वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 1.2
कारणाभावात् कार्याभावः
न तु कार्याभावात् कारणाभावः
सामान्यविशेष इति बुद्ध्यपेक्षम्
भावो ऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च
अन्यत्रान्त्येभ्यो विशेषेभ्यः
सदिति यतो द्रव्यगुणकर्मसु सा सत्ता
द्रव्यगुणकर्मभ्योर्ऽथान्तरं सत्ता
गुणकर्मसु च भावान्न कर्म न गुणः
सामान्यविशेषाभावेन च
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम्
सामान्यविशेषाभावेन च
तथा गुणेषु भावाद्गुणत्वमुक्तम्
सामान्यविशेषाभावेन च
कर्मसु भावात्कर्मत्वमुक्तम्
सामान्यविशेषाभावेन च
सदिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः
मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0