भाषा

ENहिગુ
ग्रंथ पाठ

तथागतबिम्बकारापणसूत्र · भाग 12

तथागतबिम्बकारापणसूत्र
( त्ब्क्स् 2र्1 ) स् सकोतूहलहृदया एवम् ऊचु ।
अहो पुण्यफलप्रभावम् इति महात्वं
अहो पुण्यप्रभावम् इति तूष्णीबभूवुः
ततः सु व र्णप्रभो ( त्ब्क्स् 2र्2 ) सपरिवार भगवन्तं प्रदक्षिणीकृत्य शिरसा प्रणम्य भगवतो ऽन्तिकं निषण्ण धर्मश्रवणार्थम्* अ थ ( त्ब्क्स् 2र्3 ) भगवां सर्वसत्वानुसंशयं ज्ञात्वा तेभ्यो महाजनकायेभ्य धर्मश्रावणिकेभ्यः तस्य सुवर्णप्रभस्य राजकुमारस्य पू र्व सुचरितपुण्यफलेन ( त्ब्क्स् 2र्4 ) प्रभावसमुदयसंदर्शनहेतुभूतां विचित्र प्रकारां सप्रतीत्यसमुत्पादां चतुरार्यसत्यकथा सं युक्तां ( त्ब्क्स् 2र्5 ) धर्मदेशनां देशयति । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यंजनं केवलं प रि पूर्णम्* ( त्ब्क्स् 2र्6 ) परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति स्म :
भूतपूर्वं भिक्षवः अतीते ऽध्वनि एकनवतिमे कल्पे ( त्ब्क्स् 2र्7 ) विपश्यी नाम सम्यक्संबुद्धो विद्याचरणसंपन्नस् सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिश् शास्ता देवमनुष्या णां ( त्ब्क्स् 2व्1 ) बुद्धो भगवां बुद्धकृत्यम् अ..अशिष्यविनेयकृत्यं कृत्वा निरिन्धनो ऽग्निर् इव परिनिर्वृत समभिजगाम : तद् एक पु रु षो ( त्ब्क्स् 2व्2 ) भिक्षवः परुषदरिद्रकृषिकर्मणावप्रतिवृत्ति भगवता विपश्यिन शासनेभिः प्रसन्नाः भगवतो विप श्यि नः ( त्ब्क्स् 2व्3 ) प्रतिमां कर्ता
तस्मिं काले तस्मिं समये स एवायं सुवर्णप्रभो राजकुमार यद् भगवतो विपश्यिनः प्रति मां ( त्ब्क्स् 2व्4 ) कारयत यत् पुण्यफलसमुदयप्रभावै दिव्यसुखोपभोगैश्वर्यमहात्व म् अ नुभूतवान्* अयं स सु व र्णप्रभो ( त्ब्क्स् 2र्व्5 ) राजकुमार समासतो भिक्षव सर्वासु जातिषु तद् भाषयामि:
सप्तरत्नमयेन समन्वागतो श्री च क्रवर्तिराज्यं ( त्ब्क्स् 2र्6 ) चतुर्द्वीपेश्वरो नभस्तलचर : अप्रतिहतचक्ररत्नगतिप्रचार । अधीश्वराधिपति । शतस ह स्रकृत्वा ( त्ब्क्स् 3र्1 ) चतुर्द्वीपेश्वरो राजा चक्रवर्ती बभूवु ।
अनेनैव बुद्धप्रतिमापुण्यफलविपाकेन तथैवंविध । ( त्ब्क्स् 3र्2 ) स कामावचरेषु देवनिकायेषु स्वर्गेषु एकैकशः शतसहस्रकृत्वा भिक्षव देवानाम् इन्द्रो राजा बभूव : ( त्ब्क्स् 3र्2 ) एवंविध : शतसहस्रकृत्वा दश ब्रह्मकायिकेषु ब्रह्माधिपतिर् बभूवु: अनुलोमप्रतिलोमज न्म शतसहस्रेषु ( त्ब्क्स् 3र्4 ) कोटि क्षत्रियब्राह्मणेश्वराधिपतिकुलेषु राजा बभूव । एवंविधश् च भिक्षव। सौ भा ग्यकान्तिद्युतिकीर्तियशोबलसमन्वागत ( त्ब्क्स् 3र्5 ) स्वर्गा च्युत। ऐश्वर्येषु राजकुले जातः उत्तमजात अनुत्तमजा त। ( त्ब्क्स् 3र्6 ) सुवर्णप्रभो राजकुमारः अन्तिके देवमनुष्याणां अच्युतं अजरं अमरणं शिवं शान्तं पदं लभिष्यतीति । ततो ( त्ब्क्स् 3र्7 ) ऽस्य भिक्षव सुवर्णप्रभस्य राजकुमारस्य बुद्धप्रतिमापुण्यफलप्रभावम् अनुशृणुता मानुष्यजातिषु ये षु ( त्ब्क्स् 3व्1 ) आत्महितपरहितकामेन नाम भिक्षव बुद्धप्रतिमा निकरणीया ।
तद्यथा भिक्षव : मृन्मयी वा । ( त्ब्क्स् 3व्2 ) शैलमयी वा । दन्तमयी वा । दारुमयी वा । सुवर्णमयी वा । कंसमयी वा । त्र...मयी वा । रुप्यमयी ( त्ब्क्स् 3व्3 ) वा स्फटिकमयी वा । मणिरत्नकमयी वा । रीतमयी वा । बुद्धप्रतिमा करणीयका वा । दीर्घका वा । ह्र स्व कां ( त्ब्क्स् 3व्4 ) वा । सधातुकं वा । सप्रतीत्यसमुत्पादं वा ।
बुद्धप्रतिमा कारयित्वा । स्थापयित्वा गन्धोदकपुष्पोदकादिभि ः ( त्ब्क्स् 3व्5 ) पूजाविशेषै। स्नापयित्वा पूजयित्वा यस्य कस्यचिद् भिक्षवः कुलपुत्रस्य वा कुलदुहितुर् वा बुद्धप्रतिमापु ण्य फलनिष्यन्द : ( त्ब्क्स् 3व्6 ) पुण्यस्कन्धः पुण्यराशि अप्रमेय असाधरण: अनन्त्युपम: पुण्यस्कन्धेति
पुनर् अपरं भिक्षव: ( त्ब्क्स् 3व्7 ) यः कश्चिद् भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । क्षत्रियो वा ब्राह्मणो वा । वैश्यो वा । शूद्रो वा एवंरूपा सु ( त्ब्क्स् 4र्1 ) जातिषु । श्रुतिधरो भवति । जातिस्मरो भवति । स्वजनपरिजनदासीदासकर्मकरपौरुषेयप्रभृतिषु स आदेयवाद्यो भवति । ( त्ब्क्स् 4र्2 ) सर्वसत्वप्रियदर्शनधरो भवति । सर्वगुणलक्षणधरो भवति सर्वसत्वाधिपतिर् भवति । सर्वबुद्धप्रत्येकबुद्धश्रावकार्हद्गुण स मागतो ( त्ब्क्स् 4र्3 ) भवति । नित्यं बोधिचित्तपरायणो भवति । यस्य यत्राभिकांक्षति । तत्र तत्र एतं लभति । रागद्वेषमोहेर्ष्यामात्सर्य लो भतृष्णादिक्लेशादिभि। ( त्ब्क्स् 4र्4 ) विवर्जितो भवति । बुद्धत्वम् अन्वन्तरम् अधिगच्छति । क्षिप्रं च परिनिर्वाणं शान्तम् अधिगच्छतीति वदामि भिक्षवः ( त्ब्क्स् 4र्5 )
तत् कस्माद् धेतोर् अनन्तफलसमुदयप्रभाव । बुद्धप्रतिमापुण्यफलसमुदयप्रभावम्* बुद्धप्रतिमापुण्यफलविपाक ( त्ब्क्स् 4र्6 )
परिनिर्वृतो ऽपि अधिगतो नापि बुद्धो भगवां परिनिर्वृत इव बुद्धप्रतिमाया दर्शनाद् इति वदामि भिक्षव इदम् अवोचद् भगवां ( त्ब्क्स् 4र्7 ) तथापरं गाथां भाषते ।
कृत्वा पुरा काश्यपबिंबम् अग्र्यं गन्धोदकै स्नापितवां द्विजेन्द्रः ।
( त्ब्क्स् 4व्1 ) पुष्पै सुगन्धैस् सुमनोज्ञग न्धै तेनैव पुण्येन भवाद् विमुक्तः 1
यं निर्मलः क्लेशमलैर् विमुक्त चित्तस्य चित्तेश्वरतागतिं स्यः
रूपं न तृप्ताश् च निरीक्ष्य मत्वा तद्बिंब सं स्ना पयतो जिनस्य 2 ( त्ब्क्स् 4व्2 )
विचित्रभोगा विविधप्रकारा चन्द्रार्कसौम्याधिकतेजशोभा ।
लभन्ति नार्यः पुरुषाश् च लोके तद्बिंब संस्नापयतो जि नस्य 3 ( त्ब्क्स् 4व्3 )
क्लेशान्धकारादिविमुक्तचित्ता मोहान्धकारादिविपूर्णचन्द्र ।
शान्तं पदं यान्ति नरा स्त्रियो वा तद्बिंब संस्नापयतो जिन स्य 4 ( त्ब्क्स् 4व्4 )
त्यक्त्वा कडेवरम् इहैव नरा स्त्रियो वा
स्वर्गे प्रयाति बहुकल्पशतै सुनिर्वृत्*
ते प्राप्नुवन्त्य् अनुपमं सुखम् अप्स रे भि ( त्ब्क्स् 4व्5 )
विश्वस्य तत् फलम् उदारम् उवाच बुद्धः 5
श्रीकान्तिदिव्यसलिलो गुणरूपशोभा
सौभाग्यभाग्ये वरसौख्यपटुत्ववा क्य । ( त्ब्क्स् 4व्6 )
आदित्यचन्द्रकिरणा इव सौम्यतेजा
- बुद्धबिंबकरणा लभते मनुष्यः 6
यावन्तः परमाणवो भगवत स्तूपेषु बिं ब स्य वा । ( त्ब्क्स् 4व्7 )
तत् कर्तुम्* दिवि भूतले च नियतं तावन्ति राज्यानि ते ।
बुद्धानां खलु धातवे भगवता शरीरा नि च निर्मिता । ( त्ब्क्स् 5र्1 )
एकैकाद्भुतपुण्यराशिजनितैर् एकैकसूक्ष्माणुभि । 7
त्रैलोक्ययशस्य बिंबं दशबलबलिना दिक्षु विख्यातकीर्ते ।
ये म र्त्याः कारयित्वा प्रमुदितमनसा पूजयन्ते यथावत् ( त्ब्क्स् 5र्2 )
स्वर्गे सक्त्ये च रूपं नयनरतिकरं शुद्धचामीकराभम्*
ते लब्धाश् शान्तिका मा सुखम् इदम् अतुलं प्राप्नुवन्त्य् आवजुष्टं ॥ 8 ( त्ब्क्स् 5र्3 )
इत्य् एवादिप्रकारां सुवर्णप्रभवसुयुक्तां धर्मदेशनां श्रुत्वा पंचशतसह स्र ( त्ब्क्स् 5र्4 ) अन्तःपुरस्त्रीकान्तपरिवारै सुवर्णप्रभो राजकुमार बुद्धप्रतिमापुण्यफलराजश्रीसमुदयसंमुदसौख्यं ( त्ब्क्स् 5र्5 ) सर्वं गार्हस्थ्यम् अपहाय तथैव शासने प्रव्रजित

योनिश स मनस्कारं कृत्वा सर्वक्लेशप्रहाणा अर्हत्वं स्त्रीप रि वारास् ( त्ब्क्स् 5र्6 ) समलोष्टकांचन समचित्ताः कृतं करणीया अपहृतभाराः परिक्षीणभवसंयोजन विमुक्तास् संसारबन्ध ना स् ( त्ब्क्स् 5र्7 ) सर्वदेवनमस्कृतचरणयुगला सुप्रबुद्धा

बुद्धप्रतिमापुण्यफलसमुदयविभूतिमहात्वप्रकाशन म् इदं सूत्रम्* ( त्ब्क्स् 5व्1 )
इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दम्* भिक्षवश् चतुर्दिशसंख्यार्हत्वं बभूवु ।
बुद्धप्रतिमापुण्यफलप्रकाशितम् इदं सूत्रं समाप्तम्* ॥ ॥
तथागतबिंबकारापणं सूत्रं समाप्तम्* ॥ ॥

मूल पाठ: Tathāgatabimbakārāpaṇasūtra · Edition: Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151. GBM 1684.1_1691.2 (Bl. 2_5) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc