भाषा

ENहिગુ
ग्रंथ पाठ

त्रिंशिकाविज्ञप्तिकारिका (टीका सहित) · भाग 110

वसुबन्धु: त्रिंशिकाविज्ञप्तिकारिका
नमो बुद्धाय ॥
पुद्गलधर्मनैरात्म्ययोर् अप्रतिपन्नविप्रतिपन्नानाम् अविपरीतपुद्गलधर्मनैरात्म्यप्रतिपादनार्थं त्रिंशिकाविज्ञप्तिप्रकरणारम्भः ।
पुद्गलधर्मनैरात्म्यप्रतिपादनं पुनः क्लेशज्ञेयावरणप्रहाणार्थम् । तथा ह्य् आत्मदृष्टिप्रभवा रागादयः क्लेशाः पुद्गलनैरात्म्यावबोधश् च सत्कायदृष्टेः प्रतिपक्षत्वात् तत्प्रहाणाय प्रवर्तमानः सर्वक्लेशान् प्रजहाति । धर्मनैरात्म्यज्ञानाद् अपि ज्ञेयावरणप्रतिपक्षत्वात् ज्ञेयावरणं प्रहीयते । क्लेशज्ञेयावरणप्रहाणम् अपि मोक्षसर्वज्ञत्वाधिगमार्थम् । क्लेशा हि मोक्षप्राप्तेर् आवरणम् इति अतस् तेषु प्रहीणेषु मोक्षो ऽधिगम्यते । ज्ञेयावरणम् अपि सर्वस्मिन् ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभूतम् अक्लिष्टम् अज्ञानम् । तस्मिन् प्रहीणे सर्वाकारे ज्ञेये ऽसक्तम् अप्रतिहतञ् च ज्ञानं प्रवर्तत इत्य् अतः सर्वज्ञत्वम् अधिगम्यते ।
अथ वा धर्मपुद्गलाभिनिविष्टाश् चित्तमात्रं यथाभूतं न जानन्तीत्य् अतो धर्मपुद्गलनैरात्म्यप्रदर्शनेन सफले विज्ञप्तिमात्रे ऽनुपूर्वेण प्रवेशार्थं प्रकरणारम्भः ।
अथ वा विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेति केचिन् मन्यन्ते । विज्ञेयवद् विज्ञानम् अपि संवृतित एव न परमार्थत इत्य् अस्य द्विप्रकारस्याप्य् एकान्तवादस्य प्रतिषेधार्थः प्रकरणारम्भः ॥
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । 1अब्
लोकशास्त्रयोर् इति वाक्यशेषः ।
विज्ञानपरिणामे ऽसौ । 1च्
आत्मधर्मोपचार इति संबध्यते । आत्मा धर्माश् चोपचर्यन्त इत्य् आत्मधर्मोपचारः । स पुनर् आत्मप्रज्ञप्तिर् धर्मप्रज्ञप्तिश् च । विविध इत्य् अनेकप्रकारः । आत्मा जीवो जन्तुर् मनुजो माणव इत्य् एवमादिक आत्मोपचारः स्कन्धा धातव आयतनानि रूपं वेदना संज्ञा संस्कारा विज्ञानम् इत्य् एवमादिको धर्मोपचारः ।
अयं द्विप्रकारो ऽप्य् उपचारो विज्ञानपरिणाम एव न मुख्ये आत्मनि धर्मेषु चेति । कुत एतत् । धर्माणाम् आत्मनश् च विज्ञानपरिणामाद् बहिर् अभावात् । को ऽयं परिणामो नाम । अन्यथात्वम् । कारणक्षणनिरोधसमकालः कारणक्षणविलक्षणः कार्यस्यात्मलाभः परिणामः । तत्रात्मादिविकल्पवासनापरिपोषाद् रूपादिविकल्पवासनापरिपोषाच् चालयविज्ञानाद् आत्मादिनिर्भासो विकल्पो रूपादिनिर्भासश् चोत्पद्यते । [ त्व्भ्_42 ] तम् आत्मादिनिर्भासं रूपादिनिर्भासञ् च तस्माद् विकल्पाद् बहिर्भूतम् इवोपादायात्माद्युपचारो रूपादिधर्मोपचारश् चानादिकालिकः प्रवर्तते विनापि बाह्येनात्मना धर्मैश् च । तद् यथा तैमिरिकस्य केशोण्डुकाद्युपचार इति । यच् च यत्र नास्ति तत् तत्रोपचर्यते । तद् यथा बाहीके गौः ।
एवं विज्ञानस्वरूपे बहिश् चात्मधर्माभावात् परिकल्पित एवात्मा धर्माश् च न तु परमार्थतः सन्तीति विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेत्य् अयम् एकान्तवादो नाभ्युपेयः ।
उपचारस्य च निराधारस्यासंभवाद् अवश्यं विज्ञानपरिणामो वस्तुतो ऽस्तीत्य् उपगन्तव्यो यत्रात्मधर्मोपचारः प्रवर्तते । अतश् चायम् अभ्युपगमो न युक्तिक्षमो विज्ञानम् अपि विज्ञेयवत् संवृतित एव न परमार्थत इति । संवृतितो ऽप्य् अभावप्रसङ्गान् न हि संवृतिर् निरुपादाना युज्यते ।
तस्माद् अयम् एकान्तवादो द्विप्रकारो ऽपि निर्युक्तिकत्वात् त्याज्य इत्य् आचार्यवचनम् । एवञ् च सर्वं विज्ञेयं परिकल्पितस्वभावत्वाद् वस्तुतो न विद्यते विज्ञानं पुनः प्रतीत्यसमुत्पन्नत्वाद् द्रव्यतो ऽस्तीत्य् अभ्युपेयम् । प्रतीत्यसमुत्पन्नत्वं पुनर् विज्ञानस्य परिणामशब्देन ज्ञापितम् ।
कथम् एतद् गम्यते विना बाह्येनार्थेन विज्ञानम् एवार्थाकारम् उत्पद्यत इति । बाह्यो ह्य् अर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते न कारणत्वमात्रेण समनन्तरादिप्रत्ययाद् विशेषाप्रसङ्गात् ।
सञ्चितालम्बनाश् च पञ्चविज्ञानकायास् तदाकारत्वात् । न च सञ्चितम् अवयवसंहतिमात्राद् अन्यद् विद्यते । तदवयवान् अपोह्य सञ्चिताकारविज्ञानाभावात् । तस्माद् विनैव बाह्येनार्थेन विज्ञानं सञ्चिताकारम् उत्पद्यते ।
न च परमाणव एव संचितास् तस्यालम्बनं परमाणूनाम् अतदाकारत्वात् । न ह्य् असञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिद् आत्मातिशयः । तस्माद् असञ्चितवत् सञ्चिता अपि परमाणवो नैवालम्बनम् ।
अन्यस् तु मन्यते । एकैक परमाणुर् अन्यनिरपेक्ष्यो ऽतीन्द्रियो बहवस् तु परस्परापेक्षा इन्द्रियग्राह्याः । तेषाम् अपि सापेक्षनिरपेक्षावस्थयोर् आत्मातिशयाभावाद् एकान्तेनेन्द्रियग्राह्यत्वम् अतीन्द्रियत्वं वा ।
यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति । एवं सति यो ऽयं घटकुड्याद्याकारभेदो विज्ञाने स न स्यात् प्ररमाणूनाम् अतदाकारत्वात् । न चान्यनिर्भासस्य विज्ञानस्यान्याकारो विषयो युज्यते ऽतिप्रसङ्गात् । न च परमाणवः स्तम्भादिवत् परमार्थतः सन्त्य्। अर्वाङ्मध्यपरभागसद्भावात् ।
तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो यः स परमाणोर् न स्यात् । ततश् च विज्ञानवत् परमाणोर् अप्य् अमूर्तत्वम् अदेशस्थत्वञ् च प्रसज्यते । एवं बाह्यार्थाभावाद् विज्ञानम् एवार्थाकारम् उत्पद्यते स्वप्नविज्ञानवद् इत्य् अभ्युपेयम् । वेदनादयो ऽपि नातीतानागतास् तदाकारविज्ञानजनका निरुद्धाजातत्वात् । न च वर्तमाना वर्तमानजनका उत्पद्यमानावस्थायाम् असत्त्वात् । [ त्व्भ्_46 ] उत्पन्नावस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान् न किञ्चित् कर्तव्यम् अस्तीति मनोविज्ञानम् अप्य् अनालम्बनम् एवोत्पद्यते ।
अन्यस् त्व् आह । असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युज्यते । उपचारो हि त्रिषु सत्सु भवति नान्यतमाभावे मुख्यपदार्थे तत्सदृशे ऽन्यस्मिन् विषये तयोश् च सादृश्ये । तद् यथा मुख्ये ऽग्नौ तत्सदृशे च माणवके तयोश् च साधारणे धर्मे कपिलत्वे तीक्ष्णत्वे वा सत्य् अग्निर् माणवक इत्य् उपचारः क्रियते । अत्र ह्य् अग्निर् माणवक इति जातिर् द्रव्यं वोपचर्यते । उभयथाप्य् उपचाराभावः ।
तत्र तावन् न जातेः साधारणं कपिलत्वं तीक्ष्णत्वं वा । न च साधारणधर्माभावे माणवके जातेर् उपचारो युज्यते ऽतिप्रसङ्गात् । अतद्धर्मत्वे ऽपि जातेस् तीक्ष्णत्वकपिलत्वयोर्
जात्यविनाभावित्वान् माणवके जात्युपचारो भविष्यति । जात्यभावे ऽपि तीक्ष्णत्वकपिलत्वयोर् माणवके दर्शनाद् अविनाभावित्वम् अयुक्तम् । अविनाभावित्वे चोपचाराभावो ऽग्नाव् इव माणवके ऽपि जातिसद्भावात् । तस्मान् न माणवके जात्युपचारः संभवति ।
नापि द्रव्योपचारः सामान्यधर्माभावात् । न हि यो ऽग्नेस् तीक्ष्णो गुणः कपिलो वा स एव माणवके । किं तर्हि ततो ऽन्यः । विशेषस्य स्वाश्रयप्रतिबद्धत्वान् न विनाग्निगुणेनाग्नेर् माणवके उपचारो युक्तः । अग्निगुणसादृश्याद् युक्त इति चेत् । एवम् अप्य् अग्निगुणस्यैव तीक्ष्णस्य कपिलस्य वा माणवकगुणे तीक्ष्णे कपिले वा सादृश्याद् उपचारो युक्तो न तु माणवके ऽग्नेर् गुणसादृश्येनासंबन्धात् । तस्माद् द्रव्योपचारो ऽपि नैव युज्यते ।

मुख्यो ऽपि पदार्थो नैवास्ति तत्स्वरूपस्य सर्वज्ञानाभिधानविषयातिक्रान्तत्वात् । प्रधाने हि गुणरूपेणैव ज्ञानाभिधाने प्रवर्तेते तत्स्वरूपासंस्पर्शात् । अन्यथा च गुणवैयर्थ्यप्रसङ्गः । न हि ज्ञानाभिधानव्यतिरिक्तो ऽन्यः पदार्थस्वरूपपरिच्छित्त्युपायो ऽस्तीत्य् अतः प्रधानस्वरूपविषयज्ञानाभिधानाभावान् नैव मुख्यः पदार्थो ऽस्तीत्य् अवगन्तव्यम् । एवं यावच् छब्दे संबन्धाभावाज् ज्ञानाभिधानाभाव एवञ् चाभिधानाभिधेयाभावान् नैव मुख्यः पदार्थो ऽस्ति । अपि च सर्व एवायं गौण एव न मुख्यो ऽस्ति । गौणो हि नाम यो यत्राविद्यमानेन रूपेण प्रवर्तते । सर्वश् च शब्दः प्रधाने ऽविद्यमानेनैव गुणरूपेण प्रवर्तते अतो मुख्यो नास्त्य् एव । तत्र यद् उक्तं असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युक्त इति तद् अयुक्तम् ।
विज्ञानपरिणामः कति प्रभेद इति न ज्ञायते । अतस् तत्प्रभेदोपदर्शनार्थम् आह ।
परिणामः स च त्रिधा ॥ 1द्
यत्रात्माद्युपचारो धर्मोपचारश् च स पुनर् हेतुभावेन फलभावेन च भिद्यते । तत्र हेतुपरिणामो यालयविज्ञाने विपाकनिष्यन्दवासनापरिपुष्टिः । फलपरिणामः पुनर् विपाकवासनावृत्तिलाभाद् आलयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्व् अभिनिर्वृत्तिः । निष्यन्दवासनावृत्तिलाभाच् च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलयविज्ञानाद् अभिनिर्वृत्तिः । तत्र प्रवृत्तिविज्ञानं कुशलाकुशलम् आलयविज्ञाने विपाकवासनां निष्यन्दवासनाञ् चाधत्ते । अव्याकृतं क्लिष्टञ् च मनो निष्यन्दवासनाम् एव ।
यो ऽसौ त्रिविधः परिणाम उक्तो ऽसाव् अपि न ज्ञायते । अतस् तद्भेदप्रदर्शनार्थम् आह ।
विपाको मननाख्यश् च विज्ञप्तिर् विषयस्य च । 2अब्
इति । स एष त्रिविधः परिणामो विपाकाख्यो मननाख्यो विषयविज्ञप्त्याख्यश् च । तत्र कुशलाकुशलकर्मवासनापरिपाकवशाद् यथाक्षेपं फलाभिनिर्वृत्तिर् विपाकः । क्लिष्टं मनो नित्यं मननात्मकत्वान् मननाख्यम् । रूपादिविषयप्रत्यवभासत्वाच् चक्षुरादिविज्ञानं षट्प्रकारम् अपि विषयविज्ञप्तिः ।
तत्स्वरूपनिर्देशम् अन्तरेण न तत् प्रतीयते इत्य् अतो यस्य यत् स्वरूपं तद् यथाक्रमं प्रदर्शयन्न् आह ।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् 2च्द्
इति । तत्रेति यो ऽयम् अनन्तरोक्तस् त्रिविधः परिणामः । आलयाख्यम् इत्य् आलयविज्ञानसंज्ञकं यद् विज्ञानं स विपाकपरिणामः । तच् च सर्वसांक्लेशिकधर्मबीजस्थानत्वाद् आलयः । आलयः स्थानम् इति पर्यायौ । अथ वालीयन्ते उपनिबध्यन्ते ऽस्मिन् सर्वधर्माः कार्यभावेन तद् वालीयते उपनिबध्यते कारणभावेन सर्वधर्मेष्व् इत्य् आलयः । विजानातीति विज्ञानम् । सर्वधातुगतियोनिजातिषु कुशलाकुशलकर्मविपाकत्वाद् विपाकः । सर्वधर्मबीजाश्रयत्वात् सर्वबीजकम् । यदि प्रवृत्तिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति ततो ऽस्यालम्बनम् आकारो वा वक्तव्यः । न हि निरालम्बनं निराकारं वा विज्ञानं युज्यते । नैव तन् निरालम्बनं निराकारं वेष्यते । किं तर्ह्य् [ त्व्भ्_52 ] अपरिच्छिन्नालम्बनाकारम् । किं कारणम् । यस्माद् आलयविज्ञानं द्विधा प्रवर्तते । अध्यात्मम् उपादानविज्ञप्तितो बहिर्धापरिच्छिन्नाकारभाजनविज्ञप्तितश् च ।
तत्राध्यात्मम् उपादानं परिकल्पितस्वभावाभिनिवेशवासना साधिष्ठानम् इन्द्रियरूपं नाम च । अस्यालम्बनस्यातिसूक्ष्मत्वाद्
असंविदितकोपादिस्थानविज्ञप्तिकञ् च तत् । 3अब्
असंविदितक उपादिर् यस्मिन् असंविदितका च स्थानविज्ञप्तिर् यस्मिन् तद् आलयविज्ञानम् असंविदितकोपादिस्थानविज्ञप्तिकम् ।
उपादानम् उपादिः । स पुनर् आत्मादिविकल्पवासना रूपादिधर्मविकल्पवासना च । तत्सद्भावाद् आलयविज्ञानेनात्मादिविकल्पो रूपादिविकल्पश् च कार्यत्वेनोपात्त इति तद् वासनात्मादिविकल्पानां रूपादिविकल्पानाञ् चोपादिर् इत्य् उच्यते । सो ऽस्मिन्न् इदं तद् इति प्रतिसंवेदनाकारेणासंविदित इत्य् अतस् तद् असंविदितकोपादिर् इत्य् उच्यते ।
आश्रयोपादानञ् चोपादिः । आश्रय आत्मभावः साधिष्ठानम् इन्द्रियरूपं नाम च । तस्य पुनर् यद् उपादानम् उपगमनम् एकयोगक्षेमत्वेन तद् उपादिः ।
तत्र कामरूपधात्वोर् द्वयोर् नामरूपयोर् उपादानम् । आरूप्यधातौ तु रूपवीतरागत्वाद् रूपविपाकानभिनिर्वृत्तेर् नामोपादानम् एव । किन् तु वासनावस्थम् एव तत्र रूपं न विपाकावस्थम् । तत् पुनर् उपादानम् इदन्तया प्रतिसंवेदयितुम् अशक्यम् इत्य् अतो ऽसंविदित इत्य् उच्यते ।

स्थानविज्ञप्तिर् भाजनलोकसंनिवेशविज्ञप्तिः । साप्य् अपरिच्छिन्नालम्बनाकारप्रवृत्तत्वाद् असंविदितेत्य् उच्यते ।
कथं विज्ञानम् अपरिच्छिन्नालम्बनाकारं भविष्यतीति । अन्यविज्ञानवादिनाम् अपि निरोधसमापत्त्याद्यवस्थासु तुल्यम् एतत् । न च निरोधसमापत्त्याद्यवस्थासु विज्ञानं नैवास्तीति शक्यते प्रतिपत्तुम् । युक्तिविरोधात् सूत्रविरोधाच् चेति ।
तत्रालयाख्यं विज्ञानम् (2च्)
इत्य् उक्तं विज्ञानञ् चावश्यं चैत्तैः संप्रयुक्तम् इत्य् अतो वक्तव्यं कतमैः कतिभिश् च तेभ्यः संप्रयुज्यते । तथा किं तैः सर्वदा संप्रयुज्यते । उत नेत्य् अत आह ।
सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् 3च्द्
इति । सदेति यावद् आलयविज्ञानं तावद् एभिः स्पर्शमनस्कारवेदनासंज्ञाचेतनाख्यैः पञ्चभिः सर्वत्रगैर् धर्मैर् अन्वितम् । वेदना वित् ।
तत्र स्पर्शस् त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः । वेदनासंनिश्रयदानकर्मकः । इन्द्रियविषयविज्ञानानि त्रीण्य् एव त्रिकम् । तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः । तस्मिन् सति तत्समकालम् एवेन्द्रियस्य सुखादिवेदनानुकूलो यो विकारस् तेन [ त्व्भ्_56 ] सदृशो विषयस्य सुखादिवेदनीयाकारपरिच्छेदो यः स स्पर्शः । इन्द्रियं पुनर् येन विशेषेण सुखदुःखादिहेतुत्वं प्रतिपद्यते स तस्य विकारः । स्पर्शः पुनर् इन्द्रियविकारसादृश्येनेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते । अत एव विषयविकारपरिच्छेदात्मको ऽपीन्द्रियविकारपरिच्छेद उक्तः । वेदनासंनिश्रयत्वम् अस्य कर्म । एवं ह्य् उक्तं सूत्रे सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखं वेदितम् इति विस्तरः ।
मनस्कारश् चेतस आभोगः । आभुजनम् आभोगः । आलम्बने येन चित्तम् अभिमुखीक्रियते । स पुनर् आलम्बने चित्तधारणकर्मकः । चित्तधारणं पुनस् तत्रैवालम्बने पुनः पुनश् चित्तस्यावर्जनम् । एतच् च कर्म चित्तसन्ततेर् आलम्बननियमेन विशिष्टं मनस्कारम् अधिकृत्योक्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणम् एव व्यापारो न क्षणान्तरे ।
वेदना अनुभवस्वभावा । सा पुनर् विषयस्याह्लादकपरितापकतदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात् त्रिधा भवति । सुखा । दुःखा । अदुःखासुखा च ।
एवं त्व् अन्ये मन्यन्ते । शुभाशुभानां कर्मणां फलविपाकं प्रत्यनुभवन्त्य् अनेनेत्य् अनुभवः । तत्र शुभानां कर्मणां सुखो ऽनुभवः फलविपाकः । अशुभानां दुःखः । उभयेषाम् अदुःखासुखः ।
अत्र चालयविज्ञानम् एव शुभाशुभकर्मविपाकः । तत्संप्रयुक्तैवोपेक्षा परमार्थतः शुभाशुभानां कर्मणां फलविपाकः । सुखदुःखयोस् तु कुशलाकुशलकर्मविपाकजत्वाद् विपाकोपचारः ।
तत्र सुखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनः संयोगेच्छा जायते । दुःखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनर् असंयोगेच्छा । अदुःखासुखो यस्मिन्न् उत्पन्ने निरुद्धे चोभ्यं न जायते ।
संज्ञा विषयनिमित्तोद्ग्रहणम् । विषय आलम्बनम् । निमित्तं तद्विशेषो नीलपीताद्यालम्बनव्यवस्थाकारणम् । तस्योद्ग्रहणं निरूपणं नीलम् एतन् न पीतम् इति ।
चेतना चित्ताभिसंस्कारो मनसश् चेष्टा यस्यां सत्याम् आलम्बनं प्रति चेतसः प्रस्पन्द इव भवत्य् अयस्कान्तवशाद् अयःप्रस्पन्दवत् ।
वेदना त्रिविधा सुखा दुःखा अदुःखासुखा च । धर्माश् चतुः प्रकाराः कुशला अकुशला अनिवृताव्याकृता निवृताव्याकृताश् च । तत्रालयविज्ञाने विद् इति सामान्योपदेशेन न विज्ञायते तिसॄणां वेदनानां कतमा वेदना । तथा तद् अपि किं कुशलम् अकुशलम् अनिवृताव्याकृतं निवृताव्याकृतम् इति न विज्ञायत इत्य् अत आह ।
उपेक्षा वेदना तत्रानिवृताव्याकृतञ् च तत् । 4अब्
तत्रेत्य् आलयविज्ञानम् एव प्रकृतत्वात् संबध्यते । उपेक्षैवालयविज्ञाने वेदना न सुखा न दुःखा तयोः परिच्छिन्नालम्बनाकारत्वाद् रागद्वेषानुशयितत्वाच् च ।
अनिवृताव्याकृतञ् च तत् । (4ब्)
आलयविज्ञानम् इति प्रकृतम् । तत्रानिवृतग्रहणं निवृतव्यवच्छेदार्थम् । अव्याकृतग्रहणं कुशलाकुशलव्यवच्छेदार्थम् ।
मनोभूमिकैर् आगन्तुकैर् उपक्लेशैर् अनावृतत्वाद् अनिवृतम् । विपाकत्वाद् विपाकं प्रति कुशलाकुशलत्वेनाव्याकरणाद् अव्याकृतम् ।
तथा स्पर्शादयः । 4च्
यथालयविज्ञानम् एकान्तेन विपाको ऽपरिच्छिन्नालम्बनाकारं सदा स्पर्शादिभिर् अन्वितं तत्र चोपेक्षैव वेदनानिवृताव्याकृतञ् च तथा स्पर्शादयो ऽप्य् एकान्तेन विपाका एवापरिच्छिन्नालम्बनाकाराश् च । आत्मानं हित्वेतरैश् चतुर्भिर् आलयविज्ञानेन च नित्यम् अनुगतास् तेषु चोपेक्षैव वेदनानिवृताव्याकृताश् चालयविज्ञानवत् । न हि विपाकेन संप्रयुक्तानाम् अविपाकत्वम् अपरिच्छिन्नालम्बनाकारेण च परिच्छिन्नालम्बनाकारत्वं संभवति । एवम् अन्यत्रापि वाच्यम् ॥
किं पुनस् तद् आलयविज्ञानम् एकम् अभिन्नम् आसंसारम् अनुवर्तते । उत संतानेन । न हि तद् एकम् अभिन्नम् अनुवर्तते क्षणिकत्वात् ।
किं तर्हि ।
तच् च वर्तते स्रोतसौघवत् ॥ 4द्
तच् चेत्य् आलयविज्ञानम् एव संबध्यते । तत्र स्रोतो हेतुफलयोर् नैरन्तर्यप्रबन्धेन प्रवृत्तिः । उदकसमूहस्य पूर्वापरभागाविच्छेदेन प्रवाह ओघ इत्य् उच्यते । यथा ह्य् ओघस् तृणकाष्ठगोमयादीन् आकर्षयङ् गच्छत्य् एवम् आलयविज्ञानम् अपि पुण्यापुण्यानेञ्ज्यकर्मवासनानुगतं स्पर्शमनस्कारादीन् आकर्षन् स्रोतसासंसारम् अव्युपरतं प्रवर्तत इति ।
तस्यैवं श्रोतसा प्रवृत्तस्य कस्याम् अवस्थायां व्यावृत्तिर् इत्य् आह ।
तस्य व्यावृत्तिर् अर्हत्त्वे । 5अ
किं पुनर् अर्हत्त्वम् । यद्योगाद् अर्हन्न् इत्य् उच्यते । कस्य पुनर् योगाद् अर्हन्न् इत्य् उच्यते । क्षयज्ञानानुत्पादज्ञानलाभात् । तस्यां ह्य् अवस्थायाम् आलयविज्ञानाश्रितदौष्ठुल्यनिरवशेषप्रहाणाद् आलयविज्ञानं व्यावृत्तं भवति । सैव चार्हदवस्था । उक्तः सविभङ्गो विपाकपरिणामः ।
इदानीं मननाख्यां द्वितीयं परिणामम् आह । तद् आश्रित्य प्रवर्तत इति विस्तरः । तत्र यथा चक्षुरादिविज्ञानानां चक्षुरादय आश्रयत्वेन रूपादयश् चालम्बनत्वेन प्रसिद्धा नैव क्लिष्टस्य मनस आश्रय आलम्बनं वा प्रसिद्धम् ।
न च विज्ञानम् आश्रयालम्बननिरपेक्षं युज्यत इत्य् अतः क्लिष्टस्य मनस आश्रयालम्बनप्रतिपादनार्थं निरुक्तिप्रतिपादनार्थञ् चाह ।
तद् आश्रित्य प्रवर्तते ।
तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ 5ब्च्द्
तद् आश्रित्य प्रवर्तत इति तच्छब्देनालयविज्ञानम् अभिसंबध्यते । तद्वासनाश्रयो ह्य् आलयविज्ञानम् अतस् तद् आश्रित्य प्रवर्तते सन्तानेनोत्पद्यत इत्य् अर्थः । अथ वा यस्मिन् धातौ भूमौ वालयविज्ञानं विपाकस् तद् अपि क्लिष्टं मनस् तद्धातुकं तद्भूमिकं चेति तत्प्रतिबद्धवृत्तित्वात् तद् आश्रित्य प्रवर्तते ।

तदालम्बम् इत्य् आलयविज्ञानालम्बनम् एव सत्कायदृष्ट्यादिभिः संप्रयोगाद् अहं ममेत्य् आलयविज्ञानालम्बनत्वात् । कथं पुनर् यत एव चित्ताद् उत्पद्यते तद् एव तदालम्बनं भवति । यथा तद् अनिच्छतां केषांचित् कस्याञ्चिद् अवस्थायां यत एव चित्तान् मनोविज्ञानम् उत्पद्यते तदालम्बनम् एव तद् उत्पद्यते ।
मनोनाम विज्ञानम् इति मन इति नाम आख्या यस्य विज्ञानस्य तद् आलयविज्ञानम् आश्रित्य प्रवर्ते तदालम्बनं च मनोनामेत्य् अनेनालयविज्ञानात् प्रवृत्तिविज्ञानाच् च व्यवच्छिनत्ति । तत् पुनः किं स्वभावम् इत्य् आह । मननात्मकम् इति । एवं मननात्मकत्वान् मन इत्य् उच्यते नैरूक्तेन विधिना ।
विज्ञानस्वरूपत्वाद् अवश्यं तच् चैत्तैः संप्रयुज्यते । इदं तु न ज्ञायते कतमैस् तच् चैत्तैः कियद्भिः कियन्तं कालं वा संप्रयुज्यत इत्य् अत आह ।
क्लेशैश् चतुर्भिः सहितं निवृताव्याकृतैः सदा । 6अब्
चैत्ता हि द्विप्रकाराः क्लेशास् तद् अन्ये च । तदन्येभ्यो व्यवच्छेदार्थम् आह क्लेशैर् इति । क्लेशा अपि षट् । न च तैः संप्रयुज्यते ऽतश् चतुर्भिर् इत्य् आह । सहितम् इति संप्रयुक्तम् ।
क्लेशा अपि द्विविधाः । अकुशला निवृताव्याकृताश् च । अकुशलेभ्यो विशेषार्थम् आह निवृताव्याकृतैर् इति । न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगः संभवति । निवृताः क्लिष्टत्वात् । अव्याकृताः कुशलाकुशलत्वेनाव्याकरणात् । सदेति सर्वकालम् । यावत् तद् अस्ति तावत् तैः संप्रयुक्तम् ।

सामान्यनिर्देशाद् विशेषतो न ज्ञायन्त इति विशेषतो निर्दिशति ।
आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः ॥ 6च्द्
उपादानस्कन्धेष्व् आत्मेति दर्शनम् आत्मदृष्टिः सत्कायदृष्टिर् इत्य् अर्थः । मोहो ऽज्ञानम् । आत्मन्य् अज्ञानम् आत्ममोहः । आत्मविषये मान आत्ममानो ऽस्मिमान इत्य् अर्थः । आत्मनि स्नेह आत्मस्नेह आत्मप्रेमेत्य् अर्थः । तत्रालयविज्ञानस्वरूपे संमूढः सन्न् आलयविज्ञाने आत्मदृष्टिम् उत्पादयति । आत्मदर्शनाद् या चित्तस्योन्नतिः सो ऽस्मिमानः । एतस्मिंस् त्रये सत्य् आत्माभिमते वस्तुनि यो ऽभिष्वङ्गः स आत्मस्नेहः ।
आह च ।
अविद्यया चात्मदृष्ट्या चास्मिमानेन तृष्णया ।
एभिश् चतुर्भिः संक्लिष्टं मननालक्षणं मनः ॥
विपर्यासनिमित्तं तु मनः क्लिष्टं सदैव तत् ।
कुशलाव्याकृते चित्ते सदाहङ्कारकारणम् ॥
एते ह्य् आत्ममोहादयः क्लेशा मनोवन् नवभूमिकाः ।
इह च सामान्येनाभिधानान् न ज्ञायते किं स्वभूमिकैर् एव संप्रयुज्यते । उतान्यभूमिकैर् अपीत्य् अत आह ।
यत्रजस् तन्मयैर् 7अ
इति । यत्र जातो यत्रजः । तन्मयैर् इति यत्र धातौ भूमौ वा जातस् तद्धातुकैस् तद्भूमिकैर् एव च संप्रयुज्यते । नान्यधातुकैर् अन्यभूमिकैर् वा ।
किं पुनश् चतुर्भिर् एव क्लेशैः संप्रयुज्यते । नेत्य् आह ।
अन्यैः स्पर्शाद्यैश् च । 7ब्
संप्रयुज्यत इति संबध्यते । चशब्दः समुच्चयार्थः । स्पर्शाद्यैर् इति स्पर्शमनस्कारवेदनासंज्ञाचेतनाभिः । एते हि पञ्च धर्माः सर्वत्रगत्वात् सर्वविज्ञानैः संप्रयुज्यन्ते । एतैर् अपि यत्र जातस् तन्मयैर् एव संप्रयुज्यते नान्यधातुभूमिकैः ।
अथ वान्यैर् इति मूलविज्ञानसंप्रयुक्तेभ्यो व्यवच्छेदार्थम्
। मूलविज्ञाने ह्य् अनिवृताव्याकृताः स्पर्शादयः । क्लिष्टे तु मनसि मनोवन् निवृताव्याकृताः ।
यदि तत् क्लिष्टं मनः कुशलक्लिष्टाव्याकृतावस्थास्व् अविशेषेण प्रवर्तते न तस्य तर्हि निवृत्तिर् अस्ति । अनिवृत्ते च तस्मिन् कुतो मोक्ष इति कथं न मोक्षाभावः प्रसज्यते । न प्रसज्यते यस्माद्
अर्हतो न तत् ।
न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥ 7ब्च्द्
अर्हतस् तावद् अशेषक्लेशप्रहाणात् क्लिष्टं मनो नैवास्ति । तद् धि भावाग्रिकभावनाप्रहातव्यक्लेशवद् अर्हत्त्वप्राप्त्यानन्तर्यमार्गेणैव प्रहीयते । तद् अन्यक्लेशवद् अर्हत्त्वावस्थायान् नैव विद्यते । आकिञ्चन्यायतनवीतरागस्याप्य् अनागामिनो निरोधसमापत्तिलाभिनो मार्गबलेन निरोधसमापत्तेर् लभ्यत्वां मार्गवन् निरोधसमापत्त्यवस्थायाम् अपि निरुध्यते । निरोधाच् च व्युत्थितस्य पुनर् आलयविज्ञानाद् एव प्रवर्तते ।
मार्गे लोकोत्तरे न चेति (7द्)
लोकोत्तरग्रहणं लौकिकव्यवच्छेदार्थम् । लौकिके तु मार्गे क्लिष्टं मनः प्रवर्तत एव । नैरात्म्यदर्शनस्यात्मदर्शनप्रतिपक्षत्वान् न लोकोत्तरमार्गे प्रवर्तितुम् उत्सहेत । विपक्षप्रतिपक्षयोर् अयौगपद्याल् लोकोत्तरमार्गे तन् निरुध्यते । तस्माद् अपि व्युत्थितस्य पुनर् आलयविज्ञानाद् एवोत्पद्यते ।
द्वितीयः परिणामो ऽयम् 8अ
उद्दिष्टो निदिष्टश् चेति निगमयति ।
द्वितीयपरिणामान्तरं तृतीयः परिणामो वक्तव्य इत्य् अत आह ।
तृतीयः षड्विधस्य या ।
विषयस्योपलब्धिः सा 8ब्च्
तृतीयो विज्ञानपरिणाम इति वाक्यशेषः । षड्विधस्येति षट्प्रकारस्य रूपशब्दगन्धरसस्प्रष्टव्य धर्मात्मकस्य विषयस्य या उपलब्धिर् ग्रहणं प्रतिपत्तिर् इत्य् अर्थः ।
सा पुनः किं कुशलाकुशलाव्याकृतेत्य् अत आह ।
कुशलाकुशलाद्वया ॥ 8द्
कुशलाकुशलाद्वयेत्य् अव्याकृतापि । अलोभाद्वेषामोहैः संप्रयुक्ता कुशला । लोभद्वेषमोहैः संप्रयुक्ताकुशला । कुशलाकुशलैर् असंप्रयुक्ताद्वया न कुशला नाकुशलेत्य् अर्थः ।
सा पुनः कीदृशैश् चैतसिकैः संप्रयुज्यते । कियन्तो वा तत्संप्रयोगिणश् चैतसिका इत्य् अत आह ।
सर्वत्रगैर् विनियतैः कुशलैश् चैतसैर् असौ ।
संप्रयुक्ता तथा क्लेशैर् उपक्लेशैस् त्रिवेदना ॥ 9
य एते सर्वत्रगादय उद्दिष्टास् ते न विज्ञायन्त इत्य् अतस् तत्प्रदर्शनार्थम् आह ।
अद्याः स्पर्शादयः । 10अ
आदौ निर्दिष्टत्वाद् आद्याः सर्वत्रगा इत्य् अर्थः । तथा हि ।
सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् (3च्द्)
इति प्रथमतो निर्दिष्टाः । स्पर्श एषाम् आदिर् इति स्पर्शादयः । ते पुनः स्पर्शमनस्कारादयः पञ्च धर्माः सर्वचित्तम् अनुगच्छन्तीति सर्वत्रगाः । तथा ह्य् एत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्तिविज्ञानेषु चाविशेषेण प्रवर्तन्ते ।

विनियतान् अधिकृत्याह ।
छन्दाधिमोक्षस्मृतयः सह ।
समाधिधीभ्यां नियताः । 10ब्च्
विशेषे नियतत्वाद् विनियताः । एषां हि विशेष एव विषयो न सर्वः ।
तत्र छन्दो ऽभिप्रेते वस्तुन्य् अभिलाषः । अभिप्रेते वस्तुन्य् अभिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्य् अनभिप्रेते छन्दाभावात् । दर्शनश्रवणादिक्रियाविषयत्वेन यद् अभिमतं वस्तु तद् अभिप्रेतम् । तत्र दर्शनश्रवणादिप्रार्थना छन्दः । स च वीर्यारम्भसंनिश्रयदानकर्मकः ।
अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् । निश्चितग्रहणम् अनिश्चितप्रतिषेधार्थम् । युक्तित आप्तोपदेशतो वा यद् वस्तु असंदिग्धं तन् निश्चितम् । येनैवाकारेण तन् निश्चितम् अनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश् चेतस्य् अभिनिवेशनम् । एवम् एतन् नान्यथेत्य् अवधारणम् अधिमोक्षः । स चासंहार्यताकर्मकः । अधिमुक्तिप्रधानो हि स्वसिद्धान्तात् परप्रवादिभिर् अपहर्तुं न शक्यते ।
स्मृतिः संस्तुते वस्तुन्य् असंप्रमोषश् चेतसो ऽभिलपनता । संस्तुतं वस्तु पूर्वानुभूतम् । आलम्बनग्रहणाविप्रणाशकारणत्वाद् असंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनर् आलम्बनाकारस्मरणम् अभिलपनता । अभिलपनम् एवाभिलपनता । सा पुनर् अविक्षेपकर्मिका । आलम्बनाभिलपने सति चित्तस्यालम्बनान्तर आकारान्तरे वा विक्षेपाभावाद् अविक्षेपकर्मिका ।
समाधिर् उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । उपपरीक्ष्यं वस्तु गुणतो दोषतो वा । एकाग्रता एकालम्बनता । ज्ञानसंनिश्रयदानकर्मकः । समाहिते चित्ते यथाभूतपरिज्ञानात् ।
धीः प्रज्ञा । साप्य् उपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितो ऽन्यथा वेति । प्रविचिनोतीति प्रविचयः । यः सम्यङ् मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्व् इव धर्मेषु विवेकावबोधः । युक्तिर् योगः । स पुनर् आप्तोपदेशो ऽनुमानं प्रत्यक्षञ् च । तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः । स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च ।
तत्राप्तवचनप्रामाण्याद् यो ऽवबोधः स श्रुतमयः । युक्तिनिध्यानजश् चिन्तामयः । समाधिजो भावनामयः ।
अयोगो ऽनाप्तोपदेशो ऽनुमानाभासो मिथ्या प्रणिहितश् च समाधिः । तेनायोगेन जनितो ऽयोगविहितः । उपपत्तिप्रतिलम्भिको लौकिकव्यवहारावबोधश् च न योगविहितो नायोगविहितः । एषा च संशयव्यावर्तनकर्मिका । संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभाद् इति ।
एते हि पञ्च धर्माः परस्परं व्यतिरिच्यापि प्रवर्तन्ते । एवञ् च यत्राधिमोक्षस् तत्र नावश्यम् इतरैर् अपि भवितव्यम् । एवं सर्वत्र वाच्यम् । उक्ता विनियताः ॥
तदनन्तरोद्दिष्टास् त्व् इदानीं कुशला वक्तव्या इत्य् अत आह ।
श्रद्धाथ ह्रीर् अपत्रपा ॥ 10द्
अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका ।
आहिंसा कुशलाः । 11अब्च्
एत एकादश धर्मा इति वाक्यशेषः ।
तत्र श्रद्धा अस्तित्वगुणवत्त्वशक्यत्वेषु कर्मफलसत्यरत्नेष्व् अभिसंप्रत्ययः प्रसादश् चेतसो ऽभिलाषः । श्रद्धा हि त्रिधा प्रवर्तते । सति वस्तुनि गुणवत्य् अगुणवति वा संप्रत्ययाकारा । सति गुणवति च प्रसादाकारा । सति गुणवति च प्राप्तुम् उत्पादयितुं वा शक्ये ऽभिलाषाकारा । चेतसः प्रसाद इति । श्रद्धा हि चित्तकालुष्यवैरोधिकीत्य् अतस् तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्यविगमाच् चित्तं श्रद्धाम् आगम्य प्रसीदतीति चेतसः प्रसाद उच्यते । सा पुनश् छन्दसंनिश्रयदानकर्मिका ।
ह्रीर् आत्मानं धर्मं वाधिपतिं कृत्वावद्येन लज्जा । सद्भिर् गर्हितत्वाद् अनिष्टविपाकत्वाच् च पापम् एवावद्यम् । तेनावद्येन कृतेनाकृतेन वा या चित्तस्यावलीनता लज्जा सा ह्रीः । इयं च दुश्चरितसंयमसंनिश्रयदानकर्मिका ।
अपत्राप्यं लोकम् अधिपतिं कृत्वावद्येन लज्जा । लोके ह्य् एतद् गर्हितं मां चैवं कर्माणं विदित्वा गर्हिष्यतीत्य् अश्लोकादिभयाद् अवद्येन लज्जते । इदम् अपि दुश्चरितसंयमसंनिश्रियदानकर्मकम् ।
अलोभो लोभप्रतिपक्षः । लोभो नाम भवे भवोपकरणेषु च यासक्तिः प्रार्थना च । तत्प्रतिपक्षो ऽलोभो भवे भवोपकरणेषु वानासक्तिः वैमुख्यञ् च । अयञ् च दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
अद्वेषो द्वेषप्रतिपक्षो मैत्री । द्वेषो हि सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् आघातः । अद्वेषो द्वेषप्रतिपक्षत्वात् सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् अनाघातः । अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
अमोहो मोहप्रतिपक्षो यथाभूतसंप्रतिपत्तिः । मोहः कर्मफलसत्यरत्नेष्व् अज्ञानम् । मोहप्रतिपक्षत्वाद् अमोहस् तेष्व् एव कर्मफलसत्यरत्नेषु संप्रतिपत्तिः । अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
वीर्यं कौसीद्यप्रतिपक्षः कुशले चेतसो ऽभ्युत्साहः । न तु क्लिष्टे । क्लिष्टे तूत्साहः कुत्सितत्वात् कौसीद्यम् एव । एतच् च कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम् ।
प्रश्रब्धिर् दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता । दौष्ठुल्यं कायचित्तयोर् अकर्मण्यता सांक्लेशिकधर्मबीजानि च । तदपगमे प्रश्रब्धिसद्भावात् । तत्र कायकर्मण्यता कायस्य स्वकार्येषु [ त्व्भ्_80 ] लघुसमुत्थानता यतो भवति । चित्तकर्मण्यता सम्यङ्मनसिकारसंप्रयुक्तस्य चित्तस्याह्लादलाघवनिमित्तं यच् चैतसिकं धर्मान्तरं यद्योगाच् चित्तम् अव्याहतम् आलम्बने प्रवर्तते ऽतस् तच् चित्तकर्मण्यतेत्य् उच्यते । कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्याहृतः कायप्रश्रब्धिर् वेदितव्या । प्रीतमनसः कायः प्रश्रभ्यत इति सूत्रे वचनात् । इयं तद्वशेनाश्रयपरावृत्तितो ऽशेषक्लेशावरणनिष्कर्षणकर्मिका ।
साप्रमादिका । सहाप्रमादेन प्रवर्तत इति साप्रमादिका । का पुनर् असौ । उपेक्षा । कुत एतत् । एकान्तकुशलत्वात् सर्वकुशलानां चेह निर्देशाधिकाराच् छ्रद्धादिवत् साक्षाद् अनिर्देशात् तद्व्यतिरिक्तान्यकुशलाभावाच्
चोपेक्षैव विज्ञायते ।
तत्राप्रमादः प्रमादप्रतिपक्षः । अलोभाद् यावद् वीर्यम् अप्रमादः । यान् अलोभादीन् निश्रित्याकुशलान् धर्मान् प्रजहाति तत्प्रतिपक्षांश् च कुशलान् धर्मान् भावयति ते ऽलोभादयो ऽप्रमादः । अत एव प्रमादप्रतिपक्षः प्रमादस्यातो विपरीतत्वात् । स पुनर् लौकिकलोकोत्तरसंपत्तिपरिपूरणकर्मकः ।
उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता । एभिस् त्रिभिः [ त्व्भ्_82 ] पदैर् उपेक्षाया आदिमध्यावसानावस्था द्योतिता । तत्र लयौद्धत्यं वा चेतसो वैषम्यम् । तस्याभावाद् आदौ चित्तसमता । ततो ऽनभिसंस्कारेणाप्रयत्वेन समाहितस्य चेतसो
यथायोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता । सा पुनर् अवस्था लयौद्धत्यशङ्कानुगताचिरभावितत्वात् । ततो भावनाप्रकर्षगमनात् तद्विपक्षदूरीभावात् तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेष्व् आभोगम् अकुर्वतो ऽनाभोगावस्था चित्तस्यानाभोगता । इयञ् च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका ।

अविहिंसा विहिंसाप्रतिपक्षः । वधबन्धनादिभिः सत्त्वानाम् अविहेठनम् अविहिंसा सत्त्वेषु करुणा । कं रुणद्धीति करुणा । कम् इति सुखस्याख्या सुखं रुणद्धीत्य् अर्थः । कारुणिको हि परदुःखदुःखी भवतीति । इयं चाविहेठनकर्मिका । उक्ता एकादश कुशलाः ।
तदनन्तरोद्दिष्टास् तु क्लेशा इत्य् अतस् तान् अधिकृत्याह ।
क्लेशा रागप्रतिघमूढयः ॥ 11द्
मानदृग्विचिकित्साश् च 12अ
इति । रागश् च प्रतिघश् च मूढिश् च रागप्रतिघमूढयः ।
तत्र रागो भवभोगयोर् अध्यवसानं प्रार्थना च । स पुनर् दुःखसंजननकर्मकः । दुःखम् अत्रोपादानस्कन्धास् तेषां कामरूपारूप्यतृष्णावशाद् अभिनिर्वृत्तेः । अतो रागस्य दुःखसंजननं कर्म निर्दिश्यते ।
प्रतिघः सत्त्वेष्व् आघातः सत्त्वेषु रूक्षचित्तता येनाविष्टः सत्त्वानां वधबन्धनादिकम् अनर्थञ् चिन्तयति । स पुनर् अस्पर्शविहारदुश्चरितसंनिश्रियदानकर्मकः । स्पर्शः सुखम् । तेन सहितो विहारः स्पर्शविहारः । न स्पर्शविहारो ऽस्पर्शविहारः । दुःखसहित इत्य् अर्थः । आघातचित्तस्यावश्यं दौर्मनस्यसमुदाचाराच् चित्तं तप्यते । चित्तानुविधानाच् च कायो ऽपि तप्यत एवेति सर्वेर्यापथेषु सदुःखसविघातो ऽस्पर्शविहारो भवति । प्रतिहतचित्तस्य च न किञ्चिद् दुश्चरितं विदूर इति प्रतिघो ऽस्पर्शविहारदुश्चरितसंनिश्रयदानकर्मक उक्तः ।
मोहो ऽपायेषु सुगतौ निर्वाणे तत्प्रतिष्ठापाकेषु हेतुषु तेषां चाविपरीते हेतुफलसंबन्धे यद् अज्ञानम् । अयञ् च संक्लेशोत्पत्तिसंनिश्रियदानकर्मकः । तत्र क्लेशकर्मजन्मात्मकस् त्रिविधः संक्लेशः । तस्योत्पत्तिः पूर्वपूर्वसंक्लेशनिमित्ताद् उत्तरोत्तरस्य संक्लेशस्यात्मलाभः । तस्योत्पत्तेः संनिश्रयदानकर्म । [ त्व्भ्_86 ] मूढस्यैव हि मिथ्याज्ञानसंशयरागादिक्लेशपौनर्भविककर्मजन्मनां प्रवृत्तेर् नामूढस्येति ।
मानः । मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते । स पुनश् चित्तस्योन्नतिलक्षणः । तथा ह्य् आत्मात्मीयभावं स्कन्धेष्व् अध्यारोप्यायम् अहम् इदं ममेत्य् आत्मानं तेन तेन विशेषेणोन्नमयति । अन्येभ्यो ऽधिकं मन्यते । स चागौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोर् अप्रश्रितिता दुःखोत्पत्तिः पुनर् अत्र पुनर्भवोत्पत्तिः । स च पुनश् चित्तोन्नतिस्वरूपाभेदे ऽपि चित्तोन्नतिनिमित्तभेदात् सप्तधा भिद्यते । मानो ऽतिमान इत्य् एवमादि ।
हीनात् कुलविज्ञानवित्तादिभिः श्रेयान् अस्मि कुलविज्ञानवित्तादिभिर् इति या चित्तस्योन्नतिः सदृशेन वा कुलादिभिर् एव सदृशो ऽस्मीति या चित्तस्योन्नतिः स मानः ।

अतिमानः । कुलविज्ञानवित्तादिभिः सदृशात् त्यागशीलपौरुषादिभिः श्रेयान् अस्मि श्रेयसा वा कुलविद्यादिभिः सदृशो ऽस्मि विज्ञानवित्तादिभिर् इत्य् अयम् अतिमानः ।
श्रेयसः कुलविज्ञानवित्तैर् अहम् एव श्रेयान् अस्मि कुलविज्ञानवित्तैर् इति या चित्तस्योन्नतिर् अयं मानातिमानः ।
अस्मिमानः । पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयरहितेष्व् आत्मात्मीयाभिनिवेशाद् या चित्तस्योन्नतिः सो ऽस्मिमानः ।
अभिमानः । अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः सो ऽभिमानः ।
ऊनमानः । बह्वन्तरविशिष्टात् कुलविद्यादिभिर् अल्पान्तरहीनो ऽस्मि कुलविद्यादिभिर् इति या चित्तस्योन्नतिर् अयम् ऊनमानः ।
मिथ्यामानः । अगुणवतो गुणवान् अस्मीति या चित्तस्योन्नतिः स मिथ्यामानः । अगुणा हि दौःशील्यादयस् ते यस्य विद्यन्ते सो ऽगुणवान् । तस्माद् गुणवान् अस्मीत्य् अनेन हि दानशीलाद्यभावे ऽपि गुणवत्त्वम् अभ्युपगतं भवतीत्य् अतो निर्वस्तुकत्वान् मिथ्यामान इत्य् उच्यते ।
दृग् इति सामान्यनिर्देशे ऽपि क्लेशाधिकारात् पञ्चैव क्लेशात्मिकाः सत्कायदृष्ट्यादिका दृष्टयः संबध्यन्ते । न लौकिकी सम्यग्दृष्टिर् अनास्रवा वा । आसां तु क्लिष्टनितीरणाकारत्वाद् अविशेषे ऽप्य् आलम्बनाकारभेदात् परस्परतो भेदः ।
तत्र सत्कायदृष्टिर् यत् पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयदर्शनम् ।
अन्तग्राहदृष्टिस् तेष्व् एव पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयत्वेन गृहीतेषु यद् उच्छेदतः शाश्वततो वा दर्शनम् ।
मिथ्यादृष्टिः । यया मिथ्यादृष्ट्या हेतुं वापवदति फलं क्रियां वा सद् वा वस्तु नाशयति सा सर्वदर्शनपापत्वान् मिथ्यादृष्टिर् इत्य् उच्यते ।
दृष्टपरामर्शः पञ्चसूपादानस्कन्धेष्व् अग्रतो विशिष्टतः श्रेष्ठतः परमतश् च यद् दर्शनम् ।
शिलव्रतपरामर्शः पञ्चसूपादानस्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश् च यद् दर्शनम् ।
विचिकित्सा । कर्मफलसत्यरत्नेषु विमतिः । विविधा मतिर् विमतिः स्यान् न स्याद् इति । प्रज्ञातश् चेयं जात्यन्तरम् एवोक्ता ।
उक्ताः षट्क्लेशास् तदनन्तरोद्दिष्टास् त्व् इदानीम् उपक्लेशा वक्तव्या इत्य् अत आह ।
क्रोधोपनाहने पुनः ।
म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया ॥ 12ब्च्द्
शाठ्यं मदो ऽविहिंसाह्रीर् अत्रपा स्त्यानम् उद्धतः ।
आश्रद्ध्यम् अथ कौसीद्यं प्रमादो मुषिता स्मृतिः ॥ 13
विक्षेपो ऽसंप्रजन्यञ् च कौकृत्यं मिद्धम् एव च ।
वितर्कश् च विचारश् चेत्य् उपक्लेशा द्वये द्विधा ॥ 14
तत्र क्रोधो वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः । अयं चाघातस्वरूपत्वात् प्रतिघान् न भिद्यते । किं त्व् अस्य प्रतिघस्यावस्थाविशेषे प्रज्ञप्तत्वात् प्रतिघांशिकः । वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः सत्त्वासत्त्वविषयो दण्डदानादिसंनिश्रयदानकर्मकश् च स क्रोध इति प्रज्ञप्यते ।
उपनाहो वैरानुबन्धः । क्रोधाद् ऊर्ध्वं ममानेनेदम् अपकृतम् इत्य् अस्य वैरात्मकस्यानुशयस्यानुत्सर्गः प्रबन्धेन प्रवर्तनम् उपनाहः । अयञ् चाक्षान्तिसंनिश्रयदानकर्मकः । अक्षान्तिर् अपकारामर्षणं प्रत्यपकारचिकीर्षा च । अयम् अपि क्रोधवत् प्रद्वेषावस्थाविशेषे प्रज्ञप्यते । अतः प्रज्ञप्तिसन्न् एव वेदितव्यः ।
म्रक्ष आत्मनो ऽवद्यप्रच्छादना । छन्दद्वेषभयादीन् निराकृत्य काले तद्धितैषिणा चोदकेन तत् त्वम् एवंकारीत्य् अनुयुक्तस्य मोहांशिक्य् अवद्यप्रच्छादना म्रक्षः । मोहांशिकत्वं तु म्रक्षस्य प्रच्छादनाकारत्वात् । अयञ् च कौकृत्यास्पर्शसंनिश्रयदानकर्मकः । [ त्व्भ्_92 ] धर्मतैषा यद् अवद्यं प्रच्छादयतः कौकृत्यम् उत्पद्यते कौकृत्याच् चावश्यं दौर्मनस्येन संप्रयोगाद् अस्पर्शविहार इति ।
प्रदाशश् चण्डवचोदाशिता । चण्डं वचः प्रगाढं पारुष्यं मर्मघट्टनयोगेन । दशनशीलो दाशी । तद्भावो दाशिता । अयञ् च भावप्रत्ययः स्वार्थिकः । चण्डेन वचसा प्रदशतीति चण्डवचोदाशिता । अयञ् च क्रोधोपनाहपूर्वकश् चेतस आघातस्वभाव इति प्रतिघांशिक एव न द्रव्यतो विद्यते । अयञ् च वाग्दुश्चरितप्रसवकर्मकः । अस्पर्शविहारकर्मकश् च तद्वतः पुद्गलस्य दुःखसंवासत्वात् ।
ईर्ष्या परसंपत्तौ चेतसो व्यारोषः । लाभसत्काराध्यवसितस्य लाभसत्कारकुलशीलश्रुतादीन् गुणविशेषान् परस्योपलभ्य द्वेषांशिको ऽमर्षकृतश् चेतसो व्यारोष ईर्ष्या । स्वम् आश्रयं व्याप्य रोषो व्यारोषः । दौर्मनस्यसंप्रयोगात् तत्पूर्वकश् चास्पर्शविहार इति दौर्मनस्यास्पर्शविहारकर्मिकोच्यते ।
मात्सर्यं दानविरोधी चेतस आग्रहः । उपात्तं वस्तु धर्मामिषकौशलात्मकं येन पूजानुग्रहकाम्ययार्थिने ऽनर्थिने वा दीयते तद् दानम् । तस्मिन् सति दानाभावात् तद्विरोधीत्य् उच्यते । लाभसत्काराध्यवसितस्य जीवितोपकरणेषु रागांशिकश् चेतस आग्रहो ऽपरित्यागेच्छा मात्सर्यम् । इदं चासंलेखसंनिश्रयदानकर्मकम् । असंलेखः पुनर् मात्सर्येणानुपयुज्यमानानाम् अप्य् उपकरणानां संनिचयाद् वेदितव्यः ।
माया परवञ्चनायाभूतार्थसंदर्शनता । लाभसत्कारध्यवसितस्य परवञ्चनाभिप्रायेणान्यथावस्थितस्य शीलादेर् अर्थस्यान्यथा प्रकाशना । इयञ् च सहिताभ्यां रागमोहाभ्याम् अभूतान् गुणान् प्रकाशयतस् तयोः समुदितयोः प्रज्ञप्यत इति क्रोधादिवत् प्रज्ञप्तित एव न द्रव्यत इति मिथ्याजीवसंनिश्रयदानकर्मिका ।
शाठ्यं स्वदोषप्रच्छादनोपायसंगृहीतञ् चेतसः कौटिल्यम् । स्वदोषप्रच्छादनोपायः परव्यामोहनम् । तत् पुनर् अन्येनान्यत् प्रतिसरन् विक्षिपत्य् अपरिस्फुटं वा प्रतिपद्यते । अत एव शाठ्यं म्रक्षाद् भिद्यते । स हि स्फुटम् एव प्रच्छादयति न काक्वा । इदम् अपि
लाभसत्काराध्यवसितोपायाभ्यां रागमोहाभ्यां स्वदोषप्रच्छादनार्थं परव्यामोहनाय प्रवर्तते । तयोर् एव सहितयोः प्रज्ञप्यते । इदञ् च सम्यगववादलाभपरिपन्थकर्मकम् । सम्यगववादस्य यो लाभो योनिशो मनसिकारस् तस्यान्तरायं करोति ।
मदः स्वसंपत्तौ रक्तस्योद्धर्षश् चेतसः पर्यादानम् । कुलारोग्ययौवनबलरूपैश्वर्यबुद्धिमेधाप्रकर्षः स्वसंपत्तिः । उद्धर्षो हर्षविशेषः । येन हर्षविशेषेण चित्तम् अस्वतन्त्रीक्रियते तेन तदात्मतन्त्रीकरणात् पर्यात्तं भवतीत्य् एतद् उक्तञ् चेतसः पर्यादानम् इति । अयञ् च सर्वक्लेशोपक्लेशसंनिश्रयदानकर्मकः ।
विहिंसा सत्त्वविहेठना । विविधैर् वधबन्धनताडनतर्जनादिभिः सत्त्वानां हिंसा विहिंसा । विहेठ्यन्ते ऽनया सत्त्वा वधबन्धनादिभिर् दुःखदौर्मनस्योत्पादनाद् इति सत्त्वविहेठना । सा पुनः प्रतिघांशिकी निर्घृणता सत्त्वेषु चित्तरूक्षता सत्त्वविहेठनकर्मिका विहिंसेत्य् उच्यते ।
आह्रीक्यं स्वयम् अवद्येनालज्जा । तस्मिन् कर्मण्यात्मानम् अयोग्यं मन्यमानस्यापि यावद्येनालज्जा साह्रीक्यं ह्रीविपक्षभूतम् ।
अनपत्राप्यं परतो ऽवद्येनालज्जा । लोकशास्त्रविरुद्धम् एतन् मया क्रियत इत्य् एवम् अवगच्छतो ऽपि या तया पापक्रिययालज्जा सापत्राप्यविपक्षभूतम् अनपत्राप्यम्
।

एतच् च द्वयम् अपि सर्वक्लेशोपक्लेशसाहाय्यकर्मकम् । रागद्वेषमोहप्रकारेषु सर्वासत्कार्यप्रभवहेतुषु रागद्वेषयोर् अयौगपद्याद् यथासंभवं प्रज्ञप्यते न तु स्वतन्त्रम् अस्ति ।
स्त्यानञ् चित्तस्याकर्मण्यता स्तैमित्यम् । स्तिमितस्य भावः स्तैमित्यं यद्योगाच् चित्तं जडीभवति स्तिमितं भवति नालम्बनं प्रतिपत्तुं समुत्सहते । एतच् च सर्वक्लेशोपक्लेशसहाय्यदानकर्मकम् । मोहांशे प्रज्ञप्तत्वाच् च मोहांशिकम् एव न पृथग् विद्यते ।
औद्धत्यं चित्तस्याव्युपशमः । व्युपशमो हि शमथस् तद्विरुद्धो ऽव्युपशमः । स पुनर् एष रागानुकूलं पूर्वहसितरसितक्रीडिताद्यनुस्मरतश् चेतसो ऽव्युपशमहेतुः शमथपरिपन्थकर्मकः ।
आश्रद्ध्यां कर्मफलसत्यरत्नेष्व् अनभिसंप्रत्ययः श्रद्धाविपक्षः । श्रद्धा ह्य् अस्तित्वगुणवत्त्वशक्यत्वेष्व् अभिसंप्रत्ययः प्रसादो ऽभिलाषश् च यथाक्रमम् । अश्रद्धा तद्विपर्येणास्तित्वगुणवत्त्वशक्यत्वेष्व् अनभिसंप्रत्ययो ऽप्रसादो ऽनभिलाषश् च । कौसीद्यसंनिश्रयदानकर्मकम् । अश्रद्दधानस्य प्रयोगच्छन्दाभावात् कौसीद्यसंनिश्रयदानकर्मकत्वम् ।
कौसीद्यं कुशले चेतसो ऽनभ्युत्साहो वीर्यविपक्षः । कुशले कायवाङ्मनःकर्मणि निद्रापार्श्वशयनसुखम् आगम्य यो मोहांशिकश् चेतसो ऽनभ्युत्साहः । एतच् च कुशलपक्षप्रयोगपरिपन्थकर्मकम् ।
प्रमादो यैर् लोभद्वेषमोहकौसीद्यैः क्लेशाद् रागद्वेषमोहादिकाच् चित्तं न रक्षति कुशलं च तत्प्रतिपक्षभूतं न भावयति । तेषु लोभद्वेषमोहकौसीद्येषु प्रमादः प्रज्ञप्यते । अयञ् चाकुशलवृद्धिकुशलपरिहाणिसंनिश्रयदानकर्मकः ।

मुषिता स्मृतिः क्लिष्टा स्मृतिः । क्लिष्टेति क्लेशसंप्रयुक्ता । इयञ् च विक्षेपसंनिश्रयदानकर्मिका ।
विक्षेपो रागद्वेषमोहांशिकश् चेतसो विसारः । विविधं क्षिप्यते ऽनेन चित्तम् इति विक्षेपः । यै रागद्वेषमोहैश् चित्तं समाध्यालम्बनाद् बहिः क्षिप्यते तेषु यथासंभवं विक्षेपः प्रज्ञप्यते । एष च वैराग्यपरिपन्थकर्मः ।
असंप्रजन्यं क्लेशसंप्रयुक्ता प्रज्ञा ययासंविदिता कायवाक्चित्तचर्या अभिक्रमप्रतिक्रमादिषु वर्तते करणीयाकरणीयाज्ञानात् । एतच् चापत्तिसंनिश्रयदानकर्मकम् ।
कौकृत्यं चेतसो विप्रतिसारः । कुत्सितं कृतम् इति कुकृतम् । तद्भावः कौकृत्यम् । इह तु कुकृतविषयश् चेतसो विलेखः कौकृत्यं चैतसिकाधिकारात् । एतच् च चित्तस्थितिपरिपन्थकर्मकम् ।
मिद्धम् अस्वतन्त्रवृत्तिचेतसो ऽभिसंक्षेपः । वृत्तिर् आलम्बने प्रवृत्तिः । सास्वतन्त्रा चेतसो यतो भवति तन् मिद्धम् । कायसन्धारणासमर्था वा वृत्तिश् चेतसो ऽस्वतन्त्रा सा यतो भवति तन् मिद्धम् । अभिसंक्षेपश् चेतसश् चक्षुरादीन्द्रियद्वारेणाप्रवृत्तिः । एतच् च मोहांशे प्रज्ञपनान् मोहांशिकं कृत्यातिपत्तिसंनिश्रयदानकर्मकञ् च ।
वितर्कः पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः । पर्येषकः किम् एतद् इति निरूपणाकारप्रवृत्तः । मनसो जल्पो मनोजल्पः । जल्प इव जल्पः । जल्पो ऽर्थकथनम् । चेतनाप्रज्ञाविशेष इति चेतनायाश् चित्तपरिस्पन्दात्मकत्वात् प्रज्ञायाश् च गुणदोषविवेकाकारत्वात् । तद्वशेन चित्तप्रवृत्तेः कदाचिच् चित्तचेतनयोर् वितर्कः प्रज्ञप्तिः कदाचित् प्रज्ञाचेतसोर् यथाक्रमम् अनभ्यूहाभ्युहावस्थयोः । अथ वा चेतनाप्रज्ञयोर् एव वितर्कः प्रज्ञप्तिस् तद्वशेन चित्तस्य तथाप्रवृत्तत्वात् । स एव चित्तस्यौदारिकता । औदारिकतेति स्थूलता वस्तुमात्रपर्येषणाकारत्वात् ।
एष च नयो विचारे ऽपि द्रष्टव्यः । विचारो ऽपि हि चेतनाप्रज्ञाविशेषात्मकः । प्रत्यवेक्षको मनोजल्प एव । इदं तद् इति पूर्वाधिगतनिरूपणात् । अत एव च चित्तसूक्ष्मतेत्य् उच्यते ।
एतौ च स्पर्शास्पर्शविहारसंनिश्रयदानकर्मकौ । अनयोश् चौदारिकसूक्ष्मतया व्यवस्थापनात् पृथक्करणम् ।
द्वये द्विधेति । (14द्)
द्वयञ् च द्वयञ् च द्वये । ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च । एते च चत्वारो धर्मा द्विधा क्लिष्टा अक्लिष्टाश् च ।
तत्राकुशलम् अकृत्वा कुशलञ् च कृत्वा यश् चेतसो विलेखस् तत् संक्लिष्टं कौकृत्यम् । यत् कुशलम् अकृत्वाकुशलञ् च कृत्वा तत् कौकृत्यम् अक्लिष्टम् ।
मिद्धम् अपि क्लिष्टचित्ताविद्धं क्लिष्टचित्तसंप्रयुक्तं च क्लिष्टम् । अक्लिष्टचित्ताविद्धम् अक्लिष्टचित्तसंप्रयुक्तञ् चाक्लिष्टम् ।
कामव्यापादविहिंसादिवितर्काः क्लिष्टाः । नैश्क्रम्यादिवितर्का अक्लिष्टाः । एवं परोपघातोपायविचारः क्लिष्टः । परानुग्रहोपायविचारो ऽक्लिष्टः ।
तत्र ये कौकृत्यमिद्धवितर्कविचाराः क्लिष्टास् त एवोपक्लेशा नेतरे ।
तत्र यथा रूपशब्दाद्युपलब्धिः षट्प्रकारा यथासंभवं सर्वैश् चैतसिकैः संप्रयुज्यते सर्वत्रगैर् विनियतैः कुशलैः क्लेशैर् उपक्लेशैश् च एवं त्रिवेदना तिसृभिश् च वेदनाभिः संप्रयुज्यते सुखया दुःखया अदुःखासुखया च । सौमनस्यदौर्मनस्योपेक्षास्थानीयेषु रूपादिषु तदुत्पत्तेः कुशला अकुशला अव्याकृता च । आलयविज्ञानन् तु सर्वत्रगैः पञ्चभिर् एव संप्रयुज्यते नान्यैः । तत्र चोपेक्षैव वेदना अनिवृताव्यकृतञ् च । क्लिष्टं मनः सर्वत्रगैः पञ्चभिश् चतुर्भिश् च क्लेशैर् आत्ममोहादिभिः सदा संप्रयुज्यते । तत्रोपेक्षैव वेदना निवृताव्याकृतञ् चेति ।
इदम् इदानीञ् चिन्त्यते । किं पञ्चानाञ् चक्षुर्विज्ञानादीनां युगपद् आलम्बनप्रत्ययसान्निध्ये ऽप्य् आलयविज्ञानाद् एकस्यैवोत्पत्तिर् भवति न द्वयोर् न बहूनां वा । यथैके मन्यन्ते । न द्वयोर् न बहूनां वा युगपत् समनन्तरप्रत्ययाभावाद् एकस्यैव विज्ञानस्योत्पत्तिर् भवति । न चैकं विज्ञानं बहूनां समन्तरप्रत्ययत्वं प्रतिपत्तुम् उत्सहते । उतानियमेन ।
यद्य् एकस्यैव प्रत्ययसांनिध्यम् एकम् एवोत्पद्यते । एवं द्वयोर् बहूनाञ् च प्रत्ययसांनिध्ये उत्पत्तिर् भवतीत्य् अत आह ।
पञ्चानां मूलविज्ञाने यथाप्रत्ययम् उद्भवः ।
विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ 15
पञ्चानाम् इति चक्षुरादिविज्ञानानां तदनुचरमनोविज्ञानसहित्ःन्ःम् । पञ्चानां चक्षुरादिविज्ञानानां बीजाश्रयत्वात् तदुत्पत्तेर् गतिषु जन्मोपादानाच् चालयविज्ञानं मूलविज्ञानम् इत्य् उच्यते । यथाप्रत्ययम् उद्भव इति यस्य यस्य यः प्रत्ययः संनिहितस् तस्य तस्य नियमेनोद्भव आत्मलाभः । सह न वेति युगपत् क्रमेण वा । तरङ्गाणां यथा जल इत्य् आलयविज्ञानात् प्रवृत्तिविज्ञानानां युगपद् अयुगपच् चोत्पत्तौ दृष्टान्तः । यथोक्तम् ।
तद्यथा विशालमते महत उदकौघस्य वहतः सचेद् एकस्य
तरङ्गस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्य् एकम् एव
तरङ्गं प्रवर्तते । सचेद् द्वयोस् त्रयाणां संबहुलानां
तरङ्गाणाम् उत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति यावत्
संबहुलानि तरङ्गाणि प्रवर्तन्ते । न च तस्योदकौघस्य स्रोतसा
वहतः समुच्छित्तिर् भवति । न पर्युपयोगः प्रज्ञायते ।
एवम् एव विशालमते तदोघस्थानीयम् आलयविज्ञानं संनिश्रित्य
प्रतिष्ठाय सचेद् एकस्य चक्षुर्विज्ञानस्योत्पत्तिप्रत्ययः
प्रत्युपस्थितो भवत्य् एकम् एव चक्षुर्विज्ञानं प्रवर्तते ।
सचेद् द्वयोस् त्रयाणां सचेत् पञ्चानां विज्ञानानाम् उत्पत्तिप्रत्ययः
प्रत्युपस्थितो भवति सकृद् यावत् पञ्चानां प्रवृत्तिर् भवति ।
अत्र गाथा ।
आदानविज्ञान गभीरसूक्ष्मो ओघो यथा वर्तति सर्वबीजो ।
बालान एषो मयि न प्रकाशि मा हैव आत्मा परिकल्पयेयुर्
इति । न हि विज्ञानप्रतिनियमेनालम्बनप्रत्ययवत् समनन्तरप्रत्यय इष्यते । सर्वविज्ञानोत्पत्तौ सर्वस्य विज्ञानस्य तत्समनन्तरप्रत्ययत्वाभ्युपगमात् । अत एकस्माद् अपि समनन्तरप्रत्ययाद् आलम्बनप्रत्ययसान्निध्ये द्वयोर् बहूनां वा विज्ञानानाम् उत्पत्तिर् न विरूध्यते । किञ् चात्र कारणं यत् समनन्तरप्रत्ययप्रतिनियमाभावे
पञ्चानाञ् च युगपद् आलम्बनप्रत्ययसान्निध्य एकेनैवोत्पत्तव्यं न पञ्चभिर् अपीति । तस्माद् अलम्बनसद्भावे पञ्चानाम् अपि चोत्पत्तिर् इत्य् अभ्युपेयम् ।
इदम् ईदानीं वक्तव्यम् । किं मनोविज्ञानं चक्षुरादिविज्ञानैः सह प्रवर्तते विना च । उत नैवेत्य् अत आह ।
मनोविज्ञानसंभूतिः सर्वदासंज्ञिकाद् ऋते ।
समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकात् ॥ 16
इति । सर्वदेति सर्वकालं चक्षुरादिविज्ञानैः सह विना चेत्य् अर्थः । अस्योत्सर्गस्येमम् अपवादम् आरभते ।

आसंज्ञिकाद् ऋते
समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकाद् इति । (16ब्द्)
तत्रासंज्ञिकम् असंज्ञिसत्त्वेषु देवेषूपपन्नस्य यश् चित्तचैतसिकानां धर्माणां निरोधः ।
समापत्तिद्वयम् असंज्ञिसमापत्तिर् निरोधसमापत्तिश् च ।
तत्रासंज्ञिसमापत्तिः । तृतीयाद् ध्यानाद् वीतरागस्योर्ध्वम् अवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेण मनोविज्ञानस्य तत्संप्रयुक्तानाञ् च चैत्तानां यो निरोधः सो ऽत्रासंज्ञिसमापत्तिर् इत्य् उच्यते । निरुध्यते ऽनेनेति निरोधः
। स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोधः । आश्रयस्यावस्थाविशेषः । स च समापत्तिचित्ताद् अनन्तरञ् चित्तान्तरोत्पत्तिविरुद्ध आश्रयः प्राप्यत इति समापत्तिर् इत्य् उच्यते । निरोधसमापत्तिर् आकिञ्चन्यायतनवीतरागस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेण ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः । इयम् अप्य् असंज्ञिसमापत्तिवद् आश्रयस्यावस्थाविशेषे प्रज्ञप्यते ।
अचित्तकं मिद्धं गाढमिद्धोपहतत्वाद् आश्रयस्य तावत्कालं मनोविज्ञानाप्रवृत्तेर् अचित्तकम् इत्य् उच्यते ।
अचित्तिका मूर्च्छा । आगन्तुकेनाभिघातेन वातपित्तश्लेष्मवैषम्येण वा यद् आश्रयवैषम्यं
मनोविज्ञानप्रवृत्तिविरुद्धं तत्राचित्तिका मूर्च्छोपचर्यते ।
एताः पञ्चावस्था वर्जयित्वा तदन्यासु सर्वास्व् अवस्थासु मनोविज्ञानप्रवृत्तिर् वेदितव्या । एवम् आसंज्ञिकादिषु मनोविज्ञाने निरुद्धे तदपगमे पुनः कुत उत्पद्यते यतस् तस्य कालक्रिया न भवति । तत् पुनर् आलयविज्ञानाद् एवोत्पद्यते । तद् धि सर्वविज्ञानबीजकम् इति ।
यत्र विज्ञानपरिणामे आत्मधर्मोपचारः स पुनस् त्रिधेत्य् उद्दिश्य विस्तरेण त्रिविधो ऽपि निर्दिष्टः ।
इदानीम् आत्मधर्मोपचारो यः प्रवर्तते स विज्ञानपरिणाम एव न विज्ञानपरिणामाच् च पृथग् अस्त्य् आत्मा धर्मा चेति यत् प्रतिज्ञातं तत्प्रसाधनार्थम् आह ।
विज्ञानपरिणामो ऽयं विकल्पो यद् विकल्प्यते ।
तेन तन् नास्ति तेनेदं सर्वं विज्ञाप्तिमात्रकम् ॥ 17
इति । यो ऽयं विज्ञानपरिणामस् त्रिविधो ऽनन्तरम् अभिहितः सो ऽयं विकल्पः । अध्यारोपितार्थाकारास् त्रैधातुकाश् चित्तचैत्ता विकल्प उच्यते । यथोक्तम् ।
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति ।
तेन त्रिविधेन विकल्पेनालयविज्ञानक्लिष्टमनःप्रवृत्तिविज्ञानस्वभावेन ससंप्रयोगेण यद् विकल्प्यते भाजनम् आत्मास्कन्धधात्वायतनरूपशब्दादिकं
वस्तु तन् नास्तीत्य् अतः स विज्ञानपरिणामो विकल्प उच्यते । असदालम्बनत्वात् ।
कथं पुनर् एतद् विज्ञायते तदालम्बनम् असद् इति । यद् धि यस्य कारणं तस्मिन् समग्रे चाविरुद्धे च तद् उत्पद्यते नान्यथा । विज्ञानञ् च मायागन्धर्वनगरस्वप्नतिमिरादाव् असत्य् अप्यालम्बने जायते । यदि च विज्ञानस्यालम्बनप्रतिबद्ध उत्पादः स्याद् एवं सति मायादिष्व् अर्थाभावान् न विज्ञानम् उत्पद्यते ।
तस्मात् पूर्वकान् निरुद्धात् तज्जातीयविज्ञानाद् विज्ञानम् उत्पद्यते । न बाह्याद् अर्थात् तस्मिन्न् असत्य् अपि भावात् । दृष्टा चाभिन्ने ऽप्य् अर्थे प्रतिपत्तॄणां परस्परविरुद्धा प्रतिपत्तिः । न चैकस्य परस्परविरुद्धानेकात्मकत्वं युज्यते । तस्माद् अध्यारोपितरूपत्वाद् विकल्पस्यालम्बनम् असद् इति प्रतिपत्तव्यम् ।
अनेन तावत् समारोपान्तं परिहृत्यापवादान्तपरिजिहीर्षया आह ।
तेनेदं सर्वं विज्ञाप्तिमात्रकम् (17च्द्)
इति । तेनेति तस्मात् । यस्मात् परिणामात्मकेन विकल्पेन यद् विकल्प्यते तेन तन् नास्ति तस्माद् विषयाभावात् सर्वं विज्ञप्तिमात्रकम् । सर्वम् इति त्रैधातुकम् असंस्कृतञ् च । मात्रशब्दस् तदधिकविषयव्यवच्छेदार्थः । ककारः पादपूरणार्थः ।
यदि सर्वं विज्ञप्तिमात्रकम् एव न ततो ऽन्यः कर्ता करणं वास्ति कथं मूलविज्ञानाद् अनधिष्ठिताद् असति करणे विकल्पाः प्रवर्तन्त इत्य् आह ।
सर्वबीजं हि विज्ञानं परिणामस् तथा तथा ।
यात्य् अन्योन्यवशाद् येन विकल्पः स स जायते ॥ 18
तत्र सर्वधर्मोत्पादनशक्त्यनुगमात् सर्वबीजं विज्ञानम् इत्य् आलयविज्ञानम् । विज्ञानं ह्य् असर्वबीजम् अप्य् अस्तीत्य् अतः सर्वबीजम् इत्य् आह । विज्ञानाद् अन्यद् अपि कैश्चित् प्रधानादि सर्वबीजं कल्प्यत इति विज्ञानम् इत्य् आह । अथ वा । एकपदव्यभिचारे ऽपि विशेषणविशेष्यत्वदर्शनान् नायं दोषः ।
परिणामस् तथा तथा यात्य् अन्योन्यवशाद् इति । (18ब्च्)
पूर्वावस्थातो ऽन्यथाभावः परिणामः । तथा तथेति तस्य तस्य विकल्पस्यानन्तरोत्पादनसमर्थावस्थां प्राप्नोतीत्य् अर्थः ।
अन्योन्यवशाद् इति । तथा हि चक्षुरादिविज्ञानं स्वशक्तिपरिपोषे वर्तमाने शक्तिविशिष्टस्यालयविज्ञानपरिणामस्य निमित्तं सो ऽपि आलयविज्ञानपरिणामश् चक्षुरादिविज्ञानस्य निमित्तं भवति । एवम् अन्योन्यवशाद् यस्माद् उभयं प्रवर्तते तस्माद् आलयविज्ञानाद् अन्येनानधिष्ठिताद् अनेकप्रकारो विकल्पः स स जायते । तत्र च वर्तमाने जन्मनि यथालयविज्ञानात् प्रवृत्तिविज्ञानस्योत्पत्तिर् भवति तथाख्यातम् ।
इदानीं विज्ञप्तिमात्रे अनागतं जन्म वर्तमानजन्मनिरोधे सति यथा प्रतिसंधीयते तत् प्रदर्शयन्न् आह ।
कर्मणो वासना ग्राहद्वयवासनया सह ।
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तत् ॥ 19
इति । पुण्यापुण्यानेञ्ज्यचेतना कर्म । तेन कर्मणा यद् अनागतात्मभावाभिनिर्वृत्तये आलयविज्ञाने सामर्थ्यम् आहितं सा कर्मवासना । ग्राहद्वयं ग्राह्यग्रहो ग्राहकग्राहश् च । तत्र विज्ञानात् पृथग् एव स्वसन्तानाध्यासितं ग्राह्यम् अस्तीत्य् अध्यवसायो ग्राह्यग्राहः । तच् च विज्ञानेन प्रतीयते विज्ञायते गृह्यत इति यो ऽयं निश्चयः स ग्रहकग्राहः । पूर्वोत्पन्नग्राह्यग्राहकग्राहाक्षिप्तम् अनागततज्जातीयग्राह्यग्राहकग्राहोत्पत्तिबीजं ग्राहद्वयवासना । तत्र कर्मवासनाभेदाद् गतिभेदेनात्मभावभेदो बीजभेदाद् अङ्कुरभेदवत् ।
[ त्व्भ्_114]
ग्राहद्वयवासना तु सर्वकर्मवासनानां यथास्वम् आक्षिप्तात्मभावोत्पादने प्रवृत्तानां सहकारित्वं प्रतिपद्यते । तद्यथा अबादयो बीजस्याङ्कुरोत्पत्ताव् इति ।
एवञ् च न केवलाः कर्मवासना ग्राहद्वयवासनाननुगृहीता विपाकञ् जनयन्तीत्य् उक्तं भवति । अत एवाह । ग्रहाद्वयवासनया सहेति ।
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तद् इति । (19च्द्)
पूर्वजन्मोपचितेन कर्मणा य इति विपाको ऽभिनिर्वृत्तस् तस्मिन् क्षीण इत्य् आक्षेपकाले पर्यन्तावस्थिते यथाबलं कर्मवासना ग्राहद्वयवासनासहिता उपभूक्ताद् विपाकाद् अन्यं विपाकं तद् एवालयविज्ञानं जनयन्ति । आलयविज्ञानव्यतिरेकेणान्यस्य विपाकस्याभावात् । क्षीणे पूर्वविपाक इत्य् अनेन शाश्वतान्तं परिहरति । अन्यं विपाकं जनयन्तीत्य् उच्छेदान्तम् ।
चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति । तद् एव च सर्वबीजकं न चक्षुरादिविज्ञानम् इति कुत एतत् । आगमाद् युक्तितश् च । उक्तं हि भगवताभिधर्मसूत्रे ।

[ त्व्भ्_116]
अनादिकालिको धातुः सर्वधर्मसमाश्रयः ।
तस्मिन् सति गतिः सर्वा निर्वाणाधिगमो ऽपि च ॥
न चालयविज्ञानम् अन्तरेण संसारप्रवृत्तिर् निवृत्तिर् वा युज्यते । तत्र संसारप्रवृत्तिर् निकायसभागान्तरेषु प्रतिसन्धिबन्धः । निवृत्तिः सोपधिशेषो निरुपधिशेषश् च निर्वाणधातुः । तत्रालयविज्ञानाद् अन्यत् संस्कारप्रत्ययं विज्ञानं न युज्यते । संस्कारप्रत्ययविज्ञानाभावे प्रवृत्तेर् अप्य् अभावः ।
संसारस्यालयविज्ञानानभ्युपगमे प्रतिसन्धिविज्ञानं वा संस्कारप्रत्ययं परिकल्प्येत संस्कारपरिभाविता वा षड् विज्ञानकायाः । तत्र ये संस्काराः प्रातिसंधिकविज्ञानप्रत्ययत्वेनेष्यन्ते तेषाञ् चिरनिरुद्धत्वान् निरुद्धस्य चासत्वाद् असतश् च प्रत्ययत्वाभावान् न संस्कारप्रत्ययं प्रतिसन्धिविज्ञानं युज्यते । प्रतिसन्धौ च नामरूपम् अप्य् अस्ति न केवलं विज्ञानम् । तत्र विज्ञानम् एव संस्कारप्रत्ययं न नामरूपम् इति का तत्र युक्तिः । तस्मात् संस्कारप्रत्ययं नामरूपम् इति वाक्तव्यम् । न तु विज्ञानम् इति । [ त्व्भ्_118] कतमद् अन्यद् विज्ञानप्रत्ययं नामरूपम् । यद् उत्तरकालम् इति चेत् तस्य प्रातिसन्धिकनामरूपात् क आत्मातिशयो यतस् तद् एव विज्ञानप्रत्ययं न पूर्वम् । पूर्वञ् च संस्कारप्रत्ययं नोत्तरम् इति । अतश् च संस्कारप्रत्ययं नामरूपम् एवास्तु किं प्रतिसन्धिविज्ञानेनाङ्गान्तरेण परिकल्पितेन । तस्मान् न प्रतिसन्धिविज्ञानं
संस्कारप्रत्यत्ययं युज्यते ।
संस्कारपरिभाविता वा षड्विज्ञानकाया अपि न संस्कारप्रत्ययं विज्ञानं युज्यते । किं कारणम् । न हि विज्ञानं विपाकवासनां निष्यन्दवासनां वा स्वात्मन्य् आधातुं समर्थं स्वात्मनि कारित्रविरोधात् । नाप्य् अनागते तस्य तदानुत्पन्नत्वात् । अनुत्पन्नस्य चासत्त्वात् । नाप्य् उत्पन्ने पूर्वस्य तदा निरुद्धत्वात् । अचित्तिकासु च निरोधसमापत्त्याद्यवस्थासु पुनः संस्कारपरिभावितचित्तोत्पत्त्यसंभवाद् विज्ञानप्रत्ययं नामरूपं न स्यात् । तदभावाट् षडायतनं न स्यात् । एवं यावज् जातिप्रत्ययं जरामरणं न स्यात् । ततश् च संसारप्रवृत्तिर् एव न स्यात् ।
तस्माद् अविद्याप्रत्ययाः संस्कारास् तदधिवासितञ् चालयविज्ञानं संस्कारप्रत्ययं विज्ञानम् । तत्प्रत्ययं प्रतिसन्धौ नामरूपम् इत्य् एषैव नीतिर् अनवद्या ।
संसारनिवृत्तिर् अपि आलयविज्ञाने असति न युज्यते । संसारस्य हि कर्मक्लेशाश् च कारणं तयोश् च क्लेशाः प्रधानम् । तथा हि क्लेशाधिपत्यात् कर्म पुनर्भवाक्षेपसमर्थं भवति नान्यथा । तथाक्षिप्तपुनर्भवो ऽपि कर्म क्लेशाधिपत्याद् एव पुनर्भवो भवति नान्यथा । एवञ् च क्लेशा एव संसारप्रवृत्तेः प्रधानत्वान् मूलम् । अतस् तेषु प्रहीणेषु संसारो विनिवर्तते नान्यथा । न चालयविज्ञानम् अन्तरेण तत्प्रहाणं युज्यते ।
कथं पुनर् न युज्यते । संमुखीभूतो वा क्लेशः प्रहीयते बीजावस्थो वा । तत्र संमुखीभूतः प्रहीयत इत्य् अनिष्टिर् एवेयम् । तत्प्रहाणमार्गस्थानाद् बीजावस्थो ऽपि नैव प्रहीयते । न हि प्रतिपक्षात् तदानीं किञ्चिद् अन्यद् अभ्युपगम्यते यत्र क्लेशबीजं व्यवस्थितं तत्प्रतिपक्षेण प्रहीयेत । अथ प्रतिपक्षचित्तम् एव क्लेशबीजानुषक्तम् इष्यते । न हि तत् क्लेशबीजानुषक्तम् एव तत्प्रतिपक्षो भवितुम् अर्हति । न चाप्रहीणक्लेशबीजानां संसारनिवृत्तिः संभवति । तस्माद् अवश्यम् आलयविज्ञानं तदन्यविज्ञानसहभूभिः क्लेशोपक्लेशैर् भाव्यते स्वबीजपुष्ट्याधानत इत्य् अभ्युपेयम् । ये पुनश् चित्तत एव संततिपरिणामविशेषाद् यथाबलं वासनावृत्तिलाभे सति क्लेशोपक्लेशाः प्रवर्तन्ते तेषाञ् चालयविज्ञानव्यवस्थितं बीजं तत्सहभुवा क्लेशप्रतिपक्षमार्गेणापनीयते । तस्मिंश् चापनीते न पुनस् तेनाश्रयेण क्लेशानाम् उत्पत्तिर् इति सोपधिशेषो निर्वाणधातुः प्राप्यते । पूर्वकर्माक्षिप्तजन्मनिरोधे च ततो ऽन्यजन्माप्रतिसंधानान् निरुपधिशेषो निर्वाणधातुः । न हि कर्म विद्यमानम् अपि क्लेशेषु प्रहीणेषु सहकारिकारणभावात् पुनर्भवम् अभिनिर्वर्तयितुं समर्थम् ।
एवम् आलयविज्ञाने सति संसारप्रवृत्तिर् निवृत्तिश् च नान्यथेत्य् अवश्यं चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानं तद् एव च सर्वधर्मबीजानुगतं न चक्षुरादिविज्ञानम् इत्य् अभ्युपगन्तव्यम् । विस्तरविचारस् तु पञ्चस्कन्धकोपनिबन्धाद् वेदितव्यः ॥
यदि विज्ञप्तिमात्रम् एवेदं कथं न सूत्रविरोधः । सूत्रेषु हि त्रयः स्वभावा उक्ताः परिकल्पितः परतन्त्रः परिनिष्पन्नश् च । नास्ति विरोधः । विज्ञप्तिमात्र
एव सति स्वभावत्रयव्यवस्थानात् । कथम् इत्य् अत आह ।
येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते ।
परिकल्पित एवासौ स्वभावो न स विद्यते ॥ 20
आध्यात्मिकबाह्यविकल्प्यवस्तुभेदेन विकल्पानाम् आनन्त्यं प्रदर्शयन्न् आह । येन येन विकल्पेनेति ।
यद् यद् वस्तु प्रकल्प्यते । आध्यात्मिकं बाह्यं वान्तशो यावद् बुद्धधर्मा अपि । परिकल्पित एवासौ स्वभाव इति । अत्र कारणम् आह । न स विद्यत इति ।
यद् वस्तु विकल्प्यविषयस् तद् यस्मात् सत्ताभावान् न विद्यते । तस्मात् तद् वस्तु परिकल्पितस्वभावम् एव । न हेतुप्रत्ययप्रतिबद्धस्वभावम् । तथा ह्य् एकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर् दृष्टा । न च तद् एकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात् सर्वम् इदं विकल्पमात्रम् एव तदर्थस्य परिकल्पितरूपत्वात् । उक्तं च सूत्रे ।
न खलु पुनः सुभूते धर्मास् तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टा इति ।
परिकल्पितानन्तरं परतन्त्रस्वभावो वक्तव्य इति । अत आह ।
परतन्त्रस्वभावस् तु विकल्पः प्रत्ययोद्भवः । 21अब्
अत्र च विकल्प इति परतन्त्रस्वरूपम् आह । प्रत्ययोद्भव इत्य् अनेनापि
परतन्त्राभिधानप्रवृत्तिनिमित्तम् आह । तत्र परिकल्पः कुशलाकुशलाव्याकृतभेदभिन्नास् त्रैधातुकाश् चित्तचैत्ताः ।
यथोक्तम् ।
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति ।
परैर् हेतुप्रत्ययैस् तन्त्र्यत इति परतन्त्र उत्पाद्यत इत्य् अर्थः । स्वतो ऽन्यहेतुप्रत्ययप्रतिबद्धात्मलाभ इति यावदुक्तं भवति । उक्तः परतन्त्रः ।
परिनिष्पन्नः कथम् इत्य् अत आह ।
निष्पन्नस् तस्य पूर्वेण सदा रहितता तु या ॥ 21च्द्
अविकारपरिनिष्पत्त्या स परिनिष्पन्नः । तस्येति परतन्त्रस्य पूर्वेणेति परिकल्पितेन तस्मिन् विकल्पे ग्राह्यग्राहकभावः परिकल्पितः । तथा हि तस्मिन् विकल्पे ग्राह्यग्राहकत्वम् अविद्यमानम् एव परिकल्प्यत इति परिकल्पितम् उच्यते । तेन ग्राह्यग्राहकेण परतन्त्रस्य सदा सर्वकालम् अत्यन्तरहितता या स परिनिष्पन्नस्वभावः ॥
अत एव स नैवान्यो नानन्यः परतन्त्रतः । 22अब्

अत एव स नैवेति परिकल्पितेन स्वभावेन परतन्त्रस्य सदा रहितता परिनिष्पन्नः । रहितता च धर्मता । सा च धर्मता धर्मान् नान्या नानन्या युज्यते । परिनिष्पन्नश् च परतन्त्रधर्मतेत्य् अतः परतन्त्रात् परिनिष्पन्नो नान्यो नानन्य इति बोद्धव्यः । यदि हि परिनिष्पन्नः परतन्त्राद् अन्यः स्याद् एवं न परिकल्पितेन परतन्त्रः शून्यः स्यात् । अथानन्य एवम् अपि परिनिष्पन्नो न विशुद्धालम्बनः स्यात् परतन्त्रवत् संक्लेशात्मकत्वात् । एवं परतन्त्रश् च न क्लेशात्मकः स्यात् । परिनिष्पन्नाद् अनन्यत्वात् परिनिष्पन्नवत् ।
अनित्यतादिवद् वाच्यो 22च्
नान्यो नानन्य इति वाक्यशेषः । यथा ह्य् अनित्यता दुःखतानात्मता च । संस्कारादिभ्यो
नान्या नानन्या । यदि संस्कारेभ्यो ऽनित्यता अन्या । एवं तर्हि संस्कारा नित्याः स्युः । अथानन्या एवम् अपि संस्काराः प्रध्वंसाभावरूपाः स्युर् अनित्यतावत् । एवं दुःखतादिष्व् अपि वाच्यम् ।
यदि ग्राह्यग्राहकभावरहितः परतन्त्रः कथम् असौ गृह्यते अगृह्यमाणो वा कथम् अस्तीति विज्ञायते । अत आह ।
नादृष्टे ऽस्मिन् स दृश्यते ॥ 22द्
नादृष्टे ऽस्मिन्न् इति परिनिष्पन्नस्वभावे स दृश्यत इति परतन्त्रः स्वभावः । निर्विकल्पलोकोत्तरज्ञानदृश्ये परिनिष्पन्ने स्वभावे अदृष्टे अप्रतिविद्धे असाक्षात्कृते तत्पृष्ठलब्धशुद्धलौकिकज्ञानगम्यत्वात् परतन्त्रो ऽन्येन ज्ञानेन न गृह्यते । अतः परिनिष्पन्ने ऽदृष्टे परतन्त्रो न दृश्यते । न पुनर् लोकोत्तरज्ञानपृष्ठलब्धेनापि ज्ञानेन न दृश्यते ।
तथा निर्विकल्पप्रवेशायां धारण्याम् उक्तम् ।
तत् पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिश्रुत्कोदकचन्द्रनिर्मितसमान् सर्वधर्मान् प्रत्येतीति ।
अत्र च धर्माः परतन्त्रसंगृहीता अभिप्रेताः । परिनिष्पन्नश् चाकाशवद् एकरसः । ज्ञानञ् च यथोक्तं

निर्विकल्पेन ज्ञानेनाकाशसमतया तान् सर्वधर्मान् पश्यतीति परतन्त्रधर्माणां तथतामात्रदर्शनात् ॥
यदि द्रव्यम् एव परतन्त्रः कथं सूत्रे सर्वधर्मा निःस्वभावा अनुत्पन्ना अनिरुद्धा इति निर्दिश्यन्ते । नास्ति विरोधः यस्मात् ।
त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् ।
सन्धाय सर्वधर्माणां देशिता निःस्वभावता ॥ 23
त्रय एव स्वभावा न चतुर्थो ऽस्तीति ज्ञापनार्थं संख्यानिर्देशः । स्वेन स्वेन लक्षणेन विद्यमानवद् भवतीति स्व्भावः ।
त्रिविधा निःस्वभावता लक्षणनिःस्वभावता उत्पत्तिनिःस्वभावता परमार्थनिःस्वभावता च । सर्वधर्माः परिकल्पितपरतन्त्रपरिनिष्पन्नात्मकाः ।
इदानीं त्रिविधस्य स्वभावस्य या यस्य निःस्वभावता तां तस्य प्रदर्शयन्न् आह ।
प्रथमो लक्षणेनैव निःस्वभावो ऽपरः पुनः ।
न स्वयंभाव एतस्येत्य् अपरा निःस्वभावता ॥ 24
धर्माणां परमार्थश् च स यतस् तथतापि सः । 25अब्
प्रथमः परिकल्पितः स्वभावो ऽयं च लक्षणेनैव निःस्वभावस् तल्लक्षणस्योत्प्रेक्षितत्वात् । रूपलक्षणं रूपम् । अनुभवलक्षणा वेदनेत्यादि । अतश् च स्वरूपाभावात् खपुष्पवत् स्वरूपेणैव निःस्वभावः ।
अपरः पुनर् इति परतन्त्रस्वभावः । न स्वयंभाव एतस्य मायावत् परप्रत्ययेनोत्पत्तेः । अतश् च यथा प्रख्याति तथास्योत्पत्तिर् नास्तीत्य् अतो ऽस्योत्पत्तिनिःस्वभावतेत्य् उच्यते ।
धर्माणां परमार्थश् च स यतस् तथापि स इति । (25अब्)
परमं हि लोकोत्तरज्ञानं निरुत्तरत्वात् तस्यार्थः परमार्थः । अथ वाकाशवत् सर्वत्रैकरसार्थेन वैमल्याविकारार्थेन च परिनिष्पन्नः स्वभावः परमार्थ उच्यते । स यस्मात् परिनिष्पन्नः स्वभावः सर्वधर्माणां परतन्त्रात्मकानां परमार्थः । तद्धर्मतेति कृत्वा तस्मात् परिनिष्पन्न एव स्वभावः परमार्थनिःस्वभावाता परिनिष्पन्नस्याभावस्वभावत्वात् ।
किं पुनः परमार्थाभिधानेनैव परिनिष्पन्नो ऽभिधातव्यः । नेत्य् आह । किं तर्हि
तथतापि सः । (25ब्)
अपिशब्दान् न केवलं तथताशब्देनैवाभिधातव्यः । किं तर्हि यावन्तो धर्मधातुपर्यायाः सर्वैस् तैर् अप्य् अभिधातव्य इति ॥
सर्वकालं तथाभावात् 25च्
तथता । तथा हि पृथग्जनशैक्षाशैक्षावस्थासु सर्वकालं तथैव भवति । नान्यथेति तथतेत्य् उच्यते ।
किं पुनस् तथतावत् परिनिष्पन्न एव विज्ञप्तिमात्रता । उतान्या विज्ञप्तिमात्रता । अत आह ।
सैव विज्ञप्तिमात्रता ॥ 25द्
सुविशुद्धलक्षणावबोधाद् यथोक्तम् ।
नाम्नि तिष्ठति तच् चित्तं तदा तन्मात्रदर्शनात् ।
नाम्नि स्थानाच् च विज्ञप्ताव् उपलम्भः प्रहीयते ॥
नोपलम्भं तदा धातुं स्पृशते भावनान्वयात् ।
सर्वावरणविमोक्षं विभुत्वं लभते तदा ॥
इति । सैव विज्ञप्तिमात्रतेत्य् अनेन वचनेनाभिसमय उक्तः ।
यदि विज्ञप्तिमात्रम् एवेदं कस्माच् चक्षुःश्रोत्रघ्राणरसनस्पर्शनैः रूपशब्दगन्धरसस्पर्शान् गृह्णातीत्य् अस्य भवतीत्य् अत आह ।
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठते ।
ग्राहद्वयस्यानुशयस् तावन् न विनिवर्तते ॥ 26
अथ वा यास् ताः कर्मवासना ग्राहद्वयवासनासहिताः
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्तीत्य् (19च्द्)
उक्तं तस्मात् कथं प्रहाणम् अप्रहाणं चेत्य् अत आह ।
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ट्ःअत (26अब्)
इति विस्तरः । यावच् चित्तधर्मतायां विज्ञप्तिमात्रसंशब्दितायां विज्ञानं नावतिष्ठते किं तर्हि ग्राह्यग्राहकोपलम्भे चरति । ग्राहद्वयं ग्राह्यग्राहो ग्राहकग्राहश् च । तस्यानुशयस् तदाहितम् अनागतग्राहद्वयोत्पत्तये बीजम् आलयविज्ञाने । यावद् अद्वयलक्षणे विज्ञप्तिमात्रत्वे योगिनश् चित्तं न प्रतिष्ठितं भवति तावद् ग्राह्यग्राहकानुशयो न विनिवर्तते न प्रहीयत इत्य् अर्थः । अत्र च बहिर् उपलम्भाप्रहाणेनाध्यात्मिकोपलम्भाप्रहाणं दर्शितम् इति । अतो ऽस्यैवम् भवत्य् अहं चक्षुरादिभिः रूपादीन् गृह्णामीति ।
इदम् इदानीं वक्तव्यं किम् अर्थरहितचित्तमात्रोपलम्भाच् चित्तधर्मतावस्थानम् । नेत्य् आह । किं तर्हि ।
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भतः ।
स्थापयन्न् अग्रतः किञ्चित् तन्मात्रे नावतिष्ठते ॥ 27
इति अथ वा यः पुनर् आभिमानिकः श्रुतमात्रकेण जानीयद् अहं विज्ञप्तिमात्रतायां शुद्धायां स्थित इति तद्ग्रहव्युदासार्थम् आह ।
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भत इत्य् (27अब्)

आदि । विज्ञप्तिमात्रम् एवेदं अर्थरहितं न बाह्यो ऽर्थो ऽस्तीत्य् एवम् उपलम्भतो ग्रहणतः चित्रीकरणत इत्य् अर्थो ऽग्रत इत्य् अभिमुखं [ त्व्भ्_136 ] स्थापयन्न् इति यथाश्रुतं मनसा
बहुप्रकारत्वाद् योगाचारालम्बनानां किंचिद् इत्य् आहास्थिसंकलिकं वा विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकादिकं वा तन्मात्रे नावतिष्ठते विज्ञानोपलम्भाप्रहाणात् ।
कदा पुनर् विज्ञानग्राहस्य प्रहाणं चित्तधर्मातायाञ् च प्रतिष्ठितो भवतीत्य् अत आह ।
यदा त्व् आलम्बनं ज्ञानं नैवोपलभते तदा ।
स्थितं विज्ञप्तिमात्रत्वे ग्राह्याभाभावे तदग्रहात् ॥ 28
यस्मिन् काले देशनालम्बनं अववादालम्बनं प्राकृतं वा रूपशब्दाद्यालम्बनं ज्ञानं बहिश् चित्तान् नोपलभते न पश्यति न गृह्णाति नाभिनिविशते यथाभूतार्थदर्शनान् न तु जात्यन्धवत् तस्मिन् काले विज्ञानग्राहस्य प्रहाणं स्वचित्तधर्मतायां च प्रतिष्ठितो भवति । अत्रैव कारणम् आह ।
ग्राह्याभावे तदग्रहाद् इति । (28द्)
ग्राह्ये सति ग्राहको भवति न तु ग्राह्याभाव इति । ग्राह्याभावे ग्राहकाभावम् अपि प्रतिपद्यते । न केवलं ग्राह्याभावम् । एवं हि [ त्व्भ्_138 ] समसमालम्ब्यालम्बकं निर्विकल्पं लोकोत्तरं ज्ञानम् उत्पद्यते । ग्राह्यग्राहकाभिनिवेशानुशयाः प्रहीयन्ते स्वचित्तधर्मतायां च चित्तम् अवस्थितं भवति ।
यदैवं विज्ञप्तिमात्रतायां चित्तम् अवस्थितं भवति तदा कथं व्यपदिश्यत इत्य् आह ।
अचित्तो ऽनुपलम्बो ऽसौ ज्ञानं लोकोत्तरञ् च तत् ।
आश्रयस्य परावृत्तिर् द्विधादौष्ठुल्यहानितः ॥ 29
स एवानास्रवो धातुर् अचिन्त्यः कुशलो ध्रुवः ।
सुखो विमुक्तिकायो ऽसौ धर्माख्यो ऽयं महामुनेः ॥ 30
इति । तद् अनेन श्लोकद्वयेन दर्शनमार्गम् आरभ्योत्तरविशेषगत्या फलसंपत्तिर् उद्भाविता विज्ञप्तिमात्रताप्रविष्टयोगिनः । तत्र ग्राहकचित्ताभावाद् ग्राह्यार्थानुपलम्भाच्
चाचित्तो ऽनुपलम्भो ऽसौ । (29अ)
अनुचितत्वाल् लोके समुदाचाराभावान् निर्विकल्पत्वाच् च लोकाद् उत्तीर्णम् इति
ज्ञानं लोकोत्तरञ् च तद् इति । (29ब्)
तस्य ज्ञानस्यानन्तरं आश्रयस्य परावृत्तिर् भवतीति ज्ञापनार्थम् आह ।
आश्रयस्य परावृत्तिर् इति । (29च्)
आश्रयो ऽत्र सर्वबीजकम् आलयविज्ञानम् । तस्य परावृत्तिर् या दौष्ठुल्यविपाकद्वयवासनाभावेन निवृत्तौ सत्यां कर्मण्यताधर्मकायाद्वयज्ञानभावेन परावृत्तिः ।
सा पुनर् आश्रयपरावृत्तिः कस्य प्रहाणात् प्राप्यते । अत आह ।
द्विधादौष्ठुल्यहानितः । (29द्)
द्विधेति क्लेशावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यञ् च । दौष्ठुल्यम् आश्रयस्याकर्मण्यता । तत् पुनः क्लेशज्ञेयावरणयोर् बीजम् । सा पुनर् आश्रयपरावृत्तिः श्रावकादिगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह विमुक्तिकाय इति ।
बोधिसत्त्वगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह
धर्माख्यो ऽयं महामुनेर् इति । (30द्)
द्विधा आवरणभेदेन सोत्तरा निरुत्तरा चाश्रयपरावृत्तिर् उक्ता ।
अत्र गाथा ।
ज्ञेयम् आदानविज्ञानं द्वयावरणलक्षणम् ।
सर्वबीजं क्लेशबीजं बन्धस् तत्र द्वयोर् द्वयोः ॥
इति । द्वयोर् इति श्रावकबोधिसत्त्वयोः । आद्यस्य क्लेशबीजं इतरस्य द्वयावरणबीजं तदुद्घातात् सर्वज्ञतावाप्तिर् भवतीति ।
स एवानास्रवो धातुर् इति (30अ)
स एवाश्रयपरावृत्तिरूपः । अनास्रवो धातुर् इत्य् उच्यते निर्दौष्ठुल्यत्वात् । सर्वास्रवविगत इत्य् अनास्रवः । आर्यधर्महेतुत्वाद् धातुः । हेत्वर्थो ह्य् अत्र धातुशब्दः ।
अचिन्त्यस् तर्कागोचरत्वात् प्रत्यात्मवेद्यत्वाद् दृष्टान्ताभावाच् च । कुशलो विशुद्धालम्बनत्वात् क्षेमत्वाद् अनास्रवधर्ममयत्वाच् च । ध्रुवो नित्यत्वाद् अक्षयतया । सुखो नित्यत्वाद् एव यद् अनित्यं तद् दुःखं अयं च नित्य इति तस्मात् सुखः ।
क्लेशावरणप्रहाणाच् छ्रावकाणां विमुक्तिकायः ।
स एवाश्रयपरावृत्तिलक्षणो धर्माख्यो ऽप्य् उच्यते महामुनेर् भूमिपारमिताभावनया क्लेशज्ञेयावरणप्रहाणात् । आश्रयपरावृत्तिसमुदागमान् महामुनेर् धर्मकाय इत्य् उच्यते । संसारापरित्यागात् तदनुपसंक्लेशत्वाद् बोधिसत्त्वानां सर्वधर्मविभुत्वलाभतश् च धर्मकाय इत्य् उच्यते । महामुनेर् इति परमौनेययोगाद् बुद्धो भगवान् महामुनिर् इति ॥
त्रिंशिकाविज्ञप्तिभाष्यं समाप्तम् ॥ कृतिर् आचार्यस्तिरमतेः ॥

मूल पाठ: Triṃśikāvijñaptikārikā with Sthiramati's Triṃśikāvijñaptibhāṣya · Edition: Hartmut Buescher: Sthiramati's Triṃśikāvijñaptibhāṣya, Critical Editions of the Sanskrit Text and its Tibetan Translation, Wien 2007 (Österreichische Akademie der Wissenschaften, Phil.-hist. Kl., Sitzungsberichte, 786; Beiträge zur Kultur- und Geistesgeschichte Asiens, 57). · Data entry Takamichi Fukita Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc