भाषा

ENहिગુ
ग्रंथ पाठ

विंशतिकाकारिका · श्लोक 1-20

1

॥ नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥
विंशतिकाकारिका (व्क्)
विज्ञप्तिमात्रमेवैतदसदर्थावभासनात् ।
यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम्

2

यदि विज्ञप्तिरनर्था नियमो देशकालयोः ।
सन्तानस्यानियमश्च युक्ता कृत्यक्रिया न च

3

देशादिउनियमः सिद्धः स्वप्नवत् प्रेतवत् पुनः ।
सन्तानानियमः सर्वैः पूयनद्यादिदर्शने

4

स्वप्नोपघातवत् कृत्यक्रिया नरकवत् पुनः ।
सर्वं नरकपालादिदर्शने तैश्च बाधने

5

तिरश्चां सम्भवः स्वर्गे यथा न नरके तथा ।
न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते

6

यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा ।
इष्यते परिणामश्च किं विज्ञानस्य नेष्यते

7

कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते ।
तत्रैव नेष्यते यत्र वासना किं नु कारणम्

8

रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति ।
अभिप्रायवशादुक्तमुपपादुकसत्त्ववत्

9

यतः स्वबीजाद् विज्ञप्तिर्यदाभासा प्रवर्तते ।
द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत्

10

तथा पुद्गलनैरात्म्यप्रवेशो हि ह्यन्यथा पुनः ।
देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना

11

न तदेकं न चानेकं विषयः परमाणुशः ।
न च ते संहता यस्मात् परमाणुर्न सिध्यति

12

षट्केन युगपद्योगात् परमाणोः षडंशता ।
षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः

13

परमाणोरसंयोगे तत्सङ्घाते ऽस्ति कस्य सः ।
न चानवयवत्वेन तत्संयोगो न सिध्यति

14

दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते ।
छायावृती कथं वान्यो न पिण्डश्चेन्न तस्य ते

15

एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रहौ ।
विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत्

16

प्रत्यक्षबुद्धिः स्वप्नादौ यथा सा च यदा तदा ।
न सो ऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम्

17

उक्तं यथा तदाभासा विज्ञप्तिः स्मरणं ततः ।
स्वप्ने दृग्विषयाभावं नाप्रबुद्धो ऽवगच्छति

18

अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः ।
मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम्

19

मरणं परविज्ञप्तिविशेषाद् विक्रिया यथा ।
स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात्

20

कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः ।
मनोदण्डो महावद्यः कथं वा तेन सिध्यति

मूल पाठ: Viṃśatikākārikā · Edition: Ramshankar Tripathi: Vijnaptimatratasiddhi prakarana dvayam. Varanasi : Sampurnananda Sanskrit University, 1992. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc