भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 17-2

17-2.17.1

॥ वायुरुवाच ॥
आश्रमत्रयमुत्सृज्य प्राप्तस्तु परमाश्रमम्।
अतः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम्

17-2.17.2

अनुज्ञाप्य गुरूंचैव विचरेत् पृथिवीमिमाम्।
सारभूतमुपासीत ज्ञानं यज्ज्ञेय साधकम्

17-2.17.3

इदं ज्ञानमिदं ज्ञेयमिति यस्तुषितश्चरेत् ।
अपि कल्पसहस्रायुर्न्नैव ज्ञेयमवाप्नुयात्

17-2.17.4

त्यक्तसङ्गो जितकोधो लघ्वाहारो जितेन्द्रियः।
पिधाय बुद्ध्या द्वाराणि ध्याने ह्येवं मनो दधेत्

17-2.17.5

शून्येष्वेवावकाशेषु गुहासु चवने तथा।
नदीनां पुलिने चैव नित्यं युक्तः सदा भवेत्

17-2.17.6

वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः।
यस्यैते नियता दण्डाः स त्रिदण्डी व्यवस्थितः

17-2.17.7

अवस्थितो ध्यानरतिर्जितेन्द्रियः शुभाशुभे हित्य च कर्मणी उभे ।
इदं शरीरं प्रविमुच्य शास्त्रतो न जायते म्रियते वा कदाचित्

17-2.17

इति श्रीमहापुराणे वायुप्रोक्ते परमाश्रमप्राप्तिकथनं नाम सप्तदशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc