भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 40-2

40-2.40.1

॥सूत उवाच॥
मर्य्यादापर्वते शुभ्रे देवकूटे निबोधत।
विस्तीर्णे सिखरे तस्य कूटे गिरिवरस्य ह

40-2.40.2

समन्ताद्योजनशतं महाभवनमण्डितम्।
जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः

40-2.40.3

नैकैर्महा पक्षिगणैर्गारुडैः शीग्रविक्रमैः।
सम्पूर्णवीर्यसम्पन्नैर्दमनैरुरगारिभिः

40-2.40.4

पक्षिराजस्य भवनं प्रथमं तन्महात्मनः।
महावायुप्रवेशस्य शाल्मलि द्वीपवासिनः

40-2.40.5

तस्यैव चारुमूर्ध्नस्तु कूटेषु च महर्द्धिषु।
दक्षिणेषु विचित्रेषु सप्तस्वपि तु शोभिनः

40-2.40.6

सन्ध्याभ्राभाः समुदिता रुक्मप्राकारतोरणाः।
महाभवनमालाभिः शोभिता देवनिर्मिताः

40-2.40.7

त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः।
सप्त गन्धर्वनगरा नर नारीसमाकुलाः

40-2.40.8

आग्नेया नाम गन्धर्वा महाबलपराक्रमाः।
कुबेरानुचरा दीप्तास्तेषान्ते भवनोत्तमाः

40-2.40.9

तस्य चोत्तरकूटेषु भुवनस्य महागिरेः।
हर्म्यप्रासादबद्धं च उद्यानवनशोभितम्

40-2.40.10

पुरमाशीविषैः पुर्णं महाप्राकारतोरणम्।
वादित्रशतनिर्घोषैरानन्दितवनान्तरम्

40-2.40.11

दुष्प्रसह्यममित्राणां त्रिंशद्योजनमण्डलम्।
नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम्।
सिद्धदेवर्षिचरितं देवकूटे निबोधत

40-2.40.12

द्वितीये द्विजशार्दूल मर्य्यादापर्वते शुभे।
महाभवनमालाभिर्नानावर्णाभिरावृतम्

40-2.40.13

सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् ।
विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम्

40-2.40.14

नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् ।
षष्टियोजनविस्तीर्णं शतयोजनमायतम्

40-2.40.15

नगरं कालकेयानामसुराणां दुरासदम्।
देवकूटतटे रम्ये सन्निविष्टं सुदुर्जयम्।
महाभ्रचयसङ्काशं सुनासन्नाम विश्रुतम्

40-2.40.16

तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम्।
द्विषष्टियोजनायामं हेमप्राकारतोरणम्

40-2.40.17

हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम्।
औत्कचानां प्रमुदितं राक्षसानां महापुरम्

40-2.40.18

मध्यमे तु महाकूटे देवकूटस्य वै गिरेः ।
सुवर्णमणिपाषाणैश्चित्रैः श्लक्षणतरैः शुभैः।
शाखाशतसहस्राद्यैर्नैकारोहसमाकुलम्

40-2.40.19

स्रिग्ध पर्णमहामूलमनेकस्कन्धवाहनम्।
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम्

40-2.40.20

तत्र भूतवटन्नाम नानाभूतगणालयम्।
महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः।
दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम्

40-2.40.21

वराहगजसिंहर्क्षशार्दूलकरभाननैः।
गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः

40-2.40.22

कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः।
नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः

40-2.40.23

दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः।
अशून्यमभवन्नित्यं महापारिषदैस्तथा

40-2.40.24

तत्र भूतपतेर्भूता नित्यम्पूजां प्रयुञ्जते।
झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः

40-2.40.25

रणितालसितोद्गीतै र्नित्यं वलितवर्जितैः।
विस्फूर्ज्जितशतैस्तत्र पूजायुक्ता गणेश्वराः।
प्रीताः पुरारिप्रमथास्तत्र क्रीडापराः सदा

40-2.40.26

सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्र पूजितः।
स्थाने तस्मिन् महादेवः साक्षाल्लोकशिवः शिवः

40-2.40

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चत्वारिंशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc