भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 10.1

10.1.1

इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोर्थान्तरभावः

10.1.2

संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः

10.1.3

तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम्

10.1.4

अभूदित्यपि

10.1.5

सति च कार्यादर्शनात्

10.1.6

एकार्थसमवायि कारणान्तरेषु दृष्टत्वात्

10.1.7

एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc