भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 90

90.90.1

श्रीवराह उवाच ।
श्रृणु चान्यं वरारोहे तस्या देव्या महाविधिम् ।
या सा त्रिशक्तिरुद्दिष्टा शिवेन परमेष्ठिना

90.90.2

तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णा स्वरूपिणी ।
एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा

90.90.3

वागीशेति समाख्याता क्वचिद् देवी सरस्वती ।
सैव विद्येश्वरी देवी सैव क्वाप्यमिताक्षरा ।
सैव ज्ञानविधिः क्वापि सैव देवी विभावरी

90.90.4

यानि सौम्यानि नामानि यानि ज्ञानोद्भवानि च ।
तानि तस्या विशालाक्षि द्रष्टव्यानि वरानने

90.90.5

या वैष्णवी विशालाक्षी रक्तवर्णा सुरूपिणी ।
अपरा सा समाख्याता रौद्री चैव परापरा

90.90.6

एतास्त्रयोऽपि सिद्ध्यन्ते यो रुद्रं वेत्ति तत्त्वतः ।
सर्वगेयं वरारोहे एकैव त्रिविधा स्मृता

90.90.7

एषा सृष्टिर्वरारोहे कथिता ते पुरातनी ।
तया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्

90.90.8

या साऽऽदौ वर्द्धिता सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः ।
तया तुल्यां स्तुतिं चक्रे तस्या देव्याः पितामहः

90.90.9

ब्रह्मोवाच ।
जयस्व सत्यसंभूते ध्रुवे देवि वराक्षरे ।
सर्वगे सर्वजननि सर्वभूतमहेश्वरि

90.90.10

सर्वज्ञे त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।
सिद्धिबुद्धिकरी देवि प्रसूतिः परमेश्वरि

90.90.11

त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ।
त्वमोङ्कारस्थिता देवि वेदोत्पत्तिस्त्वमेव च

90.90.12

देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ।
पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने

90.90.13

विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरि ।
सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी

90.90.14

सर्वगा गतसंदेहा सर्वशत्रुनिबर्हिणी ।
सर्वविद्येश्वरी देवी नमस्ते स्वस्तिकारिणि

90.90.15

ऋतुस्नातां स्त्रियं गच्छेद् यस्त्वां स्तुत्वा वरानने ।
तस्यावश्यं भवेत् सृष्टिस्त्वत्प्रसादात् प्रजेश्वरि ।
स्वरूपा विजया भद्रा सर्वशत्रुप्रमोहिनि

90.90

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवतितमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc