भाषा

ENहिગુ
ग्रंथ पाठ

वसुधाराधारणी-गिल्गित् · भाग 11

वसुधाराधारणी
एवं मया श्रुतम् एकसमये भगवान् कौशाम् ब् यां विहरति स्म । कण्टकसंज्ञके महावनवरे महता भिक्षुसंघेन सार्ध ं पंचमात्रैर् भिक्षुशतैः संबहुलैश् च बोधिसत्वैर् महासत्वैः सर्वबुद्धधर्मगुणसमन्वागतैः
तेन खलु पुनः समयेन कौशाम् ब् यां महानगर्यां सुचन्द्रो नाम गृहपतिः प्रतिवसति स्म । उपशान्तेन्द्रियो उपशान्तमानसः बहुपुत्रो बहुदुहित्रिको बहुभृत्यपरिजनसंपन्नः श्राद्धो महाश्राद्धः स येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् अनेकशतसहस्रकृत्व ः प्रदक्षणीकृत्यैकान्ते न्यषीदत्* एकान्तनिषण्णः सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्*
पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कंचि त् प्र देशं प्रष्टुं । सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय ॥ एवम् उक्ते भगवान् सुचन्द्रं गृहपतिम् एतद् अवोचत्* पृच्छ त्वं गृहपते यद् यद् एवाकांक्षस्य् अहं ते यथा पृ ष्टेन [ग्ब्म् 1427(fओल्. 35व्)1] चित्तम् आराधयिष्ये । एवम् उक्ते सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्* कथं भगवन् कुलपुत्रो वा कुलदुहिता वा दरिद्रो भूत्वा अदरिद्रो भवति व्याधितश् च भूत्वा अव्याधितो भवति ॥
अथ खलु भगवां जानन्न् एव सुचन्द्रं गृहपतिम् एतद् अवोचत्* किम् इति त्वं गृहपते अदरिद्रताया प्रश्नं पृच्छसि ॥ एवम् उक्ते सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्* दरिद्रो ऽहं भगवन् बहुपोष्यो बहुपुत्रो बहुदुहित्रिकस् तद् देशयतु भगवांस् तं धर्मपर्यायं येन दरिद्रा ः सत्वा अदरिद्रा भवेयुः बहुधनधान्यकोशकोष्टागारसंपन्नाश् च भवेयुः पृया मनापा मनोज्ञदर्शनाश् च भवेयुः दानपतयो महादानपतयः अक्षीणहिरण्यसुवर्णधनधान्यरत्नकोशकोष्टागारमणिमुक्तावज्रशंखशिलाप्रवाडजातरूपरजतसमृद्धाश् च भवेयुः सुप्रतिष्ठितगृहपुत्रदारकुटुंबाश् च भवेयुः
एवम् उक्ते भगवां सुचन्द्रं गृहपतिम् एतद् अवोचत्* भूतपूर्वं गृहपते अतीत
ग्ब्म् 1286(fओल्. (36)र्)1 ॥। सम य् ए न भगवां वज्रधरसागरनिर्घोषो नाम तथागतो ऽर्हन् सम्यक्संबु द् ध् ओ ॥।
2 ॥। म्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवां तस्य तथागतस्यान्तिका .. ॥।
3 ॥। ता धारिता वाचिता पर्यवाप्ता अनुमोदिता परेभ्यश् च विस्तरेण संप्रका .. ॥।
4 ॥। .. ने मानुषा न विहेठयन्ति । अमानुषा न विहेठयन्ति । यक्षा न वि ह् ए ॥।
5 ॥। .. ठयन्ति । एवं कुंभाण्डा औस्तारका पूतना कटपूतना यातुधाना न + + ॥।
6 ॥। हारा रसाहारा जाताहारा स्यन्दनिकाहारा न विहेठयन्ति । यस्येतं गृह ॥।
ग्ब्म् 1287(fओल्. (36)व्)1 ॥। .. श्रुतिगता । पर्यवाप्ता वाचिता । धारिता अनुमोदिता परेभ्यश् च विस्तरेण संप्रकाशि
2 ॥। ताय सुखाय क्षेमाय सुभिक्षाय । योगक्षेमाय भविष्यति । यश् चैना ं वसुधा
3 ॥। अर्धरात्रे स् त्रिधा वा चतुर्वारान् अस्य देवता आत्तमनस्का स्वयम् आगम्य धान्यवृष्टिं पात
4 ॥। प्रीता संघप्रज्ञप्त्या प्रीता धर्मभाणकस्याशयेन ॥ नमो वज्रधरसागरनिर्घो
5 ॥। + .. मे अचफमे अचपमे । उद्घातनि । उद्भेदनि । उच्छेदनि । सस्यवति धान्य
6 ॥। + + + + + सुरूपे अमले अननस्ते विननस्ते विश्वकेशि । पंकुरे संकुरे ।
[ग्ब्म् 1428(fओल्. 37र्)1] खखरे खखमे । धुधुमे । तर तर तर । वज्र वज्र वज्रोपमे कटे कटे । उक्के नुक्के वर्षणी निष्पादनि । वज्रधरसागरनिर्घोषं तथागतम् अनुस्मर । स्मर स्मर । सर्वतथागतसत्यम् अनुस्मर । संघसत्यम् अनुस्मर । तट तट । पूर पूर । पूरय पूरय । सर्वाशा मम दामसिंघस्य भर भरणे । सुमंगले शान्तमति । महामति मंगलमति । सुभद्रमति । आगच्छ समयम् अनुस्मर स्वाहा ॥ आचरणम् अनुस्मर स्वाहा ॥ आधारणम् अनुस्मर स्वाहा ॥ प्रभावम् अनुस्मर स्वाहा ॥ धृतिम् अनुस्मर स्वाहा ॥ विजयम् अनुस्मर स्वाहा ॥ सर्वसत्वविजयम् अनुस्मर स्वाहा ॥ इयं सा गृहपते वसुधारा नाम धारणी अस्या धारण्यानुभावेन रोगदुर्भिक्षमरकान्तारादयो न प्रभवन्ति यस् तु गृहपते इमानि वसुधाराधारणीमन्त्रपदानि तथागतानाम् अर्हतानां सम्यक्संबुद्धानां पूजां कृत्वा एकरात्रम् आवर्तये तस्य महापुरुषमात्रया धारया गृह म् [ग्ब्म् 1429(fओल्.37व्)1] अभिपरिपूरये । सर्वधान्यै ः सर्वोपकरणैः सर्वोपद्रवांश् च नाशयति तेन हि त्वं गृहपते उद्गृह्णीष्वेमां वसुधाराधारणी ं धारय वाचय देशय । परेभ्यश् च विस्तरेण संप्रकाशय । तत् ते भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखायेति साधु भगवन्न् इति । सुचन्द्रो गृहपतिर् भगवतो ऽन्तिकाद् इमा ं वसुधाराधारणी ं श्रुत्वा हृष्टस् तुष्ट उदग्र आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो भगवतश् चरणयोर् निपत्य भगवन्तम् एतद् अवोचत्* उद्गृहीता मे वसुधाराधारणी प्रह्वीकृता धारिता वाचिता पर्यवाप्ता इदानी ं परेभ्यो विस्तरेण संप्रकाशयिष्यामि । अथ खलु सुचन्द्रो गृहपति र् भगवन्तम् अनेकशतसहस्रकृत्व ः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्त ं पुनर् अनवलोक्य भगवतो ऽन्तिकात् प्रक्रान्तः

अथ खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छ त्वम् आनन्द सुचन्द्रगृहपतेर् निवेशनं गत्वा चाकारं पश्य परिपूर्णं धनधान्यसमृद्धं रत्नसमृद्धं च । [ग्ब्म् 1430(fओल्. 38)र्1] सर्वोपकरणैश् च महाकोशकोष्टागाराणि परिपूर्णानि । अथायुष्मान् आनन्दः सुचन्द्रस्य गृहपतेर् निवेशनं दृष्ट्वा विस्मितः प्रीतिसौमनस्यजातो भगवन्तम् एतद् अवोचत्* को भगवन् हेतुः कः प्रत्ययो येन सुचन्द्रो गृहपतिर् महाधनो महाभोगो महाकोशकोष्टागारसमृद्धः संवृत्तः । भगवान् आह । श्राद्धः आनन्द सुचन्द्रो गृहपतिः परमश्राद्धः कल्याणाशयो धारिता चानेन वसुधाराधारणी प्रवर्तिता उद्गृहीता वाचिता । पर्यवाप्ता परेभ्यश् च विस्तरेण संप्रकाशिता । तेन ह्य् आनन्द त्वम् उद्गृह्णीष्वेमां वसुधाराधारणीं धारय ग्राहय । वाचय । पर्यवाप्नुहि । परेभ्यश् च विस्तरेण संप्रकाशय । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायैर् महतो जनकायस्यार्थाय हिताय सुखाय देवमनुष्याणां । नाहम् आनन्द समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकाया ं प्रजा या ं । [ग्ब्म् 1431(fओल्. 38)व्1] सदेवमानुषासुराया ं इमां धारणीम् अन्यथा करिष्यति । अतिक्रमिष्यति वा नैतत् स्थानं विद्यते । तत् कस्य हेतोः अभेद्या ह्य् एते आनन्द धारणीमन्त्रपदानि न चैषा क्षीणकुशलमूलानां सत्वानां श्रुतिपथम् अप्य् आगमिष्यति कः पुनर् वादो पुस्तगता वा हृदय गता धारिता वा । तत् कस्य हेतोः सर्वतथागतानाम् एषा वाक्यं सर्वतथागतैर् एषा धारणी भाषिता अधिष्ठिता । धर्ममुद्रया मुद्रिता अनुमोदिता प्रकाशिता प्रभाविता प्रशस्ता संवर्णितारोचिता विवृतोत्तानीकृता आख्याता सर्वसत्वानां दरिद्राणा ं व्याधिपरिपीडिताना ं सर्वभयोपद्रुताना ं सत्वानाम् अर्थायेति । आह । उद्गृहीता मे भगवंन् इयं वसुधाराधारणी धारिता वाचिता । पर्यवाप्ता मनसा च सुपरिचिता । इत्य् अथायुष्मान् आनन्द उत्थायासना त् तस्यां वेलाया ं कृतकरपुटो एवम् उदानम् उदानयति स्म ॥
अचिन्त्यो भगवं बुद्धा बुद्धधर्माप्य् अचिन्तिया ।
अचिन्तिये ऽभिप्रसन्नानां विपाको ऽचिन्तियस्मृतः
(एन्द् ओf मनुस्च्रिप्त् मिस्सिन्ग्!)

मूल पाठ: Vasudhārādhāraṇī-Gilgit · Edition: facsimiles in: Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)]. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc