त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः · भाग 14
असङ्ग: त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः
परमो ऽनुग्रहो ज्ञेयः शारीरः सपरिग्रहः ।
प्राप्ताप्राप्ताविहानौ च परमा स्यात् परीन्दना ॥ त्श्प्क्_1
विपुलः परमो ऽत्यन्तो ऽविपर्यस्तश् च चेतसि ।
उपकाराशयः स्थानं याने ऽस्मिन् गुणपूरितः ॥ त्श्प्क्_2
दानं पारमिताषत्कम् आमिषाभयधर्मतः ।
एकद्वयत्रयेणेह प्रतिपत् सा ऽप्रतिष्ठिता ॥ त्श्प्क्_3
आत्मभावे प्रतिकृतौ विपाके चाप्य् असक्तता ।
अप्रवृत्तितदन्यार्थप्रवृत्तिपरिवर्जने ॥ त्श्प्क्_4
प्रग्रहो मण्डले त्रेधा निमित्ताच् चित्तवारणम् ।
उत्तरोत्तरसंदेहजन्मतश् च निवारणा ॥ त्श्प्क्_5
संस्कृतत्वेन संकल्प्य संपत् प्राप्तौ निवार्यते ।
त्रैलक्षण्यान्यथाभावात् तदभावात् तथागतः ॥ त्श्प्क्_6
सहेतुफलगाम्भीर्यदेशनास्मिन् युगाधमे ।
न निष्फला यतः सन्ति बोधिसत्त्वास् त्रयान्विताः ॥ त्श्प्क्_7
शिक्षयोपासानात् पूर्वं कुशलस्यावरोपणात् ।
शीलवन्तो ऽन्यबुद्धेषु गुणवन्तश् च कीर्तिताः ॥ त्श्प्क्_8
सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणतः ।
प्रज्ञावन्तश् च संज्ञाया अष्टधाष्टार्थभेदतः ॥ त्श्प्क्_9
पृथग्भावेन संतत्या वृत्तेर् आजीवितस्थितेः ।
पुनश् च गतिलीनत्वाद् आत्मसंज्ञा चतुर्विधा ॥ त्श्प्क्_10
सर्वाभावाद् अभावस्य सद्भावान् नाभिलाप्यतः ।
अभिलापप्रयोगाच् च धर्मसंज्ञा चतुर्विधा ॥ त्श्प्क्_11
अधिमुक्तिवशात् तेषां भूतसंज्ञा प्रसादतः ।
यथारुताग्रहात् संयग्देशितत्वस्य चोद्ग्रहात् ॥ त्श्प्क्_12
फलतो न मिता बुद्धैः प्रणिधिज्ञानलक्षिताः ।
इआभसत्कारकामानां तद्वादविनिवृत्तये ॥ त्श्प्क्_13
अस्थानाद् आनुकूल्याच् च धर्मेष्व् अधिगमस्य हि ।
कोलस्येव परित्यागो धर्मे संधिस् ततो मतः ॥ त्श्प्क्_14
नैर्माणिकेन नो बुद्धो धर्मो नापि च देशितः ।
देशितस् तु द्वयाग्राह्यो ऽवाच्यो ऽवाक्पथलक्षणात् ॥ त्श्प्क्_15
ग्रहणदेशणा चास्य नापार्था पु ण्य संग्रहात् ।
पुण्यं बोध्यनुपस्तंभाद् उपस् तंभाद् द्वयस्य च ॥ त्श्प्क्_16
स्वाभाविकाप्तिहेतुत्वात् तदन्यस्य च जन्मनः ।
कैवल्याद् बुद्धधर्माणाम् अग्र्यत्वं पुण्यसाधनम् ॥ त्श्प्क्_17
अग्राह्यानभिलप्यत्वं स्वफलानाम् अनुद्ग्रहात् ।
द्वयावरणनिर्मोक्षात् सुभूताव् अरणाद्वयं ॥ त्श्प्क्_18
बुद्धदीपंकराग्राहाद् वक्येनाधिगमस्य हि ।
ततश् चाधिगमे सिद्धा अग्राह्यानभिलाप्यता ॥ त्श्प्क्_19
ज्ञाननिष्यन्दविज्ञप्तिमात्रत्वात् क्षेत्रनोद्ग्रहः ।
अविग्रहत्वाद् अग्रत्वाद् अव्यूह ं व्यूहता मता ॥ त्श्प्क्_20
सुमेरोर् इव राजत्वे संभोगे नास्ति चोद्ग्रहः ।
सास्रवत्वेन चाभावात् संस्कृतत्वेन चास्य हि ॥ त्श्प्क्_21
बहुत्वभेदख्यात्यर्थं विशेषस्य च सिद्धये ।
पौर्वापर्येण पुण्यस्य पुनर् दृष्टान्तदेशना ॥ त्श्प्क्_22
द्वयस्य पात्रीकरणान् निष्यन्दत्वमहत्वतः ।
असंक्लेशस्य हेतुत्वाद् धीनाभिभवनाद् अपि ॥ त्श्प्क्_23
तत्फलश्रेष्ठदुःखत्वाद् दुर्लभार्थोत्तमार्थतः ।
ज्ञेयापारमितत्वाच् च परासाधारणत्वतः ॥ त्श्प्क्_24
गाढगंभीरभावाच् च परसूत्रविशिष्टतः ।
महाशुद्धान्वयत्वाच् च पुण्यात् पुण्यं विशिष्यते ॥ त्श्प्क्_25
सहिष्णुता च चर्यायां दुष्करायां शुभा यतः ।
तद्गुणापरिमाणत्वाद् अग्रार्थेन निरुच्यते ॥ त्श्प्क्_26
आत्मव्यापादसंज्ञाया अभावाद् दुःखता न च ।
ससुखा करुणाभावाच् चर्यादुःखफला ततः ॥ त्श्प्क्_27
चित्तात्यागाभिनिर्हारे यत्न ः कार्यो दृढो यतः ।
क्षान्तिपारमिताप्राप्तौ तत्प्रायोगिक एव च ॥ त्श्प्क्_28
प्रतिपत्तिश् च सत्त्वार्था विज्ञेया हेतुभावतः ।
सत्त्ववस्तुनिमित्तात् तु विज्ञेया परिवर्जिता ॥ त्श्प्क्_29
नामस्कन्धाश् च तद्वस्तु तत्संज्ञापगमाज् जिने ।
तदभावो हि बुद्धानां तत्त्वदर्शनयोगतः ॥ त्श्प्क्_30
फलाप्रतिष्ठितो मार्गस् तत्फलस्यापि कारणम् ।
बुद्धानां भूतवादित्वात् तच् च ज्ञेयं चतुर्विधम् ॥ त्श्प्क्_31
प्रतिज्ञा हीनयानस्य महायानस्य देशना ।
सर्वव्याकरणानां च न विसंवादिनी यतः ॥ त्श्प्क्_32
अप्राप्तेर् आनुकुल्याच् च न सत्या न मृषा मता ।
यथारुतनिवेशस्य प्रतिपक्षेण देशना ॥ त्श्प्क्_33
x x x x x x x x x x x x x . अ लाभता ।
अज्ञानात् सप्रतिष्ठेन ज्ञानाद् अन्येन लाभता ॥ त्श्प्क्_34
तमःप्रकाशम् अज्ञानं ज्ञानम् आलोकवन् मत म् ।
प्रतिपक्षविपक्षस्य लाभहान्यामुखत्वतः ॥ त्श्प्क्_35
यादृश्या प्रतिप त्त्या x x x x x x x x x ।
यत् कर्मिका च सा धर्मे प्रतिपत्तिस् तद् उच्यते ॥ त्श्प्क्_36
व्यञ्जने त्रिविधा धर्मधरत्वे श्रुतविस्तरे ।
अर्थस्य परतो ऽध्यात्मम् आप्तौ श्रवणचिन्तनात् ॥ त्श्प्क्_37
x x x x x x x x x x x x परि पाचने ।
वस्तुकालमहत्वेन पुण्यात् पुण्यं विशिष्यते ॥ त्श्प्क्_38
अगोचरत्वं कैवल्यं महात्माश्रितता तथा ।
दुर्लभश्रवता चैव धातुपुष्टिर् अनु त्तरा ॥ त्श्प्क्_39
x x x x x x x x x x x पात्र ताश्रये ।
शोधनावरणानां च क्षिप्राभिज्ञात्वम् एव च ॥ त्श्प्क्_40
विचित्रैओकसंपत्तिविपाकः सुमहान्न् अपि ।
कर्माणि एतानि धर्मे प्रतिपत्तेर् मता नि x ॥ त्श्प्क्_41
x x x x x x x x x बोधिसत् त्वकल्पना ।
चित्तावरणम् आख्यातं यच् चित्तम् अप्रतिष्ठितं ॥ त्श्प्क्_42
पश्चाद्व्याकरणान् नो च चर्या दीपंकरे परा ।
बोधिस् तच् चर्यया तुल्या न स x x x x x x ॥ त्श्प्क्_43
x x x x x x x x न मृषा परिदीपिता ।
धर्मास् ततो बुद्धधर्माः सर्वे ऽभावस्वलक्षणाः ॥ त्श्प्क्_44
धर्मकायेन बुद्धस् तु मतः सः पुरुषोपमः ।
निरावरणतो x x x x x x x x x x x ॥ त्श्प्क्_45
गुणमहा त्म्यतश् चापि महाकायः स एव हि ।
अभावकायभावाच् च अकायो ऽसौ निरुच्यते ॥ त्श्प्क्_46
धर्मधाताव् अकुशलः सत्त्वनिर्वापणे मतिः ।
क्षेत्राणां शोधने चैव x x x x x x x x ॥ त्श्प्क्_47
सत्त्वानां बोधिसत्त्वा नां धर्मान् यश् च नैरात्मकान् ।
बुद्ध्याधिमुच्यते ऽनार्य आर्यो धीमान् स कठ्यते ॥ त्श्प्क्_48
नोपलम्भे ऽपि धर्माणां चक्षुर् न हि न विद्यते ।
बुद्धानां पञ्चधा त् अच् च वितथार्थस्य दर्शनात् ॥ त्श्प्क्_49
नानाविथतवि ज्ञप्तेः स्ंऋत्युपस्थानवर्जनात् ।
निराधारप्रबन्धो ऽस्या वितथातो निरुच्यते ॥ त्श्प्क्_50
ज्ञानस्याधारतो ज्ञेया पुण्ये वितथता न च ।
ततः पुण्यनिमित्तं हि पुन र् दृष्टान्तकीर्तनम् ॥ त्श्प्क्_51
न धर्मकायनिष्पत्तिर् अनु व्यञ्जनम् उच्यते ।
न च लक्षणसंपत्तिस् तद् अकायत्वतो मता ॥ त्श्प्क्_52
धर्मकायाविनिर्भागान् न द्वयं न तथागतः ।
संपत्तिर् उच्यते भूयो द्वयं नास्त्य् अस्तिता ततः ॥ त्श्प्क्_53
x x x x x x x x x x x x x क ल्पिता ।
धर्मकायाविनिर्भागाद् देशनाप्य् अस्वलक्षणा ॥ त्श्प्क्_54
देश्यदैशिकगांभीर्यश्रद्धा न च न सन्ति हि ।
न सत्त्वा नापि चासत्त्वास् ते ऽनार्यार्य x x x x ॥ त्श्प्क्_55
x x x x x x x x ज्ञेया बोधिर् अनुत्तरा ।
न वृद्ध्या धर्मधातौ हि शुद्धिसाम्यात् स्वल क्ष णात् ॥ त्श्प्क्_56
उपायानुत्तरत्वाच् च सास्रवत्वाद् अधर्मतः ।
शुभा न धर्मा x x x x x x x x x x x ॥ त्श्प्क्_57
नैव ? चाव्याकृतत्वे ऽपि देशना ऽप्राप्तये मता ।
धर्मरत्नं ततश् चैकं रत्नाद् अन्याद् विशिष्यते ॥ त्श्प्क्_58
संख्याप्रभवजातीनां संबन्धस्य विशेषणे ।
x x x x x x x x x x x x x लभ् यते ॥ त्श्प्क्_59
समत्वाद् धर्मधातोश् च न सत्त्वा मोचिता जिनैः ।
सहनाम्ना यतः स्कन्धा धर्मधात्वबहिर्गताः ॥ त्श्प्क्_60
आत्मग्राहसमो दोसस् त x x x x x x x ।
x x x x x ग्राहे हि अग्राहग्राहता मता ॥ त्श्प्क्_61
न चैव रूपकायेन सो ऽनुमेयस् तथागतः ।
धर्मकायो यतश् चक्रवर्ती माभूत् तथागतः ॥ त्श्प्क्_62
न च लक्षणवैपाक्यपु ण्य् . x x x x x x ।
धर्मकाय स्य लाभो हि उपायो यद् विलक्षणः ॥ त्श्प्क्_63
रूपानुश्रवमात्रेण न बुद्धज्ञः पृथग्जनः ।
तथताधर्मकायो हि यतो ऽविज्ञानगोचरः ॥ त्श्प्क्_64
न च पुण्यस् x x x x x x x x x x x x ।
क्षान्तिलाभे ऽपि नोच्छेदो निर्मलस्यास्य लाभतः ॥ त्श्प्क्_65
पुनः पुण्यनिमित्तं हि तस्माद् दृष्टान्तदेशना ।
तत् पुण्यस्याविपाकत्वान् नोद्ग्रहः सपरिग्रहः ॥ त्श्प्क्_66
तन् निर्माणफलं तेषा ं पुण्य x x x x x x ।
अनाभोगेन यत् कर्म बुद्धाः कुर्वन्ति दिक्षु च ॥ त्श्प्क्_67
गत्यादयस् तु निर्माणैर् बुद्धास् त्व् अविचलाः सदा ।
धर्मधातौ च तत्स्थानं नैकत्वान्यत्वतो मतम् ॥ त्श्प्क्_68
रजोमषीक्रिया धातोर् दृ ष्टान्तस् तस्य द्योत कः ।
मषीकर ण ता क्लेशक्षयस्येह निदर्शनम् ॥ त्श्प्क्_69
असंचयत्वापिण्डत्वम् अनेकत्वनिदर्शनम् ।
संहतस्थानता तस्मिन् नान्यत्वे च निदर्शनम् ॥ त्श्प्क्_70
व्यवहारमात्रताया बाला नाम् उद्ग्रहो ऽन्यथा ।
द्वयाभावान् न बोध्याप्तिः प्रहाणाद् आत्मधर्मयोः ॥ त्श्प्क्_71
तस्माद् दृष्टिर् अदृष्टिश् च नैरर्थ्याभूतकल्पतः ।
सूक्ष्मम् आवरणं ह्य् एतत् तथा ज्ञानात् प्र हीयते ॥ त्श्प्क्_72
ज्ञानद्वयसमाधानप्रहेयं तच् च देशितम् ।
निर्माणैः कशणात् पुण्यं तद् बुद्धानां न नाक्षयम् ॥ त्श्प्क्_73
निर्मितो ऽस्मीति चात्मानं काशयन्तस् तथागताः ।
प्रकाशयन्ति ना त्मानं तस्मात् सा काशना सती ॥ त्श्प्क्_74
संस्कारो न तथा नान्यं निर्वाणं हि तथागते ।
नवधा संभूतस्येह संयग्ज्ञानपरीक्षणात् ॥ त्श्प्क्_75
दृष्टिर् निमित्तं विज्ञानं प्रतिष्ठादेहभोगता ।
अतीतं वर्तमानं च परीक्ष्यं चाप्य् अनागतम् ॥ त्श्प्क्_76
लक्षणस्योपभोगस्य प्रवृत्तेश् च परीक्षणात् ।
निर्मलां तेषु वशितां संस्कारेषु समाप्नुते ॥ त्श्प्क्_77
त्रिशतिकायाः प्रज्ञापारमिता याः कारिकासप्ततिः समाप्ता ॥ ॥
कृतिर् इयम् आर्यासङ्गपादानाम् इति ॥ ॥
मूल पाठ: Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ · Edition: G. Tucci: Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 54-92. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0