भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 44-2

44-2.44.1

॥सूत उवाच ॥
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् ।
श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम्

44-2.44.2

निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः।
पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम्

44-2.44.3

कुलाचलानां सप्तानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ

44-2.44.4

विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः।
अशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः

44-2.44.5

तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः।
कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः

44-2.44.6

तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः।
नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः

44-2.44.7

ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि।
अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः

44-2.44.8

तेषां सनामधेयानि राष्ट्राणि विविधानि च।
गिर्य्यन्तरनिविष्टानि समेषु विषमेषु च

44-2.44.9

यथैह कथिताः पौरा गोमनुष्यकपोतकाः।
तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः

44-2.44.10

सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः.
कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा

44-2.44.11

करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः।
श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः

44-2.44.12

अत्याकरालगोज्वाला हीनानावनपातकाः।
महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः

44-2.44.13

शु(नका) कनासा महानासा वनासगजभूमिकाः।
करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः

44-2.44.14

कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः।
वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः

44-2.44.15

पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः।
गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः

44-2.44.16

ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्।
सुवप्रां पुण्यसलिलां महानागनिषेविताम्

44-2.44.17

कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्।
विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि

44-2.43.18

भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्।
भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम्

44-2.44.19

दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्।
चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम्

44-2.44.20

नदीं समुद्रमालाञ्च तथा चम्पावतीमपि।
एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि

44-2.44.21

कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् ।
सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम्

44-2.44.22

पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्।
महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम्

44-2.44.23

एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः ।
देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः

44-2.44.24

नानाजनपदास्फीतं महापगाविभूषितम्।
नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम्

44-2.44.25

उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः।
सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ।
निसर्गः केतुमालानामेष वः परिकीर्त्तितः

44-2.44

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्वत्वारिंशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc