भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 9.2

9.2.1

अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम्

9.2.2

अस्येदं कार्य कारणसम्बन्धश्चावयवाद्भवति

9.2.3

एतेन शाब्दं व्याख्यातम्

9.2.4

हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम्

9.2.5

अस्येदमिति बुद्ध्यपेक्षितत्वात्

9.2.6

आत्मनः संयोगविशेषात् संस्काराच्च स्मृतिः

9.2.7

तथा स्वप्नः

9.2.8

स्वप्नान्तिकम्

9.2.9

धर्माच्च

9.2.10

इन्द्रियदोषात्संस्कारदोषाच्चाविद्या

9.2.11

तद्दुष्टज्ञानम्

9.2.12

अदुष्टं विद्या

9.2.13

आर्षं सिद्धदर्शनं च धर्मेभ्यः

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc