भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 31

31.31.1

महातपा उवाच ।
मनोर्नाम मनुत्वं च यदेतत् पठ्यते किल ।
प्रयोजनवशाद् विष्णुरसावेव तु मूर्त्तिमान्

31.31.2

योऽसौ नारायणो देवः परात् परतरो नृप ।
तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम

31.31.3

सृष्टा चेयं मया सृष्टिः पालनीया मयैव ह ।
कर्मकाण्डं त्वमूर्त्तेन कर्तुं नैवेह शक्यते ।
तस्मान्मूर्त्तिं सृजाम्येकां यया पाल्यमिदं जगत्

31.31.4

एवं चिन्तयतस्तस्य सत्याभिध्यायिनो नृप ।
प्राक्सृष्टिजातं राजन् वै मूर्त्तिमत् तत्पुरो बभौ

31.31.5

पुरोभूते ततस्तस्मिन् देवो नारायणः स्वयम् ।
प्रविशन्तं ददर्शाथ त्रैलोक्यं तस्य देहतः

31.31.6

ततः सस्मार भगवान् वरदानं पुरातनम् ।
वागादीनां ततस्तुष्टः प्रादात् तस्य पुनर्वरम्

31.31.7

सर्वज्ञः सर्वकर्ता त्वं सर्वलोकनमस्कृतः ।
त्रैलोक्यविशनाच्च त्वं भव विष्णुः सनातनः

31.31.8

देवानां सर्वदा कार्यं कर्त्तव्यं ब्रह्मणस्तथा ।
सर्वज्ञत्वं च भवतु तव देव न संशयः

31.31.9

एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह ।
विष्णुरप्यधुना पूर्वां बुद्धिं सस्मार च प्रभुः

31.31.10

तदा संचिन्त्य भगवान् योगनिद्रां महातपाः ।
तस्यां संस्थाप्य भगवानिन्द्रियार्थोद्भवाः प्रजाः ।
ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः

31.31.11

तस्य सुप्तस्य जठरान्महत्पद्मं विविःसृतम् ।
सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना

31.31.12

तस्य रूपस्य विस्तारं पातालं नालसंस्थितम् ।
कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः

31.31.13

एवं दृष्ट्वा परं तस्य शरीरस्य तु संभवम् ।
मुमुचे तच्छरीरस्थो वायुर्वायुं समं सृजत्

31.31.14

अविद्याविजयं चेमं शङ्खरूपेण धारय ।
अज्ञानच्छेदनार्थाय खङ्गं तेऽस्तु सदा करे

31.31.15

कालचक्रमिमं घोरं चक्रं त्वं धारयाच्युत ।
अधर्मगजघातार्थं गदां धारय केशव

31.31.16

मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्वदा ।
श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह

31.31.17

मारुतस्ते गतिर्वीर गरुत्मान् स च कीर्त्तितः ।
त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदाश्रये ।
द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते

31.31.18

घृताशनो भवेद्यस्तु द्वादश्यां त्वल्परायणः ।
स स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः

31.31.19

एष विष्णुस्तवाख्यातो मूर्तयो देवदानवान् ।
हन्ति पाति शरीराणि सृजत्यन्यानि चात्मनः

31.31.20

युगे युगे सर्वगोऽयं वेदान्ते पुरुषो ह्यसौ ।
न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन

31.31.21

य एवं श्रृणुयात् सर्गं वैष्णवं पापनाशनम् ।
स कीर्तिमिह संप्राप्य स्वर्गलोके महीयते

31.31

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकत्रिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc