भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 29

29.29.1

महातपा उवाच ।
श्रृणु राजन्नवहितः प्रजापाल कथामिमाम् ।
यदा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते

29.29.2

ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।
चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति

29.29.3

एवं चिन्तयतस्तस्य अवकाशं प्रजास्विह ।
प्रादुर्बभूवुः श्रोत्रेभ्यः दश कन्या महाप्रभाः

29.29.4

पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा ।
ऊर्ध्वाऽधरा च षण्मुख्याः कन्या ह्यासंस्तदा नृप

29.29.5

अन्याश्चतस्त्रस्तेषां तु कन्याः परमशोभनाः ।
रूपस्विन्यो महाभागा गाम्भीर्येण समन्विताः

29.29.6

ता ऊचुः प्रणयाद् देवं प्रजापतिमकल्मषम् ।
अवकाशं तु नो देहि देवदेव प्रजापते

29.29.7

यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् ।
पतयश्च महाभागा देहि नोऽव्यक्तसंभव

29.29.8

ब्रह्मोवाच ।
ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।
तस्यान्ते स्वेच्छया भद्रा उष्यतां मा विलम्बत

29.29.9

भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।
यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना

29.29.10

एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा ।
ब्रह्मापि ससृजे तूर्णं लोकपालान् महाबलान्

29.29.11

सृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयत् ।
विवाहं कारयामास ब्रह्मा लोकपितामहः

29.29.12

एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च ।
निरृताय च देवाय वरुणाय महात्मने

29.29.13

वायवे धनदेशाय ईशानाय च सुव्रत ।
ऊर्द्ध्वां स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम्

29.29.14

एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादाद् दिशां पुनः ।
दशमीं भर्तृनाम्नस्तु दध्यन्नं भोजनं प्रभुः

29.29.15

ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः ।
दशमी च तिथिस्तासामतीव दयिताभवत्

29.29.16

तस्यां दध्याशनो यस्तु सुव्रती भवते नरः ।
तस्य पापक्षयं तास्तु कुर्वन्त्यहरहर्नृप

29.29.17

यश्चैतच्छृणुयाज्जन्म दिशां नियतमानसः ।
स प्रतिष्ठामवाप्नोति ब्रह्मलोके न संशयः

29.29

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनत्रिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc