भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 60

60.60.1

अगस्त्य उवाच ।
शान्तिव्रतं प्रवक्ष्यामि तव राजन् श्रृणुष्व तत् ।
येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम्

60.60.2

पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत ।
आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम्

60.60.3

नक्तं देवं तु संपूज्य हरिं शेषोपरि स्थितम् ।
अनन्तायेति पादौ तु वासुकायेति वै कटिम्

60.60.4

तक्षकायेति जठरमुरः कर्कोटकाय च ।
पद्माय कण्ठं संपूज्य महापद्माय दोर्युगम्

60.60.5

शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।
एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत्

60.60.6

क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः ।
तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः

60.60.7

एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् ।
नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत्

60.60.8

एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः ।
तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा

60.60

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc