तत्त्वरत्नावलोक · श्लोक 1-20
तत्त्वरत्नावलोकः (त्र)
ओम् नमः श्रीसद्गुरुपादेभ्यः ।
अनुपमसुखरूपी श्रीनिवासो ऽनिवासो निरुपमदशदेवीरूपविद्यः सविद्यः ।
त्रिभुवनहितसौख्यप्राप्तिकारो ऽविकारो जयति कमलपाणिर्यावदाशाविकासाः
श्रीमन्त्रनीतिगतचारुचतुर्थसेकरूपं विदन्ति नहि ये स्फुटशब्दशून्यम् ।
नानोपदेशगणसंकुलसप्तभेदैस् तेषां स्फुटावगतये क्रियते प्रयत्नः
संभ्रान्तबोधा निखिला हि तीर्थ्यास् तत्त्वस्य साध्यस्य च रूपवित्तौ ।
तेभ्यः प्रकृष्टः किल तत्त्ववेत्ता वेदान्तवादीति[जन] प्रवादः
आनन्दरूपं स्वविदप्रकम्प्यं वेदान्तिनः साध्यमुषन्ति सान्तम् ।
सश्रावकाखड्गजिनाश्च साध्यम् इच्छन्ति रूपाद्युपधेर्विरामम्
आकारशून्यं गगनेन्दुरूपं प्रत्यात्मवेद्यं करुणारसं च ।
सल्लक्षणैर्भूषितमर्थकारि दानादिनिष्यन्दमपेतसौख्यम्
सानन्दसल्लक्षणमण्डिताङ्गं संभुज्यमानं दशभूमिसंस्थैः ।
सत्त्वार्थकारि प्रवदन्ति साध्यं दानदिषट्पारमितानयस्था
संपूर्य दानादिगुणानशेषान् संबुद्ध्य कृत्यं सकलं च कृत्वा ।
यभ्दूतकोटेः करणं च साक्षात् साध्यं तदप्यस्ति निरोधरूपम्
स्वाभाङ्गणा(ना)श्लेषि तदर्थकारि दुःखैः सुखैश्चैव विमुक्तिरूपम् ।
अशीत्यनुव्यञ्जनभूषिताङ्गम् अपेतकल्पं प्रवदन्ति साध्यम्
स्वदेवताकारविशेषशून्यं प्रागेव संभाव्य सुखं स्फुटं सत् ।
महासुखाख्यं जगदर्थकारि चिन्तामणिप्रख्यमुवाच कश्चित्
कृत्वा साक्षात् स्वाधिपं सातरूपं पश्चात् त्यक्त्वा सातमात्रं फलं स्यात् ।
शुद्धं साक्षाच्छक्यते नैव कर्तुं तेनाकारो भावितः स्वाधिपस्य
गगणसमशरीरं लक्षणैर्भूषिताङ्गं निरुपमसुखपूर्णं स्वाभया संगतं च ।
स्फुरदमितमुनीन्द्रः सर्वसत्त्वार्थकारि प्रवदति पुनरन्यः साध्यमुच्छेदशून्यम्
कृत्वा साक्षात् स्वाधिपं सातरूपं भावोपेक्षाज्ञानमात्रं फलं स्यात् ।
आसंसारस्थायि सत्त्वार्थकारि चिन्तारत्नप्रख्यमेकान्तशान्तम्
कृत्वा साक्षान्मण्डलं सातरूपं पश्चात्तस्य स्वेच्छया निर्वृतिं च ।
सत्त्वार्थस्याप्यस्त्यभावो न वास्मिन् प्रादुर्भावो निर्वृतादस्ति यस्मात्
कृत्वा स्फुटं रूपमभीष्टमेषां पश्चान्निरोधं फलमाह कश्चित् ।
अभिन्नरूपश्च यतो निरोधो न पक्षभेदे ऽपि ततो ऽस्ति भेदः
प्रज्ञाज्ञानादुत्तरं बोधिचित्तास्वादस्तुर्यं सेष(क)माहावरं तत् ।
यस्मात् सर्वो भावनासु प्रयासो व्यर्थः प्राप्तस्तत्फलस्य प्रसिद्धेः
प्रज्ञाज्ञानादुत्तरं प्राप्तरामास्वादस्तुर्यं सेकमाहाधमं तत् ।
यस्मात् सर्वो भावनादौ प्रयत्नो बुद्धोद्दिष्टो निष्फलः संप्रसक्तः
दम्भोलिबीजश्रुतिधौतशुद्धपाथोज्ञ(ज)भूताङ्कुरभूतपुष्टि ।
तुरीयशस्यं परिपाकमेत(ति) स्फुटं चतुर्थं विदुषो ऽपि गूढम्
पञ्चप्रदीपामृतबिन्दुचन्द्रभ्रूमध्यबिन्दुद्भवमण्डलानि ।
वायोः स्वरूपं गलशुण्डिकाद्यम् अतत्त्वरूपं स्वयमूहनीयम्
स्वप्नेन्द्रजालप्रतिबिम्बमायामरीचिगन्धर्वपुराम्बुचन्द्रैः ।
अन्यैश्च सर्वैरुपमाभिधेयैर् नैवास्ति साध्यं कथितादिहान्यत्
गम्भीरशून्यप्रतिभासमात्रशान्तातिसूक्ष्मानभिलाप्यशब्दैः ।
निर्लेपनी[रू]पनिरञ्जनाद्यैर् भ्रान्तिर्न कार्यापरसाध्यसत्त्वे
मूल पाठ: Tattvaratnāvaloka · Edition: Janardan Pandey: Tattvaratnavaloka. Sarnath : Central Institute of High Tibetan Studies (CIHTS), 1997. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0