भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनीकारिका · भाग 14

विग्रहव्यावर्तनी-कारिका ॥
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् ।
त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् ॥ नग्व्व्य्_01
अथ सवभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ नग्व्व्य्_02
मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् ।
शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्य ॥ नग्व्व्य्_03
प्रतिषेधप्रतिषेधो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव ।
एवं तव प्रतिज्ञा लक्षङतो दूष्यते न मम ॥ नग्व्व्य्_04
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् ।
तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ नग्व्व्य्_05
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च ॥ नग्व्व्य्_06
कुशलानां धर्मावस्थाविदश् च मन्यन्ते ।
कुशलं जनाः स्वभावं शेषेष्व् अप्य् एष विनियोगः ॥ नग्व्व्य्_07
नैर्याणिकस्वभावो धर्मा नैर्याणिकाश् च ये तेषाम् ।
धर्मावस्थोक्तानाम् एवं अनैर्याणिकादीनाम् ॥ नग्व्व्य्_08
यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवम् ।
नामापि भवेन् नैवं नाम हि निर्वस्तुकं नास्ति ॥ नग्व्व्य्_09
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुम् ॥ नग्व्व्य्_10
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् ।
दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात् ॥ नग्व्व्य्_11
अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन ।
वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः ॥ नग्व्व्य्_12
बालानां इव मिथ्या मृगतृष्नायां यथाजलग्राहः ।
एवं मिथ्याग्राहः स्यात् ते प्रतिषेध्यतो ह्य् असतः ॥ नग्व्व्य्_13
नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यं च तद्ग्रहीता च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ नग्व्व्य्_14
अथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु स सन्ति ॥ नग्व्व्य्_15
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश् च यद्युत न सन्ति ।
सिद्धा हि सर्वभावास् तेषम् एव स्वभावश् च ॥ नग्व्व्य्_16
हेतोश् च ते न सिद्धिर् नैःस्वाभाव्यात् कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य ॥ नग्व्व्य्_17
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ नग्व्व्य्_18
अथ हेतोर् अस्तित्वं भावास्वाभाव्यम् इत्य् अनुपपन्नम् ।
लोकेषु निःस्वभावो न हि कश् चन विद्यते भावः ॥ नग्व्व्य्_19
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इत्य् अनुपपन्नम् ।

पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावः सन् ॥ नग्व्व्य्_20
हेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि ।
मनु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् ॥ नग्व्व्य्_21
यश् च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता ।
यश् प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् ॥ नग्व्व्य्_22
निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ।
प्रतिषेधयेत यद्वत् प्रतिषेधो ऽयं तथैव स्यात् ॥ नग्व्व्य्_23
न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे ।
नास्ति च वैषमिकत्वं विशेषहेतुश् च न निगद्यः ॥ नग्व्व्य्_24
मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया समारब्धः ।
शब्देन हि तच् छब्दस्य वारणं नैवम् एतच् च ॥ नग्व्व्य्_25
नैःस्वाभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि ।
नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ नग्व्व्य्_26
अथ वा निर्मितकायां यथा स्त्रियां स्त्रीयम् इत्य् असद्ग्राहम् ।
निर्मितकः प्रतिहन्यात् कस्य चिद् एवं भवेद् एतत् ॥ नग्व्व्य्_27
अथ वा साध्यसमो ऽयं हेतुर् न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ नग्व्व्य्_28
यदि का चन प्रतिज्ञा स्यान् मे तत एष मे भवेद् दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः ॥ नग्व्व्य्_29
यदि किं चिद् उपलभेयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः ॥ नग्व्व्य्_30
यदि च प्रमाणतस् ते तेषां तेषां प्रसिद्धिर् अर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ नग्व्व्य्_31
अन्यैर् यदि प्रमाणैः प्रमाणसिद्धिर् भवेत् तद् अनवस्था ।
नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य ॥ नग्व्व्य्_32
तेषाम् अथ प्रमाणैर् विना प्रसिद्धिर् विहीयते वादः ।
वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः ॥ नग्व्व्य्_33
विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः ।
न हि तस्यानुपलब्धिर् दृष्टा तमसीव कुम्भस्य ॥ नग्व्व्य्_34
यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः ।
परम् इव नन्व् आत्मानं स्वं परिधक्ष्यत्य् अपि हुताशः ॥ नग्व्व्य्_35
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः ।
प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ नग्व्व्य्_36
नास्ति तमश् च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः ।
कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः ॥ नग्व्व्य्_37
उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः ।
उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ नग्व्व्य्_38
अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् ।
सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थितो हन्यात् ॥ नग्व्व्य्_39
यदि स्वतश् च प्रमाणसिद्धिर् अनपेक्ष्य तव प्रमेयाणि ।

भवति प्रमाणसिद्धिर् न परापेक्षा स्वतःसिद्धिः ॥ नग्व्व्य्_40
अनपेक्ष्य हि प्रमेयान् अर्थान् यदि ते प्रमाणसिद्धिर् इति ।
न भवन्ति कस्य चिद् एवम् इमानि तानि प्रमाणानि ॥ नग्व्व्य्_41
अथ मतम् अपेक्ष्य सिद्धिस् तेषाम् इत्य् अत्र भवति को दोषः ।
सिद्धस्य साधनं स्यान् नासिद्धो ऽपेक्षते ह्य् अन्यत् ॥ नग्व्व्य्_42
सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवति प्रमेयसिद्धिर् नापेक्ष्यैव प्रमाणानि ॥ नग्व्व्य्_43
यदि च प्रमेयसिद्धिर् नापेक्ष्यैव भवति प्रमाणानि ।
किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ नग्व्व्य्_44
अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ नग्व्व्य्_45
अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च ।
भवति प्रमाणसिद्धिर् नास्त्य् उभयस्यापि ते सिद्धिः ॥ नग्व्व्य्_46
सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एव ।
साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति ॥ नग्व्व्य्_47
सिध्यन्ति च प्रमेयैर् यदि प्रमाणानि तानि तैर् एव ।
साध्यानि च प्रमाणैस् तानि कथं साधयिष्यन्ति ॥ नग्व्व्य्_48
पित्रा यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ नग्व्व्य्_49
कश् च पिता कः पुत्रस् तत्र त्वं ब्रूहि ताव् उभाव् अपि च ।
पितृपुत्रलक्षणधरौ यतो भवति नो ऽत्र संदेहः ॥ नग्व्व्य्_50
नैव स्वतः प्रसिद्धिर् न परस्परतः परप्रमाणैर् वा ।
न भवति न च प्रमेयैर् न चाप्य् अकस्मात् प्रमाणानां ॥ नग्व्व्य्_51
कुशलानां धर्माणां धर्मावस्थाविदो ब्रुवीरन् यत् ।
कुशलं स्वभावम् एवं प्रविभागेनाभिधेयः स्यात् ॥ नग्व्व्य्_52
यदि च प्रतीय कुशलः स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणां परभावः स्वभाव एवं कथं भवति ॥ नग्व्व्य्_53
अथ न प्रतीत्य किं चित् स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणम् एवं स्याद् वासो न ब्रह्मचर्यस्य ॥ नग्व्व्य्_54
नाधर्मो धर्मो वा संव्यवहाराश् च लौकिका न स्युः ।
नित्याश् च सस्वभावाः स्युर् नित्यत्वाद् अहेतुमतः ॥ नग्व्व्य्_55
एवम् अकुशलेष्व् अव्याकृतेषु नैर्याणिकादिषु च दोषः ।
तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एव ॥ नग्व्व्य्_56
यः सद्भूतं नामात्र ब्रूयात् सस्वभाव इत्य् एवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत् ॥ नग्व्व्य्_57
नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उताप्य् असतः ।
यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः ॥ नग्व्व्य्_58
सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् ।
स उपालम्भस् तस्माद् भवत्य् अयं चाप्रतिज्ञायाः ॥ नग्व्व्य्_59
अथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् ।

आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च ॥ नग्व्व्य्_60
सत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धम् इदम् ।
प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ नग्व्व्य्_61
प्रतिषेधयसे ऽथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः ॥ नग्व्व्य्_62
प्रतिषेधयामि नाहं किं चित् प्रतिषेध्यम् अस्ति न च किं चित् ।
तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियते ॥ नग्व्व्य्_63
यच् चाहर्ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति ।
अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति ॥ नग्व्व्य्_64
मृगतृष्णादृष्टान्ते यः पुनर् उक्तस् त्वया महांश् चर्चः ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ नग्व्व्य्_65
स यदि स्वभावतः स्याद् ग्राहो न स्यात् प्रतीत्य संभूतः ।
यश् च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ नग्व्व्य्_66
यदि च स्वभावतः स्याद् ग्राहः कस् तं निवर्तयेद् ग्राहम् ।
शेषेष्व् अप्य् एष विद्धिस् तस्माद् एषो ऽनुपालम्भः ॥ नग्व्व्य्_67
एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् ।
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ नग्व्व्य्_68
यस् त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वम् एव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश् च शून्यतावादिनां प्राप्तः ॥ नग्व्व्य्_69
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः ।
प्रभवति न तस्य किं चिन् न प्रभवति शून्यता यस्य ॥ नग्व्व्य्_70
यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदं च ।
एकार्थां निजगाद प्रणमामि तम् अप्रतिमबुद्धम् ॥ नग्व्व्य्_71
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
चोप्य्रिघ्त् (च्) 2003 ब्य् छ्र्. लिन्द्त्नेर् - देन्मर्क्
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

मूल पाठ: Vigrahavyāvartanīkārikā · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc