भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 36

36.36.1

महातपा उवाच ।
आदित्रेतासु राजानो मणिजा ये प्रकीर्त्तिताः ।
कथयिष्यामि तान् राजन् यत्र जातोऽपि पार्थिव

36.36.2

योऽसौ सुप्रभनामासीत् स त्वं राजन् कृते युगे ।
जातोऽसि नाम्ना विख्यातः प्रजापालेति शोभनः

36.36.3

शेषास्त्रेतायुगे राजन् भविष्यन्ति महाबलाः ।
यो दीप्ततेजा मणिजः स शन्तेति प्रकीर्तितः

36.36.4

सुरश्मिर्भविता राजा शशकर्णो महाबलः ।
शुभदर्शनः पाञ्चालो भविष्यति नराधिपः

36.36.5

सुशान्तिरङ्गवंशे वै सुन्दरोऽप्यङ्ग इत्युत ।
सुन्दश्च मुचुकुन्दोऽभूत्सुद्युम्नस्तुर एव च

36.36.6

सुमनाः सोमदत्तस्तु शुभः संवरणोऽभवत् ।
सुशीलो वसुदानस्तु सुखदो सुपतिर्भवत्

36.36.7

शम्भुः सेनापतिरभूत् सुकान्तो दशरथः स्मृतः ।
सोमोऽभूज्जनको राजा एते त्रेतायुगे नृप

36.36.8

सर्वे भूमिमिमां राजन् भुक्त्वा ते वसुधाधिपाः ।
इष्ट्वा च विविधैर्यज्ञैर्दिवं प्राप्स्यन्त्यसंशयम्

36.36.9

श्रीवराह उवाच ।
एवं श्रुत्वा स राजर्षिर्ब्रह्मविद्याऽमृतं प्रभुः ।
आख्यानं परमं प्रीतस्तपश्चर्तुमियाद् वनम्

36.36.10

ऋषिरध्यात्मयोगेन विहायेदं कलेवरम् ।
ब्रह्मभूतोऽभवद्धात्रि हरौ लयमवाप च

36.36.11

वृन्दावनं च राजाऽसौ तपोऽर्थं गतवान् प्रभुः ।
तत्र गोविन्दनामानं हरिं स्तोतुमथारभत्

36.36.12

राजोवाच ।
नमामि देवं जगतां च मूर्त्तिं
गोपेन्द्रमिन्द्रानुजमप्रमेयम् ।
संसारचक्रक्रमणैकदक्षं
क्षितीधरं देववरं नमामि

36.36.13

भवोदधौ दुःखशतोर्म्मिभीमे
जरावर्त्ते कृष्णपातालमूले ।
तदन्तमेको दधते सुखं मे
नमोऽस्तु ते गोपतिरप्रमेय

36.36.14

व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च
सङ्घट्टमानं पुनरेव देव ।
नमोऽस्तु ते युद्धरते महात्मा
जनार्दनो गोपतिरुग्रबाहुः

36.36.15

त्वमुत्तमः सर्वविदां सुरेश
त्वया ततं विश्वमिदं समस्तम् ।
गोपेन्द्र मां पाहि महानुभाव
भवाद्भीतं तिग्मरथाङ्गपाणे

36.36.16

परोऽसि देव प्रवरः सुराणां
पुंसः स्वरूपोऽसि शशिप्रकाशः ।
हुताशवक्त्राच्युत तीव्रभाव
गोपेन्द्र मां पाहि भवे पतन्तम्

36.36.17

संसारचक्रक्रमणान्यनेका -
न्याविर्भवन्त्यच्युत देहिनां यत् ।
त्वन्मायया मोहितानां सुरेश
कस्ते मायां तरते द्वन्द्वधामा

36.36.18

अगोत्रमस्पर्शमरूपगन्ध -
मनामनिर्देशमजं वरेण्यम् ।
गोपेन्द्र त्वां यद्युपासन्ति धीरा -
स्ते मुक्तिभाजो भवबन्धमुक्ताः

36.36.19

शब्दातिगं व्योमरूपं विमूर्त्तिं
विकर्म्मिणां शुभभावं वरेण्यम् ।
चक्राब्जपाणिं तु तथोपचारा-
दुक्तं पुराणे सततं नमामि

36.36.20

त्रिविक्रमं क्रान्तजगत्त्रयं च
चतुर्मूर्त्तिं विश्वगतां क्षितीशम् ।
शम्भुं विभुं भूतपतिं सुरेशं
नमाम्यहं विष्णुमनन्तमूर्त्तिम्

36.36.21

त्वं देव सर्वाणि चराचराणि
सृजस्यथो संहरसे त्वमेव ।
मां मुक्तिकामं नय देव शीघ्रं
यस्मिन् गता योगिनो नापयान्ति

36.36.22

जयस्व गोविन्द महानुभाव
जयस्व विष्णो जय पद्मनाभ ।
जयस्व सर्वज्ञ जयाप्रमेय
जयस्व विश्वेश्वर विश्वमूर्त्ते

36.36.23

श्रीवराह उवाच ।
एवं स्तुत्वा तदा राजा निधाय स्वं कलेवरम् ।
परमात्मनि गोविन्दे लयमागाच्च शाश्वते

36.36

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्त्रिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc