनुज्ञातः पितृभ्यामेवानुज्ञातो द्रष्टव्यः । राजानुज्ञया प्रव्राजिते [अदोषो] द्रष्टव्यः इति भावः ॥ (638) परिगृहीत्रोः अनुज्ञान-धारणा-आरोचनेषु पितृत्वम् ॥ असत्यपि जनकत्वे मातापितृपरिग्रहेण अवस्थितयोः अनुज्ञाने सप्ताहधारणे संघे च आरोचने [माता-]पितृत्वं, न जनकयोरेव परिगृहीतृत्वेन अवस्थितयोः इत्यर्थः । "पुत्रकृतकं तावत्, भदन्त, उपसंपादयन्ति, कस्य सकाशा[दव]सारितव्यः? - यस्य पुत्रत्वमुपगतः, एवं धीतिकृतिका यस्य धीतित्वं उपगतिका" - इत्यत्र ग्रन्थः ॥ (639) न अमनुष्यगतिकयोः ॥ अनुज्ञानधारणा ऽरोचनेषु पितृत्वं इत्यनुषङ्गः ॥ "यस्य तावत्, भदन्त, मातापितरौ कालगतु भवतः, तिर्यग्योनिगतौ वा, तस्य केशावरोपणाय सर्वसंघो ऽवलोकयितव्यः? - नो हीदं, उपालिन्" इत्यत्र ग्रन्थः ॥ (640) न अतः आनन्तर्योत्थाणम् ॥ अमनुष्यगतिकाभ्यां पितृभ्याम् आनन्तर्योत्थानम् ॥ (641) जनकाभ्यामेतद्, परिवृत्तव्यंजनाभ्यामपि ॥ अपुंस्त्वमपि मातृगतात्वे ऽपि तुष्क स्त्रीत्वं उत्थानमानन्तर्यस्य ॥ (642) एतद्-कृत्वं मातृघातकादौ तत्त्वम् ॥ एतत्कृत्वं आनन्तर्यकृत्वं, यद् माटृघातकादेः प्रव्राजनं प्रतिषिद्धं तत्र आनन्तर्यकृत्वं तत्तु प्रतिपत्तव्यम् । आनन्तर्यकारी न प्रव्राज्यः इत्येवं पुन स्तद् । न सर्वमातृघाटको न प्रव्राज्य इत्येवं च । तिर्यग्योनिगतमातृघातकस्य अप्रतिषिद्धं भवति प्रव्राजनम् ॥
(द्) संकीर्णम्
कस्मिन् भिक्षुण्यां कृते भिक्षुणीदूषकत्वं जातं भवति, भिक्षुण्या ऽपि भिक्षुदूषकत्वं भवति, केनार्थेन एतदुभयमित्याह - ॥ (643) दूषकत्वं अब्रह्मचर्येण स्वादयतोः, अपराजितत्वे ॥ "कियता, भदन्त, भिक्षुणीदूषको वक्तव्यः? - येन अब्रह्मचर्येण, [उपालिन्], भिक्षुणी दूषिता भवति" इति ग्रन्थः । किं यत्तच्चेतसोः अस्योत्थानमित्याह? - स्वदयतोः । गम्य ऽपि दूषकत्वस्योस्थानं, गन्तर्यपि इत्यस्य संदर्शनार्थं अत्र द्विवचनम् । नो तु सहिते प्रतियोगिस्वादनेन दूषकत्वस्य उत्थानम्, इत्यस्य न हि अन्य-प्रदोषेण अन्यस्य संबंधः, इति अनङ्गत्वं अत्र प्रतियोगिस्वादस्य । वीतरागदूषणे च दूषकत्वानुत्थानप्रसंगात् । ऽछन्दशःऽ इति यद्वचनं, एषो ऽत्र आगमः । स्वेच्छया इत्यस्य अर्थः । पाराजितत्वे ऽपि भिक्षु-भिक्षुणीत्वं विद्यते किम्, तदवस्थयोः ना ऽप्यनयोः दूषणे दूषकत्वमित्यत्र ( विन्सू 59 ) आह - अपराजितत्वे । ग्रन्थो ऽत्र - "अष्टौ तावत्, भदन्त, पुद्गला प्रत्येकवस्तुभीः भिक्षुणीं दूषयन्ति । दुष्टा सा भिक्षुणी वक्तव्या? दुष्टा, उपालिन्, वक्तव्या । कतराः तत्र पुद्गला भिक्षुणी-दूषका वक्तव्याः? - आह, न कश्चिदिति । निपातने वा आमर्षणे वा अपराजितत्वं भिक्षुण्या इति हि एतद् अदूषकत्व-विज्ञानम् । कथं तर्हि? - अन्येनार्थेन निपतितायां, निकुब्जयां वा, अस्वीकुर्वत्यां, आमर्षण-परामर्षन-संप्रवेशने, निपात्यापि अस्वीकारे तया निपातनस्य । स्वयं वा संस्पृशन्त्या पुरुषगात्रं, पुरुषस्योपक्रान्तिः ॥ (644) अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषिति ॥ शिक्षां प्रत्याख्याय हीनायां वृत्तायां स्त्रियां व्यंजनपरिवृत्त्या पुंस्त्वोगतौ अर्हत्वं प्रव्रज्योपसंपदोः । न-स्त्रीत्वावस्थायां इव अनर्हत्वं इत्यर्थः ॥ (645) असाधारणं च पाराजयिकं अध्याचरितवत्याम् ॥ ऽअर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषितिऽ - इत्यनुबन्धः ॥ (646) आवासिकानां स्त्रीउपसंपादने अङ्गत्वं ॥ पोषधवस्तु अत्र ग्रन्थः - "यदुक्तं भगवता भिक्षुणी भिः भिक्षूणामन्तिके भिक्षुणीभावः पर्येषितव्यः इति कतमेसां भिक्षूणां आवासिक-नैवासिकानां, उपालिन्", इति । तत्स्थानगता वासस्थं भिक्षुसंघं उपनिश्रित्य भिक्षुणीनां वासः । ततः कालेन कालं अववाद-अनुशासनीमार्गणात्, न च निश्रयातिक्रमो युक्तः इत्येतद् विज्ञानम् । आवासिकत्वमेवात्र विरोपिततरत्वेन
विशिष्यमाणं नैवासिकत्वं व्यवतिष्ठते ॥ (647) ध्वंसो भवत्वस्य [उत्सृ]ष्टौ ॥ भवद्भाव्ये भवत्वं जायमानत्वमित्यर्थः । गृह्यमाणे संवरे तस्य संवरस्य यद्भवत्वं तस्य तदवस्थस्य उत्सृष्टौ प्रत्याख्यानादिना उत्सर्गे ध्वंसो भवति । आवेध एष संवरस्य यज्जायमानत्वम् । न च आनेघस्य प्रत्युदावृत्तिः लङ्घनादौ दृश्यते । तस्मात्, न भवत्यस्या ऽजायमानत्वे संवरस्य प्रत्युदावृत्तिः इति यो मन्येत तन्नाभिनिवृत्त्यर्थ एतत्सूत्रम् । मुक्तकेषु अत्र ग्रन्थः - "उपसंपन्नस्ताबत्, उपालिन्, गृहित्वं प्रतिजानानो अनुपसंपन्नो वक्तव्यः । प्रागेव उपसंपद्य मान इति ॥ पृच्छा प्रायं प्रव्रज्यावस्तुगतम् ॥
विनयवृत्तौ [स्वव्याख्यानतः] प्रव्रज्यावस्तु समाप्तम् ॥
मूल पाठ: Vinayasūtra 1, pravrajyāvastu · Edition: P.V. Bapat and V.V. Gokhale: Vinayasūtra and Auto-commentary on the same by Guṇaprabha [Guṇaprabha viracitaṃ Vinayasūtravṛttyabhidhānasvavyākhyānam]. Patna 1982 (Tibetan Sanskrit Works Series, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0