भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 37-2

37-2.37.1

॥सूत उवाच॥
शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु।
द्रोण्यो विहङ्गसङ्घुष्टा नानासत्त्वनिषेविताः

37-2.37.2

त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः।
सुरसामलपानीयरम्यं तत्र सरोवरम्

37-2.37.3

द्रोण्यायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः।
सहस्रशतपत्रैर्हि महापद्मैरलंकृतम्

37-2.37.4

महोरगैरध्युषितं महाभोगैर्दुरासदैः।
देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम्

37-2.37.5

पुण्यं तच्छ्रीसरो नाम प्रकाशं दिवि चेह च।
प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम्

37-2.37.6

तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह।
कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम्

37-2.37.7

नित्यं व्याकोशमजरं चाञ्चल्याच्चातिमण्डलम्।
चारुकेशरजालाढ्यं मत्तषट्‌पदनादितम्

37-2.37.9

तस्मिन् पद्मे भगवती साक्षाच्छ्रीर्नित्यमेव हि।
लक्ष्म्याः पद्मं तदावासं मूर्त्तिमत्या न संशयः ॥ ३७..८ ॥
सरसस्तस्य पूर्वस्मिन् तीरे सिद्धनिषेवित।
सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत्

37-2.37.10

शतयोजनविस्तीर्णं त्रियोजनशताय तम्।
अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः

37-2.37.11

शाखासहस्रकलितैर्महास्कन्धैः समाकुलम्।
फलैः सुवर्णसङ्काशैर्हरितैः पाण्डरैस्तथा

37-2.37.12

अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः।
शीर्यमाणैः पतद्भिश्च कीर्णा भूमिर्निरन्तरा

37-2.37.13

नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम्।
गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम्

37-2.37.14

सिद्धैश्चैव समाकीर्णं नित्यं बिल्वफलाशिभिः।
विविधैर्भूतसङ्घैश्च नित्यमेव निषेवितम्

37-2.37.15

तस्मिन् वने भगवती साक्षाच्छ्रीर्नित्यमेव हि।
देवी सन्निहिता तत्र सिद्धसङ्घैर्नमस्कृता

37-2.37.16

विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे।
शतयोजनविस्तीर्णं द्वियोजनशतायतम्

37-2.37.17

विपुलञ्चम्पकवनं सिद्धचारणसेवितम्।
पुष्पलक्ष्म्यावृतं भाति ज्वलन्तमिव नित्यदा

37-2.37.18

अर्द्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिभिः ।
प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम्

37-2.37.19

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तरैः ।
मनः शिलाचूर्णनिभैः पाण्डुकेसरशालिभिः

37-2.37.20

पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः।
विराजते वनं सर्वं मत्तभ्रमरनादितम्

37-2.37.21

तद्वनं दानवैर्देवगन्धर्वैर्यक्षराक्षसैः।
किन्नरैरप्सरोभिश्च महानागैश्च सेवितम्

37-2.37.22

तत्राश्रमं भगवतः कश्यपस्य प्रजापतेः।
सिद्धसाध्यगणा कीर्णं नानाश्रुतिविभूषितम्।
महानीलकुमुञ्जाभ्यामन्तरेप्यचलावथ

37-2.37.23

महानद्याः सुखायास्तु तीरे सिद्धनिषेविते।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम्।
रम्यं तालवनं तद्धि अर्द्धक्रोशोच्चमस्तकम्

37-2.37.24

महामूलैर्महासारैः स्थिरैरविरलैः शुभैः।
कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महा फलैः।
मृष्टगन्धरसोपेतैरुपेतं सिद्धसेवितम्

37-2.37.25

माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः।
ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतः

37-2.37.26

वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च।
सहस्रयोजनायामं विस्तीर्णं शतयोजनम्

37-2.37.27

वृक्षगुल्मलतागुच्छैः सर्ववीरुद्भिरीरितम्।
दूर्वाप्रस्तारमेवाथ सर्वसत्वविवर्जितम्

37-2.37.28

तथा निषधशैलस्य देवशैलस्य चोत्तरे।
सहस्रयोजनायामा शतयोजनविस्तृता

37-2.37.29

सवांह्येकशिला भूमिर्वृक्षवीरुद्विवर्जिता।
आप्लुता पादमात्रेण ह्युदकेन समन्ततः

37-2.37.30

इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः।
मेरोः पूर्वेण विप्रेन्द्रा यथावदनुपूर्वशः

37-2.37

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc