भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 15

15.15.2

श्रीवराह उवाच ।
एतच्छ्रुत्वा तदा धात्रि पितृतन्त्रं महामुनिः ।
संस्मारितो जन्मशतं मार्कण्डेयेन धीमता

15.15.3

धरण्युवाच ।
भगवन् गौरमुखः कोऽसौ अन्यजन्मनि कः स्मृतः ।
कथं च स्मृतवान् स्मृत्वा किं चकार च सत्तमः

15.15.4

श्रीवराह उवाच ।
भृगुरासीत् स्वयं साक्षादन्यस्मिन् ब्रह्म जन्मनि ।
तदन्वयात्मजस्त्वेष मार्कण्डेयो महामुनिः

15.15.5

पुत्रैस्तु बोधिता यूयं सुगतिं प्राप्स्यथेति यत् ।
प्रागुक्तं ब्रह्मणा तेन मार्कण्डेयेन बोधितः

15.15.6

सस्मार सर्वजन्मानि स्मृत्वा चैव तु यत्कृतम् ।
तच्छृणुष्व वरारोहे कथयामि समासतः

15.15.7

एवं श्राद्धविधानेन द्वादशाब्दं ततः पितॄन् ।
इष्ट्वा पश्चाद्धरेः स्तोत्रं स मुनिस्तूपचक्रमे

15.15.8

प्रभासं नाम यत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र दैत्यान्तकं देवं स्तोतुं गौरमुखः स्थितः

15.15.9

गौरमुख उवाच ।
स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं
नारायणं ब्रह्मविदां प्रतिष्ठितम् ।
आदित्यचन्द्राश्वियुगस्थमाद्यं
पुरातनं दैत्यहरं सदा हरिम्

15.15.10

चकार मात्स्यं वपुरात्मनो यः
पुराकृतं वेदविनाशकाले ।
महामहीधृग्वपुरग्रपुच्छ -
छटाहवार्च्चिः सुरशत्रुहाद्यः

15.15.11

तथाब्धिमन्थानकृते गिरीन्द्रं
दधार यः कौर्म्मवपुः पुराणम् ।
हितेच्छया यः पुरुषः पुराणः
प्रपातु मां दैत्यहरः सुरेशः

15.15.12

महावराहः सततं पृथिव्यास्
तलात्तलं प्राविशद् यो महात्मा ।
यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः
स पातु मां दैत्यहरः पुराणः

15.15.13

नृसिंहरूपी च भवत्यजस्त्रं
युगे युगे योगिवरोग्रभीमः ।
करालवक्त्रः कनकाग्रवर्चा
रत्नाशयोऽस्मानसुरान्तकोऽव्यात्

15.15.14

बलेर्मखध्वंसकृते महात्मा
स्वां गूढतां योगवपुःस्वरूपः ।
स दण्डकाष्ठाऽजिनलक्षणः पुनः
क्षितिं च पदा क्रान्तवान् यः स पातु

15.15.15

त्रिःसप्तकृत्वो जगतीं जिगाय
जित्वा ददौ कश्यपाय प्रचण्डः ।
स जामदग्न्योऽभिजनस्य गोप्ता
हिरण्यगर्भोऽसुरहा प्रपातु

15.15.16

चतुःप्रकारं च वपुर्य आद्यं
हैरण्यगर्भप्रतिमानलक्ष्यम् ।
रामादिरूपैर्बहुरूपभेद-
श्चकार सोऽस्मानसुरान्तकोऽव्यात्

15.15.17

चाणूरकंसासुरदर्पभीते-
र्भीतामराणामभयाय देवः ।
युगे युगे वासुदेवो बभूव
कल्पे भवत्यद्भुतरूपकारी ।
युगे युगे कल्किनाम्ना महात्मा
वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः

15.15.18

सनातनो ब्रह्ममयः पुराणो
न यस्य रूपं सुरसिद्धदैत्याः ।
पश्यन्ति विज्ञानगतिं विहाय
अथोप्यनेकानि समर्च्वयन्ति ।
मत्स्यादिरूपाणि चराणि सोऽव्यात्

15.15.19

नमो नमस्ते पुरुषोत्तमाय
पुनश्च भूयोऽपि नमो नमस्ते ।
नमः पुरस्तादथ पृष्ठतस्ते
नयस्व मां मुक्तिपदं नमस्ते

15.15.20

एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः ।
प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः

15.15.21

तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः ।
उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते ।
लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते

15.15

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चदशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc