भाषा

ENहिગુ
ग्रंथ पाठ

वाराहगृह्यसूत्र · भाग 119

वाराहगृह्यसूत्र, 1
अतः परं परिशिष्टा मैत्रायणीयसूत्रस्य ।
गृह्यपुरुषः प्रायश्चित्तम् अनुग्रहिकहौतृकशुल्विकोत्तरेष्टकवैष्णवाध्वर्यविकचातुर्होतृकगोनामिकाकुलपादरहस्यप्रतिग्रहयमकवृषोत्सर्गप्रश्नद्रविणषट्कारणप्रधानसांदेहिकप्रवराध्यायरुद्रविधानछन्दोऽनुक्रमण्यन्तर्क्यकल्पप्रवासविधिप्रातरुपस्थानभूतोत्पत्तिर् इति द्वाविंशतिः परिशिष्टसंख्यानाम् ॥ व्ग्र्स्_1.1
गृह्ये ऽग्नौ पाकयज्ञान् विहरेत् ॥ व्ग्र्स्_1.2
ह्रस्वत्वात् पाकयज्ञः ।
ह्रस्वं हि पाक इत्याचक्षते ॥ व्ग्र्स्_1.3
दर्शपूर्णमासप्रकृतिः पाकयज्ञविधिर् अप्रयाजो ऽननुयाजो ऽसामिधेनीकः ॥ व्ग्र्स्_1.4
स्वाहाकारान्तं निगद्य होमाः ॥ व्ग्र्स्_1.5
परतन्त्रोत्पत्तिर् दक्षिणाग्नाव् आहिताग्निः कुर्वीत शालाग्नाव् अनाहिताग्निः ॥ व्ग्र्स्_1.6
गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलम् उपलिप्येषुमात्रं तस्मिन् लक्षणं कुर्वीत सत्यसदसीति पश्चार्धाद् उदीचीं लेखां लिखति ।
ऋतसदसीति दक्षिणार्धात् प्राचीम् ।
घर्मसदसीत्य् उत्तरार्धात् प्राचीम् ।
मध्ये द्वे तिस्रो वा प्राचीः ।
ऊर्जस्वतीति दक्षिणाम् ।
पयस्वतीत्य् उत्तराम् ।
इन्द्राय त्वेति मध्याद् वा ।
सर्वाः प्रादेशमात्र्यो दर्भेणावलिखेत् ॥ व्ग्र्स्_1.7
अद्भिः प्रोक्ष्याग्निं सादयति ॥ व्ग्र्स्_1.8
परिसमुह्य परिस्तीर्य पर्युक्ष्य तूष्णीम् इध्माबर्हिः संनह्य ग्रागग्रैर् दक्षिणारम्भैर् उदक्संस्थैरयुग्मैर् धातुभिः स्तृणाति ॥ व्ग्र्स्_1.9
दक्षिणतो ऽग्नेर् ब्रह्माणम् उपवेश्योत्तरत उदपात्रम् ॥ व्ग्र्स्_1.10
बर्हिषः पवित्रे कुरुते ॥ व्ग्र्स्_1.11
समाव् अप्रच्छिन्नप्रान्तौ दर्भौ प्रादेशमात्रौ पवित्रे स्थो वैष्णव्ये इत्योषध्या छित्त्वा विष्णोर्मनसा पूते स्थ इत्य् अद्भिस् त्रिर् उन्मृज्य प्रोक्षणीर् धर्मैः संस्कृत्य प्रणीतां प्रणीय निर्वपणप्रोक्षणसंवपनम् इति यथादेवतं चरुम् अधिश्रित्य स्रुक्स्रुवं प्रमृज्याभ्युक्ष्याग्नौ प्रताप्यादितिर् असि नाच्छिन्नपत्त्रेत्य् आज्यम् अग्नाव् अधिश्रयति ॥ व्ग्र्स्_1.12
पृश्नेः पयो ऽसीत्य् आज्यं निर्वपति ॥ व्ग्र्स्_1.13
परि वाजपतिर् इत्याज्यहविश् च त्रिः पर्यग्निकरोति ॥ व्ग्र्स्_1.14
देवस् त्वा सवितोत्पुनात्व् इत्याज्यं श्रपयति ॥ व्ग्र्स्_1.15
तूष्णीम् इध्माबर्हिर् विप्रोक्ष्य यथा म्नातम् अभिपरिस्तृणाति ॥ व्ग्र्स्_1.16
परिधीन् परिदधाति ॥ व्ग्र्स्_1.17
तेजो ऽसीत्याज्यमवेक्ष्य पश्चादग्नेर्दर्भेष्वासादयति ॥ व्ग्र्स्_1.18
अभिघार्य स्थालीपाकमुत्तरत उद्वासयति ॥ व्ग्र्स्_1.19
सकृदेवेध्ममाधाय वैरूपाक्षः प्रथमो होमानाम् ॥ व्ग्र्स्_1.20
ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा युनज्मि त्वेति च योजयित्वा ॥ व्ग्र्स्_1.21
नह्य् अयुक्तो हव्यं वहत इति ह विज्ञायते ॥ व्ग्र्स्_1.22
कामं पुरस्ताद्धुरो जुहोति ।
युक्तो वह जातवेदः पुरस्तादिदं विद्धि क्रियमाणं यथेह ।
त्वं भिषग्भेषजस्यासि गोप्ता त्वया प्रसूता गामश्वं पूरुषं सनेम ।
स्वाहा ।
इति ॥ व्ग्र्स्_1.23
विश्वा अग्ने त्वया वयं धारा उदन्या इव ।
अतिगाहेमहि द्विषम् ॥ व्ग्र्स्_1.24
इति ।

नक्षत्रमिष्ट्वा देवतां यजेत ।
अहोरात्रमृतुं तिथिं च ॥ व्ग्र्स्_1.25
अभिघार्य यद्देवतं हविः स्यात्तच् च जुहुयाद् यथादेवतं यथादेवतया चर्चा ॥ व्ग्र्स्_1.26
आकूताय स्वाहा ।
आकूतये स्वाहेति जयान् जुहुयात् ॥ व्ग्र्स्_1.27
प्रजापतिः प्रायच्छत् ।
इडाम् अग्न इति स्विष्टकृतम् उत्तरार्धपूर्वार्धे जुहुयात् ॥ व्ग्र्स्_1.28
मेक्षणम् उपयामं पवित्रे चान्वादध्यात् ॥ व्ग्र्स्_1.29
अन्व् अद्य नो ऽनुमतिः ।
अन्व् इद् अनुमते त्वम् इति ।
भूः स्वाहेति प्रायश्चित्ताहुतीश्च ॥ व्ग्र्स्_1.30
त्वन् नो ऽग्ने ।
स त्वन् नो ऽग्ने ।
मनो ज्योतिः ।
त्रयस्त्रिंशत्तन्तवः ।
अयाश्चाग्ने ऽसीति च ॥ व्ग्र्स्_1.31
इमं स्तनं मधुमन्तं धयापां प्रपीनमग्ने सलिलस्य मध्ये ।
उत्सं जुषस्व मधुमन्तम् ऊर्मिं समुद्र्यं सदनम् आविशस्व ।
स्वाहा ।
इति परिधिविमोकम् अभिजुहोति ॥ व्ग्र्स्_1.32
अन्नपत इत्यन्नस्य जुहुयात् ॥ व्ग्र्स्_1.33
एधो ऽस्येधीषीमहि स्वाहेति समिधम् आदधाति ।
समिदसि समेधिषीमहीति द्वितीयाम् ॥ व्ग्र्स्_1.34
बर्हिषि पूर्णपात्रं निनयेत् ॥ व्ग्र्स्_1.35
एषो ऽवभृथः ॥ व्ग्र्स्_1.36
पाकयज्ञानाम् एतत्तन्त्रम् ॥ व्ग्र्स्_1.37
आपोहिष्ठीयाभिर् मार्जयित्वा पर्युक्षेत ॥ व्ग्र्स्_1.38
वरो दक्षिणा ।
अश्वं वरं विद्यात् ।
गामित्येके ॥ व्ग्र्स्_1.39
वाराहगृह्यसूत्र, 2
प्राङ्मुखम् उदङ्मुखं वा सूतिकालयं कल्पयित्वा ध्रुवं प्रपद्ये शुभं प्रपद्य आशां प्रपद्य इति काले प्रपादयेत् ॥ व्ग्र्स्_2.1
रेतो मूत्रमिति च्यावनीभ्यां दक्षिणं कुक्षिम् अभिमृशेत् ।
श्रावयेद्वा ॥ व्ग्र्स्_2.2
पुत्रं जातम् अन्वक्षं स्नातं न मातोपहन्याद् आ मन्त्रप्रयोगात् ॥ व्ग्र्स्_2.3
अग्नेर् अभ्याहितस्य परिसमूढस्य परिस्तीर्णस्य पश्चाद् अहते वाससि कुमारं प्राक्शिरसम् उत्तानं संवेश्य पलाशस्य मध्यमं पर्णं प्रवेष्ट्य तेनास्य कर्णाव् आजपेत् भूस् त्वयि दधानीति दक्षिणे ।
भुवस् त्वयि दधानीति सव्ये ।
स्वस् त्वयि दधानीति दक्षिणे ।
भूर् भुवः स्वस् त्वयि दधानीति सव्ये ॥ व्ग्र्स्_2.4
अथैनम् अभिमन्त्रयेते ।

अश्मा भव परशुर् भव हिरण्यम् अस्तृतं भव ।
अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।
इति ॥ व्ग्र्स्_2.5
यत्र शेते तदभिमृशेत् वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ।
वेदामृतस्य देवा माहं पुत्र्यम् अघं रुदम् ।
इति ॥ व्ग्र्स्_2.6
आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा व्याहृतिभिश् चतस्र आज्याहुतीर् जुहुयात् ।
जयाभ्यातानानां राष्ट्रभृतश् चैके ॥ व्ग्र्स्_2.7
कांस्ये चमसे वाहूतिसम्पातान् अवनीय तस्मिन् सुवर्णं संनिघृष्य व्याहृतिभिः कुमारं चतुः प्राशयेत् ।
अत्यन्तम् एके सुवर्णप्राशनम् उदके निघृष्या द्वादशवर्षतायाः ॥ व्ग्र्स्_2.8
इषं पिन्व ।
ऊर्जं पिन्वेति स्तनौ प्रक्षाल्य प्रधापयेत् ।
दक्षिणं पूर्वं सव्यं पश्चात् ॥ व्ग्र्स्_2.9
स्विष्टकृते हुत्वा प्रायश्चित्ताहुतीश्च समिधमाधाय पर्युक्षति ॥ व्ग्र्स्_2.10
एष कर्मान्तो बहिर्द्वारे ऽग्निर् नित्यः ।
कणसर्षपयवानां होमः ।
व्याहृतिभिर् जुहुयात् ॥ व्ग्र्स्_2.11
अप्रतिरथं जपेत् ।
इन्द्रो भूतस्येति षडर्चं च ॥ व्ग्र्स्_2.12
सूतिकालयं यथाकालं समन्ताद् उदकेन परिषिञ्चेत् ॥ व्ग्र्स्_2.13
वाराहगृह्यसूत्र, 3
एवम् एव दशम्यां कृत्वा पिता माता च पुत्रस्य नाम दध्यताम् घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं कृतं न तद्धितं द्व्यक्षरं चतुरक्षरं वा त्यक्त्वा पितुर् नामधेयात् नक्षत्रदेवतेष्टनामानो वा ॥ व्ग्र्स्_3.1
द्विनामा तु ब्राह्मणः ॥ व्ग्र्स्_3.2
नामैव कन्यायाः अकारव्यवधानम् आकारान्तम् अयुग्माक्षरं नदीनक्षत्रचन्द्रसूर्यपूषदेवदत्तरक्षितावर्जम् ॥ व्ग्र्स्_3.3
नवनीतेन पाणी प्रलिप्य सोमस्य त्वा द्युम्नेनेत्य् एनमभिमृशेत् ॥ व्ग्र्स्_3.4
सर्वेषु कुमारकर्मस्व् आग्नेयः स्थालीपाकः प्राजापत्यो वा ॥ व्ग्र्स्_3.5
सर्वत्रानादेशे ऽग्निः पुंसाम् अर्यमा स्त्रीणाम् ॥ व्ग्र्स्_3.6
संवत्सरं मातापितरौ न मांसम् अश्नीयाताम् ॥ व्ग्र्स्_3.7
पुत्रस्य जातदन्ते यजेताग्निं गवा पशुना वा ॥ व्ग्र्स्_3.8
विप्रोषितः प्रत्येत्य पुत्रस्य मूर्धानं त्रिर् आजिघ्रेत् पशूनां त्वा हिंकारेणाभिजिघ्रामीति ॥ व्ग्र्स्_3.9
जातकर्मवद्धस्ताङ्गुलिं प्रवेष्ट्य तेनास्य कर्णाव् आजपेत् ॥ व्ग्र्स्_3.10
अथैनमभिमन्त्रयते अश्मा भवेति ॥ व्ग्र्स्_3.11
अग्निधन्वन्तरी पुत्रव्रती छागमेषाभ्याम् इष्ट्वा दीर्घाणां व्याहृतिभिः कुमारं चतुः प्राशयेत् ।
आयुर्दा देवेति च ॥ व्ग्र्स्_3.12
कुमारकर्माणि शुक्ल उदगयने पुण्ये नक्षत्रे नवमीवर्जम् ।
सर्व ऋतवो विवाहे ऽमाघचैत्रौ मासौ परिहाप्योत्तरं च नैदाघम् ॥ व्ग्र्स्_3.13
अन्वारम्भयित्वा हवनम् ॥ व्ग्र्स्_3.14
वाराहगृह्यसूत्र, 4
तृतीयवर्षस्य जटाः कुर्वन्ति ।

यथा वा कुलकल्पः ॥ व्ग्र्स्_4.1
अग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणतो ऽग्नेर् ब्रह्माणम् उपवेश्योत्तरत उदपात्रं शमीशमकवत् ॥ व्ग्र्स्_4.2
अथैनम् अभिमन्त्रयते हिरण्यवर्णाः शुचय इति चतसृभिः ।
या ओषधय इत्यनुवाकेन ।
शं नो देवीर् अभिष्टय आपो भवन्तु पीतये ।
शं योर् अभिस्रवन्तु नः ।
प्रियाः शं न आपो धन्वन्याः शं नः सन्तु नूप्याः ।
शं नः समुद्र्या आपः शम् उ नः सन्तु कूप्याः ।
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
शं न इन्द्रश् चाग्निश् च शं नो विष्णुर् उरुक्रमः ।
इति ।
तासाम् उदकार्थान् कुर्वीत पर्युक्षणे ऽभ्युन्दने स्नापने च ॥ व्ग्र्स्_4.3
आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा अग्ना आयूंषि पवस इति सप्तभिः सप्त हुत्वा ॥ व्ग्र्स्_4.4
आयुर्दा देवेति च ।
ये केशिनः प्रथमे सत्त्रम् आसत येभिर् आवृतं यदिदं विराजति ।
तेभ्यो जुहोम्य् आयुषे दीर्घायुत्वाय स्वस्तये ।
इति ॥ व्ग्र्स्_4.5
व्याहृतिभिश्च ॥ व्ग्र्स्_4.6
उक्तः कर्मान्तः पूर्वेण ॥ व्ग्र्स्_4.7
शीतेन वाय उदकेनेधि ।
उष्णेन वाय उदकेनेधीति तप्ता इतराभिः संसृज्य आर्द्रदानव स्थ जीवदान् अवस्थोन्दतीरिषमावदेत्य् अपो ऽभिमन्त्र्य दक्षिणं केशान्तम् अभ्युन्द्यात् ।
अदितिः केशान् वपत्वाप उन्दन्तु जीवसे ।
दीर्घायुत्वाय स्वस्तये ।
इति ॥ व्ग्र्स्_4.8
दक्षिणस्मिन् केशान्ते दर्भम् ऊर्ध्वाग्रं निदधाति ॥ व्ग्र्स्_4.9
ओषधे त्रायस्वैनम् इति दर्भमन्तर्दधाति ॥ व्ग्र्स्_4.10
स्वधिते मैनं हिंसीर् इति क्षुरेणाभिनिदधाति ॥ व्ग्र्स्_4.11
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदम् अस्यायुष्मान् अयं जरदष्टिर् यथासत् ।
अहमसौ ।
इति प्रवपति ॥ व्ग्र्स्_4.12
दक्षिणतो मातान्या वाविधवानडुहेन गोमयेनाभूमिगतान् केशान् परिगृह्णीयात् ॥ व्ग्र्स्_4.13
मा ते केशान् अनुगाद् वर्च एतत्तथा धाता दधातु ते ।
तुभ्यमिन्द्रो वरुणो बृहस्पतिः सविता वर्च आदधुः ।
इति प्रपततो ऽनुमन्त्रयते ॥ व्ग्र्स्_4.14
तेन धर्मेण पुनर् अपो ऽभिमन्त्र्यापरं केशान्तम् अभ्युन्द्याद् उत्तरं च ॥ व्ग्र्स्_4.15
अन्यौ तु प्रवपनौ येन पूषा बृहस्पतेर् अग्नेर् इन्द्रस्य चायुषे ऽवपत् ।
तेन ते वपाम्यायुषे दीर्घायुत्वाय स्वस्तये ।
इति पश्चात् ।
येन भूयश् चरत्ययं ज्योक् च पश्यसि सूर्यम् ।

तेन ते वपाम्य् आयुषे दीर्घायुत्वाय सुश्लोक्याय सुवर्चसे ।
इत्युत्तरतः ॥ व्ग्र्स्_4.16
यत् क्षुरेण पर्चयता सुपेशसा वप्तर् वपसि केशान् ।
शुन्ध शिरो मास्यायुः प्रमोषीः ।
इति लोहायसं क्षुरं केशवापाय प्रयच्छति ॥ व्ग्र्स्_4.17
यथार्थं केशयत्नान् कुर्वन्ति दक्षिणतः कपर्दा वसिष्ठानाम् उभयतो ऽत्रिभार्गवकाश्यपानां पञ्चचूडा आङ्गिरसः शिखिनो ऽन्ये ॥ व्ग्र्स्_4.18
वाजिम् एके मङ्गलार्थम् ॥ व्ग्र्स्_4.19
त्र्यायुषं कश्यपस्य जमदग्नेस् त्र्यायुषम् अगस्त्यस्य त्र्यायुषम् ।
यद् देवानां त्र्यायुषं तन् मे अस्तु शतायुषम् ।
इति शिरः संमृशति ॥ व्ग्र्स्_4.20
परिगृह्य गोमयेन केशान् उत्तरपूर्वस्यां गृहस्य मूष्याम् अन्तरा गेहात् पलदं च निदध्यात् ।
अरिक्ते वा वपने ।
उप्त्वाय केशान्तान् वरुणाय राज्ञो बृहस्पतिः सविता विष्णुरिन्द्रः ।
तेभ्यो निधानं महद् अन्वविन्दन्न् अन्तरा द्यावापृथिवी अप स्वः ॥ व्ग्र्स्_4.21
इति ।
कर्त्रे वरं ददाति ॥ व्ग्र्स्_4.22
पक्ष्मगुणं तिलपिशितं च केशवापाय प्रयच्छति ॥ व्ग्र्स्_4.23
संवत्सरं माता नाम्लाय धारयेत् ।
रोषाय नाश्नीयात् ।
लवणवर्जं तूष्णीम् ॥ व्ग्र्स्_4.24
कन्याया आहुतिवर्जम् ॥ व्ग्र्स्_4.25
विदुषो ब्राह्मणान् अर्थसिद्धिं वाचयेत् ॥ व्ग्र्स्_4.26
एवम् उत्तरेषु ॥ व्ग्र्स्_4.27
वाराहगृह्यसूत्र, 5
गर्भाष्टमेषु ब्राह्मणमुपनयेत् ।
षष्ठे सप्तमे पञ्चमे वा ॥ व्ग्र्स्_5.1
ततो गर्भैकादशेषु क्षत्रियं गर्भद्वादशेषु वैश्यम् ॥ व्ग्र्स्_5.2
प्राक्षोडशाद् वर्षाद् ब्राह्मणस्यापतिता सावित्री द्वाविंशात् क्षत्रियस्य चतुर्विंशाद् वैश्यस्य ।
अत ऊर्ध्वं पतितसावित्रिका भवन्ति ।
नैनान् याजयेयुर् नाध्यापयेयुर् न विवहेयुर् न विवाहयेयुः ॥ व्ग्र्स्_5.3
अभ्यन्तरं जटाकरणं बहिर् उपनयनम् ॥ व्ग्र्स्_5.4
उक्तो ऽग्निसंस्कारो ब्रह्मणश्च ॥ व्ग्र्स्_5.5
कुमारं पर्युप्तिनं स्नातम् अभ्यक्तशिरसम् उपस्पर्शनकल्पे नोपस्पृष्टम् अग्नेर्दक्षिणतो ऽवस्थाप्य दधिक्राव्णो अकारिषम् इति दध्नः कुमारं त्रिः प्राशयेत् ॥ व्ग्र्स्_5.6
इयं दुरुक्तात् परिबाधमाना वर्णं पवित्रं पुनती न आगात् ।
प्राणापानाभ्यां बलम् आभजन्ती शिवा देवी सुभगा मेखलेयम् ।
ऋतस्य गोप्त्री तपसस् तरुत्री घ्नती रक्षः सहमाना अरातीः ।
सा मा समन्तम् अनुपर्येहि भद्रे धर्तारस् ते सुभगे मेखले मा रिषाम ।
इति मौञ्जीं त्रिगुणां त्रिः परिवीतां मेखलाम् आबध्नीते ।
मौर्वीं धनुर्ज्यां क्षत्रियस्य शाणीं वैश्यस्य ॥ व्ग्र्स्_5.7
उपवीतम् असि यज्ञस्य त्वोपवीतेनोपव्ययामीति यज्ञोपवीतम् ॥ व्ग्र्स्_5.8

या अकृतन् या अतन्वन् या अवायन् या अवाहरन् ।
याश् चाग्ना देवीर् अन्तान् अभितो ऽतन्वत तास्त्वा देवीर् जरसे संव्ययन्ताम् ।
आयुष्मान् अयं परिधत्त वासः परिधत्त वर्चः ।
शतायुषं कृणुहि दीर्घमायुः ।
शतं च जीव शरदः पुरूचीर् वसूनि चाय्यो विभजाय जीयान् ।
इत्य् अहतं वास आच्छाद्य मित्रस्य चक्षुर्धरणं बलीयस्तेजो यशस्वि स्थविरं च धृष्णु ।
अनाहनस्यं वसनं चरिष्णु परीदं वाज्यं वाजिनं दधे ऽहम् ।
इति कृष्णाजिनं च ॥ व्ग्र्स्_5.9
आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वाष्टौ जटाकरणीयान् जुहुयात् ॥ व्ग्र्स्_5.10
व्याहृतिभिश्च ॥ व्ग्र्स्_5.11
उक्तः कर्मान्तः पूर्वेण ॥ व्ग्र्स्_5.12
कालाय वां गोत्राय वां जैत्राय वाम् औद्भेत्राय वाम् अन्नाद्याय वाम् अवनेनिजेद् इत्य् उदकेनाञ्जलिं पूरयित्वा सुकृताय वामिति पाणी प्रक्षाल्य इदमहं दुर्यमन्या निष्प्लावयामीत्य् आचम्य निष्ठीवति ॥ व्ग्र्स्_5.13
भ्रातृव्याणां सपत्नानाम् अहं भूयासम् उत्तम इति द्वितीयम् ॥ व्ग्र्स्_5.14
प्रातर् जितं भगमुग्रं हुवेम वयं पुत्रम् अदितेर्यो विधर्ता ।
आध्रश् चिद्यं मन्तमानस्तुरश् चिद्राजा चिद्यं भगं भक्षीमहीत्य् आह ।
इत्य् आदित्यम् उपतिष्ठेत ॥ व्ग्र्स्_5.15
ब्रह्मचर्यम् उपागामुप मा ह्वयस्वेति ब्रूयात् ॥ व्ग्र्स्_5.16
एहि ब्रह्मोपेहि ब्रह्म ब्रह्म त्वा स ब्रह्मसन्तम् उपनयाम्य् अहम् असाव् इति ॥ व्ग्र्स्_5.17
अथास्याभिवादनीयं नाम गृह्णाति ॥ व्ग्र्स्_5.18
देवस्य ते सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् अहम् असाव् इत्य् अस्य हस्तं दक्षिणेन दक्षिणम् उत्तानम् अभीवाङ्गुष्ठम् अभीव लोमानि गृह्णीयात् ॥ व्ग्र्स्_5.19
माम् एवान्वेतु ते मनो मामेवापि त्वम् अन्विहि ।
अग्नौ धृतमिव दीप्यतां हृदयं तव यन् मयि ।
इत्येनं प्रेक्षमाणं समीक्षते ॥ व्ग्र्स्_5.20
पृष्ठतो ऽस्य पाणिम् अन्ववहृत्य हृदयदेशम् अन्वारभ्य जपेत् प्राणानां ग्रन्थिर् असि स मा विस्रसद् इति ।
ब्रह्मणो ग्रन्थिरसीति नाभिदेशम् ॥ व्ग्र्स्_5.21
गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्माणं ब्रह्मणस्पत आ नः कृण्वन्न् ऊतिभिः सीद सादनम् ।
इति प्रदक्षिणमग्निं परिणयेत् ॥ व्ग्र्स्_5.22
पश्चादग्नेर् दर्भेषूपविशति दक्षिणतश्च ब्रह्मचारी ॥ व्ग्र्स्_5.23
अधीहि भो इत्य् उपविश्य जपति ॥ व्ग्र्स्_5.24
प्रभुज्य दक्षिणं जानुं पाणी संधाय दर्भहस्ताव् ओं इत्य् उक्त्वा व्याहृतीः सावित्रीं चानुब्रूयात् ।
एवं काण्डानुवचनेषु ॥ व्ग्र्स्_5.25
तत्सवितुर्वरेण्यम् इति गायत्रीं ब्राह्मणाय ।
आ देवो यातु सविता सुरत्न इति त्रिष्टुभं क्षत्रियाय ।
युञ्जते मन इति जगतीं वैश्याय ।
पच्छो ऽर्धर्चशः सर्वाम् अन्ततः ॥ व्ग्र्स्_5.26
पालाशं दण्डं ब्राह्मणाय प्रयच्छति नैयग्रोधं क्षत्रियायाश्वत्थं वैश्याय ।
सुश्रवः सुश्रवसं मां कुरु ।
यथा त्वं सुश्रवः सुश्रवा अस्य् एवम् अहं सुश्रवः सुश्रवा भूयासम् ।
यथा त्वं देवानां वेदस्य निधिगोपो ऽस्येवमहं मनुष्याणां ब्रह्मणो निधिगोपो भूयासमिति प्रतिगृह्णाति ॥ व्ग्र्स्_5.27

ऊर्ध्वकपालो ब्राह्मणस्य कमण्डलुः परिमण्डलः क्षत्रियस्य निचल्कलो वैश्यस्य ।
इमा आपः प्रभराम्य् अयक्ष्मा यक्ष्मचातनीः ।
ऋतेनापः प्रभराम्य् अमृतेन सहायुषा ।
इति प्रतिगृह्णामीति प्रतिगृह्य भैक्ष्यचर्यं चरेत् भवति भिक्षां देहीति ब्राह्मणः भवति मध्यां क्षत्रियः भवत्य् अन्त्यां वैश्यः ।
चतस्रः षडष्टौ वाविधवा अप्रत्याख्यायिन्यः ।
मातरं प्रथममेके ॥ व्ग्र्स्_5.28
गुरवे निवेद्य ॥ व्ग्र्स्_5.29
वाग्यतः प्राग् ग्रामात् संध्याम् आसेत् ।
तिष्ठन्पूर्वाम् ।
सावित्रीं त्रिर् अधीत्य अध्वनाम् अध्वपते स्वस्त्यस्याध्वनः पारमशीय ।
या मेधा अप्सरःसु गन्धर्वेषु च यन्मनः ।
या मेधा दैवी मानुषी सा माम् आविशताम् इह ।
इति ॥ व्ग्र्स्_5.30
प्रत्येत्याग्निं परिचरेत् ।
इमं स्तोममर्हत इति परिसमूहेत् ।
एधो ऽस्य् एधिषीमहीति समिधम् आदधाति ।
समिद् असि समेधिषीमहीति द्वितीयाम् ॥ व्ग्र्स्_5.31
अपो ऽद्यान्वचारिषम् इत्युपतिष्ठते ॥ व्ग्र्स्_5.32
तं मा संसृज वर्चसेति मुखं परिमृजीत ॥ व्ग्र्स्_5.33
यदग्ने तपसा तपो ब्रह्मचर्यम् उपेमसि ।
प्रियाः श्रुतस्य भूयस्मायुष्मन्तः सुमेधसः ।
अग्ने समिधम् अहारिषं बृहते जातवेदसे ।
स मे श्रद्धां च मेधां च जातवेदाः प्रयच्छतु ।
स्वाहा ।
इति समिधम् आदधाति ॥ व्ग्र्स्_5.34
तेजसा मा समङ्ग्धि वर्चसा मा समङ्ग्धि ब्रह्मवर्चसेन मा समङ्ग्धीति मुखं परिमृजीत ॥ व्ग्र्स्_5.35
आयुर्धा अग्ने ऽसीति यथारूपं गात्राणि संमृशति ॥ व्ग्र्स्_5.36
इह धृतिरिति पर्यायैर् अंसं ग्रीवाश्चार्चिरालभ्य रुचं नो धेहीति ललाटम् अभिमृशेत् ॥ व्ग्र्स्_5.37
आद्यन्तयोः पर्युक्षणम् ॥ व्ग्र्स्_5.38
गुरवे ब्रह्मणे च वरम् उत्तरासङ्गं च ददाति ॥ व्ग्र्स्_5.39
द्वादशरात्रम् अक्षारलवणम् आशेत् ॥ व्ग्र्स्_5.40
अक्षारमेके ॥ व्ग्र्स्_5.41
व्युष्टे द्वादशरात्रे षड्रात्रे वा ग्रामात् प्राचीं वोदीचीं वा दिशम् उपनिष्क्रम्य पश्चात् पलाशस्य यज्ञीयस्य वा वृक्षस्य सावित्रेण स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात् स्विष्टकृतो मेखलां दण्डं चाप्सु प्रास्येत् ॥ व्ग्र्स्_5.42
तत्रैव हविःशेषं भुञ्जीतेति श्रुतिः ॥ व्ग्र्स्_5.43
वाराहगृह्यसूत्र, 6
उपनयनप्रभृति व्रतचारी स्यात् ॥ व्ग्र्स्_6.1
उपनयनेन व्रतादेशा व्याख्याताः ॥ व्ग्र्स्_6.2
मार्गवासाः संहतकेशः भैक्षाचर्यवृत्तिः सशल्कदण्डः सप्तमौञ्जीं मेखलां धारयेद् आचार्यस्याप्रतिकूलः सर्वकारी ॥ व्ग्र्स्_6.3
यदेनम् उपेयात् तद् अस्मै दद्यात् ।
बहूनां येन संयुक्तः ॥ व्ग्र्स्_6.4

नास्य शय्यामाविशेत् ॥ व्ग्र्स्_6.5
न रथमारोहेत् ॥ व्ग्र्स्_6.6
न संवसेत् ॥ व्ग्र्स्_6.7
न विहारार्थो जल्पेत् ॥ व्ग्र्स्_6.8
न रुच्यर्थः कंचनं धारयेत् ॥ व्ग्र्स्_6.9
सर्वाणि सांस्पर्शकानि स्त्रीभ्यो वर्जयेत् ॥ व्ग्र्स्_6.10
न स्नायाद् दण्डवत् ॥ व्ग्र्स्_6.11
नोदकमभ्युपेयात् ॥ व्ग्र्स्_6.12
न दिवा स्वपेत् ॥ व्ग्र्स्_6.13
त्रैविद्यकं ब्रह्मचर्यं चरेत् ॥ व्ग्र्स्_6.14
इन्द्रियसंयतः सायं प्रातर् भैक्ष्यवृत्तिः ॥ व्ग्र्स्_6.15
सायं प्रातर् अग्निं परिचरेत् ॥ व्ग्र्स्_6.16
अधःशायी आचार्याधीनवृत्तिः तन्निसर्गाद् अशनम् अयाचितं लवणम् ॥ व्ग्र्स्_6.17
वाग्यतो ऽश्नीयात् ॥ व्ग्र्स्_6.18
मधुमांसे वर्जयेत् ॥ व्ग्र्स्_6.19
अच्छन्नवस्त्रां विवृतां स्त्रियं न पश्येत् ॥ व्ग्र्स्_6.20
यौप्यस्य वृक्षस्य दण्डी स्यात् ॥ व्ग्र्स्_6.21
नानेन प्रहरेद्गवे न ब्राह्मणाय ॥ व्ग्र्स्_6.22
न नृत्यगीते गच्छेत् ॥ व्ग्र्स्_6.23
न चैने कुर्यात् ॥ व्ग्र्स्_6.24
नावलिखेत् ॥ व्ग्र्स्_6.25
शिखाजटः सर्वजटो वा स्यात् ॥ व्ग्र्स्_6.26
शाणीक्षौमाजिनवासाः ॥ व्ग्र्स्_6.27
रक्तं वसनकम्बलम् ऐणेयं ब्राह्मणस्य रौरवं क्षत्रियस्य आजं वैश्यस्य ॥ व्ग्र्स्_6.28
एतेन धर्मेण द्वादशवर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ।
चतुर्विंशति द्वयोः षट्त्रिंशति त्रयाणाम् अष्टाचत्वारिंशति सर्वेषाम् ।
यावद् ग्रहणं वा ॥ व्ग्र्स्_6.29
मलज्ञुरबलः कृशः स्नात्वा स सर्वं लभते यत् किंचिन् मनसेप्सितमिति ॥ व्ग्र्स्_6.30
एतेन धर्मेण साध्व् अधीते ॥ व्ग्र्स्_6.31
मन्त्रब्राह्मणान्यधीत्य कल्पं मीमांसां च याज्ञिको ऽधीत्य वक्त्रं पदं स्मृतिं चैच्छिकः ॥ व्ग्र्स्_6.32
तौ स्नातकौ ॥ व्ग्र्स्_6.33
श्रोत्रियो ऽन्यो वेदपाठी ।
न तस्य स्नानम् ॥ व्ग्र्स्_6.34
उपविश्याचमनं विधीयते ।
अन्तर्जानु बाहू कृत्वा त्रिर् आचामेत् ॥ व्ग्र्स्_6.35
द्विः परिमृजेत् ।
खानि चोपस्पृशेच्छीर्षण्यानि ॥ व्ग्र्स्_6.36
वाराहगृह्यसूत्र, 7
अथ चातुर्होतृकी दीक्षा संवत्सरम् ॥ व्ग्र्स्_7.1
आघाराव् आघार्याज्यभागौ हुत्वा चतुर्होत् न् स्वकर्मणो जुहुयात् ।

सह पञ्चहोत्रा षड्ढोत्रा च सप्तहोतारम् अन्ततः ॥ व्ग्र्स्_7.2
हुत्वा व्रतं प्रदायादितो द्वाव् अनुवाकाव् अनुवाचयेत् ॥ व्ग्र्स्_7.3
अथाग्निव्रताश्वमेधिकी दीक्षा संवत्सरं द्वादशरात्रं वा ॥ व्ग्र्स्_7.4
आकूतमग्निमिति षड्ढुत्वा व्रतं प्रदायादितो ऽष्टाव् अनुवाकान् अनुवाचयेत् ॥ व्ग्र्स्_7.5
त्रिषवणम् उदकम् आहरेत् त्रींस् त्रीन् कुम्भान् ॥ व्ग्र्स्_7.6
त्रींश्च समित्पुलान् ॥ व्ग्र्स्_7.7
भस्मनि शयीत करीषे सिकतासु भूमौ वा ॥ व्ग्र्स्_7.8
नोदकम् अभ्युपेयात् ॥ व्ग्र्स्_7.9
संवत्सरे समाप्ते घृतवतापूपेनाग्निम् इष्ट्वा वात्सप्रं वाचयेत् ॥ व्ग्र्स्_7.10
स्मार्तेन यावद् अध्ययनं काण्डव्रतविशेषा होमार्थश् चाद्यन्तयोर् जुहुयात् ॥ व्ग्र्स्_7.11
अथैनं परिददीत अग्नये त्वा परिददानि ।
वायवे त्वा परिददानि ।
सूर्याय त्वा परिददानि ।
प्रजापतये त्वा परिददानीति ॥ व्ग्र्स्_7.12
एतेनैवाश्वमेधो व्याख्यातः ॥ व्ग्र्स्_7.13
नवमेनानुवाकेन हुत्वा दशमेनोपतिष्ठेत ॥ व्ग्र्स्_7.14
अश्वाय घासमुदकस्थानम् उदकं चाभ्युपेयात् ॥ व्ग्र्स्_7.15
एताभ्याम् एवमन्त्राभ्यां त्रैविद्यकं व्रतमुपेयात् ॥ व्ग्र्स्_7.16
रहस्यमध्येष्यता प्रवर्ग्यः ॥ व्ग्र्स्_7.17
तस्य रहस्ये व्रतोपायनं समिन्मन्त्रश्च ॥ व्ग्र्स्_7.18
तिष्ठेद् अहनि रात्राव् आसीत वाग्यतः ॥ व्ग्र्स्_7.19
पर्वसु चैवं स्यात् ॥ व्ग्र्स्_7.20
सर्वजटश्च स्यात् ॥ व्ग्र्स्_7.21
संवत्सरावरः प्रवर्ग्यो भवति ॥ व्ग्र्स्_7.22
वाराहगृह्यसूत्र, 8
वर्षासु श्रवणेनाध्यायान् उपाकरोति ।
हस्तेन वा ।
प्रौष्ठपदीम् इत्येके ॥ व्ग्र्स्_8.1
अथ जुहोति ।
अप्वा नामासि तस्यास्ते जोष्ट्रीं गमेयम् ।
अहम् इद्धि पितुः परि मेधा अमृतस्य जग्रभ ।
अहं सूर्य इवाजनि ।
स्वाहा ।
अप्वो नामासि तस्य ते जोष्ट्रं गमेयम् ।
अहम् इद्धि पितुः परि मेधा अमृतस्य जग्रभ ।
अहं सूर्य इवाजनि ।
स्वाहा ।
इति ॥ व्ग्र्स्_8.2
युक्तिर्नामासि ।
योगो नामासि ।

मतिर् नामासि ।
सुमतिर्नामासि ।
सरस्वती नामासि ।
सरस्वान् नामासि ।
तस्यास्ते तस्य ते इत्य् अनुषजेत् ॥ व्ग्र्स्_8.3
युजे स्वाहा ।
प्रयुजे स्वाहा ।
संयुजे स्वाहा ।
उद्युजे स्वाहा ।
उद्युज्यमानाय स्वाहेति जयप्रभृतिभिश् चाज्यस्य पुरस्तात् स्विष्टकृतो ऽन्तेवासिनां योगम् इच्छन्न् अथ जपति ऋतं वदिष्यामि सत्यं वदिष्यामि ब्रह्म वदिष्यामि तन् माम् अवतु तद्वक्तारम् अवत्व् अवतु मामवतु वक्तारम् ।
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविर् आयुर् मयि धेहि ।
वेदस्य वाणी स्थ ।
उपतिष्ठन्तु छन्दांस्य् उपाकुर्महे ऽध्यायान् ॥ व्ग्र्स्_8.4
ओं भूर् भुवः स्वरिति दर्भपाणिस् त्रिः सावित्रीम् अधीत्यादितश् च त्रीन् अनुवाकांस् तथाङ्गानाम् एकैकम् ।
को वो युनक्तीति च ॥ व्ग्र्स्_8.5
तस्यानध्यायाः ।
सतः वलीकक्षारप्रभृति वर्षं न विद्योतमाने न स्तनयतीति श्रुतिः आकालिकं देवतु मूलं विद्युद्धन्वोल्कात्यक्षराः शब्दाः आचारेणान्ये ॥ व्ग्र्स्_8.6
अर्धपञ्चमान् मासान् अधीत्य पञ्चार्धषष्ठान् वा दीक्षणायनं वाधीत्याथोत्सृजन्त्य् एतेन धर्मेण ऋतम् अवादिषं सत्यम् अवादिषं ब्रह्मावादिषं तन् माम् आवीत् तद्वक्तारम् आवीद् आवीन् माम् आवीद् वक्तारम् ।
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविर् आयुर् मयि धेहि ।
वेदस्य वाणी स्थ ।
प्रतिश्वसन्तु छन्दांस्य् उत्सृजामहे ऽध्यायान् ॥ व्ग्र्स्_8.7
ओं भूर् भुवः स्वर् इत्य् अन्तम् अधीत्य को वो विमुञ्चतीति च ॥ व्ग्र्स्_8.8
पक्षिणीं रात्रीं नाधीयीत ।
उभयतः पक्षां वा ॥ व्ग्र्स्_8.9
नात ऊर्ध्वमभ्रेषु ॥ व्ग्र्स्_8.10
आकालिकविद्युत्स्तनयित्नुवर्षं वर्षं च ॥ व्ग्र्स्_8.11
अथोपनिषदर्हाः ।
ब्रह्मचारी सुचरिती मेधावी कर्मकृद् धनदः प्रियः विद्यया वा विद्याम् अन्विच्छन् ॥ व्ग्र्स्_8.12
तानि तीर्थानि ब्रह्मणः ॥ व्ग्र्स्_8.13
वाराहगृह्यसूत्र, 9
षोडशवर्षस्य गोदानम् ।
अग्निं वाध्येष्यमाणस्य ।
अग्निगोदानो मैत्रायणिः ॥ व्ग्र्स्_9.1
जटाकरणेनोक्तो मन्त्रविधिः ॥ व्ग्र्स्_9.2
उपस्थ उपकक्षयोश् चाधिको मन्त्रप्रयोगः ।
यत् क्षुरेण पर्चयता सुपेशसा वप्तर् वपसि केशश्मश्रून् ।
शुन्ध शिरो मुखं मास्यायुः प्रमोषीः ।
इति ॥ व्ग्र्स्_9.3
भूमौ केशान् निखनेत् ॥ व्ग्र्स्_9.4
अन्ते गां दद्यात् ॥ व्ग्र्स्_9.5

वेदे गुरुणानुज्ञातः स्नायात् ॥ व्ग्र्स्_9.6
छन्दस्य् अर्थान् बुद्ध्वा स्नास्यन् गां कारयेत् ॥ व्ग्र्स्_9.7
आचार्यमर्हयेत् ॥ व्ग्र्स्_9.8
आपो हि ष्ठेति तिसृभिः हिरण्यवर्णाः शुचय इति चतसृभिः स्नात्वाहते वाससी परिदधीत वस्वसि वसुमन्तं मां कुरु सौवर्चसाय वां तेजसे ब्रह्मवर्चसाय परिदधानीति ॥ व्ग्र्स्_9.9
विश्वजनस्य छायासीति छत्त्रं धारयते ॥ व्ग्र्स्_9.10
मालामाबध्नीते याम् अश्विनौ धारयेतां बृहतीं पुष्करस्रजम् ।
तां विश्वैर् देवैर् अनुमतां मालामारोपयामि ।
इति ॥ व्ग्र्स्_9.11
तेजो ऽसीति हिरण्यं बिभृयात् ॥ व्ग्र्स्_9.12
प्रतिष्ठे स्थो देवते मा मा संताप्तम् इत्युपानहौ ॥ व्ग्र्स्_9.13
विष्टम्भो ऽसीति धारयेद्वैणवीं यष्टिम् ॥ व्ग्र्स्_9.14
सोदकं च कमण्डलुम् ॥ व्ग्र्स्_9.15
नित्यव्रतान्य् आहुर् आचार्याः ॥ व्ग्र्स्_9.16
द्विवस्त्रो ऽत ऊर्ध्वम् ।
शोभनं वासो भर्तव्यमिति श्रुतिः ॥ व्ग्र्स्_9.17
आमन्त्र्य गुरून् गुर्वधीनांश्च स्वान् गृहान्व्रजेत् ॥ व्ग्र्स्_9.18
प्रतिषिद्धम् अपरया द्वारा निःसरणं मलवद्वाससा सह सम्भाषा रजस्वद्वाससा सह शय्या गोर् गुरोर् दुरुक्तवचनम् अस्थाने शयनं स्थानं स्मयनं यानं गानं स्मरणमिति ।
तानि वर्जयेत् ॥ व्ग्र्स्_9.19
याजनं वृत्तिः ।
उञ्छं शिलमयाचितप्रतिग्रहः साधुभ्यो वा याचितम् ।
असंसिध्यमानायां वा वैश्यवृत्तिः ॥ व्ग्र्स्_9.20
स्वाध्यायविरोधिनो ऽर्थान् उत्सृजेत् ॥ व्ग्र्स्_9.21
वाराहगृह्यसूत्र, 10
विनीतक्रोधः सहर्षः सहर्षीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् ॥ व्ग्र्स्_10.1
असमानप्रवरैर् विवाहः ।
ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः पञ्चमान् मातृबन्धुभ्यो बीजिनश्च ॥ व्ग्र्स्_10.2
कृत्तिकास्वातिपूर्वैर् इति वरयेत् ॥ व्ग्र्स्_10.3
मृगशिरःश्रविष्ठोत्तराणीत्य् उपयमेत् ॥ व्ग्र्स्_10.4
पञ्च विवाहकारकाणि भवन्ति वित्तं रूपं विद्या प्रज्ञा बान्धवमिति ॥ व्ग्र्स्_10.5
एकालाभे वित्तं विसृजेत् ।
द्वितीयालाभे रूपम् ।
तृतीयालाभे विद्याम् ।
प्रज्ञायां तु बान्धवे च विवदन्ते ॥ व्ग्र्स्_10.6
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्तु नो वरेयम् ।
समर्यमा सं भगो नो ऽनुनीयात् सं जास्पत्यं सुयममस्तु देवाः ।
इति वरकान् व्रजतो ऽनुमन्त्रयते ॥ व्ग्र्स्_10.7
बन्धुमतीं कन्याम् अस्पृष्टमैथुनाम् उपयच्छेतानग्निकां श्रेष्ठाम् ॥ व्ग्र्स्_10.8
विज्ञानमस्यै कुर्यात् ।
चतुरो लोष्टान् आहरेत् सीतालोष्टं वेदिलोष्टं गोमयलोष्टं श्मशानलोष्टं च ॥ व्ग्र्स्_10.9
तेषामेकं गृह्णीष्वेति ब्रूयात् ।

श्मशानलोष्टं चेद् गृह्णीयान् नोपयच्छेत ॥ व्ग्र्स्_10.10
असंस्पृष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा ॥ व्ग्र्स्_10.11
शतमितिरथं दद्याद् गोमिथुनं वा ॥ व्ग्र्स्_10.12
उभयांस् तेजनीष्व् आसेज् जन्यान् कौमारिकांश् च ।
पूर्वे जन्याः स्युर् अपरे कौमारिकाः ॥ व्ग्र्स्_10.13
चतुरो गोमयपिण्डान् कृत्वा द्वाव् अन्येभ्यस् तथान्येभ्य इति प्रयच्छेत् ॥ व्ग्र्स्_10.14
धनं न इति ब्रूयुः ।
पुत्रपशवो न इति जन्याः ॥ व्ग्र्स्_10.15
ददानि ।
प्रतिगृह्णानीति त्रिर् ब्रह्मदेयाम् ॥ व्ग्र्स्_10.16
कृतेनांसेन विसंकसेयुः ॥ व्ग्र्स्_10.17
त्रिर् आनन्दं मागधो ह्वयेत् ॥ व्ग्र्स्_10.18
वाराहगृह्यसूत्र, 11
षडर्घ्यार्हा भवन्ति ऋत्विगाचार्यो विवाह्यो राजा स्नातकः प्रियश्चेति ॥ व्ग्र्स्_11.1
अप्राकरणिकान्ना परिसंवत्सराद् अर्हयन्ति ।
अन्यत्र याज्यात् कर्मणो विवाहाच् च ॥ व्ग्र्स्_11.2
न जीवपितृको ऽर्घ्यं प्रतिगृह्णीयात् ॥ व्ग्र्स्_11.3
अथैनम् अर्हयन्ति ॥ व्ग्र्स्_11.4
कांस्ये चमसे वा दधनि मध्वासिच्य वर्षीयसापिधाय विराजो दोहो ऽसि विराजो दोहो ऽसि विराजो दोहम् अशीय मयि दोहः पद्यायै विराज इति मधुपर्कर्माहियमाणं प्रतीक्षते ॥ व्ग्र्स्_11.5
सावित्रेण विष्टरौ प्रतिगृह्य राष्ट्रभृद् असीत्य् आसंद्याम् उदगग्रम् आस्तृणाति ॥ व्ग्र्स्_11.6
अहं वर्ष्म सदृशानाम् उद्यतानाम् इव सूर्यः ।
इदम् अहं तम् अधरं करोमि यो मा कश्चाभिदासति ।
इत्य् एकस्मिन्न् उपविशति ॥ व्ग्र्स्_11.7
मा त्वद्योषम् इत्य् अन्यतरम् अधस्तात् पादयोर् उपकर्षति ॥ व्ग्र्स्_11.8
विष्टर आसीनायैकैकं त्रिः प्राह ॥ व्ग्र्स्_11.9
नैव भो इत्याह ।
न मा रिषामेति ॥ व्ग्र्स्_11.10
आचमनीयाः प्रथमाः प्रतिपद्यन्ते ॥ व्ग्र्स्_11.11
अमृतोपस्तरणम् असीत्य् आचामति ॥ व्ग्र्स्_11.12
पद्येन पादौ प्रक्षालयति ॥ व्ग्र्स्_11.13
स्पृशत्य् अर्घम् ॥ व्ग्र्स्_11.14
ततः प्रणयति ॥ व्ग्र्स्_11.15
सावित्रेणोभयतो विष्टरं मधुपर्कं प्रतिगृह्य अदित्यास् त्वा पृष्ठे सादयामीति भूमौ प्रतिष्ठाप्यावसाय्य सुपर्णस्य त्वा गरुत्मतश् चक्षुषावेक्ष इत्यवेक्ष्य नमो रुद्राय पात्रसद इति प्रादेशेन प्रतिदिशं व्युद्दिश्याङ्गुष्ठेनोपमध्यमया च मधु वाता ऋतायत इति तिसृभिः संसृजति ॥ व्ग्र्स्_11.16
सत्यं यशः श्रीः श्रयतामिति त्रिः प्राश्नाति भूयिष्ठम् ॥ व्ग्र्स्_11.17
सुहृदे ऽवशिष्टं प्रयच्छति ॥ व्ग्र्स्_11.18
अमृतपिधानम् असीत्य् आचामति ॥ व्ग्र्स्_11.19
असिविष्टरपाणिर् गां प्राह ॥ व्ग्र्स्_11.20
हतो मे पाप्मा पाप्मानं मे हत ।
यां त्वा देवा वसवो ऽन्वजीविषुर् आदित्यानां स्वसारं रुद्रमातरम् ।
दैवीं गामदितिं जनानाम् आरभन्ताम् अर्हताम् अर्हणाय ।

ओं कुरुतेति सम्प्रेष्यति ॥ व्ग्र्स्_11.21
चतुर् अवरान् ब्राह्मणान् नानागोत्रान् इत्येकैकं पश्वङ्गं पायसं वा भोजयेत् ॥ व्ग्र्स्_11.22
यद्युत्सृजेत् माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः ।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ व्ग्र्स्_11.23
ओम् उत्सृजत तृणान्यत् तूदकं पिबतु ॥ व्ग्र्स्_11.24
इत्युक्ते पशुम् आलभन्ते ॥ व्ग्र्स्_11.25
शं नो मित्र इति पाणी प्रक्षाल्य यथार्थम् ॥ व्ग्र्स्_11.26
वाराहगृह्यसूत्र, 12
अथालंकरणम् अलंकरणम् असि सर्वस्मा अलं भूयासम् ॥ व्ग्र्स्_12.1
प्राणापानौ मे तर्पयामि समानव्यानौ मे तर्पयाम्य् उदानरूपे मे तर्पयामि चक्षुःश्रोत्रे मे तर्पयामि सुचक्षा अहम् अक्षिभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्याम् इति गन्धाच्छादने ॥ व्ग्र्स्_12.2
परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिर् अस्मि ।
शतं च जीव शरदः पुरूचीर्वसूनि चाय्यो विभजाय जीयाम् ।
इत्यहतं वास आच्छाद्याग्निं प्रज्वाल्य व्याहृतिभिर् व्रीहियवान् हुत्वा मङ्गलान्य् आशासेत् ॥ व्ग्र्स्_12.3
वाराहगृह्यसूत्र, 13
अथ प्रवदने कन्यामुपवसितां स्नातां सशिरस्काम् अहतेनाच्छिन्नदशेन वाससा संवीतां संस्तीर्णस्य पुरस्ताद् विहितानि वादित्राणि विधिवदुपकल्प्य पुरस्तात् स्विष्टकृतो वाचे पथ्यायै पूष्णे पृथिव्या अग्नये सेनायै धेनायै गायत्र्यै त्रिष्टुभे जगत्या अनुष्टुभे पङ्क्तये विराजे राकायै सिनीवाल्यै कुह्वै त्वष्ट्र आशायै सम्पत्त्यै भूत्यै निरृत्या अनुमत्यै पर्जन्यायाग्नये स्विष्टकृते च जुहुयात् ॥ व्ग्र्स्_13.1
आज्यशेषेण पाणी प्रलिप्य कन्याया मुखं संमार्ष्टि प्रियां करोमि पतये देवराणां श्वशुराय च ।
रुच्यै त्वाग्निः संसृजतु रुचिष्या पतये भव ।
सौभाग्येन त्वा संसृजत्व् इला देवी घृतपदीन्द्राण्य् अग्नाय्यश्विनी राट् ।
वागिला द्यौर् अरुन्धती ।
इति च ॥ व्ग्र्स्_13.2
सर्वाणि वादित्राण्य् अभिमन्त्रयते या चतुर्धा प्रवदत्य् अग्नौ या वाते या बृहत्युत ।
पशूनां यां ब्राह्मणे न्यदधुः शिवा सा प्रवदत्व् इह ।
इति ॥ व्ग्र्स्_13.3
सर्वाणि वादित्राण्य् अलंकृत्य कन्या प्रवादयते शुभं वद दुन्दुभे सुप्रजास्त्वाय गोमुख ।
प्रक्रीडन्तु कन्याः सुमनस्यमानाः सहेन्द्राण्या सवयसः सनीडाः ।
प्रजापतिर्यो वसति प्रजासु प्रजास् तन्वते सुमनस्यमानाः ।
स इमाः प्रजा रमयतु प्रजात्यै स्वयं च नो रमतां शं दधानः ।
इति ॥ व्ग्र्स्_13.4
प्रवदन्ति कारालिकानि ॥ व्ग्र्स्_13.5
कन्याम् उदकेनाभिषिञ्चेत् ॥ व्ग्र्स्_13.6
वाराहगृह्यसूत्र, 14
खे रथस्य खे ऽनसः खे युगस्य शतक्रतोः ।
अबालाम् इन्द्रस्त्रिः पूर्त्त्य् अकृणोत् सूर्यवर्चसः ।
इत्यथास्या अहतं वासः प्रयच्छति ॥ व्ग्र्स्_14.1
अथैनां दर्भशुल्वेन संनह्यति सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्य् अद्भिरोषधीभिः ।
सं त्वा नह्यामि प्रजया धनेन सह संनद्धा सुनुहि भागधेयम् ।
इति ॥ व्ग्र्स्_14.2
अथैनां वाससो ऽन्तं ग्राहयित्वाभ्युदानयति अघोरचक्षुर् अपतिघ्न्य् एधि ।
एहि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
दीर्घायुपत्नी प्रजया स्वर्विद् इन्द्रप्रणयीर् उप नो वस्तुम् एहि ।

इति ॥ व्ग्र्स्_14.3
समूहनोल्लेपनोद्धननावेक्षणम् इत्य् अग्निकाले भूमिसंस्कारान् सर्वत्र यथानिमित्तम् ॥ व्ग्र्स्_14.4
पश्चादग्नेः कटे तेजन्यां वा दर्भेष्व् आसनम् ॥ व्ग्र्स्_14.5
शुचौ भूमिप्रदेशे शमीशमकश्यामाकानां प्रियङ्गुदूर्वागौरसर्षपाणां यथालाभगन्धसक्षीरफलवद्भ्यो वनस्पतिभ्यो हरित्पर्णकुशयवादिभिश् चान्नैर् या ओषधयः ।
समन्या यन्तीत्य् अनुवाकेन शं नो देवीरिति च सहिरण्यापो ऽभिमन्त्र्य प्रणीतोदकुम्भं प्रणयेत् ॥ व्ग्र्स्_14.6
तं लाजाहुतीषु हूयमानासु भ्राता ब्रह्मचारी वोद्गृह्य धारयेद् दक्षिणतश्च ॥ व्ग्र्स्_14.7
लाजान् संस्कृतान् शमीपर्णमिश्रान् शूर्पेण दक्षिणतो मातान्या वाविधवा ॥ व्ग्र्स्_14.8
आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा ॥ व्ग्र्स्_14.9
अथ जुहोति ।
अग्नये जनविदे स्वाहा ।
सोमाय जनविदे स्वाहा ।
गन्धर्वाय जनविदे स्वाहा ।
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो ऽग्निष्टे पतिस्तुर्यो ऽहं मनुष्यजाः ।
स्वाहा ।
सोमो ऽददद् गन्धर्वाय गन्धर्वो ऽददद् अग्नये ।
रयिं च पुत्रांश् चादाद् अग्निर् मह्यमथो इमाम् ।
इति ॥ व्ग्र्स्_14.10
हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचम् आज्याहुतीर् जुहुयात् ॥ व्ग्र्स्_14.11
येन कर्मणेर्त्सेत् तत्र जयाञ् जुहुयादिति जयानां श्रुतिः ।
त्वा यथोक्तम् ।
आकूत्यै त्वा स्वाहा ।
भूत्यै त्वा स्वाहा ।
कामायै त्वा स्वाहा ।
रक्षायै त्वा स्वाहा ।
समृधे त्वा स्वाहा ।
समृद्ध्यै त्वा स्वाहा ।
ऋचा स्तोमम् ।
प्रजापतये ।
भूः स्वाहा ।
अयाश् चाग्ने ऽसीति च ॥ व्ग्र्स्_14.12
उत्तरतो ऽग्नेर् दर्भेषु प्राचीं कन्याम् अवस्थाप्य पुरस्तात् प्रत्यङ्मुख उपयन्ता देवस्य ते सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् अहम् असाव् इत्य् अथास्या उपनयनवद्धस्तं गृह्णाति नीचारिक्तम् अरिक्तेन ।
गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासत् ।
भगो ऽर्यमा सविता पुरंधिर् मह्यं त्वादुर्गाहर्पत्याय देवाः ।
ऊर्ध्वा वाक् समभवत् पुरा देवासुरेभ्यः ।
यां त्वा विश्वस्य भूतस्य प्राग् आयाम्य् अस्या अग्रतः ।
सरस्वति प्रेदम् अव सुभगे वाजिनीवति ।
येन भूतं समभवद् येन विश्वमिदं जगत् तामद्य गाथां गास्यामो या स्त्रीणाम् उत्तमं मनः ।
सा त्वम् अस्य् अमो ऽहम् अमो ऽहमस्मि सा त्वम् ।
द्यौर् अहं पृथिवी त्वं बृहद् अहं रथंतरं त्वम् ।

रेतो ऽहम् अस्मि रेतोधृक् त्वम् ।
सामाहम् अस्मि ऋक्त्वं मनो ऽहमस्मि वाक्त्वम् ।
सा माम् अनुव्रता भव सा माम् अनुप्रजायस्व ।
प्रजां सृजावहा उभौ पुंसे पुत्राय कर्तवे ।
श्रियै पुत्राय वेथवेह सूनृते ।
इति ॥ व्ग्र्स्_14.13
प्रदक्षिणमग्निं परिणयेत् ॥ व्ग्र्स्_14.14
पश्चाद् अग्नेर् दर्भेष्वश्मानमवस्थापयति आतिष्ठेमम् अश्मानमश्मेव त्वं स्थिरा भव ।
कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ।
इति ॥ व्ग्र्स्_14.15
अत्रैवास्या द्वितीयं वासः प्रयच्छति ॥ व्ग्र्स्_14.16
उपर्यग्नाव् अञ्जलौ लाजान् भ्राता ब्रह्मचारी वोपस्तीर्ण आवपेत् ॥ व्ग्र्स्_14.17
तान् अभिघारितान् अविच्छिन्दती जुहुयात् ।
कर्तानुमन्त्रयेत ।
इयं नार्य् उपब्रूते लाजान् आवपन्तिका ।
दीर्घायुरस्तु मे पतिर् एधन्तां ज्ञातयो मम ।
अर्यमणं नु देवं कन्याग्निम् अयक्षत ।
सो ऽस्मान्देवो ऽर्यमा प्रेतो मुञ्चातु मामुत ।
स्वाहा ।
इति ॥ व्ग्र्स्_14.18
वीरसूर् जीवपत्नीर् भूयासम् इति सर्वत्र वाचयेत् ॥ व्ग्र्स्_14.19
तुभ्यमग्रे पर्यणयं सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ।
इति द्वितीयं परिणयेत् ॥ व्ग्र्स्_14.20
एवमेव तृतीयम् ।
अवस्थापनप्रभृति समानम् ।
पूषणं नु देवम् ।
वरुणं नु देवमिति होमौ ।
कन्याग्निम् अयक्षतेति समानम् ॥ व्ग्र्स्_14.21
कामेन चतुर्थी पूरयित्वा द्विर् अभिघार्योत्तरार्धपूर्वार्धे जुहुयात् ॥ व्ग्र्स्_14.22
अथैनां प्राचीं सप्त पदानि प्रक्रमयति एकम् इषे विष्णुस्त्वां नयतु ।
द्वे ऊर्जे ।
त्रीणि रायस्पोषाय ।
चत्वारि मायोभवाय ।
पञ्च प्रजाभ्यः ।
षड् ऋतुभ्यः ।
सप्त सप्तभ्यो होत्राभ्यः ।
विष्णुस् त्वां नयत्व् इति द्वितीयप्रभृत्यनुषजेत् ।
सखी सप्तपदी भव सख्यं ते गमेयं सख्यात्ते मा रिषम् इति सप्तम एनां प्रेक्षमाणां समीक्षते ॥ व्ग्र्स्_14.23
प्र त्वा मुञ्चातु वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः ।

धातुश्च योनौ सुकृतस्य लोके हृष्टा सं सह पत्या भूयासम् ।
इति शुल्वं विस्रंस्योदकुम्भेन मार्जयन्ते पुनन्तु मा पितर इत्यनुवाकेन ।
आपोहिष्ठीयेनेत्य् एके ॥ व्ग्र्स्_14.24
सुमङ्गलीर् इयं वधुर् इमां समेत्य पश्यत ।
सौभाग्यमस्यै दत्त्वा यथार्थं विपरेतन ।
इति ॥ व्ग्र्स्_14.25
स्थालीपाकेन शेषो व्याख्यातः ॥ व्ग्र्स्_14.26
पृथक्त्वेत् ।
येन द्यौर् उग्रेत्य् एवंप्रभृतय उद्वाहे होमाः स्युः ।
नापाणिग्रहणे लाजाः ।
समानं प्रक्रमणं मार्जनं च ॥ व्ग्र्स्_14.27
वाराहगृह्यसूत्र, 15
अङ्कौ न्यङ्काव् अभितो रथं ये ध्वान्ता वाता अग्रम् अभि ये संपतन्ति ।
दूरेहेतिः पतत्री वाजिनीवांस् ते नो ऽग्नयः पप्रयः पारयन्तु ।
इति चक्रम् अभिमन्त्रयते ॥ व्ग्र्स्_15.1
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुधुरं सुचक्रम् ।
आरोह सूर्ये अमृतस्य पन्थांस् तेन याहि गृहान् स्वस्ति ।
इत्यारोपयेत् ॥ व्ग्र्स्_15.2
उप मायन्तु देवता उप ब्रह्म सुवीर्यम् ।
उप क्षत्रं च यद्बलमुप मामैतु यद्बलम् ।
इति प्रयास्यन् जपति ॥ व्ग्र्स्_15.3
अनु मायन्तु देवता अनु ब्रह्म सुवीर्यम् ।
अनु क्षत्रं च यद् यशमनु मामैतु यद्यशम् ।
इति प्राञ्चं प्रयाप्य प्रदक्षिणमावृत्य यथार्थलक्षण्यवृक्षं चैत्यं वोपतिष्ठेत ॥ व्ग्र्स्_15.4
नमो रुद्रायैकवृक्षसद इत्येकवृक्षे जपति ।
ये वृक्षेषु शष्पिञ्जरा इति च ॥ व्ग्र्स्_15.5
नमो रुद्राय चतुष्पथसद इति चतुष्पथे ।
ये पथां पथिरक्षय इति च ॥ व्ग्र्स्_15.6
नमो रुद्राय श्मशानसद इति श्मशाने ।
ये भूतानाम् अधिपतय इति च ॥ व्ग्र्स्_15.7
नमो रुद्राय पात्रसद इति पिबन् ।
ये अन्नेषु विविध्यन्तीति च ॥ व्ग्र्स्_15.8
ये तीर्थानीति तीर्थे ॥ व्ग्र्स्_15.9
यत्रापस् तरितव्या आसीद् अति समुद्राय वयुनाय सिन्धूनां पतये नमः ।
नदीनां सर्वासां पित्वे जुहुता विश्वकर्मणे ।
विश्वहादाभ्यं हविः ।
इत्य् अप्सूदकाञ्जलीर् जुहुयात् ॥ व्ग्र्स्_15.10
यावतां सखायानं स्वस्तिमिच्छेत् तावत उदकाञ्जलीर् जुहुयात् अमृतम् आस्ये जुहोम्यायुः प्राणे प्रतिदधामि अमृतं ब्रह्मणा सह मृत्युं तरेम ।
प्रासहाद् इतीष्टिर् अस्यदितिर् एव मृत्युंधयमिति त्रिर् आचामेत् ॥ व्ग्र्स्_15.11
द्विः परिमृजेत् ॥ व्ग्र्स्_15.12

यद्यक्षा शम्याणिर् वा रिष्येत तत्रैवाग्निम् उपसमाधायाग्नेयेन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश् चाज्यस्य पुस्तात् स्विष्टकृतः ॥ व्ग्र्स्_15.13
अपरस्याह्नः संधिकाले गृहान् प्रपादयेत् ॥ व्ग्र्स्_15.14
रथाद्यौपासनात् संततामुलपराजीं स्तृणाति ॥ व्ग्र्स्_15.15
तयाभ्युपैति ॥ व्ग्र्स्_15.16
गृहानहं सुमनसः प्रपद्ये ऽवीरघ्नी वीरवतः सुशेवा ।
इरां वहन्ती घृतम् उक्षमाणांस् तेष्व् अहं सुमनाः संविशामि ।
इत्य् अभ्याहिताग्निं सोदकं सौषधमावसथं प्रपद्ये ।
रेवत्या रोहिण्या यद्वा पुण्योक्तम् ॥ व्ग्र्स्_15.17
आनडुहे चर्मण्युपविश्य ॥ व्ग्र्स्_15.18
अथास्या ब्रह्मचारिणं जीवपितृकं जीवमातृकम् उत्सङ्गमुपवेशयेत् ॥ व्ग्र्स्_15.19
फलानामञ्जलिं पूरयेत् तिलतण्डुलानां वा ॥ व्ग्र्स्_15.20
अच्युता ध्रुवा ध्रुवपत्नी ध्रुवं पश्येम विश्वत इति ध्रुवं जीवन्तीं सप्तर्षीन् अरुन्धतीमिति दर्शयित्वा प्राजापत्येन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश् चाज्यस्य पुरस्तात् स्विष्टकृत आज्यशेषे दध्यासिच्य दधिक्राव्णो अकारिषम् इति दध्नः पुमांस्त्रिः प्राश्नाति ॥ व्ग्र्स्_15.21
चक्रम् इवानडुहः पदं मामेवान्वेतु ते मनः ।
मां च पश्यसि सूर्यं च मा चान्येषु मनस्कृथाः ।
चाक्रवाकं संवसनं तन् नौ संवननं कृतम् ।
इत्यवशिष्टं जायायै प्रयच्छति ॥ व्ग्र्स्_15.22
तूष्णीं सा प्राश्नाति ॥ व्ग्र्स्_15.23
संवत्सरं मुदा तौ ब्रह्मचर्यं चरतः ।
द्वादशरात्रं त्रिरात्रम् एकरात्रं वा ॥ व्ग्र्स्_15.24
एवमेव चतुर्थ्यां कृत्वा हिरण्यगर्भ इत्यष्टाभिः स्थालीपाकस्य हुत्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात्स्विष्टकृतः ॥ व्ग्र्स्_15.25
अथास्याः सव्ये ऽंसे पूषा ते ग्रन्थिं ग्रथ्नात्व् इति वाससो ग्रन्थिं क्रियमाणम् अनुमन्त्रयते ॥ व्ग्र्स्_15.26
चतस्रो ऽविधवाः कुर्वन्ति ।
ताभ्यो हिरण्यं ददाति ॥ व्ग्र्स्_15.27
संवत्सरं न प्रवसेत् ।
द्वादशरात्रं त्रिरात्रम् एकरात्रं वा ॥ व्ग्र्स्_15.28
वाराहगृह्यसूत्र, 16
तौ संनिपातयतः ।
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो ऽभिभूतम् ।
इह प्रजामिह रयिं रराणः प्रजायस्व प्रजया पुत्रकाम ।
अपश्यं त्वा मनसा दीध्यानां स्वायां तनूम् ऋत्विये नाधमानाम् ।
उप माम् उच्चा युवतिर् बभूयात् प्रजायस्व प्रजया पुत्रकामे ।
प्रजापते तन्वं मे जुषस्व त्वष्टा वीरैः सहसाहम् इन्द्रः ।
इन्द्रेण देवैर्वीरुधः संव्ययन्तां बहूनां पुंसां पितरौ स्याव ।
अहं प्रजा अजनयं पृथिव्याम् अहं गर्भम् अदधामोषधीषु ।
अहं विश्वेषु भुवनेष्वन्तर् अहं प्रजाभ्यो बिभर्षि पुत्रान् ।
इति स्त्र्यादिव्यत्यासं जपतः ॥ व्ग्र्स्_16.1
करद् इति भसदभिमृशेत् ॥ व्ग्र्स्_16.2
जनद् इत्य् उपरिजननम् ॥ व्ग्र्स्_16.3
बृहद् इति जातः प्रतिष्ठितम् ॥ व्ग्र्स्_16.4
अथास्यास्तृतीये गर्भमासे पुंसा नक्षत्रेण यद् अहश्चन्द्रमा न दृश्येत तदहर् वोपोष्याप्लाव्याहतं वास आच्छाद्य न्यग्रोधावरोहशुङ्गान्युदपेषं पिष्ट्वा दक्षिणास्मिन्नासिकाछिद्र आसिञ्चेत् हिरण्यगर्भः ।

अद्भ्यः संभृत इत्येताभ्याम् ॥ व्ग्र्स्_16.5
अथास्या दक्षिणं कुक्षिम् अभिमृशेत् पुमान् अग्निः पुमानिन्द्रः पुमान्देवो बृहस्पतिः ।
पुमानग्निश्च वायुश्च पुमान्गर्भस् तवोदरे ।
पुमांसौ मित्रावरुणौ पुमांसाव् अश्विनाव् उभौ ।
पुमांसं गर्भं जायस्व त्वं पुमान् अनुजायताम् ।
इत्येताभ्याम् ॥ व्ग्र्स्_16.6
अथास्याः पञ्चमे षष्ठे सप्तमे वा गर्भमासे मङ्गल्यैः स्नापयित्वा प्राजापत्येन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात्स्विष्टकृतः ।
पश्चादग्नेर्दर्भेष्व् आसीनायाः सर्वान् केशान् विप्रमुच्य त्वमर्यमा भवसि यत्कनीनां देवः स्वधावो गुह्यं बिभर्षि ।
अञ्जन्ति विप्रं सुकृतं न गोभिर् यद् दम्पती सुमनसा कृणोषि ।
इति नवनीतेन पाणी प्रलिप्य सर्वान् केशान् संप्रयौति ॥ व्ग्र्स्_16.7
इन्द्राणी चक्रे कङ्कतं स सीमन्तं विसर्पतु इति कङ्कतं गृह्णाति ॥ व्ग्र्स्_16.8
पुनः पत्नीमग्निरिति केशप्रसाधनं कुर्यात् ॥ व्ग्र्स्_16.9
शलल्या शमीशाखया सपलाशया ।
अन्तर्वती पुमांसं दीर्घं जीवन्तं शतायुषम् ।
दीर्घायुर् अस्या यः पतिर् जीवातु शरदः शतम् ।
इति त्रिश्वेतया सीमन्तं करोति ॥ व्ग्र्स्_16.10
अथास्याः पतिर् द्वेधा केशान् बध्नाति नीललोहितेन सूत्रेण जीवोर्णया वा ॥ व्ग्र्स्_16.11
वाराहगृह्यसूत्र, 17
अथ वैश्वदेवं व्याख्यास्यामः ॥ व्ग्र्स्_17.1
तत्र सायंप्रातःप्रभृतीनाम् अग्निहोत्रवत् परिसमुह्य परिस्तीर्य पर्युक्ष्य सायं प्रातः स्यादित्येके ॥ व्ग्र्स्_17.2
हविष्यस्य वा सिद्धस्य वैश्वदेवः ॥ व्ग्र्स्_17.3
अग्नये सोमाय प्रजापतये धन्वन्तरये वास्तोष्पतये विश्वेभ्यो देवेभ्यो ऽग्नये स्विष्टकृते च जुहुयात् ॥ व्ग्र्स्_17.4
अवशिष्टस्य बलिं हरेत् ॥ व्ग्र्स्_17.5
दधिमधुमिश्रस्याग्नये पुरस्तात् यमाय दक्षिणतः सोमाय पश्चात् वरुणायोत्तरतः मध्ये वरुणार्यमभ्यां ब्रह्मणे च ।
अग्नये पृथिव्यै वायवे ऽन्तरिक्षाय सूर्याय दिवे चन्द्रमसे नक्षत्रेभ्य इति ॥ व्ग्र्स्_17.6
अद्भ्यः कुम्भदेशे ॥ व्ग्र्स्_17.7
ओषधिवनस्पतिभ्यो मध्यदेशे ॥ व्ग्र्स्_17.8
कामाय ।
गृहपतय इति शय्यादेशे ॥ व्ग्र्स्_17.9
श्रियै च ॥ व्ग्र्स्_17.10
रक्षोजनेभ्यो ऽन्तः शरणे ॥ व्ग्र्स्_17.11
आकाशायेति स्थलिकाण्डाभ्याम् ॥ व्ग्र्स्_17.12
तूष्णीं निष्क्रम्योपरि शरणे ॥ व्ग्र्स्_17.13
कव्यं प्राच्याम् ॥ व्ग्र्स्_17.14
पितृभ्यः स्वधेत्यनुषजेत् ॥ व्ग्र्स्_17.15
नम इत्यन्ते च ॥ व्ग्र्स्_17.16
ये ब्राह्मणाः प्राच्यां दिश्यर्हन्तु ।
ये देवा यानि भूतानि प्रपद्ये तानि मे स्वस्त्ययनं कुर्वन्त्विति ।
दक्षिणस्याम् ।
प्रतीच्याम् ।

उत्तरस्याम् ।
ऊर्ध्वायाम् ।
ये ब्राह्मणा इति सर्वत्रानुषजेत् ॥ व्ग्र्स्_17.17
स्नेहवद् अमांसम् अन्नं भोजयित्वा विदुषो ब्राह्मणान् अर्थसिद्धिं वाचयेत् ॥ व्ग्र्स्_17.18
बलिहरणस्यान्ते यामाशिषम् इच्छेत् ताम् आशासीत ॥ व्ग्र्स्_17.19
गृहपतिः ओं अक्षयम् अन्नम् अस्त्व् इत्य् आह ॥ व्ग्र्स्_17.20
भिक्षां प्रदाय सायं भोजनमेव प्रातर् आशेत् ॥ व्ग्र्स्_17.21
विप्रोष्य गृहानुपतिष्ठेत् ॥ व्ग्र्स्_17.22

मूल पाठ: Vārāhagṛhyasūtra · Edition: Raghu Vira. New Delhi: Meharchand Lachhmandas, 1982 (Panini Vaidika Granthamala 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc