भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 24

24.2

अथ पक्षता निरूप्यते।
तत्र न तावत्सन्धिग्धसाध्यधर्मा धर्मी पक्षः।
अथ पक्षतावादः

24.5

अथ परोक्तपक्षलक्षणभङ्गः

24.5

एवमनुमानवक्षणं तदङ्ग 1 व्याप्तिस्वरूपं तन्निश्चयोपाय 2 मुक्त्वा तत्र बाधकं च निरस्येदानीमनुमानसहकारिसंपत्तिरूपावसरप्राप्ता पक्षता निरूप्यत इत्याह-- अथेति॥ यद्वानुमानस्य द्वयं सामर्थ्यं व्याप्तिः समुचितदेशवृत्तित्वं च। तत्रान्त्यमपि द्वेधा। पक्षधर्मतारूपा तदन्यरूपा चेति। कयोश्चित्समानदेशकालयोः कयोश्चिद्भिन्नदेशकालयोरित्यादिपद्धत्युक्तेः। तथा च क्वाचित्कपक्षधर्मतासापेक्षत्वात्सा निरूप्यत इत्याह -- अथेति॥ तत्र पक्षतानिरूपणे कार्ये सतीत्यर्थः। संदिग्धसाध्यधर्मेति॥ साध्यधर्मेत्येवोक्तौ सपक्षस्यापि पक्षतापातात्संदिग्धेत्युक्तम्। धर्मिपदं स्पष्टार्थमित्येके। प्रामाणिकत्वकथनायेत्यन्ये। साधनेतिव्याप्तिवारणाय धर्मिपदम् 1 धर्मित्वं च साध्यापेक्षया ध्येयमिति प्रेक्षावन्तः॥
1.भूतेत्यधिकम्-ठ. 2.यं चोक्त्वा - ठ. 3.मितिप्रेक्षा-ठ.ड. म् देय- मिति प्रे-ठ.
पक्त-पलक्ष-भङ्गः) पक्षतावादः पु - 61.
अनुमतिकाले संदेहस्यासत्वेन विशेषणत्वायोगात्। उपलक्षणत्वे ऽतिप्रसङ्गात्। असंदेहेपि सामग्रीबलादनुमितिदर्शनाच्च॥
नापि साधकमानाभावो यत्र स पक्षः।
अत्र संदिग्धं च तत् साध्यं च संदिग्धसाध्यं संदिग्धसाध्यं धर्मो यस्येति बहुव्रीहौ सति"धर्मादनिच्केवलादि"त्यनिच्प्रत्ययः। 1 तत्र हि केवलादिति न धर्मविशेषणम्। किन्तु बहुव्रीह्याक्षिप्तपूर्वपदस्य विशेषणम्। तेन पूर्वपदीभवतः केवलादन्यनिरपेक्षात्परो यो धर्मशब्दस्तदन्तादित्यर्थो भवति। तथा च संदिग्धसाध्यपदस्य बहुव्रीहौ पूर्वपदीभवतो ऽन्यनिरपेक्षत्वाद्भवत्यनिजिति 2 ध्येयम्। 3 एतच्च धातुवृत्तौ व्यक्तम्। उक्तविग्रहपक्षे कैवल्यस्य धर्मविशेषणत्वेप्यस्ति प्रत्ययप्राप्तिरित्यप्याहुः॥
असत्वेनेति॥ परामर्शात्पूर्वं लिङ्गदर्शनव्याप्ति 4 स्मरणादिना तस्य नाशादिति भावः। अतिप्रसङ्गादिति॥ सिद्धिदशायामपि पक्षतापत्तेरिति भावः। व्यतिरेकव्यभिचार चाह-- असंदेहेपीति॥ घनघर्जितादिस्थल इति भावः। यत्रेति॥ यन्निष्ठसाध्यविषये। यद्वा साध्यसाधकमानाभावो यत्र पर्वतादिप्रदेशे स इत्यर्थः। एवमग्रेपि। श्रोतव्यो गुरूपदेशेन ज्ञातव्यो मन्तव्यो युक्त्यनुसंधानरूपमननोत्पन्नानुमितिरूपज्ञानेन विषयीकर्तव्य इत्यर्थः।
1.यदातु धातु वृत्युक्तदिशा केवलादिति न धर्मविशेषणं किन्तु इत्यस्तु -ठ. 2.ध्येयमिति न -ट.ड. 3.यदा तु ऽवृत्तौ पञ्चमान्त्यपादे केवलात्पूर्वपदात् न पदसमुदायात् इत्युक्तदिशाथः। तदा निजत्रचिन्त्यः। असत्वेनेति-ठ. 4.कोटीत्यधिकम्-ड.
पु-62. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
श्रोतव्यो मन्तव्य इत्यादौ साधके सत्यपि पक्षत्वदर्शनात्। विपक्षस्यापि तत्प्रसङ्गाच्च॥
नापि बाधकमानाभावो यत्र स पक्षः। स पक्षस्यापि तत्प्रसङ्गात्॥
नाप्यभावद्वयं यत्र स पक्षः। मन्तव्य इत्यादौ तदभावेपि पक्षत्वात्॥
नापि साधायवत्तया विषाधयिषाविषयो यः स पक्षः। अनिच्छा 2 यामप्यनुमितिदर्शनात्॥
ननु -- सिषाधयिषाविरहसहकृतसाधकमानाभावो यत्र स पक्षः।
साधके सतीति॥ श्रवणशब्दितं उपदेशजन्यं यज्ज्ञानं तस्मिन्सत्येव तत्समानविषयश्रवणानन्तरभाविमनन 3 रूपानुमानेन श्रवणविषयार्थानुमित्यनुदयेन मननवैयर्थ्यापत्तेरिति भावः॥ विपक्षस्येति॥ साध्याभाववतः। तत्र साध्याभावसाधकस्यैव सत्वेन साध्यसाधखस्याभावात्। अनेन सपक्षस्यापीत्येतदपि व्याख्यातप्रायम्। तदभावेपीति॥ श्रवणादिरूपसाधकस्यैव तत्र सत्वेनाभावद्वयाभावेपि पक्षतासत्वादित्यर्थः। नापि साध्येति॥ साध्यवत्वेन साधयितुमिच्छा साध्यवत्तया सिषाधयिषा तद्विषय इत्यर्थः। अनिष्टायाः अनिष्टविषयायाः। इच्छां प्रत्यविषयीभूतपदार्थविषयाया इत्यर्थः॥
मणिकृता सिद्धान्तितमिपि लक्षणमाशङ्कते-- नन्विति॥
1.यः स इति नास्ति-ट.रा. 2.च्छयानुमितिद-क. ष्टाया-ग.ट.रा. 3."श्रवणविषयार्थस्यानुमानेन तत्र पक्षताभावे अनुमित्यनुदयेन"इत्यस्ति-ट.ड. नेन श्र इत्यस्ति-ठ.
पक्त-पलण-भङ्गः) पक्षतावादः पु - 63.
एवं च मन्तव्य इत्यतर् सिषाधयिषाविरहरूपविशेषणाभावात् घनगर्जितेन मधानुमाने साधकमानरूपविशेष्याभावात् सिषाधयिषोः पुंसो धूमानुमाने उभयाभावाद्वि 1 शिष्टाभावाद्विशिष्टाभावो ऽनुगत इति तत्रतत्र 2 पक्षतायुक्ता। यत्र तु सिषाधयिषा 3 विरहयुते स्पष्टदृष्टे घटादौ विशेषणं विशेष्यं चास्ति न तत्र पक्षतेति चेन्न। असिषाधयिषोर्धूमानुमाने घनगर्जितेन मेघानुमाने चानुमितेः पूर्वं लिङ्गपरामर्शरूपसधखमानस्य सत्वेनापक्षत्वापातात्॥
मण्युक्तविवरणपूर्वकं प्रागुक्तदोषा नेत्याह-- एवं चेति॥ एवं पक्षलक्षणे सतीत्यर्थः। सिषाधयिषोरित्येतत्सिषाधयिषाविरहरूपविशेष 4 णाभावोपपादनायोक्तम्। उभयेति॥ साधकमानस्य सिषाधयिषाविरहस्य चाभावादित्यर्थः। एवमव्याप्तिं निरस्यातिव्याप्तिं च निराह-- यत्रत्विति॥ विशेषणमिति॥ सिषाधयिषाविरहः प्रत्यक्षरूपसाधकमानं चास्तीत्यर्थः। असिषाधयिषोरिति॥ एतच्च सिषाधयिषाविरहरूपविशेषणसद्भावायोक्तम्। एवं
च तत्र विशेषणविशेष्ययोर्द्वयोरपि सत्वेनान्यतराभावेन वोभयाभावेन वा न विशिष्टाभावस्तत्रास्तीत्यव्याप्तिरिति भावः॥
1.विशिष्टाभावादिति नास्ति-ट.क.ग.रा. 2.पुनः तत्रेति नास्ति-क.ग.ट. प्रथमतोपि नास्ति-रा. 3.रहिते-क.ग.ट. 4.षोप-ट. षाभावो-ड.
पु-64. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ मतम्--
सिषाधयिषाविरहसहकृतसिद्ध्यभावो यत्र स पक्षः। अनुमितेः पूर्वं च साधकमानत्वेपि न साध्यस्य सिद्धिरस्तीति तत्र पक्षता युक्ता॥
ननु -- एवं सति संशयाननत्रप्रत्यक्षस्थले पक्षता स्यात्। तत्र पुरुषत्वसिद्धिरूपविशेष्याभावेन विशिष्टाभावसंभवात् । तस्मात्सिषाधयिषाविरहसहरकृतसिद्धितत्करणान्यान्तत्वा 1 वच्छिन्नाभावो यत्र स 2 एव च पक्षः।
पक्षधराद्युक्तविवक्षामाशङ्कते- अथ मतमित्यादिना -- मैवमित्यन्तेन॥ संशयानन्तरेति॥ स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषत्वव्याप्यकरादिरूपविशेषदर्शनानन्तरं पुरुष एवायमिति जायमानप्रत्यक्षस्थल इत्यर्थः। संशयानन्तरप्रत्यक्षस्थले दोषपरिहाराय यज्ञपितनोक्त समाधिं पक्षधराद्युक्तदोषेण पूर्वपक्षिमुखेनैव निरसितुमाह-- तस्मात्सिषाधयिषेति॥ सिद्धितत्करणान्यतरत्वावच्छिन्नेत्यस्य निष्कर्षेणार्थो 3 न्यान्यत्वेति॥ सिद्धितत्करणाभ्यां यदन्यत् जगत् तदन्यत् सिद्धिस्तत्करणं च तत्वेनेत्यर्थः। अनुगत्यर्थमान्यान्यत्वावच्छिन्नेत्युक्तम्। अन्यान्यत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः। प्रागुक्तदोषं निराह-- एवं चेति॥ नन्वेवं 4 धूमादिस्थेप्युक्तदिशा लिङ्गपरामर्शसत्वात्पक्षता नस्यादित्यत आह-- धूमेति॥

1.त्वलिङ्गाभावो-क. 2.सपक्षः-ग.ट.रार्. 3.थोन्यान्यत्वे-ट.ठ.ड. 4.एवं च संशयोत्तरप्रत्यक्षस्थले इत्युक्तदिशा- ठ.
पक्त-पलण-भङ्गः) पक्षतावादः पु - 65.
एवं च संशयानन्तरप्रत्यक्षस्थले च सिद्धेरभावेपि पुरुषत्वव्याप्यकर 1 चरणादिरूपसिद्धिकरणस्य सत्वान्न पक्षता। धूमानुमाने तु पक्षता युक्ता। क 2 रणशब्देनानुमितिजनकपरामर्शेतर 3 तत्करणस्याभिप्रेतत्वादिति चेन्न। तत्र पक्षताया इष्टत्वात्॥
नचैवं तत्रानुमितिरेव स्यान्न तु पक्षत्यक्षम्। अनुमितिसामग्र्याः बलवत्वात्। अन्यथा धूमानुमानेपि लिङ्गपरामर्शानन्तरं तदनुव्यवसाय एव स्यन्न त्वनुमितिरिति वाच्यम्।
परामर्शेति॥ एवं चेदपि संशयोत्तरप्रत्यक्षस्थले पुरुषत्वव्याप्यकरादिदर्शनरूपपरामर्शसत्वेपि तदितरपत्यक्षरूपसिद्धिकरणस्यापि सत्वान् 4 तत्र पक्षतापत्तिरिति भावः॥
अतमतमिति शङ्कितैव निराह-- तत्रेति॥ संशयोत्तरप्रत्यक्षस्थले। तथा च तदर्थं सिद्धितत्करणान्यानयत्वेत्यादि न वक्तव्यमिति भावः। एतेन तत्र पक्षताविरहदर्शना 5 त्पक्षतासत्वस्य तत्र 6 केनाप्यकथनादिति मणिकण्ठोक्तं नादर्तव्यमित्युक्तं भवति। तदनुव्यवसाय इति॥ परामर्शोत्पत्यनन्तरं परामर्शानुव्यवसायं प्रतिबध्यानुमितेरेवोत्पादोभ्युपगतो ऽनुमितिसामग्र्या बलवत्वयुक्तिमाश्रित्य तन्न स्यात् इत्यर्थः। एतच्च ज्ञानस्य बुभुत्सितग्राह्यत्वमतमाश्रित्योक्तम्। अबुभुत्सितग्राह्यत्वे तु स्यादेवानुव्यवसाय इति ध्येयम्। परामर्शस्य चरमकारणत्वं च 7 स्वस्य ज्ञातैकसत्वेन स्वप्रत्यक्षाजनकत्वेनेति ध्येयम्।
1.रादि दर्शनरूप-- क.ग.ट.रा. 2.अत्र सर्वत्र का इत्यस्ति-ट. 3.रकरण -क.ग.रा. 4.त्तत्र पक्षतानापत्तिः-ठ.ड. 5.तत्रेत्यधिकम्-ठ. 6.तत्रेति न -ठ. 7.व्यवसायत्वेन स्वप्र-ठ.
पु-66. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
संशयानन्तरप्रत्यक्षस्थले विशकलितयोर्व्याप्तिपक्षधर्मता 1 ज्ञानयोः सत्वेपि लिङ्गपरामर्शाभावात्। साक्षात्करोमीत्यनुव्यवसायेन समानविषये फलवबलेन प्रत्यक्षसामग्र्याः प्राबल्यकल्पनाच्च॥
ननु -- तथात्वे तत्रनुमितत्सायां सत्यामप्यनुमितर्न स्यात्। अनुमित्सयापि हि पक्षतैव संपाद्या।
न त्वनुमितिरिति॥ अनुव्यवसायेन परामर्शनाशेनानुमितिकारणाभावादिति भावः। विशकलितयोरिति॥ करादिः पुरुषत्वव्याप्यः। अयं च करादिमानित्येव तत्र धीर्नतु पुरुषत्वव्याप्यकरादिमानयमितित धीरित्यनुमितिसामग्र्यभावादेव नानुमितिर्न तु पक्षताविरहादिति भावः। तत्राप्यस्तु परामर्श इति वादिनं प्रत्याह-- साक्षादिति॥ समाने विषय इति॥ एवं च परामर्शे 2 ऽनुव्यवसायजनयित्वानुमितिजनकत्वं युक्तम्। समाने विषये प्रत्यक्षसामग्र्या बलवत्वेपि भिन्ने विषये ऽनुमितिसामग्रीबलवत्वसंभवादिति भावः॥ तथात्व इति॥ संशयोत्तरप्रत्यक्षस्थे पक्षतासत्वेपि प्रत्यक्षसामग्रीप्राबल्येन प्रत्यक्षस्यैवोत्पादाङ्गीकारे सतीत्यर्थः। तत्र संशयोत्तरप्रत्यक्षस्थले । अनुमित्सा सिषाधयिषापदे नात्राभिमता। न तु सिद्धिसामान्येच्छा । श्रवणानन्तरभाविनो मननस्यानुदयापत्तेरिति भावेनानुमित्सापदप्रयोगः। अनुमित्सयापिहीति॥
सिषाधयिषाविरहरूपिवशेषणस्याभावप्रयुक्तविशिष्टाभावसंपादनद्वारा विशिष्टाभावरूपपक्षतैव संपाद्येत्यर्थः॥
1.तयोः -कर्. 2.शानु- ठ.ड.
पक्त-पलण-भङ्गः) पक्षतावादः पु - 67.
त्वयाच पक्षतायां सत्यामपि प्रत्यक्षसामग्रीबलवतीति 1 कल्पनादिति चेन्न। उभयत्र पक्षतायां सत्यामपि फलबलेनानुमित्सा प्रबलप्रत्यक्षसामग्रीरूपप्रतिबन्धकविरोध्युत्तम्भिका। तथा 2 चानुमित्सायाः पक्षतासंपादकत्वाभावेपि प्रतिबन्धकप्रत्यक्षसामग्र्यामुत्तेजकत्वात्। त्वयापि हि
सिद्धिरूपप्रतिबन्धकविरोध्युत्तम्भकत्वेनैव सिषाधयिषा पक्षतायां प्रवेशिता॥
त्वया चेति॥ संशयोत्तरप्रत्यक्षस्थले पक्षतास्तीति वादिना चेत्यर्थः। उभयत्रेति ॥ 3. धूमानुमाने संशयोत्तरप्रत्यक्षस्थले चेत्यर्थः। फलेति॥ अनुमिनोमीत्यनुभवसिद्धानुमितिरूपफलबलेनेत्यर्थः। अनुमित्सा विरोध्युत्तिम्भिकेत्यन्वयः। अनुमितिप्रतिबन्धकस्य यद्विरोधि तदुत्तिम्भिकेत्यर्थः। कल्पनादिति॥ अनुमित्सादशायां अनुमितिर्न स्यादिति दोषो नेति येज्यम्। परस्यापि सम्मतमेतदित्याह-- त्वयापीति॥ यज्ञपतिनापीत्यर्थः। सिषाधयिषाविरहसहकृतसिद्धीत्यादिवदता सिषाधयिषाविरहे सित सिद्धिः प्रतिबन्धिका तस्यां तु सत्यां नेति कृत्वा तादृशसिद्ध्याद्यभावः पक्षतेत्युक्तत्वादिति भावः॥
नन्वेवमनुमित्साविरहसहकृतप्रत्यक्षसामग्र्या बलवत्वेनानुमिति प्रतिबन्धकत्वे तादृशसामग्र्यभावः तादृशसिद्ध्यभावश्च द्वयमप्यनुमितौ कारणमिति विनिगमकाभावात्पक्षतात्वमुभयोरप्यस्त्विति चेन्न। द्ववोः कारणत्वाविशेषेपि लाघवात्सिद्ध्यभाव एव पक्षतारूपपक्षपदप्रवृत्तिनिमित्तम्।
1.त्युक्तमिति चेन्न -ग.ट.रा. 2.तथाचानुमित्साविरह सहकृतप्रत्यक्षसामग्रीबलवतीति कल्पनात् -ग.ट.रा. 3.अनुमित्सावति तदभाववति चेत्यर्थः इत्यधिकम् -- ठ.
पु-68. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तस्मात्सिषाधयिषाविरहसहकृतसिद्ध्यभावो यत्र स 1 पक्ष इति चेत् -मैवम्॥
सत्यां सिद्धौ असत्यामपि सिषाधयिषायामनुमितिदर्शनात्। दृश्यते ह्यसंदिहानस्यापि आप्तवाक्याद्वह्निं
निश्चितवतोपि गिरिशिखरे अभ्रंलिहां धूमरेखां पश्यतो दैवाव्द्याप्तिस्मरणे सति अननुमित्सोरनुमितिः। न हि सामग्री प्रेक्षावती। येन मया कर्तव्यमन्येन कृतमिति पर्यालोच्योदासीत। अनुभवानुसारेण हि लक्षणं कल्प्यम्। न तु स्वकल्पितलक्षणरक्षणार्थमनुभवपीडा। अस्ति चात्र न केवलं वह्निः श्रुतः किं त्वनुमितोपीत्यनुभवः।
न त्वधिकम्। गौरवात्। किञ्चान्यान्यत्वावच्छिन्ना भावत्वेन न जनकत्वम्। मण्यादिस्थलेपि मन्त्रान्यान्याभावत्वेनापि हेतुतापत्या प्रतिबन्धकाभावकूटः कारणमिति सिद्धान्तभङ्गापत्तेः। तृणाद्यन्यान्यत्वेनापि हेतुतापत्या कार्यवैजात्यासिद्धिप्रसङ्गादित्याद्यभिप्रायेण"अत्र मतमि"त्यादिशङ्किता स्वमतमुपसंहरति-तस्मादिति॥ इदमपि लक्षणमव्याप्तिरिति भावेन --
"असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते"।
इति भक्तिपादीयानुव्याख्यानसुधोक्तं हृदिकृत्वा निराह-- सत्यामित्यादिना ॥ तत्र विशेषणविशेष्ययोर्द्वयोरपि सत्वेनान्यतराभावप्रयुक्तस्योभयाभावनिमित्तकस्य वा विशिष्टाभावस्याभावाद्वयाप्तिरिति भावः। न च 2. पक्षतैव नेति वाच्यम् अनुमितिरूपफलदर्शनेन तत्र पक्षताया आवश्यकत्वादित्याह-- दृश्यते हीति॥ अनुभव एव नास्तीत्यत आह-- अस्ति चेति॥
1.एवेत्यधिकम्-ट.रा. 2.तत्रेत्यधिकम्-ट.ड. तत् इत्यधिकम्-ठ.
पक्त-पलण-भङ्गः) पक्षतावादः पु - 69.

अत्रानुमित्साकल्पने च घटनगर्जितेन मेधानुमानेपि सा कल्प्यताम्। योग्यानुपलब्धिबाध 1 श्चोभयत्रापिसमः। न च छिन्ने छिदान्तरमिव परिच्छिने पिरच्छेदान्तरमशक्यम्। चैत्रेण ज्ञातेर्थे मैत्रस्य, चैत्रस्यैव कालान्तरे ज्ञानान्तरस्य, तदानीमपि प्रत्यक्षसिद्धे शाब्दज्ञानान्तरस्य, प्रत्यक्षधारावाहिज्ञानान्तरस्य, शब्दलिङ्गाभ्यां निश्चितेप्यर्थे सामग्रीवशाच्छाब्दलैङ्गिकज्ञानान्तरस्य, दर्शनात्॥
ननु तत्र फलबलेनानुमित्सैव कल्प्यतां एवं चानुमित्साविरहरूपविशेषणाभावप्रयुक्तविशिष्टाभावरूपपक्षतासत्वान्नदोष इत्यत आह-- अत्रेति॥ घन 2 गर्जितेनेति॥ एवं च 3 तत्र विशेषणसत्वमुपेत्य साधकमानरूपविशेष्याभावप्रयुक्तविशिष्टाभावोक्त्या पक्षत्वोपपादनमसङ्गतं स्यादिति भावः। तत्रानुमित्सा योग्याननुभवबाधितेत्यत आह-- योग्वेति॥ इच्छाया योग्यत्वात्तदनुपलब्धेर्योग्यानुपलब्धित्वाद्योग्यानुपलब्धीत्युक्तम्। किं
परिच्छेदान्तरं कस्यापि नास्तीति अथ परिच्छेत्तुरेव नेति अस्मिन्पक्षेपि कालान्तरे 4 नास्त्युत तदा तदेत्यत्रापि प्रमाणान्तरेण नास्ति उत पूर्वपरिच्छेदजनकप्रमाणेन शब्दलिङ्गाभ्यां परिच्छिन्ने पुनस्ताभ्यामेव परिच्छेदान्तरे नेति कल्पान्क्रमेण निराह-- चैत्रेण ज्ञात इति॥
1.धस्तू भ-ट.ग. 2.घटपदं न- ठ.ट. 3.एवं च इति न -ट. तत्रेत्यपि न -डः. 4.रोपि न -ड.
पु - 70. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च मणिमन्त्रादिवत्सिद्धेः प्रतिबन्धकत्वे सिद्धे विशिष्टाभावस्य कारणत्वं सिद्ध्येत्। न च तदस्ति। सिद्धेर्बाधवत्साक्षाद्विरोधिविषयत्वाभावात्। व्यभिचारज्ञानवद्धेतुविघटकत्वस्याप्यभावात्। मण्यादिवदन्वयव्यतिरेकयोरप्यभावात्॥
अपि च यदि विरोध्यविषयिण्यपि सिद्धिः सिषाधयिषाविरहसहकारिसंपत्या समानविषया 1 नुमितिप्रतिबन्धिका
तर्हि लिङ्गज्ञानमप्युपाधिज्ञानसहकृतं साक्षादेवं लिङ्गपरामर्शप्रतबन्धकं स्यात्। न तु व्यभिचारधीद्वारा॥
न च सिद्धेरविरोधित्वे ऽनुमितिधारा न विच्छिद्येनेति वाच्यम्।
ननूक्तस्थले सर्वत्र फलबलात्प्रतिबन्धकीभूतसिद्धेरुत्तेजकं किञ्चित्परिकल्पनीयम्। अन्यथा प्रतिबन्धके सति कार्योदयस्य दुर्घटत्वादित्यत आह-- किं चेति॥ प्रतिबन्धकत्वं सिद्धेः किं ग्राह्याभावावगाहित्वेनोत सिद्ध्यन्तर 2 विघटकत्वेनान्वयव्यतिरेकाभ्यां वा न 3 त्रयमपीति क्रमेण निराह-- सिद्धेर्बाधवदित्यादिना॥ सिद्धेः 4 प्रतिबन्धकत्वे साधकं नेत्युक्त्वा बाधकमप्याह-- अपि चेति॥ लिङ्गज्ञानमिति॥ महानसादौ गृहीतव्याप्तिकस्य पर्वते यल्लिङ्गदर्शनं तदित्यर्थः। सिद्धेरप्रतिबन्धकत्वे ऽनुमित्यविच्छेदो वा सिद्धसाधनत्वस्यादोषत्वं वा स्यादित्यत आद्यं बाधकं तावदाशङ्क्य निराह-- न चेति॥ शाब्दबोधकस्थले सिद्धेरप्रतिबन्धकत्वेन तत्रापि शाब्दबोधपरंपरापत्तेः।
1.यकानु-क.ट. यत्वानु-ग.रा. 2.कारणेत्यधिकम्-ठ. 3.न केनापीति-ठर्. 4.बाधकत्वेसा -ठ.
पक्त-पलण-भङ्गः) पक्षतावादः पु - 71.
लिङ्गपरामर्शस्य शाब्दधीकारणीभूतज्ञानवद्विक्षणावस्थायित्वेनानुमितिधाराहेत्वभावात्। लिङ्गोपहितलैङ्गिकभानपक्षस्य निरासात्॥
न च लिङ्गपरामर्शस्य स्थितिक्षणे चैका तन्नासक्षणे चान्येत्यनुमितिद्वयं नियमेव स्यात् तद्धेतोः सत्वादिति वाच्यम्। क्वचिदुत्कटविषयान्तरजिज्ञासया प्रतिबन्धसंभवेन नियमचहेत्वभावात्। कदाचिदनुमितिद्वयापादने च हेतुसत्वेनेष्टापत्तेः। कथं हि विज्ञातं भवता कदाप्यनुमितिद्वयं नास्तीति। अनुमिनोमीत्यनुव्यवसायस्य द्वितीयाभावाविषयकत्वात्।
कारणीभूतस्य शाब्दगोचरज्ञानस्य विनाशेन कारणाभावान्न शाब्दबोधपरंपरेति चेत्सममिहापीत्याह-- लिङ्गपरामर्शस्येति॥ ज्ञानवज्ज्ञानस्येव। आत्मलाभरूपजन्मक्षणमप्युपादाय वा विनाशक्षणमप्युपादाय वा द्विक्षणेत्युक्तम्॥
ननु धूमवत्पर्वतो ऽग्निमानित्यनुमित्याकारोपगमेनानुमतितिरपि परामर्शरूपेत्यत आह-- लिङ्गेति॥ 1 स्वतस्त्वानुमानवादे निरासादित्यर्थः। अनुमिनोमीत्यनुव्यवसाय एवानुमितिद्वयाभावे मानमित्यत आह-- अनुमिनोमीति॥ द्वितीयं बाधकं निराह-- सिद्धसाधनं त्विति॥
1.प्रामाण्यस्वतस्त्वे अनुमानोक्तिप्रस्तावे निरा- ठ.
पु-72. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
सिद्धसाधनं तु परार्थानुमान एव दोषो न स्वार्थानुमाने इति वक्ष्यते॥
1 तस्मात्प 2 क्षता दुर्निरूपेति॥
इति परोक्तपक्षलक्षणभङ्गः

24.5

वक्ष्यत इति॥ स्वमते ऽनुमानदोषोक्तिवादे। एतेन सिद्ध्यभावस्य पक्षतात्वखण्डनेनैव सिषाधयिषाविरहसहकृतसाध्यनिश्चयाभावः पक्षतेति शिरोमणिपक्षोपि प्रत्युक्तो ध्येयः। पूर्वोक्तदोषाणामत्राप्यनुवृत्तेः उक्तदोषान्संक्षेपेणानुवदन्पूर्वपक्षमुपसंहरति-- तस्मादिति॥
इति मण्युक्तपक्षलक्षणभङ्गः

24.6

अथ स्वमते पक्षलक्षणम्

24.6

उच्यते --
लिङ्गाभिमतस् यत्र यदा यं प्रति यद्विजननानुकूलसहकारिसंपत्तिस्तत्र तदा तं प्रति तत्साध्यम् --
अथ स्वमते पक्षलक्षणम्

24.6

"साध्यधर्मविशिष्टः पक्ष"इति मिथ्यात्वानुमानखण्डने भगवत्पादोक्तं पक्षलणमिह विवक्षुः"लिङ्गेन यत्प्रतीतिर्जनयितव्या स साध्यधर्म"इति टीकोक्तं परिष्कृर्वन्साध्यस्वरूपं तावदाह -- लिङ्काभिमतस्येति॥
1."तस्मात्परोक्तवक्रपक्षलक्षणेषु सत्यां सिद्धौ असत्यामपि सिषाधयिषायां या अनुपपत्तिस्तत्राव्याप्तिः सिद्धेरनुमितिप्रतिबन्धकत्वे बीजाभावः लिङ्गज्ञानस्यापि लिङ्गपरामर्शप्रतिबन्धकत्वापातः इति दोषत्रयम्। इत्यधिकम्-ग. ट.रा. 2.त्परोक्त पक्षता -ट.
स्वते-पलणम्) पक्षतावादः पु - 73.
-- तादृशसाध्यविशिष्टस्य तदा तं प्रति तस्यानुमितौ पक्षः॥
न च पक्षताया अप्यनुमितिहेतुत्वेन सहकारिरूपायाः कथं सहकारिसंपत्तिरूपतेति वाच्यम्।
पर्वतोग्निमान्प्र 1 मेयत्वादिति व्यभिचारिप्रयोगादाव्याप्तिनिरासाय लिङ्गाभिमतेत्युक्तम्। व्याप्यत्वेनाभिमतस्येत्यर्थः।
समानाधिकरणव्यधिकरणसर्वसाध्यस्वरूपनिर्वचनार्थं यत्र यदेत्याद्युक्तम्। देशान्तरे कलान्तरे पुरुषान्तरं प्रति वस्त्वन्तरज्ञाने चानुकूलसहकारिसंपत्तिमादाय देशान्तरादौ साध्यतापत्तिदोषनिरासाय यत्तच्छब्दचतुष्टयम्। सहकारिसंपत्तिः सहकारिमेलनम्। लिङ्गजन्यानुमतिविषत्वयोग्यत्वं साध्यत्वमिति फलितार्थः॥
एतेन साध्यशब्देन किं संदिग्धो धर्मो विवक्षितः किं वा प्रज्ञापनीयः यद्वा प्रमित्सितः । नाद्यः सत्यां सिद्धावित्यादिपूर्वभङ्गोक्तग्रन्थे निश्चितस्यापि साध्यत्वोक्तिविरोधात्। प्रमाणसंप्लववादिनां निश्चितेप्यनुमानप्रवृत्तिरङ्गीकाराच्च। न द्वितीयः। स्वार्थानुमाने प्रयोज्यकर्तुरभावेन प्रज्ञापनाभावात्। न तृतीयः। अनिष्टानुमानाभावप्रसङ्गादित्याद्युपप्लवो ऽपोढः। लिङ्गजन्यप्रतीतिविषधर्मस्य 2 साध्यधर्मपदेन विवक्षितत्वात्। तस्य कालान्तरादिकमादायातिप्रसङ्गनिवृत्यर्थः यत्र यदेत्येवं निरुक्तत्वात्॥
एवं च पर्वतनिष्ठधूमेन पर्वतीयवह्न्यनुमित्युत्पादनदशायां वह्नेः साध्यत्वं नदीपूरेणोर्ध्वदेशवृष्ट्यनुमित्युत्पादवेलायां वृष्टेः साध्यत्वं कृत्तिकोदयेन रोहिण्युदयासत्यनुमतिकाले रोहिण्युदयासत्तेः साध्यत्वमित्यादि ध्येयम्। अस्तु साध्यमेवं रूपं ततः किमित्यत आह-- तादृशेति॥ उक्तरूपेत्यर्थः। तं प्रति पुरुषं प्रति॥ तस्येति॥ वह्न्यादिवस्तुनः।
1.न्मेय-ट.ठ. 2. साध्यधर्मस्येत्यधिकम् -ठ.
पु-74. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ममन्मते पक्षताया अनुमितिसहकारिसंपत्ति 1 रूपत्वेना 2 नुमित्यहेतुत्वात्। त्वन्मतेपि 3 हि पक्षता सिद्धिरूप्रतिबन्धकाभावतया हेतुः। 4 सिद्धेश्च न सिद्धिः प्रतिबन्धिका। किन्त्वनुकूलैवेत्युक्तम्॥
नन्वेवं सति लिङ्गपरामर्शदशायामेव पक्षता न तु ततः प्राक्। ततश्च लिङ्गपरामर्शः कथं पक्षधर्मताविषयकः
स्यादिति चेत्।
अत्रापि कालान्तरे पुरुषान्तरं प्रति वस्त्वन्तरानुमितौ वस्त्वन्तरविशिष्टस्य पक्षताव्युदासाय तदा तं प्रति तस्येत्युक्तिः॥
ननु साध्यधर्मलिषिशिष्टत्वं साध्यधर्मसंबन्धित्वम्। तच्च व्याप्यतया साधनस्याप्यस्तीति तत्रातिव्याप्तिरिति चेन्न। धर्मधर्मिभावेन वैशिष्ट्यस्य विवक्षितत्वात्। साध्यपदं सपक्षादावतिव्याप्तिनिरासाय। साध्यविशिष्टः पक्ष इत्येवोक्ते वस्तुतोग्निविशिष्टपर्वतस्यापि साध्यत्वात्तद्विशिष्टान्यस्य पक्षत्वं स्यात्। तदर्थं धर्मग्रहणम्। न च वह्निरेव साध्यो न पर्वत इति वाच्यम्। वह्निस्वरूपमात्रस्य प्रागेव सिद्धत्वात्। पर्वतसंबन्धित्वेनासिद्धत्वात्तद्रूपेण वह्निः साध्यते इति चेत्तर्हि यथा पर्वत संबन्धित्वेन वह्निः साध्यः तथा पर्वतोप्यग्निसंबन्धित्वेन साध्य एव स्वरूपमात्रसिद्धावपि विशिष्टसिद्धेरुभयत्र समानत्वात्॥
ननु न्यायमते सरकारिसंपत्तिरूपत्वं पक्षतालक्षणसंभवतीत्यत आह- त्वन्मत इति॥ उक्तमिति। पूर्वभङ्गे। तथाच तव मतेपि पक्षताया न सहकारित्वमिति भावः। नन्वेवमिति॥ अनुमितिसहकारिसंपत्तेः पक्षतात्वे सतीत्यर्थः।
1.रूपपदं न -ग.ट.रा. 2.ना सहकारित्वात्-ग.ट.रा. 3.तेहि-ग.रा. 4.सिद्धिं प्रति प्रतिबन्धिका -क.ग.ट.रा.
स्वते-पलणम्) पक्षतावादः पु - 75.
1 कात्र कथं ता। लिङ्गपरामर्शस्य पक्षधर्मताविषयकत्वं हि न स्वपूर्वकाले स्वकाले च विद्यमाना या पक्षता तदाश्रये व्याप्यवत्वविषयकत्वम्। किं तु स्वकाले वस्तुगत्या विद्यमाना या पक्षता तदश्रये व्याप्यवत्वविषयकत्वम्। लिङ्गपरामर्शकाले च पक्षतास्त्येव। पक्षताज्ञानं तु त्वन्मतेपि नानुमितिहेतुरिति कात्रानुपपत्तिः। सपक्षविपक्षावप्युक्तसहकारिसंपत्तिदशायां पक्षावेव। तदसंपत्तिदशायां पक्षोप्यपक्ष एव। न हि पक्षत्वं जातिः॥
एतदेवाभिप्रेत्य मिथ्यात्वानुमानखण्डनटीकायां"साध्यधर्मविशिष्टः पक्ष"इति मूलव्याख्यावसरे"यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म"इत्युक्तम्।
कथं पक्षधर्मताविषयक इति। पक्षताधिकरणवृत्तिर्यो धर्मः त 2 द्विषयकत्वस्य 3 पक्षधर्मताविषयकत्वेन पक्षतायाः परामर्शकालतावश्यं भावादिति भावः॥
नन्वेवं पक्षतायाः परामर्शकालीनत्वेन परामर्शस्य तदविषयकत्वात्तस्य चरमकालत्वेन तदनन्तरं पक्षताज्ञानस्याशक्यशङ्कत्वात्पक्षताज्ञानं न हेतुरिति स्यदित्यत आह-- पक्षताज्ञानं त्विति॥ त्वन्मतेपीति॥ न केवलं मन्मत इत्यर्थः। प्रतिबन्धकाभावरूपत्वात्प्रतिबन्धकाभावस्य च स्वरूपसत एव हेतुत्वादिति भावः॥
नन्वेवं सपक्षादावपि कदाचिदुक्तसहकारिसंपत्तेः संभवात्पक्षेपि कदाचित्तदसंभवादतिव्याप्त्यव्याप्ती स्यातामित्यत आह-- सपक्षेति॥
1. त्। इत्थम्। लिङ्ग -ग.रा. 2.तत्ववि-ट.ठ. 3.यद्धर्मतावि-ट.
पु- 76. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
सुधायामपि वस्तुतस्त्वनुमितिविषयः पक्ष इत्युक्तम्। तत्र हि तव्यप्रत्ययेन विषयशब्देन चोक्तसहकारिसंपत्तिरूपानुमितिविषयत्व 1 योग्यतैवाभिप्रेता॥
यद्वा ग्रन्थद्वयोरपि व्यापकवत्वेनानुमितिविषयत्वं पक्षत्वमभिप्रेकतम्। व्यापकवत्वेन विशेषणे 2 न तदनुमितिविषयोरपि 3 व्यापके व्यापकतावच्छेदकादौ च नातिव्याप्तिः। अस्मिंश्च पक्षे लिङ्गपरामर्शदशायामपि
न पक्षता। किं त्वनुमितिदशायामेव। त्वन्मतेप्यनुमितिदशायां सिद्धिविरहगर्भिता पक्षता नास्त्येव। अस्मिन्पक्षे लिङ्गपरामर्शस्य पक्षधर्मताविषयकत्वं तु स्वजन्यफलसमानकालीनपक्षताश्रये व्याप्यवत्वविषयकत्वम्॥
साध्यलक्षणे धीपदेन प्रमितेरविवक्षितत्वाद्विपक्षस्यापि ग्रहणं कृतम्। सुधायामपीति॥ भक्तिपादे साध्यासिद्धेरदोषत्वोक्तिप्रस्तावे सुधायामित्यर्थः। स्वोक्तं मूलारूढतया दर्शयति-- तत्र हीति॥ उदाहृतवाक्यद्वये हीत्यर्थः। संपत्तिरूपा योग्यतैवेत्यन्वयः। योग्यतापक्षमाश्रित्यैकं पक्षमुक्त्वा फलोपधानमाश्रित्य लक्षणान्तरमाह-- यद्वेति॥

ननूक्तपक्षद्वये कदाचिदेव पक्षता प्राप्ता न तु परामर्शात्पूर्वं पश्चाच्चेत्यतस्त्वन्मतेपि तथैव प्रत्युतावश्यकानुमितिवेलायामेव नास्तीत्याह-- त्वन्मतेपीति॥ सर्वदा पक्षतासत्वप्रकारमाह-- केचित्विति॥
1.यकत्वे-ग.रा. 2.णादनु-ग.रा. 3.येप्य-क. येव्या-ग.रा.
स्वते-पलक्षण्) पक्षतावादः पु - 77.
केचित्तु -- ग्रन्थयेप्यनुमितिविषयत्वयोग्यतैव पक्षताभिप्रेता। योग्यता च समानाधिकरणाप्रमात्वेनाभिमता या साध्याभावविषया धीस्तदभावः। एवं च जगत्यक्षणिकत्ववा 1 दिनि व्यधिकरणायां प्रमात्वेनाभिमतायां क्षिणिकत्व 2 वादिनि च समानाधिकरणायां प्रमात्वेनानभिमतायां प्रत्यक्षायामक्षणिकत्वप्रमायां 3 च सत्यामपि क्षणिक 4 वादिनः क्षणिकत्वानुमाने जगतः पक्षता युक्ता।
समानाधिकरणेति॥ यत्रानुमित्युत्पादरस्तदधिकरणवृत्तिरित्यर्थः। प्रमात्वेनाभिमतसमानाधिकरणसाध्याभावबुद्ध्यभाव इत्यर्थः। बुद्ध्यभाव इत्युक्ते ऽसंभवः। अभावबुद्ध्यभाव इत्यक्तेपि स एव दोषः। ब सत्वात्। प्रमारूपेत्युक्तौ वादिप्रतिवादिनिष्ठपरस्परसाध्याभावबुद्धेः प्रमारूपत्वनियमाभावेन तादृशबुद्धौ सत्यामपि पक्षता स्यात्सा माभूदित्यभिमतेत्युक्तम्। प्रमात्वेनाभिमततादृशबुद्ध्यभाव इत्युक्तेपि व्यधिकरणपुरुषान्तरप्रतिवादिबुद्धिमादायासंभव एवेति समानाधिकरणेत्यादि सर्वमर्थवत्॥
परार्थानुमानस्थे पक्षतालक्षणं लक्ष्यनिष्ठतया दर्शयति। एवं चेति॥ क्षणिकवादिनः यत्सत्तत्क्षणिकं यथा दीपादि सच्चेदं जगदित्येव रूपक्षणिकत्वानुमाने जगतः पक्षतायुक्तेत्यन्वयः। प्रत्यभिज्ञारूपा जगत्यक्षणिकत्वधीस्तावत्क्षणिकवादिनो ऽक्षणिकवादिनश्चास्ति। तत्र क्षणिकवादिनः प्रमात्वेनानभिमता।
1.क वा-रा. 2.क वा- रा. 3.यां क्षणि-ग.रा. 4.कत्व वा-ग.
पु -78. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
धूमानुमाने महानसे सपक्ष 1 व्यवहारस्तु निश्चितव्यापकवत्तया सपक्षत्वस्यापि सत्वात्। उक्तरूपायां पक्षतायां सत्यामपि पक्षत्वाव्यवहारोप्यनुमित्यविषयत्वात्। तत्र पक्षतायां सत्यामपि कदाचिदनुमित्यभावाश्च त्वन्मते 2 संशयोत्तरप्रत्यक्षस्थल इव लिङ्गपरामर्शादितत्सामग्र्यभावादित्याहुः॥
इति स्वमते पक्षलक्षणम्

24.8

अन्यस्य तु प्रमात्वेनाभिमता। साचानुमातरि क्षणिकवादिनि 3 सत्वात्समानाधिकरणा। अक्षणिकवादिनि सत्वाद्व्यधिकरणा च । तथाच तादृशसाध्याभावबुद्धौ सत्यामपि
समानाधिकरणप्रमात्वाभिमतबुद्ध्यभावात्पक्षतायुक्तेत्यर्थः। अक्षणिकवादिनि क्षणिकवादिनि चेत्यनन्तरं विद्यमानत्वेनेति शेषः। प्रत्यक्षायां प्रत्यभिज्ञानादिसाक्षात्काररूपायामित्यर्थः। नन्वेवं महानसादावप्युक्तरूपानुमितिविषयत्वयोग्यत्वसत्वात्पक्षता स्यात्। तथाच तत्कार्याणां सपक्षत्वाव्यवहारपक्षत्वव्यवहारानुमितीनामापात इत्यत आह-- धूमेति॥ पक्षत्वाव्यवहारोपीत्यत्र हेतुरनुमित्यविषयत्वादिति॥ लिङ्गपरामर्शादीति॥ तत्र यथा विशकलितव्याप्तिस्मरणकरादिरूपलिङ्कदर्शनयोर्भावेपि व्याप्तिविशिष्टलिङ्दर्शनरूपपरामर्शाभावाद्वा परामर्शसत्वेपि प्रत्यक्षसामग्रीबलवत्वेन वा यथा नानुमितिस्तथेत्यर्थः॥
अत्र गौरवमरुचिबीजमित्येके । दैवान्महानसादौ सत्यपि परामर्शे प्रत्यक्षसामग्र्यामसत्यां चानुमित्यापत्या पक्षत्वव्यवहाराद्यापात इत्यन्ये॥
इति स्वमते पक्षलक्षणम्

24.7

1.क्षत्वव्य -क.ग.रा. 2.परमते सं-ग.रा. 3.नो द्विक्षणिकवादिनि सत्वा-ठ.
स्वातो-पाधि-सान्य-लणम्) उपाधिवादः पु - 79.
अथोपाधिवादः ॥ 3. ॥
अथ स्वाभिमतोपाधिसामान्यलक्षणम्

24.7

अथोपाधिज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वादुपाधिर्निरूप्यते। साध्यव्यापकत्वे सति साधनाव्यापक 1 उपाधिः॥
अथोपाधिवादः ॥ 3. ॥
अथ स्वाभिमतोपाधिसामान्यलक्षणम्

24.7

उपाधिनिरूपणे का पूर्वसङ्गतिरित्याह-- अथोपाधीति॥ एवमनुमानोपयुक्तव्याप्त्यादिनिरूपणानन्तरमवसप्राप्तं प्रतिबन्धकस्वरूपं निरूप्यत इत्यर्थः। एतेन यन्मणौ पक्षतोक्तेः प्रागेवोपाधैनिरूपणं तदनवसरदुस्थमित्युक्तं भवति। उपाधिज्ञानं हि द्वेधा व्याप्तिग्रहणकालीनं व्याप्तिग्रहणानन्तरमनुमानप्रयोगकालीनं चेति। तत्राद्याभिप्रायेणोक्तं-- व्याप्तिज्ञानप्रतिबन्धकत्वादिति॥ द्वितीय 2 स्य प्रतिपक्षतया दोषत्वेनानुमितिप्रतिबन्धकत्वात्। व्याप्तिज्ञानप्रतिबन्धकत्वप्रकारश्च साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वादिनोपाधेर्दूषकताबीजोक्तिवादे व्यक्तः॥
"साध्यव्यापकवैलोभ्मव्याप्तिः साधनस्य तु"।
इति युक्तिपादीयानुव्याख्यानसुधाद्युक्तिं हृदि कृत्वोपाधिसामान्यलक्षणमाह -- साध्येति॥ अत्र साध्यपदेन पूर्वोक्तदिशा न लिङ्गजन्यधीविषयत्वं विवक्षितम्।
1. कत्वसु -ग.रा. 2.यं प्रति सत्प्रति -ठ.
पु -80. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ननु -- वायुः स्पार्शनः अनुद्भूतरूपानधिकरणत्वे सति प्रत्यक्षस्पर्शाश्रयत्वात् घटवदित्यादौ पक्षधर्मेण द्रव्यत्वेनावच्छिन्न 1 साध्यव्यापके चाक्षुषत्वाद्युपादौ समवायः समवेतः संबन्धत्वात् संयोगवत् इत्यादौ साधनेन संबन्धत्वेनावच्छिन्न --
येन व्याप्तिग्रहदशायां महानसीयधूमादेस्तादृशत्वाभावेन तदुपाध्यार्द्रेन्धनादावव्याप्तिः स्यात्। किन्तु व्यापकतावच्छेदकधर्मवत्वमात्रमित्यग्रे व्यक्तम्। धूमाद्यनुमाने 2 व्यञ्जनवत्वादेरुपाधिताव्यावृत्यर्थं सत्यन्तम्। तत्रैव
प्रमेयत्वादेरुपाधितानिरासाय साधनाव्यापक इत्युक्तिः। साधनेति साधनत्वाभिमतमुच्यते। एवं साध्यपदेनापि॥ अत्राविनाभावस्यैव व्याप्तित्वोपगमेनानौपाधिकत्वरूपव्याप्तेरनादरान्नान्योन्याश्रयः॥
उक्तलक्षणस्याव्याप्तत्वशङ्कोत्तरे सुधोक्ते विवरितुमाक्षिपति-- नन्विति॥ स्पार्शनं त्विगिन्द्रियवेद्यः। तप्तवारिस्थवह्नावव्यभिचाराय सत्यन्तम्। तन्मात्रस् गगनादावव्यभिचाराया विशेष्यम्। चाक्षुषत्वाद्युपाधावव्याप्तिरित्यन्वयः। यत्र स्पार्शनत्वं तत्र चाक्षुषत्वमिति स्पर्शगुण एव व्यभिचारेण शुद्धसाध्यव्यापकत्वस्या 3 भावेपि द्रव्यत्वे सति स्पार्शनत्वं यत्र तत्र चाक्षुषत्वमिति घटादौ व्याप्तिदर्शनेन पक्षधर्मावच्छिन्नसाध्यव्यापकत्व 4 स्य सत्वात्तत्राव्याप्तिः।
1.न्नेसा -ग.रा. 2.घटादेरुपाधिता -ठ. 3.त्वाभा- ट.ठ.ड. 4.त्वसत्वा-ठ.ट.
स्वातो-पाधि-सान्य-लणम्) उपाधिवादः पु - 81.
-साध्यव्यापके कृतकत्वाद्युपाधौ चाव्याप्तिः। तत्र स्पार्शनत्वादेरेव साध्यत्वात्। साध्यपदेन --
तथा यत्र समवेतत्वं तत्र कृतकत्वमित्यस्य जात्यादौ व्यभिचारेण कृतकत्वस्य शुद्धसाध्याव्यापकत्वेपि संबन्धत्वे सति समवेतत्वं यत्र तत्र कृतकत्वमिति व्याप्तेः संयोगे दर्शनेन साधनावच्छिन्नसाध्यव्यापकोपाधौ चाव्याप्तिरित्यर्थः। अत्रावच्छिन्नत्वं समानाधिकरणत्वं ध्येयम्। अव्याप्तिं व्यनक्ति-- तत्रेति॥ उक्तानुमानद्वये 1 न त्ववच्छिन्नं स्पार्शनत्वादिकम्। येनोक्तलक्षणसत्वादव्याप्तिर्न स्यादितिभावः॥
नन्वेतावुपाधिचत्वेनासंग्राह्यौ। किं तु शुद्धसाध्यव्यापक एवेति चेन्न॥
"वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता"।
इत्यादा"अथातो ब्रह्मजिज्ञासा"इत्यादि शास्त्रं प्रमाणमनुकूलवक्त्रादिमत्वादित्यतनुमाने वाक्यत्वाद्यवच्छिन्नसाधायव्यापकस्याप्तवाक्यत्वादेरुपाधित्वस्वीकाराद्वक्ष्यमाणदूषकताबीजस्यावच्छिन्नसाध्यव्यापकोपाधिसाधारण्याच्चेति भावः॥
यद्यपि समवायस्याप्रामाणिकत्वेन तत्र साध्यहेत्वोर्बाधा 1 दिनैव तदनुमानस्य दुष्टतया तत्रोपाधेरनङ्गीकारेपि न क्षतिः। तथापि नोदाहरणमादरणीयमिति न्यायेन ध्वंसो विनाशी जन्यत्वादित्यादौ साधनावच्छिन्नसाध्यव्यापकस्य कृतकत्वादे 2 रुपाधित्वेनोदाहरणान्तरसंभवेन च साधनावच्छिन्नसाध्यव्यापकोपाधिप्रदर्शन एव तात्पर्यात्। परमते प्रसिद्धत्वात्सुधायामस्यैवानुवादात्समवायपक्षक एव प्रयोगो दर्शित इत्यदोषः॥
1.धेनैव-ट.ठ. 2.अत्यन्ताभावोविनाशी जन्यत्वादित्यादौ साधनावच्छिन्नसाध्यव्यापकस्य भावत्वस्य इत्यधिकम्-ट. स्याभावस्य -ठ.ड.
पु-82. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
--पक्षधर्माद्यवच्छिन्नसाध्यविवक्षायां तु विमतो धूमवान् वह्निमत्वादित्यादौ शुद्धसाध्यव्यापके आर्द्रेन्धनाद्युपाधौ वैधी हिंसा अधर्मसाधनं हिंसात्वादित्यादौ निषिद्धत्वाद्युपाधौ चाव्याप्तिरिति चेन्न॥
साध्यपदेन हि व्यापकतावच्छेदकधर्माधिकरणत्वमात्रे विवक्षितम् न तु तदतिरिक्तधर्मा 1 वच्छिन्नत्वमपि। एवं च यथा शुद्धसाध्यं 2 धूमादिकं व्यापकतावच्छेदकधूमत्वादिधर्माधिकरणं तथा द्रव्यत्वसमानाधिकरणं 3 स्पार्शनत्वरूपमपि साध्यं व्यापकतावच्छेदकस्पार्शनत्वत्वाधिकरणमेवेति न कुत्राप्यव्याप्तिः। न हि 4
धवलत्वसमानाधिकरणं 5 गोत्वमगोत्वं भवति॥
एतदेवाभिप्रेत्योक्तं सुधायाम्-- साध्यपदेनासाध्यपदेनावच्छिन्ना 6 नवच्छिन्नसाध्याभिधानादिति॥
साध्येति॥ सामान्यलक्षणगतसाध्यपदेनेत्यर्थः। पक्षधर्मेति॥ पक्षधर्मावच्छिन्नेत्यर्थः। व्यावकतावच्छेदकेति॥ यस्मिन्प्रयोगे यव्द्यापकतावच्छेदकम् तद्धर्मावच्छिन्नसाध्यव्यापक उपाधि 7 रित्यर्थः॥ उक्तं सुधायामिति॥ साध्यव्यापकवैलोम्यमित्येतव्द्याख्यानसुधायामित्यर्थः।
र्1.मानव-ट. नकारपूरणेन शोधितं-ठ. 2.ध्यं धू-रा. 3.णस्पा-क.ग.रा.
4.गन्धवत्वस-रा. 5.तथा द्रव्यत्वसमानाधिकरणं इत्यधिकम्-ग.रा. 6.न्नाभिधा-ग. न्नसाध्याभा-ट. 7.जन्यत्वसावयवत्वान्यतरत्वेन पर्यवसानात्। कृतकत्वं सावयवत्वं मया उपाधिरुद्भावितः। प्रागभावो जन्यः विनाशित्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकभावत्वमुपाधिरित्यर्थः। इत्यस्ति-ठ.
स्वातो-पाधि-सान्य-लणम्) उपाधिवादः पु- 83.
यद्यप्यवच्छिन्नसाध्य 1 व्यापको ऽवच्छिन्नसाध्य एवोपाधिः। तथापि स्वव्यावृत्यावच्छिन्न 2 साध्यं व्यावर्तयन्नवच्छेदकव्यावृत्तेरसंभवादवच्छेद्यशुद्धसाध्यव्यावृत्तौ पर्यवस्यन्भिक्षुपादप्रसरणन्यायेन शुद्धसाध्यसाधकानुमानेपि दोषो भवति। यथा विशेषणासिद्धो विशिष्टहेत्वसिद्धौ पर्यवस्यन्हेतुदोषो भवति तथेति नार्थान्तरादिकं व्यञ्जनवत्वा 3 द्यपि महानस 4 त्वाद्यवच्छिन्नवह्निरूपसाध्यव्यापकत्वात्तत्रोपाधिरेव किन्तु धूमानुमानस्यानुकूलतर्कसनाधत्वेनावच्छेद्यवह्निव्यावृत्तेरसंभवादवच्छेदकमहानसत्वव्यावृत्तेरेव च संभवाद्वह्निमात्रसाधकधूमानुमानदूषणे न शक्त इति न तत्र दोष इति भेदः॥
ननु शुद्धसाध्यप्रयोगे ऽवच्छिन्नसाध्यव्यापकोपाध्युक्तौ प्रकृतनुपयुक्तान्वितोक्तिरूपार्थान्तरतादोषः स्यादित्याशङ्कामनूद्य शुद्धसाध्यप्रयोगदूषकत्वस्यापि सत्वान्नदोष इति भावेन परिहरति॥ यद्यपीति॥

नन्वेवं पर्वतोग्निमान्धूमवत्वादित्यादिसदनुमानभङ्गप्रसङ्गः। तत्राप्युक्तदिशावच्छिन्नसाध्यव्यापकोपाधिसंभवादित्यत आह-- व्यञ्जनवत्वादिकमिति॥ न शक्त इति विभागः। एवं यथाश्रुतं सुधोक्तं समर्थ्य--
1.को वह्निरसाध्य एवो इत्यस्ति-रा. 2.न्नं सः -ट.रा. 3.दिरपि-क. ग.ट.रा. 4.साद्यव- रा.
पु- 84. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथवा यो यद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकः स तत्रोपाधिः। साध्यव्यापकत्वेसति साधनाव्यापक उपाधिरिति सुधायामपि साध्यव्यापकपदेनेदमेव विवक्षितम्। एवं चावच्छिन्नसाध्यसाध्यव्यापके नाव्याप्तिशङ्कापि 1 । नापि शुद्धसाध्यव्यापके आर्द्रेन्धनादौ तस्यापि धूमत्वादिधर्मावच्छिन्नधूमरूपसाध्यव्यापकत्वात्। एवं च सर्वोप्युपाधिरवच्छिन्नसाध्यव्यापक एव। सुधायामनवच्छिन्नपदं तु व्यापकतावच्छेदकधर्मान्यधर्मेणानवच्छिन्नत्वाभिप्रायम्॥
यद्वा साध्य 2 पदस्थाने यत्पदप्रक्षेपेण यो यव्द्यापकत्वे सति यदव्यापकः स स्वाव्याप्ये तस्मिन्हेतावुपाधिरित्यस्तु। एवं च द्रव्यत्वावच्छिन्नस्पार्शनत्वस्य दूष्यानुमानसाध्यत्वाभावेपि तत्र चाक्षुष 3 त्वोपाधितासिद्धिः। सुधायांसाध्यपदं तु प्रायिकाभिप्रायम्। अत एव सुधायां वस्तुतस्तु यो धर्मो यव्द्यापकाव्या 4 पकस्तस्य तेनाव्याप्तिरिति साध्यपदस्थाने यत्पदमेव प्रयुक्तम्॥
अत्र द्वितीयतृतीयपक्षयोरप्य 5 वच्छिन्नसाध्यव्यापकेर्ऽथान्तरनिरास आद्यपक्ष 6 वद्द्रष्टव्यः॥
प्रकान्तरेण पक्षद्वयमाह--अथवेति॥ यद्वेति च ॥ आद्यपक्षवदिति॥
1.अपिपदं न-क.ग.ट.रा. 2.ध्यादिप-ग.ट.रा. 3.त्वस्यो-ग.ट.रा. 4.प्यः तस्य-क.ग.ट.रा. 5.अपिपदं न-ग.ट.रा. 6.क्ष एव द्र-ग.रा.
स्वातो-पाधि-सान्य-लणम्) उपाधिवादः पु - 85.
अत्र चाद्ये पक्षे अवच्छिन्नसाध्यमपि साध्यमेव। द्वितीये शुद्धसाध्यमप्यवच्छिन्नसाध्यमेव। तृतीये ऽवच्छिन्नसाध्यस्यासाध्यत्वेपि चाक्षुषत्वस्य तत्रोपाधित्वमिति भेदो द्रष्टव्यः॥
केचित्तु स्पार्शनत्वादिरूपशुद्धसाध्य एव द्रव्यत्वादिविशि 1 ष्टचाक्षुषत्वाभावस्याभाव उपाधिः। अयं च विशिष्टाभावरूप उपाधिः सध्यवति स्पर्शादौ द्रव्यत्वरूपविशेषणस्याभावेन घटादौ 2
चाक्षुषत्वाभावरूपविशेष्यस्याभावेनानुगत इति शुद्धसाध्यव्यापकः। तदुक्तम्--
"य उपाधिर्लालगीति साध्ये वै यद्विशेषणे।
स्वव्यावृत्त्यावच्छिन्नं साध्यं व्यावर्तयन्नित्यादिनोक्तदिशेति भावः॥
पक्षाणां विवेक स्वयमेवाह -- अत्र चाद्य इति॥ साध्यमेवेति॥ व्यापकतावच्छेदकधर्माधिकरणमात्रस्य साध्यपदेन विवक्षितत्वादिति भावः। उदयनादिमतमाह-- केचित्विति॥ साध्यव्यापकत्वं व्यनक्ति -- अयं चेति॥ य इति॥ य उपाधिश्चाक्षुषत्वाभावस्याभावरूप उपाधिः। साध्ये स्पार्शनत्वरूपसाध्ये द्रव्यत्वरूपयद्विषणयुक्तै 3 तस्य द्रव्यत्वविशिष्टचाक्षुषत्वाभावस्याभावः केवले साध्ये व्यापक एव स उपाधिर्भवतीत्यर्थः। एवं 4 तर्हि शास्रे शुद्ध साध्यव्यापकरूपैकरूपोपाधिमनुक्त्वावच्छिन्नसाध्यव्यापको 5 क्तिः किमर्थेत्यत आह-- शास्त्रे त्विति॥ तदाक्षेपार्था तदुक्तिरिति वाक्यशेषः॥
1.ष्टस्य -क.ग.ट.रा. 2.ऽतुऽ इत्यधिकम्-क.ग.ट. 3.दभावाभूः द्रव्यत्वविशेषणविशिष्ट इत्यस्ति-ठ. 4.एवं हि-ठ. 5.कोपाध्युक्तिः-ठ.
पु-86. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तद्विशेषणयुक्तैतदभावा 1 भूस्तु केवल"।
इति। शास्त्रे तु व्यतिरेकव्याप्त्यादिनान्वयव्याप्त्यादि 2 मिवावच्छिन्नसाध्यव्यापकोपाधिनोक्त 3 शुद्धसाध्यव्यापकोपाधिराक्षिप्यत इत्याहुः॥
अयं 1 प्रकारो वायुः स्पार्शनः स्पर्शत्वादित्य 5 सिद्धिसंकीर्णे द्रव्यत्वावच्छिन्नसाध्यव्यापके चाक्षुषत्वोपाधौ न संभवतीत्यसार्वत्रिकः। तत्र द्रव्यत्वावच्छिन्नचाक्षुषत्वाभावा 6 भावरूपोपाधावुक्तरीत्या स्पार्शनत्वरूपसाध्यव्यापकत्वेपि 7 स्पर्शत्वरूपसाधनाव्यापकत्वस्याभावात्साधनवति स्पर्शे द्रव्यत्वाभावेन द्रव्यत्वविशिष्टस्य चाक्षुषत्वाभावस्याभावेनोपाधेः साधनव्यापकत्वात्॥
अत एव सुधायां"क्विचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वाद्यथा वायुः स्पार्शनो न द्रव्यत्वे सत्यचाक्षुषत्वा"दिति क्वचित्पदं प्रत्युक्तम्॥
1.वोभूत्सकेवले इत्यस्तु-ट.रा. 2.दिकमि-क.ग.रा. 3.क्तः शु-ग.ट.रा. 4.तुप्र-क.ग.रा. 5.त्यादौह्यसं-ट.
6.वरूपो-ग.रा. 7.सत्वेति पूरितं-ट. 8.शेत्वरू -ठ.ड.
स्वातो-पाधि-सान्य-लणम्) उपाधिवादः पु - 87.
यत्तु साधनव्यापकोपि क्वचिदुपाधिर्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवी कठिनसंयोगव 1 त्वादित्यादावनुष्णाशीतस्पर्शवत्वमिति। तन्न।
स्पर्श 2 त्वरूपसाधनवतीत्यर्थः। अत एव असार्वत्रिकत्वादेव 3 सुधायां साध्यव्यापकवैलोम्यमित्यादेर्व्याख्यानसुधायामित्यर्थः। क्वचित्पदं प्रयुक्तमिति। द्रव्यत्वविशिष्टस्य चाक्षुषत्वस्याभाव उपाधिरिति हि प्रागक्तम्। एतदभावश्च प्रतिपक्षप्रयोगे हेतूकृत्य क्वचित्पदं प्रयुक्तं चेत्प्रागुक्तविशिष्टाभावरूपोपाधिप्रकारश्च क्वचिदेवेत्यक्तं भवतीति भावः। एतेन सुधावाक्यं केचित्वित्युपन्यस्तपक्षाभिप्रायेणेत्युक्तं भवति॥
क्वचित्साधनव्यापकोप्युपाधिर्यत्र पक्षावृत्तिर्हेतुरीत्यादिना मण्युक्तेः 4 साधनव्यापक्याप्युपाधित्वात्कथं"साध्यव्यापकवैलोम्यं साधनस्ये"त्यनुव्याख्यानादौ लक्षणोक्तिरित्यतस्तं पक्षमनूद्य निराह-- यत्वित्यादिना॥ करकेति पक्षः पृथिवीति साध्यम्। कठिनसंयोगवत्वं पाषाणादेव न तु करककायां अल्पकाल एव द्रवीभावदर्शनात्। पक्षावृत्तिश्चायं हेतुः। हेतोः पक्षवृत्तित्वे तव्द्यापकस्योपाधेरपि पक्षवृत्तितया तव्द्यतिरेकस्य स्वरूपासिद्धत्वेन स्वव्यावृत्तिबलेन पक्षात्साध्यव्यावृत्तिसंपादनस्याशक्यतया दूषकत्वमुपाधेर्न स्यात् इति यत्र पक्षावृत्तिर्हेतुरित्युक्तम्। अनुष्णेति॥ यत्र पृथिवीत्वं घटादौ तत्रानुष्णाशीतस्पर्शवत्वमिति साध्याव्यापकम्। यत्र कठिनसंयोगवत्वं घटादावेव तत्रानुष्णाशीतस्पर्शवत्वमिति साध्याव्यापकम्। यत्र कठिनसंयोगवत्वं घटादावेव तत्रा 5 नुष्णाशीतस्पर्शवत्वमित्यपि
नियमात्साधनव्यापकं च। पृथिवीवय्वोरनुष्णाशीतस्पर्शवत्वोपगमादिति भावः॥
1.गत्वा-क.गर्. 2.शवत्वरू-ठ.ड. 3.वसाध्य-ट.ठ.ड. 4.क्तसा-ट.ठ.ड. 5.त्र पृथिवीत्वमित्यपि -ट.ठ.ड.
पु -88. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अस्योपाधित्वे घटः पृथिवी कठिनसंयोगवत्वादित्यत्राप्युपाधित्वापातात्। न हि स एव धर्मस्तस्मिन्नेव साध्ये पक्षभेदमात्रेणोपाधिरनुपाधिश्च भवति। अनुष्णाशीतस्पर्शाभावस्य साध्याभावसाधकत्वं तु नोपाध्यभावत्वात्। साधनव्यापकस्याप्युपाधित्वे ऽतिप्रसङ्गात्। किन्तु प्रतिपक्षान्तरवत्स्वत एव साध्याभावव्याप्तत्वात्। न हि सर्वोपि प्रतिपक्ष उपाध्यभावरूपः॥
इति 1 स्वाभिमतोपाधिसामान्यलक्षणम्

24.7

नन्वेकत्रोपाधित्वे ऽन्यत्रापि कुत इत्यत आह-- न हीति॥ ननु भवत्यं 2 पक्षवृत्तिहेतावप्युपाधिः अनुकूलतर्केण तन्निरासो भविष्यतीति चेत्तर्हि करका पृथिवीत्यादावपि तथास्तु। न च तत्रानुकूलतर्को नास्तीति वाच्यम्। तर्हि तत एव तस्य दुष्टत्वे किमनेनालौकिकेन सदनुमानदुष्टतापादकेन सादनव्यापकस्याप्युपाधित्वकल्पनेन । नन्वस्य 3 पक्षवृत्तिहेतावप्युपाधित्वे घटो न पृथिवी अनुष्णाशीतस्पर्शवत्वाभावाज्जलवदिति स्वाभावेन साध्याभावसाधनं न स्यादित्यत आह-- अनुष्णेति॥ अतिप्रसङ्गादिति॥ धूमाद्यनुमाने प्रमेयत्वादेरप्युपाधितापातादिति भावः॥
इति स्वाभिमतोपाधिसामान्यलक्षणम्

24.8

1.स्वमते -ठ.ट. 2.तत्राप्यु-ठ.ड. 3.स्यानुपाधित्वे करका न पृथिवी अनुष्णाशी इत्यस्ति -ट.ठ.
उदना-द्युक्तोधि-लणङ्गः) उपाधिवादः पु - 89.
अथोदयनाद्युक्तोपाधिलक्षणभङ्गः

24.8

उदयनादयस्तु -- साध्यसमव्याप्तत्वे सति साधनाव्यापक उपाधिरित्याहुस्तन्न।
अथोदयनाद्युक्तोपाधिलक्षणभङ्गः

24.8

अनुव्याख्याने साध्यव्यापकवैलोम्यं साधनस्येत्युपाधिलक्षणोक्तिः साध्यसमव्यापकत्व 1 लक्षणनिरासायेत्युक्त्वा सुधायां 2 दूषितम्। तद्वि 3 शदीकुर्वन्नाह -- उदयनादयस्त्विति॥ यद्यप्येतन्मतं मणावेव पूर्वपक्षे निरस्तम्। तथाप्यधिकदोषविवक्षया सुधावाक्य 4 विवरणचिकीर्षया चात्र पुनिरुपन्यासः। समव्याप्तत्वं किं विषमव्याप्तस्योपाधित्वेन शास्रकारैरनुपादानादुपादीयते, उत दूषकताबीजस्य समव्याप्त एव संभवेन विषमव्याप्तोपाधेरभावात्। अथ --
स्वसंबन्धेन यः स्वीयं धर्ममन्यत्र दर्शयेत् ।
स उपाधिर्यथा लोके जपादिः स्फटिकादिषु॥
इहाप्यञ्याप्यहेत्वर्थव्याप्त 5 त्वभ्रमहेतुता।
उपाधेः स्यात् . . . . . ॥
इत्याद्युक्त्या यः समीपस्थिते हेतौ स्वधर्मं व्याप्यत्वमादधातीत्युपाधिपदस्यान्वर्थत्विद्ध्यर्थं, यद्वा पक्षेतरत्व 6 स्योपाधित्वनिवृत्यर्थमिति 7 । आद्यं निराह -- शास्त्र इति॥
1.त्वपक्षाणां-ठ. 2.तद्दू-ट.ठ.ड. 3.द्विवृण्वन्नाह-ठ. 4.क्यं वि-वृण्वन्विकीर्णवाचात्र-ठ. 5.व्याप्यत्व-ट.ठ. 6.रस्यो-ट.ठ.ड. 7.विकल्प्येति पूरितम्-ठ.
पु- 90. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
शास्रे पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वादाप्यपरमाणुरूपवदित्यादौ पृथिवीविशेषणगुणत्वाभावादेर्विषमव्याप्तस्याप्युपाधित्वस्वीकारात्। समव्याप्त्यभावेपि वक्ष्यमाणरीत्या साध्यव्यापकत्वादिमात्रेण प्रतिपक्षाद्युन्नायकत्वसंभवेन दूषकताबीजसाम्याच्च। साध्यव्याप्यत्वरूपस्वधर्मस्य साधने प्रतिबिम्बजनकत्वरूपावयवार्थाभावेपि लाभाद्युपाधिना कृतमित्यादाविव रूढ्योपाधिपदप्रयोगोपत्तेश्च॥
किञ्च न शास्त्रे लोकव्यावहारार्थमुपाधिव्युत्पादनम्। किन्त्वनुमादूषणार्थमिति विषमव्याप्तिके उपाधिशब्दः पारिभाषिकोस्तु। निश्चितसाध्यकादौ सपक्षादिशब्दवत्समव्याप्ते ऽवयवार्थस्य सत्वेनान्यत्र गौणो वास्तु।
विषमव्याप्तस्येति॥ यत्र नित्यत्वं तत्र पार्थिवविशेषणगुणत्वाभावो जलपरमाण्वादावेति साध्यव्यापकत्वमिव यत्र पार्थिवविशेषणगुणत्वाभावस्तत्र नित्यत्वमिति नास्ति। घटादौ व्यभिचारादतो विषमव्याप्तस्येत्युक्तम्। द्वितीये निराह-- समेति॥ वक्ष्यमाणेति॥ दूषकताबीजोक्तिप्रस्ताव इति भावः। तृतीयं प्रत्याह-- साध्येति॥
ननु --
"भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन।
अदृष्टां समुदायस्य कः शक्तिं जातु कल्पयेत्"॥
इति न्यायेनावयवार्थसंभवे रूढिकल्पना न युक्तेत्यतः मण्युक्तदोषान्तरं चाह-- किञ्चेति॥ सुधोक्तमाह-- समव्याप्त इति॥ चतुर्थं शङ्कते-- नन्विति॥
उदना-द्युक्तोधि-लणङ्गः) उपाधिवादः पु - 91.
विषमव्याप्तिकस्य दूषणत्व एव हि 1 ममाभिनिवेशः। न तु तत्रोपाधिशब्दस्य मुख्यत्वेपि॥
ननु विषमव्याप्त 2 स्योपाधित्वे बाधानुन्नीतपक्षेतरोप्युपाधिः स्यादिति चेन्न। अनुमाने अनुकूलतर्कसत्वे इष्टापत्तेः। तत्सत्वे उपाधिः साध्याव्यापकत्वनिश्चयात्। अन्यथा तवापि शब्दोभिधेयः प्रमेयत्वादित्यादावशब्दत्वादेः समव्याप्त 3 पक्षेतरस्य निरासो न स्यात्। अत एवानुव्याख्याने साध्य 4 व्यापकत्वमेवोक्तम् न तु समव्याप्तिः॥
केचित्तु --व्यतिरेकिधर्मत्वमुपाधिसामान्यलक्षणम्। शुद्धसाध्यव्यापकत्वावच्छिन्नसाध्यव्यापकत्वादीनि तु विशेषलक्षणा 5 नीत्याहुः। तन्न। व्यतिरेकिधर्मत्वस्यात्रायमुपाधिरिति व्यवहाराहेतुत्वात्।
बाधस्थले सर्वं तेजो ऽनुष्णं पदार्थत्वादित्यादौ अतेजस्त्वादिरूपस्य पक्षेतर 6
त्वस्योपाधित्वस्वीकाराद्बाधानुन्नीतेत्युक्तम्। अनुव्याख्यान इति॥ साध्यव्यापकवैलोम्यमित्यनुव्याख्याने ॥ व्यतिरेकिधर्मत्वमिति॥ अभावप्रतियोगिधर्मत्वमित्यर्थः। धर्मत्वमात्रस्य प्रमेयत्वादावपि सत्वाद्व्यतिरेकीत्युक्तम्। ॥ 7 शुद्धेति॥ शुद्ध 8 व्यापकत्वव्यापकतावच्छेदकावच्छिन्नसाध्यव्यापकत्वसाधनावच्छिन्नसाध्यव्यापकत्वघटितानीत्यर्थः 9 ।
1.हिपदं न -ग.ट.रा. 2.प्तकस्यो-क.ग.ट.रा. 3.प्तत्वे प-ग.रा. 4.ध्याव्या-रा. 5.णादीनि-ग.रा. 6.रस्यो-ट.ड. 7.शुद्धेति इति नास्ति- ट.ठ.ड. 8.साध्येत्यधिकम् -ट.ड. 9.घटितपदं न -ट.ठ.ड.
पु-92. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अनुमितिप्रतिबन्धकज्ञानविषयतानवच्छेदकत्वाच्च॥
कश्चित्तु -- पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः। पर्यवसितत्वं च पक्षधर्मताबललभ्यत्वम्। एवं च शब्दः स्वस्वेतरावृत्तित्वरहितनित्यावृत्तिध्माधिकरणम् मेयत्वादित्यादौ पर्यविते ऽनित्यत्वे कृतकत्वमुपाधिः। तत्साधने ऽनित्यत्वमुपाधिरित्याह।
अनुमितिप्रतिबन्धकेति॥ यदवच्छिन्नविषयकं ज्ञानं अनुमितिप्रतिबन्धकं तादृशं ह्युपाधिकत्वमनुमानदूषणार्थमिह निरूपणीयम्। तादृशं च साध्यव्यापकत्वादिकमेव न तूक्तरूपमिति भावः॥
रत्नकोशकारमतमाह-- कश्चिदिति॥ पक्षधर्मताबललभ्यत्वमिति॥ तथाच बाधानुन्नीतपक्षेतरेपि नातिव्याप्तिः। तस्य पक्षीयसाध्याव्यापकत्वादिति भावः। स्वेति॥ स्वस्मिन्स्वेतरत्र चावृत्तित्वरहितस्तत्रोभयत्र विद्यमान इति यावत्। तादृशो नित्ये ऽ 1 विद्यमानश्य यो धर्मः तदधिकरणित्यर्थः। नित्यावृत्तिधर्माधिकरणमित्येवोक्तौ शब्दत्वरूपधर्मवत्वेनार्थान्तरं स्यात्। अतो रहितेत्यन्तम्। प्रमेयत्वादिधर्मवत्वेनार्थान्तरनिरासाय नित्यावृत्तीत्युक्तम्। तत्साधन इति॥ स्वस्वेतरावृत्तित्वरहिताकृतकावृत्तिधर्माधिकरणमित्येवंरूपेण
कृतकत्वसाधन इत्यर्थः। एवं च पक्षधर्मावच्छिन्नसाधनावच्छिन्नसाध्यव्यापकादिसर्वसंग्रहः। तादृशसाध्यस्य पर्यवसितत्वात्॥
"वाद्युक्तसाध्यनियमच्युतोपि कथकैरुपाधिरुद्भाव्यः।
पर्यवसितं नियमयन् दूषकताबीजसाम्राज्यात्"॥
1.अपि पदं इत्यधिकम् -ग.
उदना-द्युक्तोधि-लणङ्गः) उपाधिवादः पु - 93.
तन्न। तथात्वे हि द्व्यणुकस्य सावयवत्वे सिद्धे द्व्यणुकमनित्यद्रव्यासमवेतम् महत्वानधिकरणद्रव्यसमवेतत्वादित्यत्र पर्यवसिते नित्यद्रव्यसमवेतत्वे निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्॥
किञ्च पक्षधर्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः। तदसिद्धौ कस्य व्यापकः॥
इत्युदयनाद्युक्तोपाधिलक्षणभङ्गः

24.8

इति तद्वचनादिति भावः॥ सिद्ध इति॥ कार्यत्वादिहेतुनेति भावः। असमवेतत्वेन साध्यपर्यवसानवारणाय सावयवत्वे सिद्ध इत्युक्तम्। द्रव्यसमवेतत्वमात्रस्य त्र्यणुकादावव्यभिचाराय महत्वानधिकरणेति द्रव्यविशेषणम्। मणौजन्य 2 त्वानधिकरणेत्याद्युक्तावपि जन्यविशेषणस्य व्यर्थत्वात्पत्तिरित्यागः। निःस्पर्शद्रव्येति॥ अत्र द्रव्यपदं समव्याप्त्यभिप्रायेणेति ज्ञेयम्। नन्वत्र पक्ष एव साध्याव्यापकत्वात्पर्यवसितसाध्यव्यापकत्वं नास्त्येवेति नातिव्याप्तिरित्यरुचेराह -- किञ्चेति॥ निष्फल इति। साध्यव्यावृत्त्यर्थत्वादुपाधेः सिद्धस्य च व्यावृत्तेरयोगादिति भावः॥
इत्युदयनोक्तोपाधिलक्षणभङ्गः

24.9

1. महत्वेत्यधिकम् - ग.
पु - 94. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ मण्युक्तोपाधिलक्षणभङ्गः

24.9

मणौ तु -- पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः। यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तत्पर्यवसितं स च धर्मः क्वचित्साधनमेव क्वचिद्द्रव्यत्वादिः क्वचिन्महानसत्वादिः एवं च वह्निना धूंमे साध्ये वस्तुगत्या महानसत्वाद्यवच्छिन्नप्रसिद्धकस्य धूमस्य व्यापक आर्द्रेन्धनादिर्धूमरूपशुद्धसाध्य एवोपाधिरिति नाव्याप्तिरित्युक्तम्। तत्र 1 धूमेन वह्निसाधनेपि महानसत्वाद्यवच्छिन्नप्रसिद्धवह्निव्यापकस्य व्चञ्जडन 2 वत्वादेर्वह्निरूपशुद्धसाध्य एवोपाधित्वापातात्।
अथ मण्युक्तोपाधिलक्षणभङ्गः

24.9

मणौत्विति॥ इत्युक्तमित्यन्वयः । पक्षधर्मताबललभ्यत्वं चेत्पर्यवसितत्वं तदा प्रागुक्तो दोष इत्यत आह-- यद्धर्मेति॥ एतच्च सर्वसंगाहकमित्याह-- स चेति॥ साध्यप्रसिद्ध्यवच्छेदकीभूतो धर्म इत्यर्थः। ध्वंसो विनाशो जन्यत्वादित्यादौ भावत्वाद्युपाधिस्थले साधनमित्यर्थः। वायुर्बहिरिन्द्रियप्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्वाद्युपाधौ द्रव्यत्वादिः अयं धूमवान्वह्निःमत्वादित्यादौ व्यञ्जनवत्वाद्युपाधौ महानसत्वादित्यादिः। दूषणसौकर्यायोपाधावुक्तरूपमुपपादयति -- एवं चेति॥ एवमेव साधनाद्यवच्छिन्नस्थलेति ध्येयमिति भावः। धूमेनेति॥ पर्वतोग्निमान्धूमवत्वादिति सदनुमानेपीत्यर्थः॥
1.न्नधू -ग.घ.रा. 2.नत्वा-ग.ट.
मण्युक्तोधि-लणङ्गः) उपाधिवादः पु - 95.
यदि च वह्निप्रसिद्धिं प्रति महानसत्वं न्यूनवृत्तीति नवाच्छेदकम् तर्हि स्पार्शनत्वप्रसिद्धिं प्रत्यपि द्रव्यत्वं न्यूनवृत्तीति नावच्छेदकं स्यात्॥
अत्र केचिदाहुः -- यद्धर्मावच्छिन्नेत्यत्रावच्छेतको 1 धर्मः साधनव्यापकीभूतो विवक्षितः महानसत्वं च साधनस्य
धूमस्य न व्यापकमिति न वह्नौ साध्ये
व्यञ्डनवत्वमुपाधिः। पक्षधर्मो द्रव्यत्वादिस्तु प्रत्यक्षस्पार्शाश्रयत्वादिसाधनव्यापक एव।
ननु -- साध्यप्रसिद्ध्यच्छेदकधर्मे यावत्वं विवक्षितं अतो व्यञ्जनवत्वादौ नातिव्याप्तिरिति चेन्न। वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्वस्यानुपाधितापत्तेः। साध्यप्रसिद्ध्यवच्छेदकप्रमेयत्वाद्यनवच्छिन्नप्रत्यक्षत्वाव्यापकत्वात्। अतो यत्किंञ्चित्वमेव वाच्यम्। तथाचोक्तदोष एवेति भावः॥ यदि चेति॥ यद्धर्मावच्छेदेनेत्यत्र साध्यप्रसिद्ध्यन्यूनानधिकदेशवृत्तिधर्मस्यैवावच्छेकधर्मपदेन विवक्षितत्वादिति भावः॥ स्पार्शनत्वेति॥ वायुः स्पार्शनः अनुद्भूतरूपानधिकरणत्वे सति प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र चाक्षुषत्वाद्युपाधावित्यर्थः॥ न्यूनवृत्तीति॥ स्पर्शगुणेपि स्पार्शनत्वसत्वेपि द्रव्यत्वाभावादिति भावः॥
केचिदिति॥ यज्ञपत्यादय इत्यर्थः। ननु ध्वंसो विनाशी जन्यत्वादित्यादौ साधनावच्छिन्नसाध्यव्यापकं भावत्वमुपाधिर्न स्यात्।
1.कोभूतो - ग.ट.रा.
पु - 96. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
अभेदेपि व्यापकत्व 1 सत्वेन साधनमपि स्वव्यापकमेव। आर्द्रन्धनादे 2 रपि साधनीभूतवह्निव्यापुकं यत्प्रमेयत्वादिकं तदवच्छिन्नधूमरूपशुद्ध 3 वस्तुगत्या 4 तदुक्तस्य प्रमेयत्वाद्यवच्छिन्नसाध्यव्यापकत्वस्य सत्वेपि धूमरूपशुद्धसाध्यव्यापकत्वज्ञानमात्रेणोपाधिव्यवहारादनुमितिप्रतिबन्धनाच्च॥
किञ्चैव स श्यामो मित्रापृष्टत्वादित्यादौ मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकं शाकपाकजत्वमुपाधिर्न स्यात्। अवच्छेदकस्य मित्रातनयत्वस्य मित्रापृष्टकोकिलादावसत्वेन साधनाव्यापकत्वात्॥
एवं वायुः स्पार्शनः प्रमेयत्वादित्यादौ द्रव्यत्वावच्छिन्नसाध्यव्यापकं साधनस्य प्रमेयत्वस्य चाव्यापकं चाक्षुषत्वमुपाधिर्न स्यात्। तत्र द्रव्यत्वस्य प्रमेयत्वरूपसाधनव्यापकत्वाभावात्॥
साधनस्य साधनाव्यापकत्वादित्यत आह-- अभेदेपीति॥ साधनवन्निष्ठा 5 त्यन्ताभावाप्रतियोगित्वरूपव्यापकत्वस्य साध्यादेरिव साधनस्यापि 6 साधनवति साधनात्यन्ताभावाभावादिति भावः॥
ननु शुद्धसाध्यव्यापकत्वज्ञानमात्रेणानुमितिप्रतिबन्धादौ सत्यप्युक्तलक्षणं संग्राहकमात्रमित्यतो न संग्राहकमप्येतदव्यापकत्वमित्याह -- किञ्चेति॥
1.त्वस्यस -क.ग.ट.रा. 2.दिरपि -क.ट.रा. 3.शुद्धपदं न-क.ग.ट.रा. 4.त्वदुक्त-क.ग. 5.ष्ठान्योन्याभा -ड. 6.सत्वादित्यधिकम्-ट.ठ.ड.
मण्युक्तोधि-भङ्गः) उपाधिवादः पु- 97.
न चात्रायमनुपाधिः, प्रमेयत्व 1 रूपहेतोः स्पार्शनत्वरूपसाध्यविशेषणूभूतद्रव्यत्वव्यभिचारित्वेन प्रमेयत्वं स्पार्शनत्वरूपविशेष्यव्यभिचारि विशेषणाव्यभिचारित्वे सति विशिष्टव्यापकभिचारित्वादिति व्यभिचारसाधकहेतुविशेषणस्य 2 द्रव्यत्वविशेषणाव्यभिचारित्वस्यासिद्धेरिति वाच्यम्।
न ह्युपाध्याहितव्याभिचारे त्वदुक्तमेव लिङ्गम्। प्रमेयत्वं स्पार्शनत्वव्यभिचारि द्रव्ये स्पार्शनत्व 3 व्यापकोद्भूतरूपवत्वव्यभिचारित्वात् द्रव्यत्ववदित्यपि व्यभिचारानुमानसम्भवात्। अत्र च द्रव्यैति विशेषणं महत्वसमानाधिकरणोद्भूतस्पर्शनत्वे 4 व्यभिचारवारणार्थम्।
नचात्रायमनुपाधिरिति॥ न चेत्यस्य वाच्यमित्यनेनान्वयः। कुतोयमनुमाधिरिति चेत् हेतोः साध्यव्यभिचारित्वोन्नायकत्वेनोपाधेर्दूष 5 कत्वमिति मते शुद्धसाध्यव्यभिचारानुमानासंभवादित्याह-- प्रमेयत्वेति॥ विशेषणाव्यभिचारित्वे सतीति॥ द्रव्यत्वरूपविशेषणेत्यर्थः। महत्वसमानाधिकरणोद्भूतस्पर्शत्वे व्यभिचारवारणाय सत्यन्तम्। विशेषणाव्यभिचारित्वे सतीत्यस्यार्थनिर्देशो द्रव्यत्वाव्यभिचारित्वे सतीति॥ विशेषणमिति॥
1.रूपपदं न-ग.ट. 2.ऽद्रव्यत्वरूपविशेषणस्यऽ इत्यधिकम्-क. 3.त्वप्रयोजकोद्भू -क-ग.ट.रार्. 4.शवत्वे इति शोधितम्-टर्. 5.देषत्वमिति मते-टर्. देषित्वमते-ड.
पु-98. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
त्वन्मतेपि 1 द्रव्यत्वाव्यभिचारित्वे सतीति विशेषणमेतदर्थमेव। त्वन्मते च व्यभिचार 2 उपाधिनियतः॥
किञ्च 3 व्यञ्जनवत्वादेरपि महानसत्वाद्यवच्छिन्नवह्निव्यापकत्वेन तत्रोपाधित्वेपि न दोष इत्युक्तत्वात्तव्द्यावृत्यर्थं साधनव्यापकत्वविशेषणं व्यर्थम्॥
अथ मतम् --
तद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसाधनाव्यापकत्वम् वा, यत्र साधनाव्यापकत्वं तद्वृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वं वा, स्वानधिकरणीभूतसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वं वोपाधित्वम्॥
ननु मित्रा 4 पुत्रत्वप्रमेयत्वादिहेतावुपाधे 5 रेवमस्त्वित्यत आह-- त्वन्मते चेति॥ इत्युक्तत्वादिति॥ स्वाभिमतोपाधिलक्षणोक्तिप्रस्तावे व्यञ्जनवत्वादिरपि महानसत्वाद्यवच्छिन्नवह्निरूपसाध्यव्यापकत्वात्तत्रोपाधिरेवेत्यादिना ग्रन्थेनोक्तत्वादित्यर्थः॥
पूर्वोक्तदोषनिरासाय यज्ञपतिनैवोत्प्रेक्षितपक्षान्तराण्याशङ्कते -- अथ मतमिति॥ यद्धर्मेति॥ येन धर्मेण साध्यव्यापकत्वं तेनैव धर्मेण साधनाव्यापकत्वमाद्यलक्षणार्थः।
1.पिहिद्र--ग.ट.रा. 2.रे उपाधिर्वि-ग.ट.रा. 3.किञ्चेति नास्ति-ग.ट.रा. 4.पृष्टत्व-ठ. त्रत्वेति शोधितम्-ड. 5.धिरेव मास्त्वि-ट.ठ. धेरेव मास्त्वि-ड.
मण्युक्तोधि-लणङ्गः) उपाधिवादः पु- 99.
एवं च धूमानुमाने व्यञ्डनवत्वादिकं नोपाधिः। 1 तस्य

महानसत्वाद्यवच्छिन्नवह्निं प्रतीव तदवच्छिन्नधूमं प्रत्यपि व्यापकत्वेन तद्धर्मावच्छिन्नधूमं प्रत्यपि व्यापकत्वेन तद्धर्मावच्छिन्नसाधनाव्यापकत्वाभावात्। व्यञ्जनवत्वस्य यत्र पर्वते धूमरूपसाधनव्यापकत्वं तदवृत्तिमहानसत्वाद्यवच्छिन्नवह्निव्यापकत्वेपि तद्वृत्तिपर्वतत्वाद्यवच्छिन्नवह्निव्यापकत्वेपि तद्वृत्तिपर्वतत्वाद्यवच्छिन्नवह्न्यव्यापकत्वात्। व्यञ्जनवत्वानधिकरणीभूते धूमरूपसाधनाधिकरणे पर्वते वर्तमानो यः पर्वतत्वादिस्तदवच्छिन्नवह्न्यव्यापकत्वाच्च। तस्माद्व्यञ्जनवत्वादौ नातिव्याप्तिः॥
नाव्याप्तिः। उद्भूतरूपवत्वादेर्द्रव्यत्वाद्यवच्छिन्नस्पार्शनत्वरूपसाध्यं प्रति व्यापकत्वेप्यूष्मादौ व्यभिचारेण ----
स्वेति 2 व्यञ्जनवत्वादिरूपाधिरुच्यते। स्वस्यानधिकरणूभूतं यत्साधनाधिकरणं तद्वृत्तीत्यर्थः। स्वानधिकरणहृदवृत्तिहदमहानसान्यतरत्वावच्छिन्नव्यापकमेव व्यञ्जनवत्वमिति तत्रातिव्याप्तिनिरासाय
साधनाधिकरणेति। एतच्च लक्षणत्रयं धूमेन वह्निसाधनस्थले व्यञ्जनवत्वाद्युपाधौ नास्तीति नातिव्याप्तिरित तावत्क्रमेणोपपादयति एवं चेति॥ एवं रूपेण विवक्षायां सत्यमित्यर्थः। नाव्याप्तिरिति॥ वायुः स्पार्शनः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्यादौ द्रव्यत्वावच्छिन्नसाध्यव्यापकोद्भूतरूपवत्वाद्युपाधावव्याप्तिर्नास्तीत्यर्थः। क्रमेण तत्र लक्षणत्रयसत्वं व्यनक्ति-- उद्भूतेत्यादिना ॥ 3. उष्मादौ व्यभिचारेणेति॥ ऊष्मतप्तवारिस्थवह्न्यादौ प्रत्यक्षस्पर्शाश्रयत्वे सत्यप्युद्धूतरूपवत्वाभावादिति भावः॥
1.इतः ऽ तस्माव्द्यञ्जनवत्वादौऽ इति पर्यन्तस्य स्थाने --ऽतस्य महानसत्वाद्यवच्छिन्नसाध्यव्यापकत्वेपि तद्वृत्तिपर्वतत्वावच्छिन्नवह्न्यव्यापकत्वात्ऽ व्यञ्जनवत्वानधिकरणूभूते धूमरूपसाधनाव्यापकत्वेपि तदवृत्तिमहानसत्वाद्यवच्छिन्नवह्निव्यापकत्वाच्च इत्यस्ति -ट. 2.ऽव्यञ्जनवत्वादिःऽ इति नास्ति-ट.ठ.ड. 3.ऊष्मादौ इतिन-ठ.ट.
पु -- 100. न्यायदीपयुततर्कताण्डवम् (त.परिच्छेदः
द्रव्यत्वावच्छिन्नप्रत्यक्षस्पर्शाश्रयत्वरूपं साधनं प्रत्यव्यापकत्वात्। यत्रोष्मादौ साधनाव्यापकत्वं तद्वृत्तिद्रव्यत्वरूपधर्मावच्छिन्नसाध्यव्यापकत्वात्। उद्भूतरूपानधितकरणे प्रत्यक्षस्पर्शाश्रयत्वरूपसाधनाधिकरणे ऊष्मणि वर्तमानद्रव्यत्वावच्छिन्नसाध्यव्यापकत्वाच्चेति॥
उच्यते --
घटः पृथिवी द्रव्यत्वादित्यत्र घटान्यत्वावच्छिन्नपृथिवीत्वव्यापके पक्ष एव साधनाव्यापके घटावृत्तिगुणवत्वरूपोपाधावुक्तलक्षणान्यव्याप्तानि।
नन्वेवमपि गन्धप्रागभावावच्छिन्नो घटो गन्धवान्पृथिवीत्वादिति साध्य 1 व्यभिचारिणि हेतौ गन्धप्रागभावकालीनत्वावच्छिन्नसाध्यव्यापके गन्धप्रागभावकालीनत्वावच्छिन्नपृथिवीत्ववति चेन्न। यद्ध्मवति 2 साध्यव्यापकत्वं तद्धर्मवति साधनव्यापकत्वमित्यस्याभिमतत्वात्॥
उक्तोपाधिश्च न तथा। तद्धर्मवतिपक्षे सा 2 धनाव्यापकत्वात्। न चैवं स श्यामो मित्रा 4 तनय(पृष्ट)त्वादित्यत्र नरत्वावच्छिन्नश्यामत्वव्यापकंपृष्टहंसादौ साधनाव्यापकं शाकपकजत्वमुपाधिर्न स्यात्, नरत्ववति साध्यव्यापकस्य तस्य तद्वति साधनाव्यापकत्वाभावात्, मित्रापृष्टस्य नरस्य सर्वस्यैव शाकपाकजत्वादिति वाच्यम्। नरसंसान्यतरत्वादिकमादाय तत्राप्युक्तलक्षणसत्वादिति मन्यन्ते।
1.ध्याव्य-ड. 2.पक्षध्मवति इत्यस्ति-ड. 3.ध्याव्या-ट.ड. 4.त्रापृत्र-ठ. पुत्रोतिशोधितम् -ड.
मण्युक्तोधि-लक्षणभङ्गः) उपाधिवादः पु- 101.
घटावृत्तिगुणवत्वस्य घटान्यत्वावच्छिन्नपृथिवीत्वं प्रतीव तदवच्छिन्नद्रव्यत्वं प्रत्यपि व्यापकत्वात्। घ 1 टात्मपक्षे साधनाव्यापकस्य तस्य घटवृत्तिना घटत्वेन वा द्रव्यत्वादिना वावच्छिन्नपृथिवीत्वव्यापकत्वाभावात्। स्वानधिकरणीभूते
द्रव्यत्वरूपसाधनाधिकरणे घटे वर्तमानघटत्वादिधर्मावच्छिन्नसाध्यव्यापकत्वाभावाच्च॥
उक्तलक्षणान्यव्याप्तानीत्युक्तम्। तत्र लक्षणत्रयासत्वं क्रमेण व्यनक्ति-- घटावृत्ति गुण 2 वत्वस्येत्यादिना ॥ घटान्यत्वेति॥ घटान्यस्मिन्पृथिवीत्ववति द्रव्यत्ववति च घटावृत्तिगुणवत्वसत्वेन यद्धर्मेण साध्यव्यापकत्वं तद्धर्मेण साधनाव्यापकत्वाभावादाद्यमव्याप्तम्। घटवृत्तिनेत्येतद्द्रव्यत्वादिना वेत्यत्राप्यन्वेति॥
न चायमुपाधिरेव न भवति शुद्धसाध्यव्यभिचारानुन्नायकत्वात्। येनाव्याप्तिर्देषायेति वाच्यम्। द्रव्यत्वं पृथिवीत्वव्यभिचारि द्रव्यत्वघटत्वप्रमेयत्वानीति प्रतीतिविशेष्यत्वे सति घटावृत्तिगुणवत्वव्यभिचारित्वात् प्रमेयत्वादिवदित्यादिक्रमेण तत्संभवात्। अत्र द्रव्यत्वेति स्वरूपासिद्धिवारणाय । न च व्यभिचार 3 वारकत्वेन वैयर्थ्यम्। त्रितयोगचरप्रतीति 4 विशेष्यत्वे व्यर्थत्वशङ्कानवकाशात्। व्यर्थविशेष्यत्वशङ्कानिरासाय पटत्वेति। एवं च पटत्व एव व्यभिचारवारणाय विशेष्यमिति ज्ञेयम्।
1.ट रूपप-क.ग.ट.रा. 2.णत्वस्य-ठ.ड. 3.रावा -ट.ठ.ड 4.विषयत्वे -ड.
पु -102. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्चार्द्रेन्धनाद्युपाधौ धूमत्वावच्छिन्न 1 साध्यव्यापकत्वे सति वह्नित्वावच्छिन्नसाधनाव्यापकत्वमात्रेणोपाधिव्यवहारादनुमितिप्रतिबन्धाच्च नेदमुपाधित्वम्। त्वयापि 2 ह्यनेनैव हेतुद्वयेन व्यतिरेकिधर्मत्वादेरुपाधित्वं निरस्तम्॥
अपि च व्यञ्जनवत्वादेरपि महानसत्वाद्यवच्छिन्नवह्नि 3 व्यापकत्वेनोपाधित्वेपि न दोष इत्युक्तत्वात्तद्व्यावृत्तर्थ्यं त्रेधा विशेषणं व्यर्थमेव॥
अन्येतु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक एवोपाधिः। यद्धर्मावच्छेदेन साध्य प्रसिद्धं तदेव पर्यवसितम्। नचैवं व्यञ्जनवत्वादिरपि वह्निरूपशुद्धसाध्य एवोपाधिः स्यादिति 4 वाच्यम्। साधनाव्यापकपदेन
सकलसाध्यस्य यद्व्यापकं तद्रहिते ऽधिकरणे साधनपरित्यागस्य विवक्षितत्वात्। तस्य च तत्राभावात्।
व्याप्तिग्रहस्थानार्थं प्रमेयत्वेत्युक्तम्। घटत्वे व्यभिचारवारणाय सत्यन्तम्॥
अङ्गीकृत्याप्यनुपाधित्वं दोषान्तरमाह-- किञ्चेति॥ त्वयापीति॥ उक्तलक्षणत्रयवादिनापीत्यर्थः। इत्युक्तत्वादिति॥ स्वाभिमतोपाधिलक्षणप्रस्तावे ॥ 5 त्रिधेति॥ तद्धर्मेति, तद्वृत्तीति, स्वानधिकरणीभूतेति, 6त्रिधेत्यर्थः। तत्राभावादित्युक्तं व्यनक्ति-- न हीति॥ अतिव्याप्तिं निरस्याव्याप्तिं च निराह-- शुद्धेति॥
1.न्न साधनाव्या-ग.रा. 2.हि पदं न-ग.ट. 3.ह्नावत्रोपा -ग.ट.रा. 4.शङ्क्यम् -क.ग.ट.रा. 5.त्रेधे -ट.ड. 6.त्रेधे -ट.ड.
मयुक्तोधि-लणङ्गः) उपाधिवादः पु - 103.

न हि व्यञ्जनवत्वेन धूमः सकलवह्निव्यापकरहिते परित्यज्यते । धूमस्य सदनुमानत्वेन धूमवति यत्किञ्चिद्वह्निसत्वेन तत्र वह्निव्यापकस्यावश्यकत्वात्। शुद्धसाध्यव्यापके ऽवच्छिन्नसाध्यव्यापके चोपाधौ विवक्षितं साधनाव्यापकत्वमस्त्येव। आर्द्रेन्धनेन सकलधूमव्यापकरहिते तप्तायःपिण्डे वह्नेः परित्यक्तत्वात्। चाक्षुषत्वेन च सकलानि द्रव्यगुणादिगतानि यानि 1 स्पार्शनत्वानि तव्द्यापकानि यान्युद्भूतरूपाधिकरणत्वोद्भूतरूप 2 समानाधिकरणत्वादीति तद्रहिते वायौ प्रत्यक्षस्पर्शाश्रयत्वस्य त्यक्तत्वादित्याहुः॥
तदपि न। उक्तकृसृष्टियुक्तसाधनाव्यापकत्वाद्य 3 ज्ञानेपि निषिद्धत्वादावुपाधिपदप्रयोगादनुमितिबन्धनाच्च। 4 विशेषणवैयर्थ्यस्योक्तत्वाच्च। एवं कृसृष्ट्न्तराण्यपि दूष्याणि॥
एवं कृसृष्ट्यन्तराणीति॥ तथाहि-- साध्यव्यापकत्वे सति साध्यसमानाधिकरणत्वे सति वा साध्यव्यभिचारिसाधनाव्यापकत्वमुपाधिलक्षणम्। अत्र निरधिकरणे साध्यविरुद्धे सर्वदोपाधिव्यवहारविधूरे ऽतिव्याप्तिवारणाय सत्यन्तम्।
व्यञ्जनवत्वादेर्धूमादिहेतावुपाधित्वप्रसङ्गवारणाय साध्यव्यभिचारीति विशेषणमित्यादि। तदप्येतेनैव निरस्तम्। एतदज्ञानेप्युपाधिव्यवहारादनुमितिप्रतिबन्धाच्चेत्युक्तहेतुभ्यः॥
1.यानीति नास्ति-ग.रा. 2.सामानाधिकरण्यादीनि-ग.ट.रा. 3.द्यभावेपि -- ग. ऽद्यऽ ऽनिऽ अनयोर्मध्ये लोपो दर्शितः-रा. 4.विवक्षाविशेषवैय-ग.ट.रा.
पु-104. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
एतेन-- यव्द्यभिचारित्वेन साधनत्वस्य साध्यव्यभिचारित्वं स उपाधिः। एवञ्चावच्छिन्नसाध्यव्यापकः शुद्धसाध्यं प्रत्यव्यापकोपि तत्रोपाधिः। उपाधिव्यभिचारप्रयुक्तव्यभिचारस्य शुद्धसाध्येपि सत्वात्।
न चेदं संग्राहकमात्रमुक्तमिति वाच्यम्। अनुमानदूषणार्थं ह्युपाधिनिरूपणम्। अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यमिति मणावप्युक्तेः। अस्तादृशस्यैव सर्वसंग्राहकस्य ग्रन्थकृदुक्तरीत्या त्रेधा वक्तुं श्यक्यत्वेनान्यादृशस्याप्य 1 नादरणीयत्वात्। एवं साध्यव्यापकतास्थलातिरिक्ते साधनसमानाधिकरणो यो धर्मस्तदवच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकमित्याद्यपि निरस्तमित्यर्थः॥
यथाश्रुतं मणिवाक्यमनुवदति-- यव्द्यभिचारित्वेनेति॥ अनुमीयत इति शेषः। अव्याप्तिनिरासाय सर्वत्रैतदस्तीति पक्षधराद्युक्तदिशोपपादयति -- एवं चेति॥ वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्वादिः ध्वंसो विनाशी जन्यत्वादित्यादौ भावत्वादिश्चावच्छिन्नसाध्यव्यापकः॥ उपाधिव्यभिचारेति॥ प्रत्यक्षस्पर्शाश्रयत्वं जन्यत्वं वा प्रत्यक्षत्वव्यभिचारि विनाशित्वव्यभिचारि वा द्रव्यत्वादिरूपविशेषणाव्यभिचारित्वे सति तद्विशिष्टप्रत्यक्षत्वादिव्यापकोद्भूतरूपवत्वादिव्यभिचारित्वात् इत्येवंरूपेणोपाधिव्यभिचारप्रयुक्त्येत्यर्थः।
1.स्यानाद - ठ.ड.
मण्युक्तोधि-लणङ्गः) उपाधिवादः पु - 105.
इयांस्तु भेदः। शुद्धसाध्यव्यापकः शुद्धसाध्य एवोपाधिः। अवच्छिन्नसाध्यव्यापकस्तु शुद्धे ऽवच्छैन्ने चोपाधिः। 1 तव्द्यभिचारप्रयोजकव्यभिचारनिरूपकत्वादिति मण्युक्तं लक्षणान्तरमपि निरस्तम्। साध्यव्यभिचारोन्नायकत्वस्योपाधिशरीरानुप्रवेशे उपाधिर्व्यभिचारोन्नायक इति सिद्धान्तविरोधात्॥
किञ्च यव्द्यभिचारत्वेनेत्यनेनोपाधिव्यभिचारस्य किं साध्यव्यभिचारानुमितिनकत्वमभिप्रेतं किं वा जनकत्वप्रयोजकरूपवत्वम्। नाद्यः। व्यभिचाराननुमितिदशायामनुमाधिता 2 पातात्। पर्वत आकाशवान् धूमादित्यत्र घटस्योपाधितापाताच्च। शक्यते हि घटव्यभिचारेणाकाशव्यभिचारो ऽनुमातुम्। त्वन्मते आकाशात्यन्ताभावस्य केवलान्वयित्वेन वृत्तिमतः सर्वस्याप्याकाशव्यभिचारित्वात्॥
शुद्धावच्छिन्नसाध्यव्यापके सर्वत्रैकरूप्यमेव किमित्यत आह-- इयांस्त्विति॥ इति सिद्धान्तेति॥ उपाधिरित्युक्ते साध्यव्यभिचारोन्नायक इति प्राप्तत्वेन व्यभिचारोन्नायकोव्यभिचारोन्नायक इत्यस्यासंभवेन मणिकृत्सिद्धान्तविरोधादित्यर्थः॥
फलोपधानं योग्यतावेति विकल्प्य निराह-- किञ्चेति॥ अनुमितिदशायामिति॥ तदानीमनुमितिरूपफलाभावादिति। तथाचोपाधेर्नित्यदोषत्वसिद्धान्तभङ्ग इति भावः।
1.उभयव्यभिचा - क.ट.रा. 2.त्वापा- ग.रा.ट.
पु - 106. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्चानुमितिजनकत्वमित्यत्रानुमितिः किं भ्रमसाधारणी विवक्षिता प्रमारूपैव वा। आद्ये धूमेन वह्न्यनुमाने घट उपाधिः स्यात्। संभवति हि घटव्यभिचारित्वेन धूमस्य भ्रमरूपा वह्निव्यभिचारानुमितिः। द्वितीये वह्निना धूमानुमाने
हृदत्वमुपाधिः स्यात्। हृदत्वव्यभिचारित्वेन लिङ्गेनोत्पन्नाया अपि वह्नर्धूमव्यभिचारानुमितेर्विषसत्वेन प्रमात्वात्॥
अन्त्येप्युपाधिव्यभिचारस्य साध्यव्यभिचारं प्रति प्रयोजकत्वं किं स्वस्य साध्यव्यभिचारव्याप्यत्वं साधनस्य साध्यव्यापकव्यभिचारित्वमेव वा। नाद्यः। वायुः स्पार्शनः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्वोपाधिव्यभिचा 1 रस्य शुद्धसाध्यव्यभिचारित्वव्याप्यत्वाभावेन लक्षणस्याव्याप्तेः। महत्समानाधिकरणोद्भूतस्पर्शत्वस्योद्भूतरूपवत्वव्यभिचारित्वेपि स्पार्शनत्वव्यभिचारित्वाभावात्॥
ननु साधनस्येत्यत्र साध्यसमानाधिकरणसाधनस्येत्युच्यते। तथाचाकाशासामानाधिकरण्यं धूमे नास्तीति न दोष इति वादिनं प्रत्याह -- किञ्चेति॥ अन्त्येपीति॥ प्रयोजकरूपवत्वमिति पक्षेपीत्यर्थः। स्वस्योपाधिव्यभिचारस्य। लक्षणस्येति॥ साध्यव्यभिचारव्याप्यव्यभिचारनिरूपकत्वरूपलक्षणस्योद्भूतरूपवत्वोपाधावव्याप्तेरित्यर्थः। व्याप्यत्वाभावंव्यनक्ति-- महत्वेति॥ परमाण्वादिस्पर्शस्याप्रत्यक्षत्वान्महत्वसमानाधिकरणेत्युक्तम्।
1.रित्वस्य -ग.ट.रा.
उधेर्-दूकता-बीजम्) उपाधिवादः पु- 107.
द्वितीये त्वस्मदुक्तलक्षण एवान्तर्भावः स्यात्। अस्माभिरपि साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्यनेन साध्यव्यापकाव्याप्यत्वमेव हेतोः सोपाधिकतत्वमित्यभिप्रेतत्वात्॥
उक्तंह्यनुव्याख्याने --"साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य चेति"। साधनस्य यत्साध्यव्यापकवैलोम्यं साध्यव्यापकाव्याप्यत्वं साव्याप्तिरित्यर्थः। तस्मात्परोक्त 1 लक्षणान्ययुक्तानि॥
इति मण्युक्तोपाधिलक्षणभङ्गः

24.9

दीपप्रभादिस्पर्शस्याप्रत्यक्षत्वादुद्भूतेत्युक्तम्। द्वितीय इति॥ साधनस्येत्याद्युक्तपक्ष इत्यर्थः। अव्याप्तिर्व्याप्त्यभाव इत्यर्थः॥
इति मण्युक्तोपाधिलक्षणभङ्गः

24.10

अथोपाधेर्दूषकताबीजम्

24.10

उपाधिश्चानुमानप्रवृत्तेः प्राग्व्याप्तिग्रहवेलायामव्याप्तेरेवोन्नायकः।
अथोपाधेर्दूषकताबीजम्

24.10

उपाधेः किन्त्वेन दूषकत्वमित्यतः"साध्यव्यापकवैलोम्यऽमिति युक्तिपादीयानुव्याख्यानसुधोक्तिं विवृण्वान आह -- उपाधिश्चेति॥
1.क्तानिल -- ग.रा.
पु-108. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वात्। साध्यपरित्यागस्यैवाव्या 1 प्तित्वात्। न तु तदा सत्प्रतिपक्षस्य। पक्षे साध्योपसंहारा 2 त्पाक्प्रतिपक्षस्यान 3 वसरात्। तदुत्तरकालं 4 प्रतिस्थस्येवोन्नायकः।
प्रागित्यस्य विवरणं व्याप्तिग्रहेत्यादि। उपस्थित इति शेषः। अव्याप्तेर्व्याप्त्यभावस्य हेतुत्वेनाभिमतं, हिंसात्वं पापसाधनत्वाव्याप्यं तव्द्यापकनिषिद्धत्वाव्याप्यत्वादित्येवंरूपेणोन्नायक इत्यर्थः। तव्द्यापकाव्याप्तत्वे तदव्याप्यत्वं कुत इत्यतः। सुधोक्तमेवाह -- साध्येति॥ साध्यपरित्यजतस्तव्द्यापकपरित्यागस्यायोगादिति भावः। तावता साध्यत्यागोन्नायकत्वमेव प्राप्तं न त्वव्याप्युन्नायकत्वमित्यत आह -- साध्यपिरत्यागस्यैवेति॥
एतेनानौपाधिकसंबन्धस्य व्याप्तित्वात्सोपाधिकत्वे
लक्षणाभावादव्याप्तिरित्युपपादनं निरस्तम्। व्याप्तिज्ञानाधीनमुपाधिज्ञानं 5 तदधीनं च 6 निरुपाधिकत्वज्ञानं तदायत्तं च व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वायोगात्॥
एवकारव्यावर्त्यमाह -- न त्विति॥ तदुत्तरेति॥ अनुमानप्रवृत्युत्तरकालं त्वित्यर्तः। उपस्थितोपाधिश्चेत्यनुकर्षः। न तु व्याप्त्यभावादेरित्येवकारार्थः। प्रतिपक्षोन्नयनप्रकारश्च प्रतिपक्षप्रयोगोपीत्यादिनाग्रे व्यक्तः॥
ननु साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वे साध्यव्यभिचार एव प्राप्तः कथं प्रतिपक्षतेत्यतो ऽन्यत्र साध्यपरित्यागे हि तथा पक्ष एव साध्यपरित्यागे तु प्रतिपक्षतैवेतिभावेनान्यत्र परित्यागपक्षं दूषयन्नाह -- हेतोः साध्यपरित्यागो हीति॥
1.वचा-क.ग.रा. 2.ग्रहा - ग.रा. 3.काशात्-ट.रा. 4.लन्तु -प्र-क-ट.रा. 5.उपाधिज्ञाधीनं -ठ. 6.च इति नास्ति--ट.ठ.
उधेर्-दूकता-बीजम्) उपाधिवादः पु- 109.
हेतोः साध्यपरित्यागो हि पक्षादन्यत्र वा पक्ष एव वा नाद्यः। स्फुटे व्यभिचारे सति तदर्थमुपाध्यप्रतीक्षणात्। द्वितीये साध्यव्यापकव्यावृत्तिः पक्षे 1 साधायमपि व्यावर्तयतीति प्रतिपक्षोन्नायकतैव॥
ननु -- तदाप्यव्याप्त्युन्नायक एवास्तु। उपाधिव्यावृत्त्या साध्यरहिते पक्षे वर्तमानस्य हेतोर्व्यभिचारावश्यंभावादिति चेन्न। तथात्वे बाधप्रतिरोधयोरपि व्यभिचारोन्नायकत्वापातात्। तत्र ताभ्यामेवानुमाने दुष्टे किं तदुपजीविना व्यभिचारेणेति चेत्तर्ह्यत्रापि व्यापकव्यावृत्तिरूपप्रतिपक्षेणैवानुमाने दुष्ट किं तदुपजीविना व्यभिचारेण॥
उपाध्युपस्थितिल इति योज्यम्। व्याप्त्यभावोन्नायकत्वं कथमित्यत आह-- उपाधीरिति॥ परमुखेनैव समाधिं वाचयित्वा सम इत्याह-- तत्र ताभ्यामिति॥
ननूपाध्यभावस्य प्रतिपक्षत्वेन दोषत्वे सत्युपादेरदोषत्वापत्तिः, प्रतिपक्षे उपाध्यनुद्भावनापत्तिः, बाधोन्नीतपक्षेतरस्योपाधित्वानापत्तिः
पक्षैऽकदेशवर्तिनो ऽनुपाधितापत्तिः, पक्षे ऽविद्यमानव्यतिरेकप्रतियोगिन उपाधितानापत्तिः, संदिग्धोपाधेरदोषत्वापत्तिः, प्रतिपक्षोद्भावनावसर, इति दोषसप्तकभावात्कथं प्रतिपक्षोन्नायकत्वमित्यत आद्यं निराह --न चोपाध्यभावस्येति॥
1.क्षात्साध्य - क.ग.ट.रा.
पु -110. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न चोपाध्यभावस्य प्रतिपक्षत्वेन दोषत्वे उपाधेर्देषत्वं न स्यात् न हि यत्र यदभावो दोषस्तत्र सोपि दोष इति वाच्यम्। उपाधेः स्वव्यावृत्तिमुखेनैव दोषतया स्वरूपेणादोषत्वात्। अन्यथा व्यभिचारोन्नयनपक्षेपि चोद्यं दुष्परिहरम्॥
न चैवं सत्प्रतिपक्षे उपाध्युद्भावनं न स्यात्। वैयर्थ्यादिति वाच्यम्। स्वपक्षसाधनार्थमेकं परपक्ष 1 साधनप्रतिरोधार्थमपरमिति सार्थक्यात्। अन्याय्यो ह्येकेन बहूनां प्रतिरोधः॥
उक्तं च --
"द्विविधं बलवत्वं च बहुत्वाच्च स्वभावतः"॥
इति । सिद्धं चैतल्लोकशस्त्रयोः।
चोद्यं दुष्परिहारमिति॥ उपाध्यभावस्य साध्यव्यभिचारोन्नायकत्वेन दूषकत्वे उपाधिर्देषो न स्यादिति चोद्यस्य तत्रापि तुल्यत्वादिति भावः। द्वितीयमाशङ्क्य निराह -- न चैवमिति॥ वैयर्थ्यादिति॥ उपाधिः। प्रतिपक्षत्वेन दूषक इति वक्तव्यं 2 वादिना प्रागुपन्यस्त हेतोरेव प्रतिक्षस्य सत्वेन पुनरुपाध्यभावरूपप्रतिपक्षस्य कृत्याभावादिति भावः। पूर्वं प्रयुक्तहेतोः पश्चादुक्तोपाध्यभावरूपहेतोश्च द्वयोरपि सार्थक्यमाह -- स्वपक्षेति। बहूनामिति॥ अनेकस्येत्यर्थः 3 ॥ उक्तं चेति॥ विष्णुतत्वनिर्णयोदाहृतब्रह्मतर्कस्मृतावत्यर्थः। लोके प्रसिद्धमिति तदनुक्त्वा शास्रे दर्शयति-- उक्तं हीति॥
1.पक्षपदं न -क.ग.राय 2.तच्च न संभतीत्यधिकम्-ठ। 3.ऽबहूनामितिऽ इत्यादिकं नास्ति-ट.ठ.ड.
उधेर्-दूकता -बीजम्) उपाधिवादः पु - 111.
उक्तं हि प्रमाणतोर्थप्रतिपत्ताविति न्यायभाष्यव्याख्या 1 नावसरे न्यायवार्तिकेपि"प्रमाणाभ्यां प्रमाणैरिति संप्लवो गम्यत"इति। न्यायदीकायां च"दर्ढ्यार्थकपरस्परसंवादरूपसंप्लवावसर"इति॥
एतेन 2 शतमप्यन्धानां न पश्यतीति निरस्तम्॥
न च बाधोन्नीतपक्षेतर 3 त्वोपाधेर्देषत्वं नस्यात् प्रतिपक्षे ऽसाधारण्यादिति वाच्यम्। तत्रोपाधिव्यतिरेकरूपहेतोरनुकूलतर्कसनाथत्वेनासाधारण्यस्यादोषत्वात्॥
न च क्षितिव्द्यणुकादिपक्षकेश्वरानुमाने पक्षैकदेशवर्तिनो ऽनणुत्वस्योपाधित्वं न स्यात्। तव्द्यतिरेकस्य भागासिद्धेरिति वाच्यम्। तत्रोपाधैरहितपक्षैकदेशस्यैव पक्षीकरणात्। तावतापीश्वरानुमानोद्देशधीविरोधित्वेन प्रतिपक्षत्वोपत्तेः।
नन्वेनेकहेतोर्न दार्ढ्यचापादकत्वमित्येतन्निराह-- एतेनेति॥ प्रमाणसंप्लव्याङ्गीकारादित्युक्तत्वेनेत्यर्थः। तृतीयं निराह-- न च बाधेति॥ वह्निरनुष्णः पदार्थत्वादित्यादाववह्नित्वादेः। चतुर्थमाशङ्क्य निराह-- न च क्षितीति॥ क्षितिव्द्यणुकादिकं सकर्तृकमित्यनुमान इत्यर्थः। पक्षैकदेशस्येति॥ व्द्यणुकादिकं विकर्तृकं अणुत्वादित्येवं रूपेणेत्यर्थः। ईश्वरेति॥ ईश्वरानुमाने उद्देश्या या धीः सर्वकर्तृविषयिणी तद्विरोधित्वेनेत्यर्थः।
1.ख्यावस-का.रा. 2.सहस्रमप्य -क.ग.ट.रा. 3. रोपा -ग.ट.रा.
पु - 112. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः।
नचान्थकारोद्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वस्य पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनादेश्चोपाधित्वं न स्यात्। तद्व्यतिरेकस्य
पक्षैकदेशेष्यभावादिति वाच्यम्। व्यभिचारोन्नयनपक्षेपि शब्दे तप्तायःपिण्डे च व्यभिचारस्य स्फुटतयोपाध्यनपेक्षणात्। शब्दादेरपि पक्षत्वेन व्यभिचारस्य स्फुटत्वं 1 चोपाधिव्यतिरेकेणापि तत्रैव साध्याभावः साध्यताम्॥

न च स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वादेः संदिग्धोपाधेर्देषत्वं न स्यात् तद्व्यतिरेकस्य संदिग्धत्वेन प्रतिपक्षसंभवादिति वाच्यम्। पाक्षिकसिद्ध्यादिनापि सत्प्रतिपक्षफलस्य संदेहस्य सिद्धेः।
पञ्चमं पक्षमनूद्य निराह-- न चान्धकार इति॥ मीमांसकानुमाने नैयाधिकोक्तश्रावणत्वादेरित्यर्थः। व्यभिचारोन्नयनपक्षेपीत्यपिपदेन न केवलमस्मत्पक्षे किं तु त्वत्पक्षेप्युपाधिर्नापेक्षितः अस्पष्टव्यभिचारस्थले एव व्यभिचारानुमानयोपाध्यपक्षेति भावः। तथा च तत्रोपाधेरेवाभावेन न तत्र प्रतिपक्षोद्भावनं येनासिद्धिदोषः स्यादिति भावः॥ तत्रैवेति॥ शब्द एव । तथाच तत्र व्यभिचारः सुज्ञान इति भावः॥
षष्ठमाशङ्क्य निराह-- न च सश्याम इति॥ गर्भस्थ इत्यर्थः॥ संन्दिग्धेति॥ साधनाव्यापकत्वसंदेहेन संदिग्धेत्यर्थः। समबलत्वाभावे कथं प्रतिपक्षतेत्यत आह-- संशयेति॥
1.त्वेचो -ट. त्वेन चो-ग.रा.
उधेर्दूकताबीजम्) उपाधिवादः पु - 113.
संशया 1 ङ्त्वेमेव च समबलत्वम्॥
न च पक्षे साध्यसंदेहो ऽनुमानाङ्गत्वादुपाधिं विनापि सिद्ध इति वाच्यम्। पक्षे व्यभिचारसंदेहस्यापि 2 तं विना 3 सिद्धेः। उपाध्यायत्तो व्यभिचारसंदेहस्तं विना नेति चेत्तदायत्तः साध्यसंदेहोपि तं विना नेति समम्॥
किं च त्वयाप्यु 4 पाध्याभासो नाना 5 । असाधारणविपर्ययः, अप्रसिद्धसाध्यविपर्ययः बाधितसाध्यविपर्ययः, अप्रसिद्धसाध्यविपर्ययः बाधितसाध्यविपर्ययः इत्यादिरूपेणेतिवदतोपाधेः प्रतिपक्षोन्नायकत्वं स्वीकृतम्। असाधारणा 6 प्रसिद्धविशेषणत्वबाधादीनामनुमानदोषत्वात्॥
प्रतिबन्द्योत्तरमाह -- पक्षेव्यभिचारसंदेहस्येति॥ तेनैवोत्तरं वाचयित्वा सममित्याह -- उपाधीति॥ परसंमतं चैतदित्याह -- किञ्चत्वयैवेति॥ मणिकृतैवेत्यर्थः। असाधारणेति॥ असाधारणो विपर्ययो ऽभावो यस्येति बहुव्रीहिः। एवमग्रेप्युपाधिरन्यपदार्थः। यथान्वयव्यतिरेकिणि साध्ये बाधोन्नीतान्यपक्षेतरः। अप्रसिद्धेति॥ केवलान्वयिनि साध्ये पक्षेतरादिः॥ बाधितेति॥ वह्निरनुष्णस्तेजस्त्वादित्यत्राकृककत्वम्। पक्षाव्यावर्तकविपर्ययो यथा क्षित्यादिकं सकर्तृकं कार्यत्वादीत्यत्राणुव्यतिरिक्तत्वमित्यादिरूपेणेत्युपाधिवादान्ते वदतेत्यर्थः। स्वीकृतमित्यत्र हेतुः। असाधारण्येति॥
1.यानङ्गत्वमेवचासम् -ट.रा. 2.अपिपदं न -क.ग.ठ.रा. 3.नापिसि-क.ग.ट.रा. 4.यैवो -ग.ट.रा. 5.नामासा- ग.रा. 6.ण्याप्र-क.ग.टरा.
पु - 114. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च वह्निरूपो हेतुः धूमरूपसाध्यव्यभिचारी तव्द्यापकार्द्रेन्धनरूपोपाध्यभाववद्वृत्तित्वादिति त्वदीयं व्यभिचारानुमानमेव पक्षे साध्याभावसाधकत्वात्प्रतिपक्षः। न ह्यत्रानुमीयमानो व्यभिचारः पक्षादन्यत्र पर्यवसानयोग्यः। यत्र महानसादौ हेतुसाध्ययोः सत्वं तत्र व्यभिचारस्य बाधितत्वात्।
तद्ग्रन्थव्याख्यातृभिरपि सत्प्रतिपक्षो 1 न्नायकतापक्षमवलम्ब्यैव तदाभासानाहेत्यवतारितत्वाच्चेत्यपि ध्येयम्॥
ननु -- प्राचां रीत्याभ्युपेत्य सत्प्रतिक्षोत्थापकत्वमुपाधेरेति आभासानिरूपिताः वस्तुतस्तु व्यभिचारोन्नायकत्वमेव मणिकृत्सिद्धान्त इत्यतो व्यभिचारानुमानमेव प्रतिपक्षरूपं पक्षादन्यत्र व्यभिचारानुमानासंभवेन पक्ष एव तदनुमानस्यावश्यकत्वादिति भावेनाह -- किं चेति॥ पर्वतो धूमवान्वह्निमत्वादित्यत्र वह्निरूप 2 हेतुरित्यर्थः। धूमव्यभिचारी
धूमाभाववद्वृत्तिरित्यर्थः। उपाधिव्यभिचारित्वादित्यस्यार्थोक्तिरूपाध्यभाववद्वृत्तित्वादिति॥ साध्याभावेति॥ साध्यव्यभिचारीत्यस्य साध्याभाववद्वृत्ती 3 त्यर्थत्वादित्यर्थः। तत्र च वह्नेर्वृत्तिमत्वं सिद्धमिति हेतुमति पक्षे साध्याभावसाधन एव पर्यवसानादिति भावः॥
ननु व्यभिचारानुमाने भवेदेवं पक्षान्यत्र महानसादावयोगोलकादौ वा तदनुमाने तु न प्रतिपक्षत्वावकाशा 4 दित्यतो निराह -- न हीति॥
1.क्षोत्थापकता -ट.ठ.ड. 2.रूपेहे -ठ.ड. 3.त्तित्वादि-ट.ड. त्तित्वरूपत्वादि-ठ. 4.श इत्येतन्नि -रा.ठ.
उधेर्दूकताबीजम्) उपाधिवादः पु - 115.
यत्र चायोगोलकादौ हेतुसाध्ययोः सत्वासत्वे तस्योपस्थितौ व्यभिचारस्य स्पष्टत्वेनोपाध्यनपेक्षणात्। अनुपस्थितौ च तत्रापर्यवसानात्॥
तस्मात्परिशेषान्निश्चितहेतुकत्वेन सन्दिग्धसाध्यकत्वेन चोपस्थिते पक्ष एव साध्याभावं ज्ञात्वा तत्र हेतोः सत्वं ज्ञेयमिति व्यभिचारानुमितिः पूर्वं पक्षे साध्याभावं स्पृशन्ती कथं न प्रतिपक्षः। नचैवमुपाध्यभावस्य हेतुताहतिः। 1 । उपाध्यभाववद्वृत्तित्वादिति हेतुशरीरे उपाध्यभावप्रवेशात्॥
ननु -- दूष्यानुमानस्य तर्कानुग्रहे उपाधिर्न साध्यव्यापकः। उपाधेस्तदनुग्रहे त्वनुमानस्य बाधं एवेति कदा प्रतिपक्षावसर इति चेत्। यदैकतत्रा 2 नुकूलतर्कानवतारस्तदेत्यवेहि। अन्यथा -- प्रतिपक्षमात्रोच्छेदः।
सत्वासत्वे इति॥ यथाक्रममन्वयः। कथं न प्रतिपक्ष इति॥ उपजीव्यत्वात्प्रतिपक्ष एव वाच्य इत्यर्थः। तथापीष्टसिद्धिर्नेत्याशङ्क्य निराह -- न चैवमिति॥ सप्तमं पक्षमाशङ्कते -- नन्विति॥
"अनुकूलेन तर्केण सति साधने।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः"॥
इत्युक्तेरिति भावः। तदनुग्रहे तु -- अनुकूलतर्कानुग्रहेत्वित्यर्थः। बाध एवेति॥ उपाध्यभावरूपहेतोः प्रबलत्वादिति भावः। अवेहि॥ जानीहीत्यर्थः॥
1.क्षतिः -ट.रा. 2.त्राप्यनु -क.ट.रा.
पु -116. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न हि प्रतिपक्षो यावज्जीवं प्रतिपक्षः। यस्य हि यदानुकूलतर्कावतारः स तदा बाधकोन्यस्तु बाध्य एव भवति॥
प्रतिपक्ष 1 प्रयोगोपि -- शुद्धसाध्यव्यापके वैधीहिंसा नाधर्मसाधननिषिद्धत्वादिति, अवच्छिन्नसाध्यव्यापके तु
वायुः द्रव्यत्वे सति स्पार्शनत्वेन हीनो ऽचाक्षुषत्वादाकाशवदिति,
अत्रोवेहीत्येकारपाठः साधुः। नत्वैकारपाठः।"अव इहि"इतिस्थिते"आद्गुण इति गुणेन भाव्यत्वात्। न च आ इहि एहि अव एहीति स्थिते"वृद्धिरेचीति"वृद्धौ अवैहीति युक्तम्। आङ्पूर्वस्यागमनार्थत्वेन जानीहीत्येतदर्थकत्वायोगात्। तथापि"वृद्धिरेची"त्येतद्बाधित्वा"एङ्पररूप"मिति पररूपेण भाव्यत्वाच्च। न च एङिपररूपमित्येतद्बाधित्वा"एत्येधत्यूठ्स्वि"ति वृद्धिर्भवष्यतीति वाच्यम्। एतद्वृद्धिमपि बाधित्वा"ओमाङोश्चेति"पररूपेणैव भाव्यत्वात्।"पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा"निति"एत्येधत्यूठ्स्वि"ति सूत्रवृत्तावेवोक्तत्वेन एत्ये 2 धत्यूठ्स्ति सूत्रस्यानन्तरं पठितं"एङिपररूप"मित्येतद्विधिं प्रत्येव बाधकत्वेन तदनन्तरं पठितमोमाङोश्चेत्येतत्प्रत्यबाधकत्वात् 3 ॥

नचैवं नित्यदोषतानापत्तेरित्यतः इष्टापत्तिमुत्तरमाह -- नहि प्रतिपक्ष इति॥ एवं प्रतिपक्षोन्नायकत्वं समर्थ्येदानीं तदुन्नयनप्रकारमाह -- प्रतिपक्षेति॥ शुद्धसाध्यव्यापके इति कर्तव्यः अवच्छिन्नसाध्यव्यापके तु इति कर्तव्यः इत्येवकर्तव्य इति चान्वयः। द्रव्यत्वे सतीति॥
1.क्षप्रतियोगो -ग.रा. क्षयोगो-क. एतीतिस्-ठ.ड. 3.एङि पररूपमिति पररूपत्वान्न वृद्धिः इत्यधिकम् -ठ.
उधेर्-दूकता-बीजम्) उपाधिवादः पु - 117.
समवायः संबन्धत्वे सति समवेतत्वेन हीनोकृतकत्वादाकाशवदिति, 1 अवच्छिन्नसाध्यव्यापकोपि शुद्धसाध्य 2 एवोपाधिरिति, चतुर्थपक्षे वायुः स्पार्शनो न द्रव्यत्वे सत्यचाक्षुषत्वादाकाशवदत्येव कर्तव्यः। न तु सर्वत्रापि विमतं व्यापार 2 रहितं व्यापकरहितत्वादिति सामान्येन। व्यापकरहि 4 तत्वस्यानिर्धारितत्वेनासिद्धेः। वह्निमानं 5 तव्द्याप्यवत्वादिति सामान्येन प्रयोगप्रसङ्गाच्च। न च द्वितीयतृतीययोः साध्यविशेषणवैयर्थ्यम्।
द्रव्यत्वविशिष्टस्पार्शनत्वहीन इत्यर्थः। हेतोः पक्षधर्मबलाद्विशिष्ट 6 राहित्यं सिध्यत् विशेषणराहित्ये बाधाद्विशेष्यराहित्यमादाय पर्यवस्यति दृष्टान्तेप्येवमेवेति भावः। उत्तरप्रयोगेप्येवं -- ध्येयम्॥
एवं शुद्धसाध्यव्यापके पक्षधर्मावच्छिन्नसाध्यव्यापके साधनावच्छिन्नसाध्यव्यापके च प्रतिपक्षप्रकारं क्रमेण प्रदर्श्य केचित्वित्यादिनोक्तोपाधैलक्षणेपि तं प्रकारमाह -- अवच्छिन्नेति॥ चतुर्थेति॥ स्वाभिमतोपाधिलक्षणोक्तिप्रस्तावोक्तचतुर्थपक्ष इत्यर्थः। एवकारः सर्वत्रान्वेतव्य इति भावेन तव्द्यावर्त्यमाह -- न तु सर्वत्रापीति॥ उक्तपक्षचतुष्टयेपीत्यर्थः॥ व्याप्येति॥ साध्यरूपव्याप्येत्यर्थः॥ अनिर्धारितत्वेनेति॥ अनुकूलतर्कादिना निर्धारितत्वे सत्युपाध्यभावस्य प्रबलतया बाधकत्वेन प्रतिपक्षत्वायोगात्। अनुकूलतर्कानवतारकाल एवोपाध्यभावस्य प्रतिपक्षतेत्युक्तत्वादिति भावः॥
1.दित्येव कर्तव्यः। न तु स इत्येवमस्ति-ग.रा. 2.ध्यव्यापकोपाधि- ट. 3.प्यर -ट.रा. 4.कत्वस्यानि-ग.ट.रा. 5.अयमितिन -ग.ट.रा. 6.ष्टं -रा.ट.ड.
पु -118. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
शब्दो न स्पर्शवद्विशेषगुणः अयावद्द्रव्यभावित्वादित्यादाविव व्यभिचारपरिहारार्थत्वात्॥
ननु -- विपक्षे बाध 1 तर्कज्ञाने उपाधेरनवतारः 2 तदज्ञाने तत एव
व्याप्तिग्रहप्रतिबन्धात् किमुपाधिनेत्युपाधिचिन्ता वृथैवेति चेन्मैवम्। तर्काज्ञानदशायामुपाधि 3 प्रसङ्गात्। न हि विपक्षे बाधकतर्कज्ञानं व्याप्तिधीहेतुः। व्यभिचारशङ्काभावे तर्कानपेक्षणात्। येन तदज्ञानं व्याप्तिधी 4
प्रतिबन्धकम् स्यात्। किन्तु विपक्षे बाधकतर्काभावज्ञानम्।
व्यभिचारेति॥ अयावद्द्रव्यभावित्वस्यात्मविशेषगुणे ज्ञानादौ भावेन हेतोव्यभिचारनिरासाय स्पर्शवदिति साध्यविशेषणम्। तथा चाक्षुषत्वस्य प्रत्यक्षस्पर्शे सत्वेन हेतोर्व्यभिचारवारणायैव द्रव्यत्वे सतीति विशेषणम्। द्वितीयप्रयोगोपि अकृतकत्वस्य समवेते सत्वेन व्यभिचारवारणाय संबन्धत्वे सतीति विशेषणमित्यर्थः॥
ननु -- तर्काज्ञानमेव व्याप्ति 5 प्रतिबन्धकमस्तु किमुपाधिज्ञानेनेत्यत आह-- न हीति॥ किन्त्विति॥ वाक्ये व्याप्तिधीप्रतिबन्धकमित्यनुकर्षः। ननु तर्काज्ञान एव तर्काभावज्ञानं भवतीति तर्काज्ञानमेव प्रतिबन्धकमित्यागतमित्युपाधिर्व्यर्थं एवेत्यत आह -- न चेति॥
1.धकत -ग.ट. 2.रात्तद-ट.रा. 3.धेरभावात्-क. धेरवतारात्-ग.ट.रा. 4.धी हेतुः प्रति-ग.ट.रा. 5.प्तिधीप्र- ट.ड.
उधेर्-दूकता-बीजम्) उपाधिवादः पु - 119.
नच तर्काज्ञानदशायां तर्काभावज्ञाननियमः। अनियतसामग्रीकत्वात्॥
तस्मादुपाधिर्विप्रतिपत्तितः प्रागव्याप्तेरुन्नायकः। अनन्तरं तु प्रतिपक्षस्य । एवं च अनुव्याख्याने --
"साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य चे"त्युपाधेरव्याप्त्यन्तर्भावस्योक्तत्वात्, प्रमाणलक्षणे तु 1 स एवोपाधिदोषोपीति प्रतिरोधान्तर्भावस्योक्तत्वाद्विरोध इति निरस्तम्। दशाभेदेनोभयसंभवात्॥
अत एवसुधायामव्याप्तिः साधनस्य चेत्यनुव्याख्यानस्थ चशब्देन प्रतिरोधोपि संगृहीत इत्युक्तम्। एतदेवाभिप्रेत्य पद्धतौ उपाधिर्विप्रतिपत्तेः प्रागव्याप्त्युन्नायकः विप्रतिपत्युत्तरकालं 2 प्रतिपक्षोन्नायको भवतीत्युक्तम्। यत्तु प्रमाणलक्षणटीकायां
स एवेति मूलस्थैवकारस्य व्यभिचार 3 वारकत्वेन व्याख्यानं तदपि --
स एवेति॥ प्रतिपक्ष एवेत्यर्थः॥ व्यभिचारवारकत्वेनेति॥ व्यभिचारस्यैव 4 व्याप्तित्वेन प्रतिपक्ष एवोपाधिदोषो न त्वव्याप्तरिति प्राप्तत्वाद्विरोध इति शङ्काभिप्रायः॥
1.तुपदंन-ग.ट.रा. 2.लन्तुप्र-क.ग.ट.रा. 3.रव्यावच्छेदकत्वेन -ट. 4.वा व्याप्ति -ट.ड.
पु - 120. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
विप्रतिपत्यनन्तरं तव्द्यवच्छेदकत्वपरमिति न तद्विरोधोपीति 1 ॥
इत्युपाधेर्दूषकताबीजम्

24.10

विप्रतिपत्य 2 नन्तरमिति॥ अनुमानप्रवृत्त्युत्तरकालमव्याप्तिर्नेत्यभिप्राय इत्यर्थः॥
इत्युपाधेर्दूषकताबीजम्

24.11

अथ तार्किकोक्ततृतीयज्ञाननियमभङ्गः

24.11

अथानुमितिकारणं ज्ञानमुच्यते।
अत्र केचित् -- धूमाग्न्योर्महानसादौ व्याप्तिं गृहीतवतः आदौ पक्षे धूमज्ञानम्। अथ व्याप्तिस्मरणम्। अनन्तरमयं धूमो वह्निव्याप्य इति --
"अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सास्मृता"इति युक्तिपादीयानुव्याख्यानसुधोक्तिं 3 विवृण्वान आह -- अथेति॥ व्याप्तिस्वरूपज्ञानोपायतत्प्रतिबन्धकोक्त्यनन्तरमवसरप्राप्तमित्यर्थः। केचित् -- तार्किकाः। पक्षधर्मे व्याप्तिविशिष्टज्ञानं तदनन्तरं विशिष्टवैशिष्ट्यज्ञानं वेति परामर्शवादे 4 मण्युक्तेराह -- अं धूमोवह्निव्याप्य इति वेत्यादि ॥
1.इतिपदंन-ग.ट.रा. 2,त्यन्तर-ट.ड. 3.क्तं वि-ट.ड. 4.दम-ट.ठ.ड.
ताक्त-तृज्ञा-निमङ्गः) परामर्शवादः पु - 121.
वह्निव्याप्यधूमवानयमिति वा व्याप्तिपक्षधर्मताविशिष्टधूमविषयकं प्रतिसन्धानात्मकं लिङ्गपरामर्शसंज्ञकं तृतीयं ज्ञानं तदेवानुमितिजनकमित्याहुः। तन्न। यत्र हि लिङ्गदर्शनादेव व्याप्तिस्मृतिस्तत्रेयं 1 प्रक्रिया। यत्र तु लिङ्गदर्शनं विनैवादृष्टादिहेत्वन्तरेणात्पवचनेन वा व्याप्तिस्मृतिस्तत्र द्वितीयमेव लिङ्गदर्शनं व्याप्तिस्मृतिसहितात्सन्निकर्षादेवोक्तप्रतिसन्धानात्कमुदेष्यति। सोयमिति प्रत्यभिज्ञावदिति किं तृतीयज्ञानेन॥
तदुक्तं सुधायाम् -- नावश्यंभाविनीयं प्रक्रियेति॥
इति तार्किकोक्ततृतीयज्ञाननियमभङ्गः

24.11

तृतीयज्ञानमिति॥ व्याप्तिग्रहदशायां लिङ्गदर्शनं प्रथमं पश्चात्पर्वतादौ लिङ्गदर्शनं द्वितीयं व्याप्तिविशिष्टलिङ्गज्ञानं तृतीयमिति तृतीयज्ञानमित्युक्तम्॥ सन्निकर्षादिति॥ चक्षुर्धूमादिसंबन्धादित्यर्थः। तथा च कदाचिद्द्वितीयमपि परामर्शरूपं जातमिति किं तृतीयनियमेनेत्यर्थः॥
इति तार्किकोक्ततृतीयज्ञाननियमभङ्गः

24.12

1. त्रैवेयं - ट.रा.
पु -122. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
अथ प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः

24.12

प्राभाकरास्तु -- धूमो वह्निव्याप्य इति स्मृतिः पर्वतश्चधूमवा 1 निति ज्ञानद्वयमेवानुमितिहेतुः। ज्ञानद्वयानुमित्योर्मध्ये विशिष्टज्ञाने मानाभावात्। ज्ञानद्वयस्य 2 स्वरूपं पूर्वभावित्वं नियमश्च कॢप्त एव। विशिष्टज्ञानवादिनापि तद्धेतुत्वेन ज्ञानद्वयस्वीकारात्। अन्यथा सिद्धिमात्रं कल्प्यम्। विशिष्टज्ञाने 3 चतुष्टयं कल्प्यमिति गौरवम्।
अथ प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः

24.12

व्याप्तिरेव तु सा स्मृतेत्येतव्द्याख्यानसुधायां तदन्यो न मन्यत इत्यादिनोक्ते प्राभाकरमततद्दूषणे विवृण्वान आह -- प्राभाकरास्त्विति॥ इत्याहुरित्यन्वयः। परामर्शवादपूर्वपक्षे मण्युक्तं निष्कृष्यानुवदति-- धूम इति॥ ज्ञानद्वयमेव स्मृत्यनुभवरूपज्ञानद्वयमेवेत्यर्थः। ननु ज्ञानद्वयानन्तरभाविनो ऽनुतिपूर्वभाविनो व्याप्तिविशिष्टपक्षधर्मताज्ञानस्य कुतो न हेतुत्वमित्यतस्तत्स्वरूपमेव नभोनलिनायितमित्याह -- ज्ञानद्वयेति॥ ज्ञानद्वयस्य कारणत्वे गौरवं विशिष्टज्ञानस्य हेतुत्वे लाघवमित्यतो विपरीतमेव लाघवमित्याह -- ज्ञानद्वयस्येति॥ नियम इति॥ अनुमित्यव्यभिचार इत्यर्थः। कथं त्रितयं कॢप्तमित्यत आह -- विशिष्टेति॥ अनन्यथेति॥ विशिष्टज्ञानरूपपरामर्शानुपक्षीणतयानुमित्येकोपक्षीणत्वमात्रं कल्प्यमित्यर्थः।
1.नित्यमनुभ इति-ग.ट.रा. 2.स्यहिस्व-क.ग.ट.रा. 3.ने तु च -ग.रा.
प्राक्त-ज्ञाद्व-हेत्वङ्गः) परामर्शवादः पु - 123.
एतेन ज्ञानद्वयादप्येकस्य विशिष्टज्ञानस्य कारणत्वं लघ्विति निरस्तम्। विशिष्टज्ञानस्यैवासिद्धेः। वस्तुद्वये युगपदुपस्थिते हि लाघवगौरवचिन्तेत्याहुः॥
तन्न। प्रत्यभिज्ञावदनुमित्यादिवच्चानुभवसिद्धस्य विशिष्टज्ञानस्य तद्धेतुभूतज्ञानद्वयेनापलापे
प्रत्यभिज्ञायास्तत्तास्मृतीदन्तानुभवरूपज्ञानद्वयेनानुमितेर्वह्निस्मृतिपर्वतानुभवरूपज्ञानद्वयेन व्याप्तिज्ञानस्य तद्धेतुभूतसहचारादिज्ञानेन त्वदुक्तज्ञानद्वयस्य च तत्करणेनापलापप्रसङ्गात्। भवति हि त्वन्मते भमस्थले 2 ऽसंसर्गाग्रहसहकृतेन ग्रहणस्मरणरूपज्ञानद्वयेने 3 दं रूप्यमिति विशिष्टव्यवहारवत्प्रत्यभिज्ञास्थले ऽनुमितिस्थले चासंसर्गाग्रहसहकृतेनोक्तज्ञानद्वयेन सोयमिति व्यवहारः पर्वतो 4 ग्निमानित्यादिव्यावहाराश्च। अन्यथा भान्तिरपि स्वीकार्या॥
एकस्य कारणत्वकल्पनं लघ्वित्यत आह -- एतेनेति॥ विशिष्टज्ञानमेव नेत्येतन्निराह-- प्रत्यभिज्ञावदित्यादिना॥ प्रत्यभिज्ञाया इत्यादि षष्ठ्यन्तानामपलापप्रसङ्गादित्यन्वयः। सहचारादीत्यादिपदेन व्यभिचाराभावज्ञानग्रहः। विशिष्टव्यावहारान्यथानुपपत्या प्रत्यभिज्ञादेरेकत्वं सिद्धमित्यत आह -- संभवति हीति॥ अन्यथेति॥ विशिष्टव्यावहारबलेन विशेषणविशेष्यतत्सबन्धविषयकरूपविशिष्टज्ञानाङ्गीकारे विशिष्टविषयकैकज्ञानरूपा भ्रान्तिः स्वीकार्येत्यर्थः॥
1.नाव्या -ग.रा. 2.अगृहीतासंसर्गग्रहणस्म -ग.ट.रा. 3.ऽद्वयेनऽ इत्याधिकः ऽसोयमितिव्यवहाऽ इति पर्यन्तो ग्रन्थः नास्ति- ग.रा. 4.तोवह्निमा -रा.
पु -124. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च व्याप्तिज्ञानं त्वन्मते सामान्यप्रत्यासत्तेरभावात्सन्निकृष्टधूमव्यक्तिमात्रविषय 1 कम्। पक्षधर्मज्ञानं त्वगृहीतव्याप्तिकधूमविषय 2 कम्। एवं च किञ्चित्प्रमेयं वह्निव्याप्यं पर्वतश्च प्रमेयवानिति ज्ञानद्वयमिव कश्चिद्दूमो व्याप्यः पर्वतश्च धूमवानिति विशिष्टकलितं परस्परवार्तानभिज्ञं ज्ञानद्वयमपि नानुमितिहेतुः॥
न च प्रमेयत्वं वह्निव्याप्यतावच्छेदकत्वेन न गृहीतं धूमत्वं तु तदवच्छेदकत्वेन गृहीतमिति वैषम्यमिति वाच्यम्। व्याप्यतावच्छेदकत्वं हि व्याप्यत्वेन सह व्याप्तिः। अन्यस्य प्रकृतानुपयोगात्।
ननु संवादबलात्प्रत्यभिज्ञादौ विशिष्टैकज्ञानत्वमुपेयम्। न तु भमस्थल इति वदन्तं प्रत्याह -- किञ्चेति॥ यद्वा विशिष्टज्ञानास्तित्वं समर्थ्य पराभिप्रेत 3 ज्ञानद्वयहेतुत्वं निराह-- किञ्चेति॥ अथवा पूर्वं पर्वतादिनिष्ठधूमव्यक्तिविशेषणत्वेन व्याप्तेरग्रहादन्यत्र गृहीतव्याप्तिविशिष्टज्ञानमन्यत्र कथमुत्पत्तुमर्हमि 4 त्यतस्तर्हि ज्ञानद्वयस्यापि हेतुतानापत्तिरित्याहि -- किञ्चेति॥
सन्निकृष्टधूमेति॥ महानसीयधूमव्यक्तिमात्रेत्यर्थः। अन्यस्येति॥ अन्यूनानधिकदेशवृत्तित्वादेरित्यर्थः।
1.यत् -क.ग.रा. 2.यम्-क.ग.ट.रा. 3.तं ज्ञा-ठ.भिमत ज्ञा-ड. 4.तीत्य-ठ.ड.
प्राक्त-ज्ञाद्व-हेत्वङ्गः) परामर्शवादः पु - 125.
न च व्याप्तिग्रहणकाले धूमस्याग्निनेव धूमत्वस्य धूमनिष्ठया वह्निव्याप्त्या सह व्याप्तिर्गृहीता। एवं च पक्षधर्मे धूमे व्याप्तिग्रहप्रस्तावोक्तरीत्या व्याप्तिग्रहसामग्रीसत्वेपि व्याप्तिं न पश्यसि, पश्यसि तु व्याप्तिधूमत्वयोर्व्याप्तिग्रहसामग्रीविरहे 1 व्याप्तिमिति नूनं ते 2 तु चेरविलोचने॥
एतदेवाभिप्रेत्योक्तं सुधायाम्। न खलु विशकलिते व्याप्तिस्मृतिपक्षधर्मताज्ञाने भवयतो ऽनुमितिरिति। विशकलिते भिन्नविषय इत्यर्थः॥
सर्वधूमव्यक्तिनिष्ठव्याप्तेरेकत्वे मानाभावेन नानात्वे ऽवश्यंभाविनि धूमत्वस्य तदनधिकदेशवृत्तित्वाभावा 3 दवच्छित्तिप्रत्ययजनकत्वादेर्जनकत्वस्य व्याप्तिगर्भतयाऽत्माश्रयापाताच्चेति भावः। यद्वावच्छेदकं ह्यनुमित्युपयोगितयाभ्युपेयम्। तच्च धूमत्वादेर्व्याप्तिव्याप्यत्वरूपत्वे धूमदर्शने सति व्याप्तिस्मृतिद्वारानुमित्युपयोगि। न त्व 4 धिकदेशवृत्तीत्वादि 5। तज्ज्ञानेन व्यप्तिस्मृतौ बीजाभावादित्यर्थः। उक्तरीत्या व्याप्तिग्रहसामग्रीति॥ सादृश्यादिरूपसामग्रीसत्वेपीत्यर्थः। चतुरे कुशले इत्युपहासः। उक्तमिति॥ व्याप्तिरेव तु सा स्मृतेत्येतद्व्याख्यावसरे युक्तिपादे ॥
1.हेपि- व्या- ट.रा. 2. ते रुचिरे वि-क. ते चतुरे वि -ग.ट.रा. 3.वात्तद -ठ. 4.त्वनधिक -ड. 5.दीतरतज्ज्ञा -ठ.
पु - 126. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च विशिष्टज्ञानाभावे व्याप्तिज्ञानस्य 1 करणत्वं न स्यात्। निर्व्यापारत्वात्। न च तर्को व्यापारः। तस्यासार्वत्रिकत्वात्। नापि पक्षधर्मताज्ञानं व्यापारः। तस्य व्याप्तिज्ञाना 2 जन्यत्वात्। विशिष्टज्ञानस्य तु तज्जन्यत्वात्॥
एतदप्युक्तं विशकलित इति। परस्परं जन्यजनकभावरहिते इत्यर्थः॥
अपि च संशयानन्तरभावविशेषदर्शनजन्यप्रत्यक्षस्थले करचरणादौ पुरुषत्वव्याप्तिस्मृतिः पक्षधर्मताज्ञानं
चास्तीति त्वन्मतेनुमितिः स्यात्। 3 अस्मन्मते तु विशिष्टज्ञानाभावादनुमितिर्युक्ता। एवं च त्वन्मते प्रत्यज्ञसामग्र्या अत्राकॢप्त 4 सामग्रीतो बलवत्वं च न कल्प्यम्॥
त्वदङ्गीकृतव्याप्तिज्ञानकरणत्वबलादपि विशिष्टज्ञानं मध्ये कारणत्वेनोपेयमित्याह-- किञ्च विशिष्टज्ञानाभाव इति॥ असार्वत्रिकत्वादिति॥ संशस्थल एव तर्कावतारस्योक्तत्वादिति भावः। व्याप्तिज्ञानजन्यत्वादिति॥ तज्जन्यजनकत्वे सति तज्जन्यस्यैवव्यापारत्वादिति भावः। अन्वयव्यभिचाराच्च न ज्ञानद्वयस्य हेतुत्वम्। विशिष्टज्ञानस्य हेतुत्वे तु न व्याभिचार इति भावेनाह -- अपि चेति॥ विशिष्टज्ञानहेतुत्वाङ्गीकारे ऽन्वयदप्यनुकूलितमित्याह-- एवं चेति॥
1.कार-क.ट. 2.न ज -ग.ट. 3. मन्म -क.ग.ट.रा. 4.प्तमनुमिति सा -क.ग. अन्यत्राकॢप्तमनु-ट.रा.
प्राक्त-ज्ञाद्व-हेत्वङ्गः) परामर्शवादः पु - 127.
एतदप्युक्तं -- विशकलित इति। इक्तस्थले ऽनुमितिं विनापि स्थिते इत्यर्थः।
किं च त्वदुक्ते ज्ञानद्वये सत्यपि पक्षनिष्ठधूमो 1 वह्निव्याप्तो नेति विपर्यये

संशये वा सत्यनुमित्यदर्शनात्तयोरनुमितिप्रतिबन्धतकता तावद्वक्तव्या। ज्ञानस्य च ज्ञानप्रतिबन्धकत्वं विरोधिविषयत्वेनैव। तच्च द्वेधा। साक्षादनुमितिविषयविरोधिविषत्वेन वा, तज्जनकज्ञानविषयविरोधिविषय 2 त्वेन वा। तत्राद्यः प्रकृते न संभवति। व्याप्यभेदभ्रमस्य बाधवदनुमितिग्राह्यवह्न्यभावाविषय 2 त्वात्। तथाच व्यभिचारज्ञानस्यानुमितिहेतुव्याप्ति 3 विघटनेनेव व्याप्यभेदभ्रमस्याप्यनुमितिहेतुव्याप्याभेदज्ञानविघटनेनैवानुमितिप्रतिबन्धकत्वं वाच्यमिति सिद्धं व्याप्याभेदज्ञानस्यानुमितिहेतुत्वम्॥
स्थिते इत्यर्थ इति॥ तथा च तादृशे व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतो नानुमितिरिति समग्रवाक्यार्थ इति भावः॥
व्याप्यभेदविषयकविपर्ययादेः प्रतिबन्धकत्वान्यथानुपपत्यापि विशिष्टज्ञानहेतुत्वसिद्धिरि 4 त्याह-- किं च त्वदुक्ते इति॥ ज्ञानस्य चेति॥ व्याप्यभेदगोचरविपर्ययादिरूपज्ञानस्य चेत्यर्थः। व्याप्यभेदेति॥ व्याप्ये धूमे व्याप्यो नेति व्याप्यो वा न वेतीति व्याप्यभेदभ्रमस्येत्यर्थः।
1.धर्मो विह्निव्याप्यो ने - ग.ट.रा. 2.यकत्वा-ट.रा. 3.ज्ञानपदमधिकम् -ट.रा. 4.त्यत आ- ट.ठ.ड.
पु - 128. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यदि च विरोध्यविषयकमपि ज्ञानं मण्यादिवद्विरोधि तर्ह्युपाधिना व्यभिचारो नोन्नीयते। किन्तु मण्याद्यभावो दाह इव उपाधिज्ञानाभाव एवानुमितो हेतुः स्यात्॥
न चानुमितिसामग्र्या बलवत्वाज्ज्ञानद्वये सत्यनुमितिरेवोत्पद्य 2 ते। न तु प्रत्यक्षो व्यप्यभेदभ्रम इति वाच्यम्। तस्या बलवत्वासंमतेः॥
किञ्च यत्र त्वदुक्तज्ञानद्वयानन्तरं भेदभ्रमस्तत्रैवमस्तु। यत्र 3 धूमो वह्निव्याप्यः पर्वतीयधूमश्च वह्न्यव्याप्य इति 4 पक्षधर्मताज्ञानमेव भेदविषयं त्वन्मते व्याप्त्यव्याप्त्योर्भिन्न 5 विषयत्वेनाविरोधात् तत्र भेदज्ञानात्पूर्वं
अनुमितिसामग्र्यभावेन तया
प्रका 6 रान्तरेम प्रतिबन्धकत्वचोद्यमनूद्य निराह-- यदि चेति॥
ननु -- व्याप्यभेदभ्रम एव नास्ति यस्य प्रतिबन्धकत्वबलेन विशिष्टज्ञानहेतुत्वसिद्धिरित्याशङ्कां निराह-- न चानुमितीति॥
अभ्युपेत्यापि बलवत्वमनुमितिसामग्र्यभावस्थले विपर्ययादिबलाद्विशिष्टज्ञानहेतुत्वसिद्धिरित्याह-- किञ्च यत्रेति॥ एवमस्त्विति॥ अनुमितिसमाग्रीबलवत्वेन व्याप्यभेदभ्रमानुत्पादोस्त्वित्यर्थः। धूम इति॥ व्याप्तिग्रहणस्थलीय इत्यर्थः। विरोधात्कथमेवं भ्रम इत्यत आह-- त्वन्मत इति॥ सामान्यप्रत्यासत्तेरनङ्गीकारेण पर्वतनिष्ठधूमे व्याप्तेग्रहेण तत्र व्याप्ये 7 भेदभ्रमे बाधकाभावात्॥
1.तर्हे -ट.रा. 2.द्येत -ग.रा. 3.त्रसु धू-रा.क. 4.ज्ञानपदमधिकम्- रा. 5.न्न निष्ठत्वेना -ट.रा. 6.प्रमाणान्त -ड. 7.प्यभे- ट.ड.
प्राक्त-ज्ञाद्व-हेत्वङ्गः) परामर्शवादः पु - 129.
1 न प्रतिबन्धो युक्तः॥
न च धूमत्वज्ञानरूपस्य वा धूमो वह्निव्याप्य इति ज्ञानरूपस्य वा विशेषदर्शनस्य सत्वान्न व्याप्यभेदभ्रम इति वाच्यम्। स्वरूपेण धूमत्वज्ञानस्याविरोधित्वात्। व्याप्तिव्याप्यत्वेन ज्ञानस्य तु विरोधित्वे 2 तस्यायं धूमवानिति पक्षधर्मताज्ञाने ऽभावात्। धूमो वह्निव्याप्य इति ज्ञानस्य च त्वन्मते भिन्नविषयकत्वेनाप्रतिबन्धकत्वात्। न च भिन्नविषयकत्वेपि समानप्रकारकत्वमात्रेण प्रतिबन्धकत्वम्। प्रमेयं घटवदिति ज्ञानेन प्रमेये गृहे घटो नेति धीप्रतिबन्धापातात्॥
एतदप्युक्तं विशकित इति 3। व्याप्य 4 भ्रमेण प्रतिबद्धे इत्यर्थः॥
सामग्र्यभावेपि विशेषदर्शनमेव भ्रमप्रतिबन्धकमित्याशङ्क्य निराह-- न च धूमत्वेति॥ 5 समानप्रकारकत्वेति॥ धूमो वह्निव्याप्य इति ज्ञानस्य पर्वतीधूमश्य
व्याप्यो नेत्यस्य च धूमत्वप्रकारकत्वात्प्रतिबध्यप्रतिबन्धकभाव इत्यर्थः। मात्रपदेन च समानविशेष्यकत्वं व्यावर्त्यते। इत्यर्थ इति। समगवाक्यार्थः पूर्ववद्द्रष्टव्यः। क्वचिद्विशिष्टज्ञानस्य हेतुतायाः कॢप्तत्वादन्यत्रापि तथेतिभावेन तस्य क्विचिद्धेतुत्वमाह-- अपि चेति॥
1. न पदं युक्तपदात्प्रागस्ति-क.ग.ट.रा. 2.त्वेपित-ग.ट.रा. 3.ते इति -ग.ट.राय 4.भेदपदमधिकम्-क.ग.ट.रा. 5.धूमत्वज्ञानरूपस्येत्यर्थः इत्यधिकम्-ठ.
पु - 130. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अपि च यत्र धूमदर्शनं विनापि शब्दादिना व्यप्तिस्मृतिमतः पुंसः स्मृतव्याप्तिसन्निकृष्टधूमत्व 1 योर्वैशिष्ट्यं प्रत्यक्षज्ञानेन वह्निव्याप्यधूमवानयमिति शाब्दज्ञानेन च युगपदेव गृह्यते तत्राप्यनुमितिस्तावद्दृश्यते। तत्र च व्याप्यत्वप्रकारकपक्षधर्मताज्ञानत्वेनैव हेतुता वाच्या। लाघवात्। व्याप्यतावच्छेदकत्वस्य व्याप्यतागर्भितत्वेन व्याप्यताया आवश्यकत्वाच्च। न तु व्याप्यतावच्छेदकप्रकारकपक्षध्मताज्ञानत्वेन । गौरवात्। अनावश्कत्वाच्च॥
ज्ञानद्वयरूपानुमितिसामग्री पराभिमता वक्तुं धूमदर्शनं विनापीत्युक्तम्॥ स्मृतेति॥ स्मृतव्याप्तिश्च सन्निकृष्टधूमश्च तयोरित्यर्थः॥
ननु तत्राप्यनुमितिधशायां तावता विशिष्टज्ञानत्वेन न हेतुता किन्तु
व्याप्यतावच्छेदकप्रकारकपक्षध्मताज्ञानत्वेनैव । तथाच ज्ञानद्वयस्थल इवास्मदभिमतकारणतावच्छेदकं तत्राप्यक्षतमेवेत्यत आह-- तत्र चेति॥ भवत्पक्षेपि व्याप्यत्वज्ञानमावश्यकमित्याह-- व्याप्यतेति॥ अवच्छेदकत्वं हि व्याप्यत्वेनेह व्याप्तिरन्यस्यानुपयोगादित्युक्तदिशा व्याप्यतागर्भितत्वनेत्यर्थः। एवकारव्यावर्त्यमाह-- नत्विति॥ अनावश्यकत्वाच्चेति॥ यथा 2 व्याप्यतावच्छेदकत्वज्ञाने व्याप्यत्वज्ञानमावश्यकम् --
1.मयोर्वै-ग.ट.रा. 2.यथा अवच्छे-ठ.ड.
प्राक्त-ज्ञाद्व-हेत्वङ्गः) परामर्शवादः पु - 131.
ननु व्याप्तावपि व्याप्तिरहितावृत्तित्वरूपं व्याप्यतावच्छेदकत्मस्तीति व्याप्यतावच्छेदकं 1 त्वप्रकारकत्वं सामान्यं व्याप्तयाप्रकारकत्वं तु विशेषः न च सामान्यस्य प्रयोजकत्वसम्भवे विशेषस्य तद्युक्तमिति चेन्न। व्याप्यौ तु 2 त्वदुक्तस्य व्याप्यतावच्छेदकत्वस्य सत्वेपि व्याप्तित्वेन 3 ज्ञानमात्रेणानिमितिदर्शनेन व्याप्यतावच्छेदकत्वेन व्याप्तिज्ञानस्यानुमित्यहेतुत्वात्। त्वयौ 1 पाधिकधर्म 5 रूपस्य व्यापारत्वस्य सामान्यत्वेपि तद्विहाय लाघवेन जातिरूपकृतित्वस्यैवाख्यातशक्यतावच्छेदकत्वस्वीकाराच्च॥
एतदप्युक्तं सुधायाम् -- यदा तु गृहीतव्याप्तेर्विनापि --

व्याप्यतावच्छेदकप्रकारकत्व 6 ज्ञानमावश्यकम्। धूमत्वेन धूमस्यरूपविशेष्यकव्याप्यत्वप्रकारकज्ञानविषये तदनुप्रवेशाभावादिति भावः। तदनुप्रवेशामाशङ्कते-- नन्विति ॥ व्याप्तिरहिते पाषाणादाववृत्तित्वमित्यर्थः। सामान्यमिति॥ व्याप्यत्वप्रकारकज्ञानविषये व्याप्तावपि सत्वादिति भावः॥ विशेष इति॥ अयं 7 धूमवानित्यादिव्याप्यतावच्छेदकधूमत्वप्रकारके ज्ञाने व्याप्यत्वप्रकारकत्वाभावादिति भावः। सामान्यविशेषाभावे सत्यपि लाघवाद्विशेषस्यैव प्रयोजकत्वं वाच्यमिति भावेनाह-- त्वयेति॥ एतदप्युक्तमिति॥ युक्तिपाद एवापिचेत्यादिनोक्तंप्रमेयमुक्तमित्यर्थः॥
1.कप्र- क.ट.रा. 2.तु इतिन-ग.ट.रा. 3.प्यत्वेन-क. प्तत्वेन-रा. 4.यासौ -क.गर्. 5.मस्य व्याप्यत्वस्य-ग.रा. 6.कज्ञानत्वमित्यस्ति-ठ. ज्ञानपदं -न.ट. 7.यञ्चधू -ड.
पु -132. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
लिङ्गदर्शनाद्व 1 ह्न्यादिनैव व्याप्तिस्मृतिरिति॥
नन यत्र लिङ्गपक्षादिकमसन्निकृष्टमतीन्द्रियं वा तत्र कथं परामर्शः,
प्रत्यक्षस्यासम्भवात् आनुमानिकत्वे चानवस्थानादिति चेत्तवापि कथं तत्र पक्षताज्ञानम्। कथं च स पर्वतो वह्निव्याप्यधूमवान् परमाणुर्नित्यत्वव्याप्यनिरवयवद्रव्यत्ववानिति ज्ञानं तथा व्यवहारश्च॥
ननु तत्र कविकाव्या 2 दिनिर्माणहेतुभूतज्ञानवन्मानसमेव पक्षधर्मताज्ञानम्।
विशिष्टज्ञानहेतुतावादे क्वचित्सामग्र्यभावेन तदुत्पत्तिबाधकमाशङ्क्य प्रतिबन्द्योत्तरयति -- नन्वित्यादिना ॥ तवापीति॥ ज्ञानद्वयहेतुतावादिनोपीत्यर्थः। न्यायमताशयेनाह-- कथञ्चेति॥ यद्वा तन्मतेपि क्वचिद्विशिष्टज्ञानसत्वस्योक्तदिशाङ्गीकारात्तदाशयेनेयमुक्तिः। परमाणुरिति॥ कथञ्चेत्यनुकर्षः। तथेति॥ व्याप्यधूमवानित्यादिव्यवहारश्चेत्यर्थः। तादृशज्ञानसाध्यत्वाद्व्यवहारस्येति भावः। मण्युक्तदिशा परमुखेनोत्तरं वाचयित्वा सममित्याह-- नन्विति॥ कवेः काव्यनिर्माणहेतुभूतज्ञानं यथा मानसं तथा मानान्तरोपनीते पर्वते मानान्तरोपनीतधूमसंसर्गरूपपक्षधर्मताज्ञानं मानसं व्याप्तिस्मरणधूमवत्वज्ञानाभ्यां सहकृतेन मनसा च
व्याप्यधूमवानितिज्ञानं नित्यत्वस्मृतिमतो निरवयवत्वोपनायकेन तदुपनये च परमाणूपनायकेन परमाणौ चोपनीते मनसा नित्यत्वव्याप्यनिरवयवत्ववानितिज्ञानमस्त्वित्यर्थः॥
1.द्वचनादिनै -- रा. 2.आदिपदं न-ग.ट.रा.
प्राक्त-ज्ञात्व-हेत्वङ्गः) परामर्शवादः पु - 133.
यद्वानुमानिकत्वेपि क्वचित् स्मृतौ क्वचिच्छब्दे क्वचित्प्रत्यक्षे पर्यवसानान्नानवस्थेति चेत्समं परामर्शोपि। तस्माद्विशिष्टज्ञानमेवानुमितिहेतुः॥
इति प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः

24.12

नन्वेवं मनसो बहिर्थप्रमाहेतुत्वे 1 तदुपनायकज्ञानस्य प्रमाणान्तरत्वं स्यात्। यदसाधारणं कारणमासाद्य मनो बहिर्गोचरप्रमां जनयति तत्प्रमाणान्तरमिति नियमादिति चेन्न। इन्द्रियादेः सन्निकर्षादिवदुप 2 नयस्य नियतव्यापाराभावेन प्रमायामकारणत्वादित्याहुः। अनुमानेन वास्तु पक्षधर्मताज्ञानादि । तावता
नानवस्था । तज्जनकानुमाने पक्षधर्मतादिज्ञानस्य स्मृतिरूपत्वेन 3 वाप्तवाक्यरूपशब्दजन्यत्वेन वा प्रत्यक्षजन्यत्वेन वोपपत्तेरित्याह-- आनुमानिकत्वेपीति॥ पक्षधर्मतादिज्ञानस्येत्यनुकर्षः। अत एवपद्धतौ न च 4 तथाप्यनुमानस्य व्याप्त्यपेक्षयानवस्था। अन्ततः प्रत्यक्षागममूलत्वादित्युक्तमिति भावः ॥
इति प्राभाकरोक्तज्ञानद्वयहेतुत्वभङ्गः

24.13

1.तदिति नास्ति-ट.ठ.ड. 2.नायकस्य- ड. 3.वा इति न -ड. 4.चैतस्याप्य -ठ. न च तस्याप्य -ट.ड.
पु - 134. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ मण्युक्तपरामर्शप्रक्रियाभङ्गः

24.13

मणौ त्वंयमालोको 1 धूमो वा उभयथापि वह्निव्याप्य इति ज्ञानात्तावदनुमितिर्दृश्यते। तत्र 2 व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं न संभवति। अवच्छेदकयोर्धूमत्वालोकत्वयोरनिश्चयात्। निश्चितस्य 3 तदन्यान्यत्वस्य गौरवेण व्यभिचारावारकविशेषणत्वेन चानवच्छेदकत्वात्। इत्युक्तम्। तन्न। व्याप्यतावच्छेदकपदेन व्याप्तिनियतधर्मस्य विवक्षितत्वात्। अन्यतरत्वे च गौरवादौ सत्यपि व्याप्तिर्नैयत्यरूपस्य व्याप्त्यवच्छेदकत्वस्यानपायात्। न हि गुर्वित्येतावता नियतमप्यनियतं भवति।
अथ मण्युक्तपरामर्शप्रक्रियाभङ्गः

24.13

परामर्शवादसिद्धान्तोक्तप्राभाकरखण्डनप्रकारमनुवदति-- मणौत्विति॥ इत्युक्तमित्यन्वयः। तदन्यान्यत्वस्येति॥ धूमालोकाभ्यां यदन्यत् तदन्यत्वस्येत्यर्थः। व्यभिचारेति॥ धूमालोकान्यान्यवत्वादित्यत्र धूमवत्वादालोकवत्वादित्येकैकहेतूक्तौ व्यभिचाराभावाद्व्यभिचारवारकस्यैव सार्थक्यादिति भावः।
1.वा इत्यधिकम् -ग.ट.रा. 2.त्रचव्या-क.ट.रा. 3.स्य चत-क.रा.
मक्त-पर्श-प्रयाङ्गः) परामर्शवादः पु - 135.
नीलधूमादौ धूमान्या 1 न्यादौ च वैयर्थ्यमेव दोषः। प्रकृते तु संदिग्धासिद्धिवारकत्वान्न वैयर्थ्यमपि॥
किञ्चान्यतरत्वज्ञानस्य त्वयापि व्याप्तिग्राहकप्रत्यक्षसहकारित्वं स्वीकृतम्। सहकारित्वं च न भूयोदर्शनादिवत्स्वरूपेण । किं त्वन्यतरत्वस्य व्याप्तिव्याप्यतया तद्दर्शनत्वेनैवेति कथमन्यतरत्वस्य व्याप्तिव्याप्यत्वाग्रहः॥
गुरुधर्मतया व्याप्तिग्रहानुपयुक्तविशेषणत्वेन चेत्यर्थ इत्यप्याहुः। अन्यान्यत्व इत्यस्यार्थानुवादो ऽन्यतरत्वे चेति॥
नन्वेवं पर्वतोग्निमान्नीलधूमवत्वाद्धूमान्यवत्वादित्यादिप्रयोगोपि साधुः स्यात्। नीलधूमत्वादेर्गुरुत्वेपि व्याप्तिनियतत्वेन व्याप्यतावच्छेदकत्वानपायादित्यत आह-- नीलेति॥ संदिग्धेति॥ धूमवत्वादिति वा आलोकवत्वादिति वोक्तावन्यतरसत्वस्यानिश्चयादिति भावः। त्वयापीति॥ गुरोरप्यन्यान्यत्वज्ञानस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वादन्यान्यत्वज्ञानं तत्र व्याप्यताज्ञानोपक्षीणमिति मणावुक्तेति भावः॥
अत एव मणावेतदरुच्यापिचेत्यादिना प्रागस्मदुक्तपक्ष एव किञ्च वह्निव्याप्यवानयमिति शाब्दज्ञान इत्यादिनोपन्यस्तैति ध्येयम्। यदपि संशयस्थले ऽन्यान्यत्वनिश्चयमुपेत्य व्याप्यत्वज्ञानोपक्षीणत्ववचनम्।
1.न्यत्वादौ - क.ग.ट.रा.
पु - 136. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
केचित्तु -- धूम 1 त्वालोकत्वाभ्यां सन्धिग्धे वस्तुनि धूमालोकान्येभ्योन्यत्वमेव दुर्ग्रहम्। न हि साधनाश्रययोरन्यतरत्वमित्यादौ साधनाश्रययोः साधनत्वाश्रयत्वा 2 ज्ञाने तदन्येभ्योन्यत्वं गृह्यत इत्याहुः। 3 तस्मान्न मण्युक्तं युक्तम्॥
इति मण्युक्तपरामर्शप्रक्रियाभङ्गः

24.13

तदप्युक्तमित्याह -- केचित्विति॥ प्रतियोगितावच्छेदकप्रकारेण प्रतियोगिनोनिश्चयते तदन्योन्याभावस्य दिर्ज्ञानत्वादिति भावः॥
इति मण्युक्तपरामर्शहेतुत्वप्रक्रियाभङ्गः

24.14

अथ व्यापकत्वपरामर्शस्यानुमितिहेतुत्वभङ्गः

24.14

ननु -- हेतुसमानाधिकरणात्यन्ताभावा 4 प्रतियोगिसाध्यसामानाधिकरण्यं व्याप्यत्वम्। तच्च व्यापकत्वगर्भितमिति लाघवात्पर्वतवृत्तिधूमव्यापको वह्निरिति व्यापकत्वपरामर्श एवानुमितिहेतुः।
अथ व्यापकत्वपरामर्शस्यानुमितिहेतुत्वभङ्गः

24.14

मणौ परामर्शवादान्ते"अन्ये त्वि"त्यादिनोपन्यस्तमेकदेशिमतमप्याशङ्क्य निराह -- नन्वित्यादिना ॥ व्यापकत्वेति॥
1.मालो -रा. 2.त्वानिश्चये-क. 3.तस्मादित्यादि नास्ति-ग.ट. 4.वप्र -ग.ट.रा.
लिपर्शस्य-कत्वम्) परामर्शवादः पु - 137.
न तु वह्निव्याप्यधूमवानपर्वत इति व्याप्य 1 त्व परामर्श इति चेन्न। मन्मते साध्यरहितावृत्तित्वरूपाया अन्यथानुपपत्तिरूपाया वा व्याप्तेर्व्यापकत्वागर्भितत्वेन गौरवाभावात्॥
यद्यपि साध्यरहितावृत्तित्वज्ञानं साध्यं विनानुपपत्तिज्ञानं 2 वा साध्यत्वरूपव्यापकत्वेन ज्ञानं विनानुपपन्नम्।
तथापि धूमजातीयस्य वह्निजातीयरहितावृत्तित्वज्ञानं च 3 वह्निजातीयं विनानुपपत्तिज्ञानं च वह्नित्वेन वह्निज्ञानमेवापेक्षते। न तु व्यापकत्वेनेति न गौरवम्॥
इति व्यापकत्वपरामर्शस्यानुमितिहेतुत्वभङ्गः॥ 14 अ ॥
उक्तरूपाभावाप्रतियोगित्वस्य व्यापकत्वात्तद्गर्भितमित्यर्थः॥ साध्यरहितेति॥ साध्यरहिते ऽवृत्तित्वमित्यर्थः॥ अन्यथेति॥ साध्येन विनासंभवरूपाया वेत्यर्थः॥
इति व्यापकत्वपरामर्शस्यानुमितिहेतुत्वभङ्गः

24.15

अथ लिङ्गपरामर्शस्य करणत्वम् ॥ 14 आ ॥
लिङ्गज्ञानमेव करणम्। न तु लिङ्गम्।
अथ लिङ्गपरामर्शस्य करणत्वम्

24.15

यत्तु मणौ लिङ्गकरणतावादे लिङ्गपरामर्शः करणं न तु परामृश्यमानं लिङ्गमित्युक्तम्। तदस्माकमनुमतमेव । किं तु परामर्श इत्यत्र तृतीयज्ञानत्वमेव नाभिमतमिति भावेनाह -- लिङ्गज्ञानमेवेति ॥ लिङ्गपदेन व्याप्यमुच्यते।
1.प्तत्व-ग.रा. 2.नं च साध्यज्ञानं विनानुप-ग.ट.रा. 3.चपदं न-ट.रा.
पु - 138. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
स तदा वह्निमान् तदा धूमवत्वादित्यादौ धूमाभावे ऽपि तज्ज्ञानेनैवानुमतिदर्शनात्। न च तत्र 1 धूमध्वंसादिकं लिङ्गान्तरमस्तीति वाच्यम्। तस्यापरामर्शात्। अपरामृश्यमानस्य हेतुत्वे च मानाभावात्। अत एवोक्तं सुधायाम्--"न च धूमादिकमेवानुमितिर्न किं नाम तज्ज्ञान"मिति॥
इति लिङ्गपरामर्शस्य करणत्वम्॥ 14 आ ॥
प्रत्यक्षेणानुमानेन शब्देन वा जातं यल्लिङ्गज्ञानं तदित्यर्थः। व्यप्तिविशिष्टलिङ्गज्ञानमेवेत्यर्थः॥ स इति॥ पर्वतादिः। अत एवोक्तं सुधायामिति॥ प्रत्यक्षवच्च प्रामाण्यमित्येतव्द्याख्यानसुधायामित्यर्थः॥
उपलक्षणमेतत्। अन्यथाख्यातिवादिसिद्धान्ते लिङ्गज्ञान्य करणतयाभ्युपगतत्वादिति 2 सुधोक्तिरपि ग्राह्या। यत्तु पद्धतौ लिङ्गस्य सम्यग्ज्ञानं वा सम्यग्ज्ञानतं वा लिङ्गमित्युक्तम्। तत्वभ्युपगमवादेन वा लिङ्गसत्वस्थलाभिप्रायेण वा नेयम्। वस्तुतस्तु व्याप्तिप्रकारमनुसृत्यानुमितिं
जनयतीत्यत्रैव तात्पर्यादना 3 स्थयक्तावपि सुधानुरोधा 4 ल्लिङ्गज्ञान 5 एव तात्पर्यमिति भावः। अस्मिन्पक्षे क्रियायोगव्यवच्छिन्नत्वमेव करणत्वं न सव्यापारत्वमित्येके। लिङ्गज्ञानं करणं तज्जन्याव्याप्तिस्मृतिर्याव्यापारः। शाब्दज्ञाने शक्तिस्मृतिवदित्यन्ये। मन एव करणं व्याप्यज्ञानं व्यापारः; न चानुमितेर्मानसप्रत्यक्षत्वापत्तिः संस्कारव्यापारकत्व एव तथात्वात् व्यापारप्राधान्यविवक्षया लिङ्गज्ञानं करणमित्युक्तिरित्यपरे॥
इति लिङ्गपरामर्शस् करणत्वम्

24.15

1.तथा धू-ग.ट.रा. 2.ति युक्तिर-ड. 3.नवस्थयोभयोक्ता -ट. 4.धोलिं -ट. धेन लिं -ठ. 5.नं ए - ट.
अथ तर्कस्यानुमानान्तर्भावः

24.16

अनुमानं द्विविधं साधनानुमानं दूषणानुमानं दूषणानुमानं चेति। तत्राद्यमद्रिरग्निमान् धूमवत्वादित्यादि। द्वितीयमपि द्वेधा 1 दुष्टत्वप्रमितिसाधनम् तर्कश्चेति। तत्राद्यं नेदं स्वसाध्यसाधकम् असिद्धत्वादित्यादि। द्वितीयं
यदि निरग्निकः स्यात् तर्हि निर्धूमः स्यादितत्यादि। अस्य दूषणानुमानत्वं च परोक्तनिरग्निकत्वादिप्रतिक्षेपरूपत्वात्॥
अथ तर्कस्यानुमानान्तर्भावः।

24.16

"तर्काप्रतिष्ठानादप्यन्यथानुमेयमि"ति ब्रह्मसूत्रे सूचितं तर्कस्यानुमाना 2 न्तर्भावं वक्तुं पुनर्द्विविधं साधनानुमानं दूषणानुमानं चेत्यादिपद्धत्युक्तं विवृण्वान आह -- अनुमानमिति॥ ननु परोक्तनिरासकस्यैव दूषणानुमानत्वेन तर्कस्य कथं तथात्वमित्यत आह-- अस्येति॥ स्वमते तर्कस्वरूपमग्रे लिलक्षयिषुः परोक्ततर्कलक्षणान्यनूद्य निराह --
1.ष्टिप्र- क.ग.ट.रा. 2.न प्रमाणान्त -ट.ठ.ड.
पु - 140. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तत्र केचित् -- व्याप्यारोपेण व्यापकारोपः तर्कः। स च प्रमाणानुग्राहक एव। न तु प्रमाणमित्याहुः। तन्न। बाष्पे धूमभ्रमजन्यभ्रमरूपानुमितावतिव्याप्तेः।
नापि व्याप्यारोपे व्यापकप्रसञ्जनं तर्कः। प्रसञ्जनस्य तर्कत्वे आत्माश्रयात्। आरोपत्वे उक्तदोषात्॥
न च व्यापकाभावववत्तया ज्ञाते व्याप्यारो 1 पाद्व्यापकारोपस्तर्कः। एवं 2 चानुमित्याभासे ना 3 तिव्याप्तिः। व्यापकाभाववत्तया ज्ञाते ऽनुमित्यनुदयात्। तर्कस्य व्यापकीभूतनिर्धूमत्वाभाववत्तया ज्ञात एव भवतीति वाच्यम्।
4 अत्र केचिदित्यादिना॥ तार्किकादय इत्यर्थः। व्याप्यारोप इति निमित्तसप्तमीयम्॥
तत्र 5 किं व्याप्य 6 भ्रमजन्य व्यापकभ्रम 7 स्तर्क इत्यभिमतं, तन्निमित्तक 8 व्यापकप्रसञ्जनं वा, व्यापकाभाववत्तया ज्ञाते व्याप्यारोपनिमित्तकव्यापकभ्रमो वा, व्यापकाभाववत्तयावधृते व्याप्यारोपनिमित्तकव्यापकारोपो वा, तादृशव्यापकाहार्यारोपो वा, अव्य 9 वस्थिताभ्युपगम्यमानको 10 ठ्युपाधिकनिष्टत्वप्रतिसंधानं वेति 1 षट्कल्पान् क्रमेण मणिकण्ठोक्तदिशा निराह -- बाष्प इत्यादिना । शङ्खत्वलिङ्गजन्यानुमितेर्व्याप्यज्ञानस्य चारोपत्वसिद्ध्यर्थमाह -- अशङ्खं शङ्खतयावगम्यते॥
1. पे व्याप- ग.ट.रा. 2. च नानु -क.ग.ट.रा. 3.न इति न-क.ग.ट.रा. 4.तत्र -ठ. 5.नन्वत्र-ठ. 6.व्याप्तिभ्र- ट. 7.जन्यपदमधिक-ट. 8.त्तव्या -ट.ठ.ड. 9.वहिता-ठ. 10 प्याप्तपुपाधि-ड. 11. षड्वि-ठ.
तस्या -नुना-न्तर्भावः) तर्कवादः पु - 141.
यत्राशङ्खं शङ्खतयावगम्य पीतोयं शङ्खो न शुक्ल इति प्रत्यक्षभ्रमानन्तरं शङ्खत्वाच्छुक्ल इत्यनुमिनोति तस्यामनुमितावतिव्याप्तेः॥
अथ ज्ञात इत्यस्यावधृत इत्यर्थः। शक्लत्वानुमितौ तु न शुक्लत्वाभाव्यावधारणम्। शुक्लत्वाभावग्राहकप्रत्यक्षस्यान्यथासिद्धमुपजीव्यैवानु 1 मितिप्रवृत्तिरिति चेन्न। तर्केपि निर्धूमत्वरूपव्यापकाभावस्यावधृतत्वेन
निर्धूमत्वारोपस्यासंभवात्। आहार्योयमारोपः। स च बाधितेपि भवतीति चेन्न। पुरुषत्वाभावनिश्चयानन्तरं प्रत्यक्षादाहार्यव्याप्यकरचरणाद्यारोपाज्जन्ये प्रत्यक्षे आहार्यपुरुषारोपेतिव्याप्तेः॥
नापि वर्धमानोक्तरीत्या अव्यवस्थिताभ्युपगम्यमानकोट्युपाधिकानिष्टसत्वप्रतिसन्धानं तर्कः। निरग्निकत्वस्याव्यवस्थितत्वं हि संशयो विपर्ययो वा न द्वयमपि। यद्यर्थशिरस्कनिरग्निकत्वज्ञानं प्रमेति
वक्ष्यमाणत्वात्।
व्यापकाभाववत्तयावगत इत्यंशोपपादनाय पीतोयमित्यादि। अन्यथासिद्धिमौपाधिकभ्रमत्वम्। निर्धूमत्वेति॥ निर्धूमत्वरूपं यद्वह्न्यभावव्यापकं तदभावस्य धूमसत्वस्यावधृतत्वेनेत्यर्थः। तथाचासंभवि लक्षणमिति भावः।
1. मान प्र - ट.रा.
पु - 142. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
एवं प्रतिसन्धानमपि संशयो विपर्ययो वा न द्वयमपि। तर्हि स्यादित्यर्थशिरस्कनिर्धूमत्वज्ञानं प्रमेति वक्ष्यमाणत्वात्॥
तस्मात्तर्को ऽनुमानविशेष एव। व्याप्तिबलेन गमकत्वात्। संशयोत्तरप्रत्यक्षं व्याप्तबलेन गमकमपि न व्याप्तिज्ञानकरणकम्॥
मन्मते त्वङ्गीकृतेन साध्याभावेन सहानङ्गीकृतस्य साधनाभावस्य व्यापकत्वप्रमा 1 वा साध्याभावाङ्गीकारनिमित्तका साधनाभावस्याङ्गीकर्तव्यत्वप्रमा वा
आहार्यो बुद्धियूर्वकः। वक्ष्यमाणत्वादिति॥ ननु तर्कस्येत्यादिना, कथं तस्य प्रामाण्यमित्यादिना वा, ग्रन्थेनेत्यर्थः। व्याप्तिबलेनेति॥ आपाद्यापादकयर्व्याप्तिबलेन साध्यसाधनयोरविनाभावगमकत्वादनुमानविशेष एवेत्यर्थः। विलक्षणप्रकारत्वाद्विशेषपदप्रयोगः॥
नन्वेवं यत्र स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमानयमिति
विशेषदर्शने सति 2 पुरुष एवेति प्रत्यक्षं तदप्यनुमानं प्रसज्यते इत्यत आह-- संशयेति॥ अत्र प्रत्यक्षपदेन व्याप्यदर्शनं पुरुष एवेति फलूभूतं प्रत्यक्षं च 3 गृह्यते । तत्राद्यं यत्र करादि तत्र पुरुषत्वमिति व्याप्तिबलेन पुरुषत्वगमकमपि पुरुषत्वप्रत्यक्षं न व्याप्तिज्ञानकरणकं किं तु चक्षुरादिकरणकमेव अतो न तस्यानुमान 4 त्वमिति भावः। साध्याभावेन निरग्निकत्वादिरूपेण निर्धूमत्वादिरूपसाधनाभावस्य व्यापकत्वप्रमा तर्क इत्युच्यते।
1.इतः ऽतर्क्यतेऽ इति पर्यन्तं नास्ति- ग.ट.रा. 2.यत् इत्याधिकम् -ठ. 3.ग्राह्यम्-ठ. 4. फलपदमधिकम् -ट.ठ.ड.
तस्या-नुना-न्तर्भावः) तर्कवादः पु - 143.
तत्करणिका साधनस्य साध्येन सह व्याप्त्यनुमितिस्तु तर्कण 2 मिति व्युत्पत्या तर्कः॥
एतदेवाभिप्रेत्य पद्धतौ कस्यचिदर्थस्याङ्गीकारेर्ऽथान्तरापादनं तर्क इति प्रमाणलक्षणटीकायां च व्याप्याङ्गीकारे ऽनिष्टव्यापकप्रसञ्जनं तर्क इत्युक्तम्। स्पष्टयिष्यते चैतदनुपदमेव॥
करणव्युत्पत्यैवेत्याह-- तर्क्यतेनेनेतीति॥ आपादकस्यासिद्धिनिरासायोक्तम् अङ्गीकृतेनेति। इष्टापत्तिनिवृत्यर्थं अनङ्गीकृतस्येत्युक्तम्। यदि घट उपे 3 यते तर्हि पटोप्यङ्गीकार्य इत्यादावतिव्याप्तिवारणाय साध्याभावसाधनाभावपदोक्तिः। स किं प्रति करणमित्यत आह -- तत्करणिकेति॥ तर्कणिति व्युत्पत्येति॥ भावव्युत्पत्येत्यर्थः। एतदेवेति॥ पद्धतावापादनमित्यस्य 4 लक्षणटीकायां प्रसञ्जनमित्यस्य च साधनाभावस्य व्यापकत्वप्रमै 5 वेत्यर्थः इति भावः। एतच्चोपलक्षणम्। व्याप्याङ्गीकारे ऽनिष्ठव्यापकप्रसञ्जनमिति तत्वनिर्णये चेत्यपि ध्येयम्॥
6 कथं व्याप्त्यनुमितिजनकत्वमस्य तर्कस्येत्यतो वा कथं व्याप्याङ्गीकारेणानिष्टस्य व्यापकत्वप्रमा 7 प्रकार इत्यतो वाह-- स्पष्टयिष्यत इति॥ कथं तस्य प्रामाण्यमित्यादिग्रन्थे 8 न
कृतशङ्कानिवृत्यर्थमुपोद्धोतोक्त्यनन्तरमत्र च --
1.तित-ग.ट.रा. र्2.कयामी-ग.रा. 3.उपगम्यते-ठ.ड. 4.प्रमाणपदमधिकम्-ट.ड. 5.मेत्येतदिति भावः-ठ. मेत्यर्थः इति भा-ड. 6. ऽएतदेवेतिऽ इत्यादिकः, एतावान् ग्रन्थः, ऽस्पष्टयिष्यत इतिऽ इत्यतः - परमस्ति- ड. तत्राप्येवमेवार्थः इत्यधिकम् -ट.ठ. 7.माकार-ठ.ड. 8.नेत्यर्थः -ठ.
पु - 144. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ननु तर्कस्यानुमानत्वे आपादकं निरग्निकत्वं लिङ्गम् आपाद्यं नर्धूमत्वं लिङ्गीति वाच्यम्। तथाच हेतोरसिदधिर्बाधो ऽप्रसिद्धान्तश्च। सिद्धान्तिना 1 पक्षे निरग्निकत्वनिर्धूमत्वयोरस्वीकारात्। धूमस्य प्रतीतत्वाच्चेति चेन्न॥

साधनरूपस्यैव लिङ्गस्य असिद्धिर्देषो न त्वापादकरूपस्य। आपादकत्वव्याघातात्। यद्व्यापादकं तत्पराभ्युपगतमेव भवति॥
अत एव व्याप्यस्य पक्षनिष्ठत्वे परा 2 नभ्युपगमनिमित्तकज्ञानविषयव्यतिरेकज्ञानभञ्जनीयत्वमापादकत्वम्। कुलीरस्येवापादाकस्य स्वप्र 3 सूत-
निरग्निकत्वप्रमे 4 त्यादिग्रन्थेनेत्यर्थः।
"प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः"।
इत्यादिभक्तिपादीयानुव्याख्यानसुधयोरुक्तं विवृण्वान आक्षिपति-- नन्विति॥ असिद्ध्यपसिद्धान्तौ व्यनक्ति-- सिद्धान्तिनेति॥ अनुमानप्रयोक्त्रेत्यर्थः। बाधं व्यनक्ति -- धूमस्येति॥ अत एवेति॥ पराभ्युपगतस्यापादकत्वादेपेत्यर्थः। व्याप्यस्य निरग्निकत्वादिरूपव्याप्यस्य पर्वतादिनिष्ठत्वेन यः पराभ्युपगमः तन्निमित्तकं यज्ज्ञानं निर्धूमत्वज्ञानं तद्विषय 5 त्वस्य निर्धूमत्वादेर्यो व्यतिरेकः धूमवत्वं तज्ज्ञानेन भञ्जनीयत्वं यत्तदेवापादकत्वमित्यर्थः। कुत इत्यत आह-- कुलीरस्येवेति॥ कुलीरस्य जलजन्तुविशेषस्य यथा स्वोत्पन्नापत्यहत्वं तथैवापादकस्यापि स्वोत्पन्ननिर्धूमत्वाभ्युपगमरूपयुक्तिप्रतिहतत्वादित्यर्थः।
1.सिद्धान्तिनेति नास्ति-ट. 2.राभ्यु- ग.रा. 3. स्वसू-ग.रा. 4.प्रमापदं न-ट.ठ. 5. यस्य-ट.ठ.ड. 6.व्याप्यस्येत्यधिकम् -- ठ.
तस्यां-नुना-न्तर्भावः) तर्कवादः पु - 145.
युक्त्या 1 प्रतिहतत्वादित्याहुः। भज्यते हि निरग्निकत्वं स्वाभ्युपगमनिमित्तकज्ञानं प्रति विषयस्य निर्धूमत्वस्य व्यतिरेकरूपसधूमत्वस्य ज्ञानेन। कथमन्यथा न चायं निर्धूमः तस्मान्न निरग्निक इति विषय 2 विपर्यवसानम्। तदभावे 3 तर्क एवाभासः स्यात्। न चात्र निरग्निकत्वं साधनत्वेनोपात्तम्। तथात्वे हि यदीति स्यादिति च न स्यात्। किं तु निरग्निकत्वादिति स्यात्॥
एवं साध्यरूपस्यैव लिङ्गिनो बाधो दोषः। नत्वापाद्यरूपस्यापाद्यत्वव्याघातात्। यद्व्यापाद्यं 4 तदभिष्टमेव। प्रमाणबाध एवा 5 निष्टत्वम्। अत एवापादकाभिमतभञ्जकज्ञानविषयव्यतिरेकप्रतियोगित्वमापाद्यत्वत्याहुः।
आहुस्तार्किका इत्यर्थः। उक्तज्ञानभञ्जनीयत्वं व्यनक्ति-- भज्यते हीति॥ तदभावे विपर्यये पर्यवसानाभाव
इत्यर्थः॥
"व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये।
अनिष्टाननुकूलत्वमिति तर्काङ्गकम्॥"
इत्युक्ताङ्गपञ्चकमध्ये एकाङ्गविकलत्वादाभासः स्यादित्यर्थः।
असिद्धिं निरस्य बाधं निराह-- एवमिति॥ एत एवेति॥ प्रमाणबाधितस्यैवापाद्यत्वादेवेत्यर्थः। आपादकाभिमतं यन्निरग्निकत्वं --
1.क्त्यपत्य-ग.रा. 2.विपर्ययपर्यव-ग.ट.रा. 3.वे चेत -ग.ट.रा. 4.तत्प्रमाणबाधितमेव। अनिष्टं ह्यापाद्यम् प्रमाण-ग.ट.रा. 5.वचा -ग.रा.
पु - 146. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न चात्र निर्धूमत्वं साध्यम्। तथात्वे हि तर्हीति स्यादिति च न स्यात्। किन्तु 1
निर्धूमोयमिति स्यात्। न च निर्धूमोयमिति ज्ञानस्य यावान्विषयस्तावानेव तर्हि निर्धूमः स्यादित्यस्यापि विषयः। अधिकस्य तर्हि स्यादिति शब्दयोरर्थस्याप्युल्लेखात्॥
अत एव नापसिद्धान्तोपि। स हि सिद्धान्त विरुद्धस्य साधने नत्वापादने। तस्मात्प्रसङ्गरूपानुमाने ऽसिद्धिबाधापसिद्धान्ता भूषणान्येव। न तु दूषणानि॥
अत एवोक्तं साधनानुमानवैधर्म्यादेवास्य प्रसङ्गानुमानत्वम्। दृश्यते च साधनानुमानेष्वपि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिषु अन्योन्यं वैधर्म्यम्।
तद्भञ्जक 2 भूतं यज्ज्ञानं सधूमत्वज्ञानं तद्विषयो यो व्यतिरेकः सधूमत्वं तत्प्रतियोगित्वमित्यर्थः। यव्द्यतिरेकज्ञानेनापादकं भज्यते सत्वमापाद्यत्वम्। भज्यते हि निर्धूमत्वव्यतिरेकसधूमत्वज्ञानेन निरग्निकत्वम्। न चायं निर्धूमः तस्मान्न निरग्निक इति विपर्यये पर्यवसानात्। अन्यथा तर्कस्याभावसत्वापत्तेरिति भावः। ननु निर्धूमत्वसाधने कथं न बाध इत्यत आह-- न चात्रेति॥
अपसिद्धान्तदोषं च प्रागुक्तं निराह-- अत एवेति॥ निर्धूमोयमित्यसाधनादेवेत्यर्थः। ननु साधनानुमानवैलक्षण्यात्कथमस्यानुमानतेत्यत आह-- अत एवेति॥ तस्य विपरणं उक्तात् यदि 3 तर्ह्यादिशरिस्कत्वादिरूपाद्वैधर्म्यादिति।
1.किञ्च -ग.रा. 2.नी -ड. 3.की-ट.ठ. 4.यदीतिन-ठ.ड.
तस्या-नुना-न्तर्भावः) तर्कवादः पु - 147.
तेष्ववान्तरवैधर्म्येपि व्याप्तिबलेन गमकत्वादनुमानत्वं चैतत्तकारैपि समम् 1॥
नन्वेवं 2 बाधादेरदोषत्वं कथं तस्य प्रामाण्यमिति चेच्छृषु। सधूमोपि निरग्निकोस्त्विति शङ्गा हि द्वेधा सम्भवति। निरग्निकत्वं प्रति निर्धूमत्वे व्यापकत्वस्यैवाभावेन वा सत्यपि व्यापकत्वे पक्षे निर्धूमत्वस्यापि सत्वेन वा॥
वैधर्म्यमिति॥ विपक्षशून्यत्वसपक्षशून्यत्वतदुभयवत्वादिरूपं वैधर्ममित्यर्थः॥
"सर्वेषु केषुचिद्वापि सपक्षेषु कृतान्वयि।
विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि"॥
इत्यादेरिति भावः। एतेनापादकस्यासिद्धिरदूषणमित्यादि पद्धतिवाक्यम् विवृत्तं ध्येयम्। अनुमासामान्यलक्षणोपेतत्वात्केवलान्वय्यादिकमनुमानमेवेत्याशङ्कामनूद्य साम्यमाह-- तेष्विति॥ कथमिति॥ निर्धूमत्वज्ञानरूपफलस्य बाधितविषकस्याप्रमात्वान्निरग्निकत्वज्ञानस्य च करणत्वादप्रमाजनकस्यासिद्धविषयस्य कथं भ्रमरूपस्य च प्रमाणकरणत्वरूपं प्रामाण्यं कथमित्यर्थः॥
नैवं फलकरणभावः। किं त्वन्यथैव॥ तत्र च फलीभूतं करणभूतं द्वयमपि ज्ञानं प्रमारूपमेवेति लक्षणटीकापद्धतिसुधानुसारेण त्रेधा परिहारं अत्र च निरग्निकत्वमित्यादिना विवक्षुरुपोद्धातमाह-- श्रुण्वित्यादितना॥ तर्कः शङ्कावधिरित्युक्तत्वेन तस्य शङ्कानिवर्तकत्वादिति शङ्का हीत्युक्तम्।
पु - 148. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तत्राद्यो निर्धूमत्वस्य व्यापकत्वप्रदर्शकेन यदि निरग्निकस्तर्हि निर्धूम इत्यनेन निरस्यते। यदि गवयो गोसदृशस्तर्हि गौरपि गवयसदृशी यदि जीवन्गृहे नास्ति तर्हि बहिरस्ति, यदि धूमस्तर्हि वह्निरित्यादौ यदि तर्ह्यैः स्वसमभिव्याहृतपदार्थे ऽन्यथानुपपत्तिरूपव्याप्तिबोधकत्वस्य व्युत्पत्तिसिद्धत्वात्॥
अत एव सुधायां यदीदं तर्हीदमित्येव व्याप्तिग्रह उक्तः। यदियुक्तेन स्याच्छब्देन तु --
तर्कनिवर्त्यो शङ्केत्यर्थः। कथमित्यत आह-- यदीति॥ गृह्यमाणगतसादृश्यज्ञानात्स्मर्यमाणगतसादृश्यज्ञानमुपमानमिति शाबरोपमानस्योदाहरणम्। यदि गवय इति ॥ जीवित्वे सत्वे गृहे ऽसत्वमनुपपद्यमानं बहिःसत्वं कल्पयतीत्यर्थापत्तिप्रमाणस्योदाहरणम्-- यदि जीवन्निति॥ प्रसिद्धानुमानस्योदाहरण्-- यदि धूम इति॥ आदिपदेन यदि चैत्रमैत्रयोरन्यतरत्वे सति यद्यं चैत्रस्तर्ह्यन्यो मैत्र इत्यादिग्रहः। अत एवेति॥ यद्यादिशिरस्कस्थले व्याप्तिबोधकत्वस्य व्युत्पत्तिसिद्धत्वादेव॥
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः।
इत्युक्ते साधनं 1 नो किं न ह्याज्ञैवात्र साधिका॥

इति भक्तिपादीयानुव्याख्यानसुधायां यदीत्येव व्याप्तिग्रह उक्त इत्यर्थः। नन्वेवमापाद्यापादकस्थ 2 ल स्याच्छब्दद्वयं व्यर्थम्। कृत्वाभावादित्यत आह-- यदि युक्तेनेति॥ यदिशब्दयुक्तेनेत्यर्थः।
1.नेनो -ट. 2.स्थस्या -ठ.ड.
तस्या-नुना-नतर्भावः) तर्कवादः पु - 149.
स्वसमभिव्याहृत 1 निरग्निकत्वस्य पक्षे पराभ्युपगममात्रं बोध्यते। तर्हियुक्तेनापि स्याच्छब्देन निर्धूमत्वस्य पक्षे ऽनिष्टत्वं बोध्यते। विपर्यये पर्यवसानपर्यन्ते तर्के तथैव व्युत्पत्तेः॥
तेनैव स्याच्छब्देन द्वितीयो ऽपि निरस्तः। यद्यतिथिरागच्छेत्तर्हि भोजयितव्य इति तु विपर्यय 2 पर्यवसानाभावात्संभावनामात्रं न तु तर्क इति तवापि संमतम्। अत्र च निरग्निकत्वं प्रति निर्धूमत्वस्य 3 व्यापकत्वं लिङ्गम्। तज्ज्ञानं करणम्। निरग्निकत्वाभावं प्रति निर्धूमत्वाभावस्य व्याप्यत्वं लिङ्गं तज्ज्ञानं फलम्। द्वयमपि 4 प्रमारूपमेव।
तेनैवेति॥ तर्हीतिशब्दयुक्तेन स्याच्छब्देन निर्धूमत्वस्य पक्षे सत्वमिति पक्षो ऽपि निरस्त इत्यर्थः॥
नन्वेवं तर्हि भोजयितव्य इत्यादावप्यनिष्ट 5 बोधः स्यात्। स्या 6 त्पर्यायस्य तव्यप्रत्ययस्य सत्वादित्यत आह-- यद्यतिथिरिति॥ संभावनामात्रमिति॥ योग्यतामात्रमित्यर्थः। तवापीति॥ तथैव मणिकण्ठोक्तेरिति भावः। अस्त्वेवं तावता कथं प्रामाण्यमित्यत आह-- अत्र चेति॥ लिङ्गीति॥ अनुमेयं वस्त्वित्यर्थः। द्वयमपीति॥
लिङ्गज्ञानं लिङ्गज्ञानं चेतिद्वयोमित्यर्थः॥
1.तस्य नि-ग.ट.रा. 2. ये प -ग.ट.रा. 3.च इत्यधिकम्-क.ग.ट.रा. 4.पि च प्र-ग.ट.रा. 5.ष्टत्व- बो-ट.ठ. 6.एकमेव स्यात्पदम् -ट.ठ.
पु - 150. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
कारणाभावे कार्याभावनियमात्। व्यापकाभावस्य व्याप्याभावं प्रति व्याप्यत्वाच्च॥
अत एव प्रसङ्गाशेनैव निर्धूमत्वाभावस्य निरग्निकत्वाभावेन व्याप्तेः सिद्धत्वादेव विपर्यये पर्यवसानेन 1 चायं निर्धूम इत्यनेन तस्य पक्षधर्मतामात्रं प्रदर्श्य तस्मान्न निरग्निक इत्यनेन साध्यमुक्तम्। न तु त्वयाशङ्कितं पक्षे निरग्निकत्वज्ञानम् करणम्। नापि पक्षे निर्धूमत्वज्ञानं फलम्। येन द्वयोरप्यप्रमात्वं स्यात्॥
असिद्ध्याद्युक्तिस्तु निरग्निकत्वं प्रति
ननु कथं लिङ्गज्ञानस्य प्रमात्वं तस्यासिद्धत्वात्। न च यदि निरग्निकस्तर्हि निर्धूम इत्यनेनाव्यापगकत्वशङ्का निरस्यत इति 2 वाच्यम्। हेत्वभावादित्यत आह-- करणेति॥ अग्निरूपकरणाभावे 3 कार्याभावनियमात्। यदिनिरग्निक इत्यादिना सा शङ्का निरस्यत इति निर्धूमत्वस्य व्यापकत्वरूपं लिङ्गं नासिद्धमिति भावः। ननु तावता व्याप्यत्व रूपलिङ्गिनो ज्ञानं प्रमेति कुतो व्याप्यत्वस्यासिद्धेरित्यत आह -- व्यापकाभावस्येति॥ निर्धूमत्वाभावस्य निरग्निकत्वरूपव्याप्यस्याभावं प्रतीत्यर्थः। तत्र ज्ञापकमाह -- अत एवेति॥
ननु यद्येवमसिद्धिबाधादिकमाशङ्क्य तर्के न दोष इत्युक्तं तत्कथमुक्तरीत्यासिद्ध्यादेरभावादित्यत आह-- असिद्ध्याद्युक्तिस्त्विति॥
1.ने नायं -ग.ट.रा. 2.इति तन्नहे -ट. 3.इति वाच्यम् तत्र ह- ठ. 3.धूमरूप्येत्यधिकम् -ठ.ड.ट.
तस्या-नुना-न्तर्भावः) तर्कवादः पु - 151.
निर्धूमत्वस्य च 1 व्यापकत्वप्रदर्शनार्थं तर्कवाक्येनोपत्ते ये 2 निरग्निकत्वनिर्धूमत्वरूपे व्याप्यव्यापके तदभप्राया॥
तस्माद्यद्याद्यर्थालिङ्गितस्यार्थस्याबाधान्न तर्कस्याप्रामाण्यम्॥
एतदेवाभिप्रेत्य सुधायां -- यद्यलङ्कृतस् निरग्निकत्वादेरसिद्धत्वं
नास्तीति तथासति यदीति 3 स्यादिति च न स्यादिति चोक्तम्। अयं 4 पक्षः, प्रसङ्गरूपानुमाने च न साध्यवदापाद्यस्य प्रमाणविरोधादि दूषणमिति प्रमाणलक्षणटीकायां प्रसङ्गरूपानुमाने बाधापसिद्धान्तयोरदूषणत्वादिति सुधायां चोक्तः॥
एतदेवाभिप्रेत्योक्तमनुव्याख्याने --
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य न दूषकः॥
इति। प्रशङ्गः अनुग्राह्यानुमानाङ्गभूतान्वयव्याप्तिलिङ्गभूतायाः परानिष्ठायाः व्यतिरेकव्याप्तेः प्रदर्शनम्। तदर्थतया तत्प्रयोजकतया हृदादिनिष्ठा --
सुधायामिति॥ भक्तिपादीयसुधायामित्यर्थः। उक्तमिति॥ भक्तिपादीयानुव्याख्याने । स्वोक्तपक्षानुगणतयार्थमाह-- प्रसङ्ग इत्यादिना ॥
1. च इति न-ग.ट.रा. 2.येन -ग.ट.रा. 3.यदीति इति न -स्यादितिचोक्तम्. इत्येवास्ति-ग.ट.रा. 4.च
पदमधिकम् -ग.ट. तु-रा.
पु - 152. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
निरग्निकत्वनिर्धूमत्वादयः प्रोक्ताः न तु पक्षनिष्ठतया प्रोक्ताः। तस्मान्न सिद्धान्तस्य दुषका इत्यर्थः॥
यत्तु सुधायां प्रसङ्गः अङ्गीकार्तव्यतया ज्ञापनमिति व्याख्यानम्। तद्वक्ष्यमाणतृतीयपक्षस्थत्वात्तदभिप्रायम्। यद्वापादगकरूपलिङ्गस् निरग्निकत्वस्य पक्षे पराभ्युपगतत्वमेव पक्षसंबन्ध इति नासिद्धिः॥
युक्तं चैतत्। यक्षानुरूपबलिन्यायेन विङ्गिनो निर्धूमत्वस्यापि पक्षे ऽभ्युपगमनीयत्वस्यैव पक्षसंबन्धत्वात्। धूमरसादेः पक्षे संयुक्तसमवेतत्वादिना ज्ञातस्यैवाग्निरूपादिसाधकतया तत्र संयोगसमवायादेरिव निरग्निकत्वस्यापि पक्षे पराभ्युपगतत्वेन ज्ञातस्यैवापादकतयाभ्युपगमस्यैव संबन्धताया उचितत्वात्॥
वक्ष्यमाणेति॥ अथवेत्यादिना वक्ष्यमाणेत्यर्थः। बाधासिद्धी प्रकारान्तरेण निराकुर्वन् परोक्तरीत्या निरग्निकत्वनिर्धूमत्वज्ञानयोः करणत्वफलत्वे ऽभ्युपेत्य
तर्कस्य प्रामाण्यमाह -- यद्वेति॥ यक्षनुरूपेति॥ यक्षस्योग्रत्वे तदनुरोध 1 बलिः अत्युग्रत्वे अतिबलिः मृदुत्वे अल्पबलिरिति न्यायेनेत्यर्थः। धूमेति॥ धूमश्च रसश्च तदादेरित्यर्थः। एवमग्निश्चरूपं च तदादेः अग्निरूपादेः साधकतयेत्यर्थः। यथाक्रममन्वयः॥
1. धेन व - ठ.
तस्या-नुना-न्तर्भावः) तर्कवादः पु - 153.
दृश्यते च कृत्तिकोदयाधोदेशनदीपूरादिरूपसाधनानुमानस्यापि रोहिण्युदयोर्ध्वदेशादिरूपपक्षे ऽभावेपि पक्षनिष्ठसाध्यसमानकालीनत्वपक्षनिरूप्याधोदेशस्थत्वादिः त्वन्मते ज्ञानत्वादिरूपप्रमेयत्वादेरपि पक्षूभूतशब्देन स्वरूपप्रत्यासन्नज्ञानसमवेतत्वादिश्च परंपरासंबन्धः॥
अस्मिन्पक्षे तर्कस्य प्रामाण्यं निरग्निकत्वनिर्धूमत्वयोः पक्षे ऽभ्युपगतत्वाभ्युपगमनीयत्वरूरूपेण --

ननु -- संयोगसमवायाभ्यामन्यस्य कथं पक्षधर्म 1 ताघटकसंबन्धत्वं क्वाप्यदर्शनादित्यत आह -- दृश्यते चेति॥ कृत्तिकोदयश्चाधोदेशनदीपूरश्च तदादिरूप 2 स्येत्यर्थः। रोहिण्युदय आसन्नः कृत्तिकाया उदितत्वात्, ऊर्ध्वदेशो वृष्टिमान् अधोदेशे नदीपूर 3 वत्वात् इत्यादिरूपानुमानस्येत्यर्थः। पक्षेति॥ रोहिण्युदयरूपपक्षनिष्ठासन्नत्वरूपसाध्यसमानकालीनत्वरूपः पक्षसंबन्ध कृत्तिकोदयरूपलिङ्गस्य दृश्यते। ऊर्ध्वदेशरूपपक्षनिरूप्यो यो अधोदेशः तत्स्थत्वरूपपक्षसंबन्धो नदीपूरस्य दृश्यते। अन्यथा न्यायमते तयोरपक्षध्मताकत्वेन ताभ्यां रोहिण्युदयासत्याद्यनुमित्यनुदयापातः। न चेष्टापत्तिः। अनुभवविरोधादिति भावः। त्वन्मत इति॥ न्यायमते शब्दो ऽभिधेयो ज्ञेयत्वादित्यत्र ज्ञेयत्वं नाम शब्दस्य परंपरासंबन्धेन ज्ञानत्वमेव। प्रमेयत्वं च प्रमात्वमेव 4 । न ततो ऽन्यत्। तथा च तस्य पक्षधर्मताघटकः
ज्ञानस्यार्थस्य च 5 स्वरूपसंबन्धः ज्ञानादिना च ज्ञानत्वादेः समवाय इति परंपरासम्बन्धो दृश्यत
इत्यनुकर्षः। प्रामाण्यमिति॥ युक्तिमित्यन्वयः। प्रसङ्गार्थतयोत्यत्र सुधोक्तिमनुरुध्याह -- अथवेति॥
1.तादि घ-ट. 2. पेत्य-ट.ड. 3.रत्वा-ट. रादित्य-ठ. 4.प्रमेयत्वं चेत्यादिकं नास्ति -ठ. 5.च इति न -ट.ठ.
पु-154. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
सत्वात्तेन च रूपेण तद्विषययोर्निरग्निकत्वनिर्धूमत्वज्ञानरूपयोः करणफलयोः प्रमात्वाद्युक्तम्॥
अयं च पक्षः पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वादिति पद्धत्युक्तः। अथवा यदिनिरग्निकः स्यादित्यस्य यदिनिरग्निकत्वाङ्गीकार इत्यर्थः। तथाङ्गीकारश्च सिद्ध एव। अन्यथा तर्कस्याप्यनुत्थानात्। एवं तर्हि निर्धूमः स्यादित्यस्य निर्धूमत्वेनाङ्गीकर्तव्य इत्यर्थः। आपादनं हि अङ्गीकर्तव्यतया ज्ञापनम्। न पुनः सद्भावप्रतिपादनम्। यदि विषं भक्ष 1 यिष्यसि तर्हि मरिष्यसीत्यादिवत्। नचानङ्गीकारे स्वक्रियाविरोधा 2 दिरूपाङ्गीकारयोग्यता बाधिता॥
नन्वङ्गीकर्तव्यताज्ञापनेपि कथं बाधितत्वनिरास इत्यत आह-- न चेति॥ निर्धूमत्वस्याङ्गीकर्तव्यता ह्यङ्गीकारयोग्यता 3 स्वक्रियाविरोधरूपा 4 धूमरूपकार्यमङ्गीकृत्याग्निरूपकारणाभावाङ्गीकारे कार्योद्देशेनकारणे 5 प्रवृत्तिरूपस्वक्रियाविरोधे इत्येतन्निर्धूमत्वमङ्गीकार्यमिति भङ्ग्यन्तरेणो 6 च्यते। तथा च सा न प्रमाणबाधितेत्यर्थः। यद्वाङ्गीकर्तव्यताज्ञानं कथमनिष्टम्। अनिष्टस्यैवापाद्यत्वादित्य आह -- न चेति॥ पूर्वं धूमोस्त्वित्युक्तत्वेन निर्धूमत्वाङ्गीकारे स्वक्रियाविरोधरूपाङ्गीकारायोग्यता न च बाधिता। येनानिष्टापादनं न स्यादित्यर्थः॥
1.क्षयसि-ग.ट.रा. 2.आदिपदं न -ग.ट.रा. 3.सा इत्यधिकम्-ठ. 4.स्वक्रिया विरोधजिज्ञासा इत्यधिकम्-ठ. 5.ण प्र-ठ. 6.णोद्भाव्यते -ठ.
तस्या-नुना-न्तर्भावः) तर्कवादः पु- 155.
एवं च पर्वतो निर्धूमत्वेनाङ्गीकर्तव्यः निरग्निकत्वेनाङ्गीकृतत्वात् हृदवत् इत्यनुमानमेव तर्क इति साधनानुमान इव तर्केप्यसिद्ध्यादिकं दोष एवेति न तर्कस्य साधनानुमानाद्वैषम्यमिपि॥
अत्र च द्वितीये पक्षे निरग्निकत्वमेव लिङ्गम्। अभ्युपगमस्तु तस्य पक्षेण संबन्धः। तृतीये त्वभ्युपगम एव लिङ्गमिति भेदः॥
अयमपि पक्ष"आपादनं नामाङ्गीकर्तव्यतया ज्ञापनम्। न 1 तत्प्रमाणविरुद्ध"मित्यादिसुधायामेवोक्तः॥
या तु --
स्वान्यायैः साधनं परन्यायैश्च 2 दूषणम्। इत्यनुव्याख्याने, स्वसिद्धैः साधनं परसिद्धैर्दूषणमतो न दूषणे ऽपसिद्धान्तादीते प्रमाणलक्षणे च,
अस्मिन्पक्षे प्रामाण्यमुपपादयितुं तत्स्वरूपमवधारयति-- एवञ्चेति॥ अङ्गीकारार्थत्वे सतीत्यर्थः। असिद्ध्यादिकं दोष एवेति॥ यत्र व्यापकाभावस्य परेण 3 नङ्गीकारेप्यङ्गीकृतत्वादिदमङ्गीकर्तव्यमित्युच्यते तादृशस्थल एव। तादृशस्य तु प्रामाण्यमस्माभिर्नोपेयत एव। यत्र पुनरङ्गीकारो व्यापकाभावस्य सिद्धस्तादृशस्यैवासिद्ध्यादिशून्यस्य प्रामाण्यमुपेयत इति भावः॥
ननु यद्वेत्युक्तद्वितीयपक्षेपि पराभ्युपगमेनैवासिद्ध्यादिपरिहारात्तृतीयस्य ततः को भेद इत्यत आह-- अत्र चेति॥ अयमपि तृतीयोपि॥ सुधायां भक्तिपादीयसुधायाम्। ननु तर्केप्यसिद्ध्यादेर्देषत्वे तददोषत्वोक्तिर्विरुद्धेत्यत आह -- या त्विति॥ इत्यनुव्याख्यान इति॥
1.न च त-ग.ट.रा. 2.स्तु -रा. 3.णाङ्गी -ट.ठ.
पु - 156. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
साधनदूषणानुमानयोर्व्यवस्थोक्तिः सा न तृतीयपक्षे। तत्र प्रसङ्गानुमानस्य साधनानुमानादवैषम्यस्योक्तत्वात्। किन्त्वितरपक्षयोः। आद्योक्ताया 1
असिद्ध्याद्यदोषताया, द्वितीयोक्ताया अभ्युपगमस्यैव सिद्धितायाश्च साधनानुमाने क्वाप्यदर्शनात्॥
यद्वा तृतीयोक्ताया अभ्युपगमायोग्याभ्युपगमस्य लिङ्गताया अपि साधनानुमाने क्वाप्यदर्शनात् व्यवस्थोक्तिः पक्षत्रयसाधारणीति ज्ञेयम्॥
एतेन विपर्यय 2 पर्यवसानरूपानुमननिरपेक्षस्य तर्कस्य न प्रामाण्यमिति निबन्धादावुदयनाद्युक्तं निरस्तम्। तन्निरपेक्षस्यैव प्रसङ्गस्य प्रामाण्योपपादनात्॥
यातु अनिष्टापादनं विपर्यये पर्यवसानं चोभयं मिलितेमेवानुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमिति पद्धतिः,
भक्तिपादीये। अत इत्यादि ग्रन्थकारवाक्यम् स्वसिद्धे 3 रित्यादि वाक्यद्वया 4 भिप्राय विवरणम्॥ व्यवस्थेति॥ स्वसिद्धत्वपरसिद्धत्वरूपव्यवस्थेत्यर्थः। इतरयोः पक्षयोरेव वय्वस्थेत्युक्तं व्यनक्ति-- आद्येति॥ अभ्युपगमायोग्येति॥ निरग्निकत्वस्याभ्युपगमायोग्यस्य योभ्युपगमस्तस्य लिङ्गताया इत्यर्थः॥ एतेनेति॥ एवं त्रेधा प्रामाण्योपपादनेनेत्यर्थः। तदेव व्यनक्ति -- तन्निरपेक्षस्यैवेति॥ एवं हि पद्धतिविरोध इत्यतो द्वेधा समाधिमाह-- यात्विति॥ 5 सेत्यन्वयः॥
1.व्याप्या -- ग.ट.रा. 2.येप- रा. 3.द्धिरि-ट. 4.यमभि-ट. सेत्यर्थः -ट.
तस्या-नुना-न्तर्भावः) तर्कवादः पु - 157.
सा निर्धूमतयाङ्गीकर्तव्यतासाधनस्य सिद्धसाधनताशङ्गानिरासार्थं, स्यादित्यनेन बोधितप्रमाणविरोधोपपादनार्थं च तर्क 1 स्याङ्गभूतविपर्यय 2 पर्यवसानसापेक्षत्वमात्रेण वा धूमस्य वह्निव्याप्तिप्रमायां अङ्गीकर्तव्यताप्रमायां च 3 निरपेक्षत्वेपि तदुद्देश्यायां न निरग्निक इति प्रमायां पर्यवसानसापेक्षत्वेन वेति ज्ञेयम्॥
किञ्च तर्करूपं हि ज्ञानं न तावत्संशयः। एककोचिकत्वात्। नापि विपर्ययः। निरस्तत्वात्। तस्मात्प्रमाणमेव॥
किञ्च तर्कज्ञानस्याप्रमाणत्वेन 4 तर्कवाक्यसमदुत्तरं स्यात्। यदि विषं भक्षयसि
5 तर्हि मरिष्यसीत्याद्याप्तवाक्यं,
आद्यपक्षद्वयानुरोधेनाह-- धूमस्य वह्निव्याप्तिप्रमायां 6 वेति॥ अथवेत्युक्तान्त्यपक्षानुरोधेनाह-- अङ्गीकर्तव्यताप्रमायां वेति॥ तदुद्देश्यायामिति॥ व्याप्तिप्रमाङ्गीकर्तव्यताप्रमाभ्यामुद्देश्यायां तयोः फलभूतायामित्यर्थः॥

तर्कः प्रमाणं न चेदप्रमाणं स्यात्। उभयबहिर्भावायोगात्। अप्रामाण्यं च संशयत्वेन विपर्ययत्वेन। न द्वयमप्यतो ऽप्रामाण्यायोगात्प्रामाण्यमेव युक्तमिति परिशेषेणापि प्रामाण्यमाह-- किं चेति॥ विपक्षबाधकेनापि तर्कस्य प्रामाण्यमाह -- किं च तर्कज्ञानस्येति॥
1.तर्काङ्ग-क.ग.ट.रार्. 2.यये प-ग.रा. 3. वा -ग.रा. 4.त्वेत-ट.रा. 5.यिष्यसि -क.ग. 6.चेति-ठ.
पु - 158. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यदि हरिश्चन्द्रोनृतं ब्रूयात्तर्ह्यग्निरपि शीतः स्यादित्यादिस्मृतिश्चाप्रमाणं स्यात्। अनुभवविरोधश्च स्यात्।
यद्याद्यर्थशिरस्कस्य 1 तर्कस्य बाधाननुभवात्।.
किञ्च 2 प्रमात्वेनानाशङ्किते धूमरूपविशेष्यस्य 3 साक्षात्कारे सति कथं निर्धूमत्वस्यारोपः॥
न च तर्कस्य प्रतिमायां नारायणबुद्धिवदाहार्यारोपरूपत्वाद्विशेषदर्शनं न विरोधीति वाच्यम्। तस्य फलानुसन्धानसापेक्षत्वाव्द्याप्तिज्ञाननिरपेक्षत्वाच्च। तर्कस्य फलानुसन्धाननिरपेक्षत्वात्। व्याप्तिज्ञानसापेक्षत्वाच्च। प्रतिमायां नारायण 4 ध्यानस्येव पर्वते निर्धूमत्वध्यानस्याननुभवाच्च॥
एतेन -- तर्कः संशयात्प्रच्युतो निर्णयं चाप्राप्त इत्युदयनोक्तमव्यवस्थितनिरग्निकत्वाभ्युपगमोपाधिकानिष्टप्रतिसन्धानरूपत्वात्तर्कज्ञानस्याप्रामाण्यमिति वर्धमानाद्युक्तं;
न केवलमतिप्रसङ्गभयात्तर्कस्याभ्रमत्वमुपेयं किं तु विशेषदर्शनरूपविरोधिसत्वेप्यु 5 पपन्नत्वान्न भ्रमत्वं तस्योपेतुं शक्यमित्याह --
किञ्चाप्रमात्वेनेति॥ अप्रमात्वकोटिकशङ्काशून्ये व्यप्यदर्शने सतीत्यर्थः। कथं निर्धूमत्वारोप इति॥ किन्त्वस्मदुक्तदिशा प्रमारूप एव वाच्य इति भावः। आहार्यत्वात्संभवतीत्याशङ्क्य निराह-- न चेति॥ फलेति॥ अदृष्टफलेत्यर्थः। प्रतिमायां नारायणरूप 6 बुद्धिर्ध्यानरूपा। न ह्येवं प्रकृत इत्याह -- प्रतिमायामिति॥ उदयनोक्तं वर्धमानाद्युक्तमित्यनयोरपि निरस्तमित्यनेनान्वयः॥ अव्यवस्थितेति॥ अप्रमीयमाणेत्यर्थः।
1.स्या बाधानुभवात्-क.ग.ट.रा. 2.चाप्र-ट.रा. 3.शेषस्य-ट.रा. 4.णत्वध्या-ग. ट.रा. 5.प्युत्पन्न-ठ.ड. 6. रूपपदं न -ठ.ड.
तस्या-ननु-न्तर्भावः) तर्कवादः पु - 159.
तर्कः संदेहविपर्ययप्रमाविजातीयं ज्ञानान्तरं साच जातिः तर्कयामि न तु निश्चिनोमि इत्यनुव्यवसायसाक्षिकेति मणिकण्ठोक्तं च निरस्तम्। यद्यर्थशिरस्के प्रमाणत्वस्योक्तत्वात्॥
किञ्च तर्कत्वस्य जातित्वे तर्कस्य त्वदङ्गीकृतं संशयनिवर्तकत्वं न स्यात्। ज्ञानस्य विरोधिविषत्वेनैव 1 निवर्तकत्वात्॥
किञ्च जात्यैव निवर्तकत्वे ऽ 2 नुमानानुग्राहकस्तर्को निरग्निकत्वानुमानस्य 3 च प्रतिबन्धिकामपि शङ्कां निवर्तयेत्। जातेः साधारण्यात्। न हि गौः किञ्चित्प्रत्यगौर्भवति। न च मण्यादि 4 वत्प्रतिनियतप्रतिबन्धकत्वम्।
संदेहेति॥ संशयविपर्ययप्रमाभ्यः विजातीयमित्यर्थः। उक्तत्वादिति॥ श्रुण्वित्यादिना ग्रन्थेनेति भावः। मणिकण्ठपक्षे दोषान्तरमाह-- किञ्च तर् 5 कत्वस्येति॥ संशयेति॥ व्यभिचारसंशयेत्यर्थः॥
ननु तर्करूपज्ञानस्य जात्यैव संशयनिवर्तकत्वमस्त्विति वक्तारं प्रत्याह-- किञ्चेति॥ ननु -- जात्यैव निवर्तकत्वेपि मण्यादिकं जात्या प्रतिबन्धकमपि यथा दाहस्यैव न त्वन्यस्य एवं तत्तदीयतर्कस्तत्तदीय शङ्कानिवर्तको न सर्वसाधारण इत्याशङ्क्य निराह-- न च मण्यादीति॥
1.तन्नि-क.ग.ट.रा. 2.त्वेग्न्यनु- क.ट.रा. 3.शब्दानित्यत्वानुमानस्य इत्यधिकम्- क.ग.ट.रा. 4.वज्जात्यैव प्र-ग.ट.रार्. 5.कस्ये -ट.ड.
पु - 160. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तत्रोद्देश 1 दाहत्वस्येवात्र शङ्कात्वस्यैव प्रतिबध्यतावच्छेदकत्वं 2 चेदुक्ताति प्रसङ्गात्। तर्कविष 3
विरोधिविषयशङ्कात्वस्य 4 तथात्वे तर्कस्यापि कॢप्तेन शङ्काविषयविरोधिविषयत्वेनैव प्रतिबन्धकताया न्याय्यत्वात्। अन्यथा 5 घटज्ञानत्वादिकमपि जातिः स्यात्॥
तस्मात्तर्कः 6 प्रमाणमेव। तत्रापि व्याप्तिसापेक्षत्वेन शाब्दत्वप्रत्यक्षत्वयोरसंभवेन परिशेषादनुमानमेव। परार्थे तर्के वादिवाक्यापेक्षा तु परार्थानुमान इव व्याप्त्यादिस्मारकत्वेन । न त्वागमत्वेनेति॥
इति तर्कस्यानुमानान्तर्भावः

24.16

तर्कविषयविरोधीति॥ शङ्का व्यभिचारविषिणी तर्कस्त्वव्यभिचारविषय इति विरोधिविषयशङ्कात्वस्येत्युक्तम्॥ व्याघातत्वेति॥ स्वक्रियाविरोधत्वादिकिमित्यर्थः। तर्को ह्यनुमानवत्स्वार्थपरार्थभेदेन द्विविधः। स्वस्योत्पन्नशङ्कानिवर्तकः स्यार्थः। परस्य शङ्कानिवृत्तये प्रयुक्तः परार्थः। तत्र तर्कप्रयोक्तृवाक्यसापेक्षत्वात्तर्करूपज्ञानस्य शाब्दत्वे कुतो नेत्यत आह -- परार्थ इति ॥
इति तर्कस्यानुमानान्तर्भावः

24.17

1.श्य- क.ग.रा. 2.त्वे उक्ता -ग.ट.रा. 3.यक -ग.रा. पुनर्विषयेत्यधिकम् -क. 4. स्य च -ग.ट.रा. 5. व्याघातत्वादि- ग.ट.रार्. 6.कज्ञानं प्र-ग.ट.रा.
स्वते-तस्यो-पयोगः) तर्कवादः पु - 161.
अथ स्वमते तर्कस्योपयोगः

24.17

तर्कस्योपयोगस्त्वित्थम्--
तर्कनिवर्त्याप्रयोजकत्वशङ्का हि द्वेधा। पक्षतदितरसाधारण्येन सधूमोपि कश्चिन्निरग्निकोस्त्विति वा, पक्षादन्यत्र नियमेपि पक्षे समबलस्य प्रबलस्य वा साध्याभावप्रमाणस्याभिमानेन पक्ष एव सधूमो निरग्निकोस्त्विति वा। तत्राद्या व्यभिचारशङ्कारूपा लिङ्गपरामर्शात्प्राचीना द्वितीया तु प्रतिप्रमाणशङ्कारूपा तस्मादर्वाचीना॥
यद्यपि द्वितीयापि फलतो व्यभिचारशङ्कैव। तथाप्याद्या, पार्थिवत्वलोहलेख्यत्वादौ भूयोदर्शनादिके सत्यपि व्यभिचारदर्शनात्तन्निमित्तका स्वारसिकी 1 । पक्षतदितरसाधारणी च । द्वितीया तु प्रतिप्रमाणशङ्कानिमित्तकाधेया पक्षासाधारणी चेति भेदः॥
अथ स्वमते तर्कस्योपयोगः

24.16

पद्धत्युक्तमुपयोगं विवृण्वान आह-- तर्कस्येति॥ तस्मादर्वाचीनेति॥ परामर्शा 2 दनन्तरभाविनीत्यर्थः। उक्तयोः पक्षयो 3 रभेदमाशङ्क्य स्वारसिकत्वाधेयत्वाभ्यां भेदं साधयति-- यद्यपीत्यादिना॥ फलत इति॥ हेतुमति साध्याभावशङ्कायां साध्याभाववति हेतुसत्वरूपव्यभिचारस्य फलितत्वादित्यर्थः 4 ॥ तन्निमित्तकेति॥ बहुशः सहचरितयोरपि यत्किञ्चिव्द्यभिचारदर्शनं तेन निमित्तेनात्रापि धूमादौ तथेति ज्ञायमानेत्यर्थः।
1. कपक्ष -ग.रार्. 2.शानं-ट.ठ. 3.योः भेदमाक्षिप्य -ट.ठ. भेदमाशङ्क्य -ड. 4. दिति भावः -ठ.ड.
पु - 162. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
द्विविधापि 1 तदाशङ्का तर्केण निरस्यते। अन्यथोपपत्तिविषयया शङ्कया प्रतिप्रमाणेन च 2 साक्षादनुपपत्तिप्रमापकस्य तर्कस्य विषयकृतविरोधस्य सत्वात्। तर्कस्य व्याघातपर्यन्ततया दृढमूलत्वेन शङ्काप्रतिप्रमाणाभासाभ्यां प्राबल्याच्च॥
आधेया बलादुत्पाद्या। स्वरसवाह्निन्याः परामर्शरूपविशेषदर्शननिरस्तत्वादिति भावः॥ द्विविधापि शङ्का 3 तर्केण निरस्यत इति॥ केवलान्वयिसाध्यके
साध्याभावाप्रसिद्धेरेवं शङ्कायाः एवानुदयात्तत्र तर्कस्योपयोगासंभवो न शङ्क्यः। सर्वस्य व्यतिरेकिधर्मत्वेन सिद्धान्ते केवलान्वयिनो ऽभावादिति भावः॥
निरासे को हेतुरित्यतो न मणिकण्ठोक्तदिशा जात्या, किन्तु विरोधिविषय 4 त्वेनेति भावेनाह -- अन्यथोपपत्तीति॥ साध्येन विना या उपपत्तिः संभवः तद्विषयेत्यर्थः। पक्षतदितरसाधारण्येन वा पक्ष एव वेति भावः॥ विषयकृतेति॥ अन्यथोपपत्यन्यथानुपपत्तिरूपविषयकृतेत्यर्थः। विरोधिविषयकत्वमात्रेण कथं निवर्तकतेत्यत आह-- तर्कस्येति॥ तर्कस्य शङ्कापर्यन्तत्वाच्छङ्काया व्याघातपर्यन्तत्वाव्द्याघातपर्यन्तयेत्युक्तम्।
1.पिशङ्का- ग.ट.रा. 2.सहान्यथानुपपत्ति -ग.ट.रा. 3.शङ्कापदं न -ट.ठ. 4.यकत्वे-ट.ड.
स्वते-तस्यो-पयोगः) तर्कवादः पु- 163.
निवर्त्यभेदान्निवर्तकस्तर्कोपि द्वेधा। तत्राद्यो ऽनुमितिकरणनिष्पादको द्वितीयस्तु निष्पन्नेन करणेन प्रतिप्रमाणशङ्कानिरासार्थमपेक्षितत्वेन फलोपकारकत्वादनुमानानुग्राहकः॥
एतदेवाभिप्रेत्योक्तं पद्धतौ -"सोयं क्वचिद्विपरीतशङ्कानिरासनद्वारेण 11 करणस्यानुग्राहकोपि भवतीति। 2 क्वचिद्दशाविशेषे करणनिष्पत्तेरर्वाक् प्रतिप्रमाणशङ्कानिरसनद्वारेण करणश 3 रीरनिष्पादकश्च भवतीत्यर्थः॥
शङ्का च प्रतिप्रमाणाभावसश्च ताभ्यामित्यर्थः। अनुमितिकरणेति॥ व्याप्तिविशिष्टलिङ्गज्ञानरूपकरणेत्यर्थः। व्यभिचारशङ्कानिवृत्तौ व्याप्तिनिश्चयसंभवादिति भावः। फलेति॥ अनुमितिरूपफलोपकारकत्वात्। उपकारकत्वं प्रतिबन्धकनिवर्तकत्वम्। एतदेवेति॥ उक्तपक्षद्वयमेव॥ प्रमाणान्तरेति॥ 4 लिङ्गपरामर्शरूपप्रमाणान्तरेत्यर्थः॥
नन्वत्र वाक्ये द्वितीयपक्षे 5 द्वितीयपक्ष एव प्रतिभाति न त्वाद्य इत्यत आह -- अपीति॥ प्रमाणान्तरेत्यस्य प्रत्यक्षादि 6 कमर्थमुपेत्याह -- यद्वेति॥
1.प्रमाणान्तरानु -क.ग.ट.रा. 2.ऽअपिशब्दात् क्वचित्ऽ इति, ततः ऽकरणशरीरऽ इत्यादिकञ्चास्त -क.ट.रा. 3.णस्यानुग्राहको भवति--अपिशब्दात्ततःप्राक् व्यभिचार शङ्कानिरसनद्वारेण शरीरनिष्पदकश्च(न) भवतीत्यर्थ)-क. 4.ङ्गदर्शनरूपप्रमा -ड. 5.विपर्ययपक्ष इति नास्ति-ट.ठ.ड. 6.क्षशब्दरूप -प्रमाणद्वयमर्थमुपे - ट. क्षमर्थमु- ठ.
पु - 164. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यद्वा क्वचित्प्रत्यक्षादावनुग्राहको भवति। तत्र करण 1 निष्पादकत्वासंभवात्। अपि शब्दानुमान उक्तरीत्योभयात्मकश्च भवतीत्यर्थः॥
यद्वा क्वचिव्द्यभिचारस्य प्रतिप्रमाणस्य वा शङ्कायामनुग्राहकः करणनिष्पादनेन वा 2 निष्पन्नस्य 3 करणस्य सरकारितया वोपकारको भवति। अपिशब्दाच्छङ्काया अभावेन 4 तन्निवर्तकस्य तर्कस्यानपेक्षितत्वादनुग्राहकश्च भवतीत्यर्थः॥
यद्वा क्वचिदद्रिरग्निमान्धूमवत्वादितिप्रयोग उक्तरीत्यानुग्राहको भवति। अपिशब्दात्क्वचित्स्वतन्त्रोपि भवति।
क्वचिदित्यनुवादः। प्रत्यक्षदाविति व्याख्या। अनुग्राहकपदमस्मिन्पक्षे युक्तमित्याह -- तत्रेति॥ प्रत्यक्षशब्दयोरित्यर्थः। प्रमाणान्तरपदस्या 5 नुमानस्येत्यर्थमुपेत्य प्रकारान्तरेण पद्धत्यर्थमाह-- यद्वा
क्वचिव्द्यभिचारस्येति॥ क्वचिदित्यस्य शङ्कायामित्यन्वयः । सधूमो निरग्निकोस्त्विति व्यभिचारशङ्कायामित्यर्थः। द्वितीयपक्षानुरोधेनाह-- प्रतिप्रमाणस्य वेति 6 ॥ क्वचिदित्यस्यार्थमुक्त्वानुग्राहक इतग्यस्यार्थमाह-- करणेति॥ परामर्शकरणेत्यर्थः। सहकारितया प्रतिबन्धकनिवर्तकतयेत्यर्थः। उक्तरीत्येति॥ करणनिष्पादनेन वेत्यादिनोक्तरीत्येत्यर्थः।
1.णानि-क. णशरीरनि-ग.ट.रा. 2.वानिष्पादनेन वा निष्प-क. 3.न्नक -ग.ट.रा. 4.वेत-ग.ट.रा. 5.पक्षस्यानुवादस्यानुमानस्येवार्थमुपे -ट. 6.स्यैवे-ट.ठ.
स्वते-तस्यो-पयोगः) तर्कवादः पु - 165.
अद्रिरग्निमान्न वेति विप्रतिपत्तौ साधनानुमानं विनैव यदि निरग्निकः स्यात्तर्हि निर्धूमः स्यान् चायं निर्धूम इति तर्करूपानुमानेनैवाग्निसिद्धेः। न हि विधिमुखेन साधयित्वैव निषेधमुखेन साधनीयमिति कुलधर्म इत्यर्थः। उक्तं च टीकाकारैर्दूषणानुमानविभागप्रस्तावे। नायं निरग्निको ऽनिर्धूमत्वादिति। यद्वा क्वचिदुद्देश्यायां तस्मान्न निरग्निक इति प्रमायां साध्यायामनुग्राहको भवति। अपिशब्दान्निर्धूमत्वेनाङ्गीकर्तव्य इति प्रमायां वा 1 व्याप्तिप्रमायां वा साध्यायां स्वतन्त्रश्च भवतीत्यर्थः।
स्वातन्त्र्यं व्यनक्ति-- अद्रिरिति॥ साधनेति॥ अद्रिरग्निमान्धूमवत्वादित्यादिप्रकारं विनैवेत्यर्थः॥
नन्वग्निमान्धूमवत्वादिति विधिमुखेनासाधयित्वा कतं निषेधमुखेनैव साधनमित्यत आह-- न हीति॥ इत्यर्थ इति॥ अपिशब्दात्पद्धतिवाक्य 2 स्येत्यादिवाक्यव्याख्यावसर इति भावः। उक्तं चेति॥ प्रमाणलक्षणटीकाया 3 मात्माश्रये 4 योज्यम्। अनुग्राहको भवतीति॥ शङ्कानिवृत्तिद्वारेति भावः। प्रागुक्ताद्यान्त्यपक्षद्वयाभिप्रायेण क्रमेणाह -- व्याप्तिप्रमायामिति 5 ॥ इति प्रमायां वेति॥
1.आदौ ऽव्याप्तिप्रमायां वाऽ इत्यस्ति-क.ग.ट.रा. 2.क्यस्येतियोज्यम् उक्तं चे -ट.ठ. स्येति भावः -ड. 3.ऽयांऽ इति, ततः अनुग्राहक इत्यादिकमेवास्ति -ठ. 4.येत्यादिवाक्यव्याख्यावसरे -ट. श्रय इत्यादिवा-ड. 5.ऽअङ्गीकर्तव्य इतिऽ इत्यस्ति -ठ.
पु - 166. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तस्माद्यथाप्रमाणसंप्लवे द्वितीयं प्रमाणभूतमेव प्रथमप्रमाणदार्ढ्यहेतुत्वेन प्रथमानुग्राहकम्। तथा तर्कोपि स्वयं प्रमाणमेव प्रमाणस्यानुग्राहकः। साधकं बाधकं वा प्रमाणमेव हि शङ्कानिवर्तकम्। न त्वप्रमाणम्। तर्कज्ञानस्य भ्रमत्वे

हि व्याप्तियोग्यतादिभ्रमजन्यानुमितिशाब्दज्ञानदिरिव धारावाहिकभ्रमे द्वितीयानुगृहीतस्य प्रथमस्येव वा 1 प्रमाणतर्कानुगृहीतानुमितेरेवाप्रमात्वं स्यात्। अप्रमाणतर्कबाधितस्य प्रत्यनुमास्यैव च प्रामाण्यं स्यात्॥
इति स्वमते तर्कस्योपयोगः

24.17

ननु धूमवत्वादिसाधनाफलभूताग्निमत्वादिप्रमामेव पर्यवसानमुखेन जनयस्तर्कस्य कथं प्रामाण्यमित्याशङ्कां सदृष्टान्तं परिहरन्नुपसंहरति -- तस्मादिति॥
यद्वोक्तदिशा प्रमाणानुग्राहकस्य कथं प्रामाण्यम्। तथात्वे ऽनुग्राहकत्वमेव न स्यादित्याशङ्कां सदृष्टान्तं 2 निरस्यन्नुपसंहरति -- तस्मादिति॥ उक्तरीत्या प्रमाजनकत्वादित्यर्थः। शङ्कानिवर्तकत्वान्यथानुपपत्या च तर्कस्य प्रामाण्यमित्याह -- साधकं हीति॥ अप्रामाण्ये 3 बाधकं चाह -- तर्कज्ञानस्येति॥
इति स्वमते तर्कस्योपयोगः

24.18

1. व चाप्र -क.ट.रा. 2.परिहरन्नुप -ड. 3.ण्यबाध -ट.ठ.
पते-तर्कोगासंभवः) तर्कवादः पु - 167.
अथ परमते तर्कोपयोगासंभवः

24.18

किञ्च परमते तर्कस्य किं विषय 1 विशोधन उपयोगः किं वा व्याप्तिग्रहे, आद्येपि किमुदयनरीत्या अनिष्टप्रसञ्जनत्वमात्रेणोपयोगः, किं वा वर्धमानरीत्या साध्याभावसंदेहनिवर्तनेन यद्वा तज्जन्यसाध्याभावजिज्ञासानिवर्तनेन, अथवा तज्जन्यसाध्यजिज्ञासोज्जीवनेन। नाद्यः। अनिष्टप्रसञ्जनत्वमात्रेण तर्कोपयोगे शङ्गाभावेपि तर्कापेक्षाप्रसङ्गात्। न द्वितीयः। सन्देहस्य तज्जन्यजिज्ञासयैव निवृत्तेः। निर्धूमत्वज्ञानस्य निरग्निकत्वसन्देहेन सह विषयकृतविरोधाभावेन तदनिवर्तकत्वाच्च। प्रत्युत निर्धूमत्वस्य साग्निकत्वनिरग्निकत्वरूपकोटिद्वयसाधारण्येन तज्ज्ञानं सन्देहोपोद्बलकमेव। मन्मते तु विषयकृतविरोधः प्रागेवोक्तः॥
अथ परमते तर्कोपयोगासंभवः

24.17

नन्वस्तु भवदुक्तरीत्या तर्कस्योपयोगे सति प्रमाणत्वम्। न त्वेवम्। किं त्वन्यथैवोपयोगः। तत्र च तर्कस्याप्रामाण्येपि न दोष इत्यतस्तदुक्तोपयोगं खण्डयितुमाह -- किंञ्चेति॥ व्याप्तिग्राहकस्य विषयपरिशोधकस्य वेति परामर्शवादान्ते मण्युक्तेराह -- किं विषयेति॥ तज्जन्येति॥ साध्याभावसन्देहजन्येत्यर्थः। तज्जन्य जिज्ञासैवेति॥
1.यपरिशोधने उ - क.ग.रा.
पु - 168. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च वह्निव्यप्ते 1 धूमे दृष्टे कथं वह्न्यावसंदेहः। न च विशेषदर्शने सति स्वारसिकस्य वह्न्यभावसंदेहस्यासंभवेपि प्रतिप्रमाणाहिता तच्छङ्का यक्तेति वाच्यम्। प्रतिप्रमाणे ऽनन्यथासिद्धे जाग्रति तर्कसहस्रेणापि तदाहितशङ्कानुवृत्ययोगात्। न च तर्कादेव प्रतिप्रमाणस्यान्यथासिद्धिः। त्वन्मते विषकृतविरोधाभावादित्युक्तत्वात्॥
उत्तरात्मविशेषणगुणानां पूर्वगुणनिवर्तकत्वादिति भावः : कोटिद्वयसाधारण्येनेति॥ निर्धूमत्वस्यायोगोलकादाविव साग्निकत्वेपि हृदादाविव निरग्निकत्वेपि सम्भवात् साधारण्येनेत्युक्तम्। भवन्मतेपि तर्हि निर्धूमत्वज्ञानाच्छङ्कानिवृत्तिर्न स्यादित्यत आह-- मन्मतेत्विति॥ अन्यथोपपत्यान्यथानुपपत्तिरूपविषकृतविरोधस्य संदेहतर्कयोः पूर्ववादे प्रतिपादितत्वादित्यर्थः। नन्वन्यथोपपन्नत्वशङ्काया धूमादिविषयायास्तर्केण निर्धूमत्वापादानरूपेण निरासेपि भिन्नविषयकसाध्यसन्देहस्य कथं निवृत्तिरित्यतो हेतोरन्यथोपपत्तिशङ्कानिवृत्यैव तदाहितः साध्यसंदेरो निवर्तत एव। प्रत्युत त्वन्मत एव तन्निवृत्तिरयुक्तेति भावेनाह-- किञ्चेति॥
यद्वा तर्कजन्यनिर्धूमत्वज्ञानं किं स्वारसिकसाध्यसंदेहनिवर्तनेनोपयुज्यते अथाहितसंदेहनिवर्तनेन नाद्यः। तस्यैवानुदयात्। नान्त्यः।
विरोधिविषयत्वाभावात्। इत्याह-- किञ्चेति॥ उक्तत्वादिति॥ प्रत्युतेत्यादिग्रन्थेनोक्तत्वादित्यर्थः।
1.प्यधू -ट. रा.
पते-तर्कोगा-संवः) तर्कवादः पु - 169.
न तृतीयः। ज्ञानस्य हीच्छानिवर्तकत्वमनिष्टतावच्छेदकध्मप्रकारकत्वेनैव। अन्यथा प्रमेयत्वादिप्रकारकमपि विषा 1 दिज्ञानं तन्निवर्तकं स्यात्। न च निर्धूमत्वज्ञानं त्वन्मते निर्धूमतां तदापादकत्वेनानिष्टं निरग्नितां वानिष्ट 2 प्रामाण्यापातात्। किं तु पक्षनिष्ठतयैवेति कथं तर्केण निरग्निकत्वजिज्ञानसानिवृत्तिः॥
प्रतिप्रमाणं-- साध्याभावविषयं तर्कज्ञानं तु निर्धूमत्वविषयमिति विरोधिविषयकत्वं नेति भावः। साध्याभावजिज्ञासानिवर्तनेनेति पक्षं निराह-- न तृतीय इति॥ जिज्ञासा हि ज्ञानेच्छा। निर्धूमत्वज्ञानेन जिज्ञासानिवृत्तौ निवृत्तिप्रयोजकधर्माभावान्न सामर्थ्यमिति सामान्यन्यायोक्तिपूर्वमाह-- ज्ञानस्य हीति॥ अनिष्टतायां यदवच्छेदकं अहित्वविषत्वकण्टकत्वादिकं तत्प्रकारकत्वे 3 नैवेत्यर्थः। अस्त्वेतदपि ज्ञानं तथेत्यत आह-- न चेति॥ निर्धूमतामित्यत्राप्यनिष्टामित्यन्वेति॥ नचोल्लिखतीति॥ प्रमाणविरुद्धत्वा 4 देरनिष्टतावच्छेदक 5 स्फुरणस्याननुभादिति भावः। विपक्षे बाधकतं चाह -- तथात्व इति॥ अनिष्टमनिष्टता 6 वच्छेदकेनोल्लेखे सति वह्नित्वादिना वह्न्याद्युल्लेखिज्ञानस्येव प्रामाण्यं स्यादित्यर्थः॥
ननु धूमं पश्यतः कथं निर्धूमत्वादिज्ञाने प्रमाणविरुद्धत्वादिकं न भायात्। न चैवं प्रामाण्यापातः अविद्यमानपक्षनिष्ठत्वभानादप्रामाण्यमस्त्विति --
1.षयादिज्ञा- ग.ट.रा. 2.त्वावच्छेदक धर्मवत्तया -ग.रा. 3.नेत्य -ट.ड. 4.द्यनिष्ट-ठ. 5.कत्वस्फु -ठ. 6.त्वाव- ट.ठ.ड.
पु - 170. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च प्रमाणविरुद्धनिर्धूमत्वापादकतया निरग्निकत्वमेवानिष्टं न तु तज्ज्ञानम्। तस्यारोपरूपत्वेन तदनापादकत्वात्। तथा च निरग्निकत्वविषयेच्छाया एव निवृत्तिः स्यात्। न तु तज्ज्ञानविषेच्छारूपजिज्ञानसायाः॥
किञ्चेच्छाविच्छेदकमनिष्टत्वं दुःखतत्साधनान्यतरत्वरूपं नत्वप्रामाणिकतदापकानयतरत्वरूपम्। आप्तवाक्यादिना स्वस्य दारिद्रयं निश्चितवतोपि धेन औत्कण्ठ्यदर्शनात्। तथाचाप्रामाणिकनिर्धूमत्वापादके --
चेदेवमपि निर्धूमनत्वज्ञानेन निरग्निकत्वेच्छैव निवर्त्या नतु तज्ज्ञानेच्छारूपा जिज्ञासेत्याह-- किञ्चेति॥ अनिष्टतावच्छेदकप्रकारकं ज्ञानमनिष्टविषयेच्छां निवर्तयति। सा च निरग्निकत्वेच्छैव। तस्या अनिष्टत्वात्। न तु तज्ज्ञानेच्छारूपा। जिज्ञास्यज्ञानस्यानिष्टत्वाभावादित्यर्थः॥
नन्वनिष्टविषयकत्वान्निरग्निकत्वज्ञानमप्यनिष्टमेवेत्यतो विषयस्याप्यनिष्टत्वमभ्युपेत्योक्तम्। वस्तुतस्तदपि नेत्याह-- किञ्चेच्छेति॥ न चा 1 प्रामाणिकेति॥ अप्रामाणिकत्वं वा, तदापादकत्वं वा, येन निर्धूमत्वमप्रामाणिकमिति निरग्निकत्वं च तदापादकमित्युभयमनिष्टं स्यादित्यर्थः। धन इति॥ तस्य स्वस्मिन्नप्रामाणिकत्वनिश्चयेप्यनिष्टत्वाभावात्प्रत्युतौत्कण्ठ्यरूपेच्छाविषयेनेष्टत्वस्यैव दर्शनादित्यर्थः।
1. न त्वप्रा -ठ.ड.
पते-तर्कोगा-संवः) तर्कवादः पु - 171.
निरग्निकत्वे कथं शब्दसाम्यमात्रेणेच्छाविच्छेदं ब्रूषे॥
किञ्च साध्याभावजिज्ञासा न साध्यानुमितिप्रतिबन्धिका। येन तन्निवृत्तये तर्को ऽपेक्ष्यत। सा हि साध्याभावविषयकज्ञानविषयिणी । न च साध्याभावविषयविषयकमपि साध्यज्ञानविरोधि। तथात्वे हि पक्षे साध्याभाव 1
ज्ञानमिति ज्ञानेनाप्यनुमितिः प्रतिबध्येत॥
शब्दसाम्यमात्रेणेति॥ दुःखं तत्साधनं वा यथानिष्टमुच्यते तथा 2 प्रामाणिके तदापदके वाङ्गीकारानर्हत्वमात्रेणानिष्टपदमस्तीति शब्दसाम्यमात्रेणेत्यर्थः। निर्धूमत्वादिज्ञानेन ह्यनुमितिप्रतिबन्धकं निरस्यम्। साध्याभावजिज्ञासा तु न प्रतिबन्धकेति तन्निरासायासो व्यर्थ एवेत्याह-- किञ्चेति॥ इति ज्ञानेनापीति॥ साध्याभावज्ञानविषयकज्ञानस्यापि स्वविषयज्ञानद्वारा साध्याभावविषयकत्वादिति भावः॥
3 मणिकण्ठे तु -- साध्याभावमात्रविषयकजिज्ञासा ह्यनुमितिप्रतिबन्धिका। न तु साध्यतदभावोभयविषया। संशयेन चोभयकोटिकैव जिज्ञासा जन्यते। न तु साध्याभावमात्रकोटिका जिज्ञासा। तस्मिन्काले साध्याभावमात्रजिज्ञासोत्पत्तौ कारणाभावात्किं तन्निवर्तकतर्केणेत्युक्तम्। तत्र साध्याभावमात्रजिज्ञासाया अप्युक्तदिशा प्रतिबन्धकत्वाभावो ध्येयः॥
1. व विषयज्ञानेनापि -- ट. बे ज्ञानमिति ज्ञानेना-रा. 2.था अ -ड. 3.अत एवेत्यधिकम् -ठ.
पु - 172. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
नापि चतुर्थः। निर्धूमत्वविषयस्य तर्कस्य भिन्नविषयत्वेनाग्निविषयकजिज्ञासोज्जीवकत्वायोगात्। एतेन व्याप्तिग्रहे उपयोग इति द्वितीयोपि निरस्तः। निर्धूमत्वज्ञानस्य विषयकृतविरोधाभावादारोप 1 त्वेन ज्ञातत्वाच्च निरग्निकोस्त्विति शङ्कां प्रत्यविरोधित्वादिति दिक्॥
एतदेवाभिप्रेत्योक्तं पद्धतौ विपरीतशङ्कानिरसनद्वारेणेति। न तूदयनादिरीत्यानिष्टप्रसञ्जकत्वादिनेत्यर्थः।

साध्याभावसंशयजन्यसाध्यजिज्ञासोज्जीवकत्वेन तर्कस्योपयोग इति पक्षं निराह-- नापि चतुर्थ इति॥ द्वितीयोप 2 निरस्त इति॥ धूमत्वज्ञानं हि धूमस्य निरग्निकत्वरूपसाध्याभावसामानाधिकरण्यरूपव्यभिचारज्ञाननिवृत्तिद्वाराव्यभिचा
रितसामानाधिकरण्यरूपव्याप्तिग्रहोपयोगीति वाच्यमा। ज्ञानस्य व्यभिचारज्ञाननिवर्तकत्वं तद्विरोधिविषयकत्वेनैव । न च निर्धूमत्वज्ञानं साध्याभावसामानाधिकरण्यविरोधिविषयकं येन व्याप्तिग्रहोपयोगि स्यादिति भावेनाह -- निर्धूमत्वज्ञानस्येति॥
किञ्च त्वन्मते केवलान्वयिसाध्यकहेतुप्रयोगस्थले साध्याभावाप्रसिद्ध्या मास्तु प्रमेयत्वमित्यादिशङ्कानुदयेन तत्र तन्निवर्तनासंभवात्कथं तत्र तर्कस्योपयोगः। अपि च तर्कस्यापि व्याप्तिसापेक्षत्वेन तर्काङ्गव्याप्तिज्ञानेपि तर्कापेक्षायामनवस्थापातेन न व्याप्तिग्रहोपयोगित्वं तर्कस्य स्यात्। यदि क्वचित्तर्केण विनापि व्याप्तिग्रहस्तर्हि व्यभिचारात्कथं तर्कस्य तदुपयोगित्वम्। सिद्धान्ते तु स्वतन्त्रप्रमाणत्वान्न व्याप्तिग्रह एवोपयोगः। उपयोगोपि बहुप्रकारेण प्रागेवोपपादित इत्याद्यनुसन्धायाह -- दिगिति॥
1.पितत्वेन -ग.ट.रा.
पक्त-केलायि-लणङ्गः) विभागवादः पु - 173.
अत्र विपरीतशब्देन परमते स्वमत इव निवर्त्यायाः शङ्काया निवर्तकेन तर्केण सह विषयकृतो विरोधो नेति दर्शितम्॥
इति परमते तर्कोपयोगासंभवः

24.18

स्वमत इवेति॥ अन्यथोपपत्यन्यथानुपपत्तिरूपविरुद्धविषयकत्वं यथा स्वमते तथा न परमत इत्यर्थः॥
इति परमते तर्कोपयोगासंभवः

24.19

अथ परोक्तकेवलान्वयित्वलक्षणभङ्गः

24.18

यच्च मणौ व्याप्तिर्द्वे 1 धा अन्वयव्यतिरेकभेदात्। ततश्चानुमानमपि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्त्रिविधम्। तत्र वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। गगनात्यन्ताभावस्य केवलान्वयित्वार्थं वृत्तिमत्पदमिति तन्न ।
यत्तु पद्धतौ केवलान्वयिकेवलव्यतिरेकीत्यादिना परोक्तानुमानत्रैविध्यमनूद्य निरस्तं तद्विवरितुकामः तच्चानुमानं त्रिविधमित्यादिनामण्युक्तं निरसितुमाह --यच्चेति॥ वृत्तिमदिति॥ वृत्तिमान्यो 2 यमत्यन्ताभावस्तदप्रतियोगित्वमित्यर्थः। अत्र वृत्तिमानित्यनेन स्वमानाधिकरणाविरोधिनीं या वृत्तिस्तद्वान्विवक्षितः।
1.र्द्विविधा -ग.ट.रा. 2.न्योत्यन्ता -ट.ठ.
पु - 174. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
गगनस्य केवलान्वय्यत्यन्ताभावप्रतियोगित्वे तुच्छत्वापातात्। न हि शशश्रुङ्गादेरपीतोन्यदसत्वमस्ति 1 । विस्तृतं चैतन्न्यायामृते॥
इति परोक्तकेवलान्वयित्व 2 लक्षणभङ्गः

24.19

तेन संयोगात्यन्ताभावे नाव्याप्तिः। संयोगवृत्तेस्तदत्यन्ताभावसामानाधिकरण्याविरोधित्वादित्याहुः। एतच्च प्रमेयत्वाभिधेयत्वादावस्ति। तदत्यन्ताभावस्य 3 व्याघातभयेन क्वाप्यङ्गीकर्तुमशक्यत्वात्। सर्वस्याप्यन्योन्याभावप्रतियोगित्वादसंभववारणायात्यन्तपदम्। तर्हि तावदेवास्त्वित्यतो दूषणसौकर्याय विशेषणकृत्यमाह-- गगनेति॥ भावाभावयोरन्योन्यविरहरूपतया गगनात्यन्ताभावोपि गगनरूपात्यन्ताभावप्रतियोगीति तत्राव्याप्तं लक्षणं स्यादतो वृत्तिमदिति। गगनं चावृत्तिपदार्थस्तन्मत इति वृत्तिमदत्यन्ताभावो न गगनरूपः। किं तु घटात्यन्ताभाव एव। तथा च तदप्रतियोगित्वं गगनात्यन्ताभावे ऽस्तीति नाव्याप्तिरिति। तस्यापि केवलान्वयित्वसिद्ध्यर्थं वृत्तिमत्पदमित्यर्थः॥ न्यायामृत इति॥ मिथ्यात्वनिरुक्तिभङ्गे प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वखण्डनप्रस्तावे तथा --
त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता।
सत्तोच्यते ऽध्यस्ततुच्छे तं प्रतियोगिनी॥
इति सत्वनिरुक्तिप्रस्तावे, असतो ऽत्यन्ताभावप्रतियोगित्वसमर्थनप्रस्तावे चेति भावः॥
इति परोक्तकेवलान्वयि 4 लक्षणभङ्गः

24.20

1.मपि -ग.रा. 2.यिल-ट.रा. 3.वव्या-ट.ड. 4.यित्वल-ट.ठ.
केल-व्यतिः-भङ्गः) विभागवादः पु - 175.
अथ केवलव्यतिरेकिभङ्गः

24.20

केवलव्यतिरेक्यनुमानं च न युक्तम्। त्वन्मते व्याप्तिग्रहार्थं प्रतिज्ञावाक्यस्याबोधकत्वपरिहारार्थं च 1 विशिष्टज्ञानं विशेषणज्ञानपूर्वकमिति नियमार्थं 2 साध्यप्रसिद्धेरावश्यकत्वात्। केवलव्यतिरेकिणि च तस्या अभावात्॥
अथ केवलव्यतिरेकिभङ्गः

24.20

केवलान्वयिधर्मलक्षणखण्डनेनैव केवलान्वयिसाध्यकमनुमानं निरस्तं मत्वाह -- केवलव्यतिरेकीति 3 ॥ यस्य धर्मस्य केवलं व्यतिरेको अभाव एव प्रसिद्धः न तु भावः स धर्मः केवलव्यतिरेकीति तादृशधर्मसाध्यकमनुमानमपि केवलव्यतिरेक्यनुमानमित्यर्थः। व्याप्तीति॥ साध्याप्रसिद्धौ तन्निरूपितत्सामानाधिकरण्या 4 दिरूपव्याप्तिग्रहासम्भवादिति भावः॥ अबोधकत्वेति॥ साध्यधर्मस्याप्रसिद्धौ तत्र शब्दस्य शक्तिग्रहायोगेनाव्युत्पन्नसाध्यपदघटितप्रतिज्ञावाक्यस्य बोधकत्वायोगादिति भावः॥ विशिष्टेति॥ व्यतिरेकिहेतुनोत्पन्नसाध्यविशेषण 5 कपक्षविशेष्यकविशिष्टज्ञानमनुमितेः पूर्वं साध्याप्रसिद्धौ विशेषणज्ञानपूर्वकं न स्यात्। तथा च तत्पूर्वकत्वनियमश्च निर्विकल्पकज्ञानवादिना त्वयाङ्गीकृत इति तद्रक्षार्थं साध्यप्रसिद्धिरावश्यकीत्यर्थः॥
1. च इति नास्ति- ट.रा. 2.च इत्यधिकम्-ट.रा. 3.क्यपीति-ट. क्यनुमानमपीति -ठ. 4.ण्यरू -ड. 5. णप - ट.ड.
पु - 176. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तत्र साध्याप्रसिद्धिर् 1 नतावत्पक्षे केवलव्यतिरेकिवैयर्थ्यात्। नाप्यन्यत्र। तत्र हेतोर्वृत्तावन्वयित्वस्यावृत्ता 2 वसाधारण्यस्य 3 चापातात्॥
नापि पक्षैकदेशे तेन नासाधारण्यम् पक्षादन्यत्र तदप्रसिद्धेः, नापि केवलव्यतिरेकवैयर्थ्यम् तस्य कृत्स्ने पक्षे साध्यप्रतीत्यर्थत्वादिति वाच्यम्। पृथिवीतरभिन्ने 4 त्यादौ पक्षस्यैकदेशसत्वेपि गगनमितर 5 भिन्नमित्यादौ तदभावात्। अंशे सिद्धसाधनाच्च। अभेदानुमान इव पक्षैकदेशस्य 6 निश्चितसाध्यकतयान्वयदृष्टान्तत्वसम्भवेन केवलव्यतिरेकित्वभङ्गाच्च। पक्षभिन्नत्वेन विशेषणं च गौरवम्॥
कथमभाव इत्यतो भक्तिपादे साध्याप्रसिद्धझेरदोषत्वोक्तिप्रस्तावे सुधोक्तरीत्याह-- तत्रेति॥ केवलव्यतिरेकिणीत्यर्थः। व्यतिरेकवादे मणौ सिद्धान्ते कथितं निराह-- नापीति॥ इतरेति॥ जलादी 7 न्यष्टद्रव्याणि गुणकर्मसामान्यविशेषसमवायाः पञ्चेतित्रयोदशापदार्था इतरपदार्थाः। तदभावादिति॥ तस्याखण्डत्वोपगमात्तार्किकैरिति भावः। अभेदेति॥ अयमत 8 द्भिन्न एतद्वृक्षत्वादेतद्वृक्षवदित्यनुमान इवेत्यर्थः॥
ननु पक्षादन्यत्र निश्चितसाध्यकत्वमेव दृष्टान्तत्वे प्रयोजकमित्यत आह -- पक्षेति॥ नन्वस्तूक्तदिशा व्यतिरेकिणोन्वयित्वं तथापि न केवलव्यतिरेकित्वभङ्ग इत्याशङ्क्य प्रत्याहहह -- न चान्वयेति॥
1.द्धिर्हिनता -ग.ट.रा. 2. त्तौ चासा-ग.ग. 3.स्यपा -ट.ग. 4.न्नेत्यत्र प -ग.ट.रा. 5.रेभ्योभि -क. 6.स्यैव-क.ग.ट.रा. 7.दयोष्ट -ट.द्यष्ट -ठ. 8.तदभि -ठ.ड.
केल-व्यति-भङ्गः) विभागवादः पु - 177.
न चान्वयाप्रतिसन्धानदशायां केवलव्यतिरेकित्वमिति वाच्यम्। तथात्वे ऽन्वव्यतिरेकि 1 ण्यपि तत्प्रसङ्गात्। अन्वयप्रतिसन्धाने
स्वनिरूपितव्याप्तिज्ञानाभावेनानुमितिरेव नास्तीति वक्ष्यमाणत्वाच्च॥
नच यत्रानित्ये वाङ्मनसे इत्यादौ पक्षतावच्छेदकनानात्वं तत्रैवांशे सिद्धसाधनम्। इह तु तदनच्छेदकं पृथिवीत्वमेकमेवेति वाच्यम्। उद्देश्यप्रतीतिसिद्ध्यसिद्ध्योरेव सिद्धसाधनतदभावौ प्रति तन्त्रतयास्य परिभाषामात्रत्वात्॥
न च तर्ह्युद्देश्यायाः पृथिवीत्वावच्छेदेनेतरभेदबुद्धेरंशेष्यभावान्नांशे सिद्धसाधनमिति वाच्यम्।
इष्टापत्तिं मन्वानं प्रत्याह-- अन्वयेति॥ स्वेति॥ साध्यनिरूपितेत्यर्थः। वक्ष्यमाणत्वादित॥ अत्रैवोत्तरत्र किञ्चाभावगतया व्यतिरेकव्याप्त्या कथं भावस्य गमकत्वमित्यादिनेति भावः। मण्याद्युक्तमेवांशतः सिद्धसाधनतादोषोद्धारमाशङ्क्य निराह-- न च यत्रेति॥ तत्रैवेति॥ पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिर्ह्यनुमानफलम्। नानात्वस्थले चैकावच्छेदेन साध्यसिद्धावप्यनुमानफलस्य जातत्वात्पुनरन्यावच्छेदेनाप्यनुमित्युत्पादनार्तमनुमानाप्रवृत्तेरिति भावः॥ एकमिति॥ तथाच घटाद्यंशे घटत्वाद्यवच्छेदेन साध्यसिद्धावपि पृथिवीत्वरूपपक्षतावच्छेदकसामानाधिकरण्येनेतरभेदरूपसाध्यासिद्ध्या तत्रानुमित्युदयार्थमनुमानप्रवृत्तिसम्भवान्न तत्र दोष इति भावः।
1. किणोपि - ट. रा.
पु - 178. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
निश्चितसाध्यकत्वेन संदेहसिषाधयिषयोरभावेनैकदेशस्य त्वन्मते पक्षत्वायोगात्॥
न च घटस्य घटत्वेनेतरभेदनिश्चयेपि पृथिवीत्वेन तत्संदेहादिकमिति 1 वाच्यम्। विशेषाकारेणेतरभेदनिश्चये सति सामान्याकारेण तत्संदेहस्य तद्विशेषेतरविशेषविषयत्वनियमात्। अन्यथैतत्पर्वतत्वेन वह्निमत्तया निश्चये 2 पि पर्वते पर्वतत्वेन तत्संदेहापत्या तत्र वह्न्यर्थिनो निष्कम्पप्रवृत्तिर्न स्यात्॥
नापि पक्ष एव संदेहरूपा साध्याप्रसिद्धिः
पक्षत्वायोगादिति॥ तथाच केवलव्यतिरेकिणो ऽन्वयित्वमेव प्राप्तमिति भावः। संदेहसिषाधयिषयोरभावेनेत्ययुक्तमित्याशङ्क्य निराह -- न चेति॥ यज्ञपत्युक्तमेव दोषमाह-- विशेषेति॥ तद्विशेषेतरेति॥ घटादिरूप 3 विशेषेतरपृथिवीविषयकत्वनियमादित्यर्थः। ज्ञानयोः समानप्रकारकत्वेनैव निवर्त्यनिवर्तकभाव इति न्यायस्य सामान्यविशेषप्रकारान्यपरत्वमिति भावः॥
एवं मणिकृदभिमतं पक्षैकदेशसाध्यप्रसिद्धिपक्षं निरस्योदयनाद्यभिमतं मणावनूद्य निरस्तमपि मण्युक्तदोषे तव्द्याख्यातृणां विवादभावात्स्वयं दृढदोषविवक्षया संशयरूपसाध्यप्रसिद्धिपक्षमाशङ्क्य निराह-- नापीति॥ जलादित्रयोदशपदार्थान्योन्याभावानामेकत्रप्रसिद्ध्या
1.कमस्तीति -क.ग.ट.रा. 2.श्चितोपि -ट.रा. 3.ऽपृथिवीऽ इत्यधिकम् -ग.
केल-व्यति-भङ्गः) विभागवादः पु - 179.
एवं च नान्वयित्वादिकम् पक्षैकदेशेपि साध्यानिश्चयात् नाप्यसाधारण्यम् सपक्षाभावात् नापि व्यतिरेकिवैयर्थ्यम् तस्य निश्चयार्थत्वादिति वाच्यम्। साध्यकोटेरप्रसिद्ध्या संदेहस्यैवायोगात्॥
न च तेजोभिन्ना पृथिवी जलादिद्वादशभिन्ना न वेति तेजोभिन्नधर्मिकजलादिद्वादशभिन्नत्वकोटिकसंशयेनार्थास्त्रयोदशाभिन्नत्वरूपसाध्यप्रसि द्धिर्युक्तेति वाच्यम्। संशयस्यासार्वत्रिकत्वात्। संशयरूपसाध्यप्रसिद्धेर्मयापि स्वीताकाराच्च 1 । शशीयकर्णादौ शशीयमिदं शृङ्गं न वेति संदेहेन शशश्रङ्गस्यापि प्रसिद्धिप्रसङ्गाच्च।
संदेरायोगोपि तेष्वभावेष्वेकस्तेजोन्योन्याभावो जले प्रसिद्धः, पृथिवी तेजोभिन्ना न वेति संशयेन पृथिव्यामेव वा प्रसिद्धः। जलादितेजोन्यद्वादशपदार्थान्योन्याभावास्तेजसि प्रसिद्धाः। एवं च तत्रैकं पक्षभूतधर्मिविशेषणं कृत्वान्यकोटिकसंशयोत्पादि किमपि न बाधकमित्याशङ्क्य निराह -- न च तेजोभिन्नेति॥ असार्वत्रिकत्वादिति॥ तथा च यत्र न संदेहस्तत्राप्रसिद्धिर्दुर्वारोति भावः॥

ननु संदिग्धे न्यायप्रवृत्तेः संशयः सार्वत्रिक इति चेत्। सिद्धेपि सिषाधयिषयानुमानप्रवृत्तेः। एवमपि 2 त्वदुक्तरीत्या संशयस्य सात्मकत्वाद्यखण्डनसाध्ये 3 योगाच्च। घनघर्जितादिस्थले 4 संदेहाभावेप्यनुमितिदर्शनाच्चेति भावः॥ मयापीति॥ व्यतिरेकी नेति वदतापीत्यर्थः। यद्वा व्यतिरेकिणि साध्यप्रसिद्धिवादिनापीत्यर्थः। तथा च तादृशं प्रति निश्चयरूपसाध्यप्रसिद्धिरेव वाच्येति भावः।
1.कृतत्वाच्च -क.ट.रा. 2.वञ्चत्व-ट. 3.वन्त्व -ठ. 4.ध्येतदयो -ठ. 4.ले असंदेहे -ठ.
पु - 180. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
विशेषणनिश्चयजन्यविशिष्टनिश्चयरूपानुमित्यङ्गभूतायाः साध्यतावच्छेदकत्रयोदशभिन्नत्वप्रकारिकाया निश्चयरूपप्रसिद्धेरभावाच्च॥
न च तर्हि पक्षादन्यत्रैव त्रयोदशसु त्रयोदषभेदानां विशकलितानां निश्चयरूपा प्रसिद्धिरस्तीति नाप्रसद्धविशेषणत्वादीति वाच्यम्। जीवच्छरीरजातं सात्मकमित्यादावखण्डसाध्यक उक्तप्रकारासंभवात् 1 । त्रयोधशसु साध्यप्रसिद्धौ तत्र साध्याभावस्यासत्वेन व्यतिरेकव्याप्तिग्रहासंभवाच्च॥
शशश्रङ्गस्यापीति॥ भूतलं शशश्रङ्गवदित्यप्यनुमानं स्यादिति भावः॥ साध्यतेति 2 ॥ साध्यतावच्छेदकं यस्त्रयोदशभिन्नत्वं तत्प्रकारिकाया इत्यर्थः। अथवेत्यादिना मण्युक्तं पक्षान्तरमाशङ्क्य निराह -- न चतर्हीति॥ त्रयोदशसु जलादिसमवायान्तेषु त्रयोदशस्वित्यर्थः। विशकलितानामिति॥ जले तेजःप्रभृतिद्वादेशान्योन्याभावाः प्रसिद्धाः। जलान्योन्याभावश्च तेजःप्रभृतिषु। तथा जलादिद्वादशान्योन्याभावस्तेजजसि। तेजोन्योन्याभावोन्यत्रेत्येवंरूपेणेत्यर्थः। यद्वा त्रयोदसपदार्थानामन्योन्याभावानां जलभेदस्तेजसि तेजोभेदो जले इत्येवंरूपेण प्रसिद्धिरित्यर्थः। आदिपदेन व्याप्य्यग्रहादिग्रहः॥ तत्र साध्याभावस्यासत्वेनेति॥
1.ऽशशश्रङ्गोल्लिखितावपीत्यादावपि विशकलितानां शशादीनां प्रसिद्धत्वाच्चऽ -
इत्यधिकम्-ग. ऽशशशृङ्गोल्लिखिता भूरित्यादावपि विशकलितानां प्रसिद्धेः सुवचत्वात्ऽ इत्यस्ति -ट. 2. साध्यतेति इति न -ट.ठ.
केल-व्यति-भङ्गः) विभागवादः पु - 181.
किञ्चैकेनैव लिङ्गेनैकदा साध्यमाना अपि 1 त्रयोदशभेदाः प्रत्येकनिरूपितत्रयोगशव्याप्तिभिरेव साधनीयाः। न तु मिलितनिरूपितैकव्याप्त्या। मिलिताप्रसिद्धौ तदज्ञानम्।
यत्र त्रयोदशानामन्योन्याभावनामभावस्तत्र पृथिवीत्वाभाव इति हि व्यतिरेकव्याप्तिर्जलादौ प्रदर्शनीया। तत्र जले जलान्योन्याभावाभावस्य सत्वेति तेजःपृभृतिप्रतियोगिकानां द्वादशभेदानामभावस्यासत्वेन साध्याभावस्याभावात्। एवं तेजःप्रभृथिष्वपीति कतं व्यतिरेकव्याप्तिग्रह इत्यर्थः॥
नन्वेकसत्वेपि द्वयमिह नास्तीति प्रतीत्या द्वित्वावच्छिन्नप्रतियोगिताकाभाववस्त्रयोदशत्वावच्छिन्नजलद्यन्योन्याभावनिष्ठप्रतियोगिताकाभावो जलादौ भविष्यतीति नानुपपत्तिरित चेन्न। व्यासज्यधर्मावच्छिन्नप्रतियोगिताकाभावस्य व्याप्तिवादे मणिकृता निरासेन मणिकृन्मते तदभावात्। प्रतीतेरन्यतराभावविषयत्वेनोपपत्तावतिरिक्ताभावकल्पनायोगाच्च॥
ननु -- यन्मते तादृशाभावस्वीकारस्तन्मतरीत्यायं पक्षे मणवुक्त इति चेन्न। तन्मतस्यैव गौरवेण दूष्यत्वादिति भावः। अभ्युपेत्यापि -- दोषमाह -- किञ्चेति॥ प्रत्येकप्रतियोगिकाभावनिरूपितेत्यर्थः। व्यतिरेकिण्यन्वयव्याप्तेरभावात् मिलितनिरूपितेति। यत्र त्रयोदशान्योन्याभावानामभावस्तत्र पृथिवीत्वाभाव इत्येवं रूपेण मिलितप्रतियोगिकाभावनिरूपितैकव्याप्त्येत्यर्थः॥ तदज्ञानादिति॥ मिलिताप्रसिद्धौ मिलितप्रतियोगिकाभावव्याप्य्त्यज्ञानादित्यर्थः।
1. पिहित्र - त.ट.रा.
पु - 182. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तथा च प्रत्येकमेव साध्यता विश्रान्तेत्येकैकभेदरूपसाध्यवतो जलादेरेव सपक्षत्वेन ततो व्यावृत्तत्वेन 1 हेतोरसाधारण्यतादवस्थ्यम्॥
ननु -- प्रत्येकव्याप्य्या प्रत्येकभेदसाधनेपि नासाधारण्यम्। अनुमितिविषयसाध्यवव्द्यावृत्या हि तद्भवति। अन्यथा दूष्यानुमित्यविरोधित्वेनासाधारण्यस्य प्रतिपक्षोन्नायकत्वं न स्यात्। न च प्रकृते ऽनुमितिविषय 2 मिलितभेदरूपसाध्यवानन्योस्ति। येन तव्द्यावृत्यासाधारण्यं स्यादिति चेन्न। 3 प्रत्येकभेदवव्द्यावृत्तेरप स्वसाधितप्रत्येकभेदाभावद्वारेण भेदमेलनविघटकतया दूष्यानुमितिविरुद्धत्वात्॥
यद्वा व्यतिरेकव्याप्तिरेतादृशस्थले न वाच्या। किं त्वन्वयव्याप्तिरेव। न च मिलितसाध्याप्रसिद्ध्या तन्निरूपितैकव्याप्त्यज्ञानमिति वाच्यम्। प्रत्येकाभावानां प्रत्येकनिरूपितान्वयव्याप्तिभिरेव तावतां भेदानां साध्यत्वादिति भावेनायं ग्रन्थः पृत्त इति यथान्यास एव ग्रन्थः साधुरिति 4 ज्ञेयम्॥
पक्षधरमतमाशङ्कते -- नन्विति॥ अन्यथेति॥ अनुमितिविषयैकदेशवव्द्यावृत्तिमात्रेण 5 साधारण्ये ऽनुमितिविषयाभावविषयकत्वात्सत्प्रतिपक्षतया दोषत्वं न स्यादित्यर्थः। अनुमितिविषयवतो व्यावृत्तत्वमेव पृथिवीत्वहेतोरस्त्वित्यत आह-- न च प्रकृत इति॥
नरहर्याद्युक्तदोषेण निराह -- प्रत्येकेति॥ साध्यतावच्छेदकं व्यासज्यवृत्तिधर्ममादायासाधारण्याभावमाशङ्क्याप्रसिद्धविशेषणत्वेन निराह -- अथेत्यादिना ॥
1.त्तस्य हे - ग.ट.रा. 2.यभे -ग.ट. 3.ऽप्रत्यक्षभेदवचनप्रवृत्तेरपि स्वसाऽ इत्यस्ति -ग.रा. 4.ध्येयम् -ड. 5.णासा -ठ.ड.
कल-व्यति-भङ्गः) विभागवादः पु - 183.
किञ्चास्मिन्पक्षे भेदमेलनं पक्षधर्मताबललभ्यमम्। न च
तद्बललभ्यसाध्यवव्द्यावृत्यासाधारण्यं युक्तम्। तथात्वे ऽनुमानफलस्य निष्पन्नतया 1
साधारण्यस्याकिञ्चित्करत्वापातात्॥
अथ -- साध्यतावच्छेदकावच्छिन्नसाध्यवद्व्यावृत्यैवासाधारण्यम्। प्रकृते च साध्यतावच्छेदकं भदगतं व्यासज्यवृत्तित्रयोदशत्वम्। तच्च न प्रत्येक 2 परिसमाप्तम्। ततः प्रत्येकभेदवद्व्यावृत्तावपि सानाधारण्यमिति चेन्न। एवमसाधारण्यपरिहारेपि त्रयोदशत्वपर्याप्त्यधिकरणत्वरूपसाध्यतावच्छेदकावच्छिन्नसाध्याप्रसिद्धेरप्रसिद्धविशेषणत्वतादवस्थ्यात्। जलादौ स्वस्माद्भेदाभावेपि तेज आदिद्वादशभेदानां सत्वेन त्रयोदशभेदाभावरूपसाध्यव्यतिरेकगाभावेन व्यतिरेकव्याप्तिग्रहानुपपत्तेश्च॥
ननु घटस्य सत्वेपिपटाभावेन घटपटौ न स्त इतिवज्जले द्वादशभेदेषु सत्स्वपि जलाद्भेदाभावेन व्यासज्यवृत्तिप्रतियोगिताकत्रयोदशभेदाभावोस्तीति चेन्न।
व्यासज्यवृत्तिप्रतियोगिकाभावोन्यो नेत्युपेत्य व्याप्त्यभावदोषं चाह -- जलादाविति॥ व्यासज्यवृत्तिधर्मावच्छिन्नप्रतोयोगिताकाभावो ऽन्योस्तीतिवादी शङ्कते -- नन्विति॥ व्यासज्येति॥
1.तया अ- ट. 2. पर्याप्तमिति शोधितमस्ति -ट.
पु - 184. न्यायदीपयुततर्कताण्डवम् (तृ.परिचछेदः

पृथिव्या जलात्मकत्वे सत्यपि तेज आद्यनात्मकत्वमात्रेण त्रयोदशान्योन्याभावोपपत्त्यार्थान्तरात्। लघवेन प्रतियोगिसत्वमात्रमभावविरोधी 1 ति वदता त्वयैव व्यासज्यवृत्ति 2 प्रतियोगिकाभावानङ्गीकाराच्च। घटे सत्यपि घटपटौ नस्त इति धीस्तु घटे पटसाहित्याभावविषयेति त्वयेवैक्तम्॥
तस्मादप्रसद्धविशेषणत्वांशे 3 सिद्धसाधनत्वा 4 न्वयित्वासाधारण्यानामन्यतरद्दुर्वारम्॥
व्यासज्यवृत्तिः अनुगतवृत्तिमान्यः तादृशधर्मावच्छिन्ना प्रतियोगिता यस्य तादृशो यस्त्रयोदशभेदानामभाव इत्यर्थः॥ जलात्मकत्वे सत्यपीति॥ पृथिव्यां जलादित्रोयदशपदार्थतादात्म्याभावरूपास्त्रयोदशाभेदाः साध्यन्ते तत्सिद्धिर्न स्यात्। जलतादात्म्ये सत्यपि तेजः प्रभृतिद्वादशपदार्थतादात्म्यानामभावमात्रेण त्रयोदशत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्रयोदशतादात्यम्यानामभावसिद्ध्यापि साध्यपर्यवसानसंभवेन जलभेदासिद्ध्यार्ऽथान्तरदोषः स्यात्। अतो न तादृशो ऽभावो ऽङ्गीकर्तृं शक्य इति प्रागुक्तव्याप्तिग्रहानुपपत्तिः सुस्थेति भावः। किञ्च प्रतयोगिसत्वस्थले तादृशाभावो विरोधान्नाङ्गीकार्यः। न च यावत्प्रतियोगिसत्वमभावविरोधि, नत्वेकप्रतियोगिसत्वं, व्यासज्यवृत्तिस्थले चैकप्रतियोगिसत्वमेवेति वाच्यम्। तस्य गुरुत्वादिति भावेनाह -- लाघवेनेति॥ इति वदतेति॥ व्याप्तिवादे । त्वया मणिकृता॥ अन्यतरदिति॥
1.घटे सत्यपि घटपटौ नस्त इति धीस्तु घटपटसाहित्यभाव विषयेति वदतात्वयैव व्यासज्यप्रतियोगिताकाभावानङ्गीकाराच्च तस्मादप्र इत्यस्तु -ग.रा.क. 2.धर्मेत्यधिकम्- क. 3.शसि -ग.रा. 4.अन्वयित्वेति नास्ति -ग.ट.रा.
केल-व्यति-भङ्गः) विभागवादः पु - 185.
न चासाधारण्यस्य सत्प्रतिपक्षवद्विपक्षे बाधकाभावदशायामेव दोषत्वात्प्रकृते च विपक्षे बाधकस्य सत्वा 1 त्तस्यादोषत्वमिति वाच्यम्। तथापि सपक्ष 2 सत्वेनाविद्यमानसपक्षत्वरूपकेवलव्यतिरेकित्वभङ्गात्॥
एतेन जलत्वादित्रयोदशध्मसंसर्गात्यन्ताभावाः साध्याः। ते च पक्षैकदेशे घटादौ मिलिता वा पक्षादन्यत्र
विशकलिता वा घटादौ जलत्वं 3 नेत्यादिप्रत्यक्षेण सिद्धा इति निस्तम्। उक्तरीत्यान्वयित्वासाधारण्यान्यतरापत्तेर्दुर्वारत्वात्॥
यद्यप्यन्यतममित वक्तव्यम्। द्वयोरेवं डतरयो विधानात्। अन्यतरान्यतमशब्दयोखण्डत्वेपि द्विबहुविषयत्वेन व्यवस्थितत्वस्य पस्पशाह्निके
कैय्यटे ऽभिधानात्। तथापि त्रयाणां मध्ये द्वयमे 4 कीकृत्य द्वित्वसंपादनेनान्यतरदिति साध्विति ध्येयम्॥
असाधारण्यदोषोद्धारमाशङ्क्य दोषान्तरमाह-- न चेति॥ प्रकृते चेति 5 ॥ इतरभेदसाध्यकपृथिवीत्वहेतौ हेतूच्छित्यादिविपक्षबाधकस्येत्यर्थः॥ सपक्षस्येति॥ प्रत्येकं त्रयोदशाभावानां साध्यत्वेनाभिमतानां जलादित्रयोदशसु प्रसिद्धत्वेन तेषामेव सपक्षत्वादिति भावः। योपि मणावन्योत्वित्यादिना तत्तदसाधारणधर्मात्यन्ताभावाः साध्या इत्यन्ताभावसाध्यकपक्ष उक्तः तमपि निराह -- एतेनेति। सिद्धा इति॥ अतोनाप्रसिद्धविशेषणत्वमिति भावः॥ उक्तरीत्येति॥
1.त्वान्न तस्य दोषत्वभि-क.ग.ट.रा. 2.क्षस्य स -ट.रा. 3.त्वादि-ट. 4.मेकराशी -ठ.ड. 5.प्रकृते चेति इति न -ठ.
पु - 186. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ननु तर्हि जलं 1 तेजःप्रभृतिद्वादशभिन्ननिष्ठभेदप्रतयोगि द्रव्यत्वात्तेजोवदित्यनुमानेन वा व्याघातदण्डभयेन वा सामान्यतः 2 प्रसिद्धं त्रयोदशभिन्नत्वं पृथिव्यां साध्यते। ततो नान्वयित्वसाधारण्यं वा।
"पक्षैकदेशस्य घटातेर्निश्चितसाध्यकतयान्वलयदृष्टान्तत्वसंभवेने"त्यादिनोक्तरीत्यान्वयित्वस्य, तथा"किञ्चैकेनैव लिङ्गेने"त्यादिनोक्तरीत्यासाधारण्यस्य 3 चेत्यर्थः। प्रत्येकमेवात्यन्ताभावानां साध्यत्वात्तेषां च प्रत्येकं जलादावेव प्रसिद्धेस्तत्र च हेतोरवृत्तेः। अनुमितिविषयसाध्यवद्व्यावृत्त्याह्यसाधारण्यमिति जयदेवपक्षस्य च निरासादिति भावः। यदपि मणौ"यद्वा जलं तेजः प्रभृतिद्वादशभिन्नप्रतियोगिकान्योन्याभाववदित्या"दिना सामान्यतः 4 प्रसद्धिसंपादकमनुमुक्तम् तदप्याशङ्क्य निराह -- ननु तर्हीत्यादिना॥
यद्यपि मणावन्यथैव साध्यनिर्देषः कृतः तथापि तत्र यथाश्रुते तेजःप्रभृतिद्वादशनिरूपितभेदाधिकरणे जलभेदासिद्ध्या सिषाधयिषितत्रयोदशपदार्थनिरूपितभेदानामेकत्राप्रसिद्धे(द्धि)रेव।
अतस्तद्व्याख्यातृभिर्व्यत्यासेन योजितस्य साध्यनिर्देशस्यायमनुवाद इत्यदोषः। तेजःप्रभृतयो ये द्वादशपदार्थास्तद्विभिन्नं यद्वस्तु तन्निष्ठो यो भेदस्तत्प्रतियोगीति साध्यार्थः। तथा च जलभेदस्तेजःप्रभृतिद्वादशपदार्थभेदाश्चैकत्रैव सामान्यतः सिद्धा इति अनुमानेन वा सिद्धं त्रयोदशभिन्नत्वमित्यन्वयः। प्रामाण्यवादे प्रामाण्यानुमितिसिद्ध्यर्थं प्रामाण्यप्रसिद्धिसंपादकतया मण्याद्युक्तं तुल्यन्यायत्वादिहाप्याशङ्कते -- व्याघातेति॥ साध्याप्रसिद्धौ त्रयोदशान्योन्याभावरूपसाध्यं न प्रसिद्धमितिनिषेधायोगेन निषेधता पुरुषेण साध्यं सामान्यतो ऽवगतमेवेति न प्रसिद्धमित्युक्ताविदं नाभिधेयमित्युक्तिवह्न्याघातरूपदण्डभयेनेत्यर्थः।
1. लेते -ट.रा. 2.तः सि-ग.ट.रा. 3.स्येत्यर्थः-ठ. 4.न्य प्र -ट.ड.
केल-व्यति-भङ्गः) विभागवादः पु - 187.
सांमुग्ध्येन साध्यप्रसिद्धावपि पक्षो वा पक्षादन्यो वायं साध्यवानिति व्यक्तिविशेष 1 निश्चयाभावादिति चेन्न।
व्यक्तिविशेषानिश्चयेपि व्यतिरेकिप्रवृत्तेः प्रा 2 क्कश्चित्साध्यवानिति निश्चये तस्यैव सपक्षत्वेन व्यतिरेकित्वभङ्गात्। अन्यथोपाधि 3 ना क्वचिद्व्याप्तिभङ्ग इति निश्चयेपि अत्रेति व्याप्तिभङ्गस्थलविशेषस्यानिश्चयात् सोपाधिकोपि सद्धेतुः स्यात्॥
अथ -- यदनङ्गीकारे ऽनिष्टप्रसक्तिः तत्प्रामाणिकमिति नियमात् प्रकृतसाध्यानङ्गीकारे चानिष्टप्रसक्तेः सत्वात् साध्यस्य सामान्येन प्रामाणिकत्वे सिद्दे प्रमाणविशेषजिज्ञासायां व्यतिरेक्युपन्यास इति नकोपि दोष इति चेन्न।
कथं नान्वयित्वादिकमित्यतो मण्युक्तरीत्यैव व्यनक्ति-- सांमुग्धेनेति॥ अयं पृथिव्यादिरित्यर्थः। अन्वयित्वासाधारण्ययोरभावेपि यदसपक्षत्वं व्यतिरेक्यनुमानस्य लक्षणमुक्तं तद्भग्नमित्याह -- व्यक्तिविशेषेति॥ अनिष्टप्रसक्तेरिति॥ जलादिवैधर्म्यगन्धाद्युपलम्भहानिरूपानिष्टप्रसक्तेरिति, पृथिवीरूपवस्तुहानिरूपानिष्टप्रसक्तेरिति वार्थः॥
एवं मण्याद्युक्तसाध्यप्रसिद्धिप्रकारं अनृसृत्य व्यतिरेक्यनुमानं निरस्येदानीं
व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धौ अनुपयोगा"न्न हि भावेन भावसाधने अभावेनाभावस्य व्याप्तिरूपयुज्यते"इत्यादि पद्धत्या--
1.षानिश्चयादि-ग.ट.रा. 2.क्वचि-ट.रा. 3.धेर्न -ट.
पु - 188. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः

प्रामाणिकत्वेनैवार्थे 1 निश्चिते प्रमाणविशेषजिज्ञासायाः विशेषगतविशेषजिज्ञासाया इव वैयर्थ्यात्। प्रमाणसामान्येन साधायवत्तया निश्चितस्यापि सपक्षत्वेन केवलव्यतिरेकित्वभङ्गाच्च॥
तस्मान्न व्यतिरेक्यनुमानं युक्तमा। किञ्चाभावगतया व्यतिरेकव्याप्त्या कथं भावस्य गमकत्वमा॥
ननु गमकत्वे ऽन्वयव्यतिरेकव्याप्त्यनुगतं व्याप्तित्वमेव तन्त्रम्। नत्वन्वयव्याप्तित्वम्। गौरवात् इति चेन्न। तथात्वे धूमगतया वह्निव्याप्त्या कृतकत्वस्यानित्यत्वगमकत्वापत्या स्वनिष्ठव्याप्तित्वं तन्त्रमिति वक्तव्यत्वेनाभावनिष्ठव्याप्त्या भावस्य गमकत्वायोगात्॥
नन्वन्विनि स्वनिष्ठा व्याप्तिस्तन्त्रम्। व्यतिरेकिणि त्वभावगता। न चातिप्रसङ्गः। प्रतियोग्यनुयोगिभावस्य नियामकत्वादिति चेन्न। व्याप्यं लिङ्गमिति लिङ्गलक्षणस्य व्यतिरेकिण्य 2 व्याप्त्यापातात्॥
-द्यु 2 क्तं हृदिकृत्वा प्रकान्तरेण व्यतिरेकिणं निराह -- किं चाभावगतयेति॥ न चातिप्रसङ्ग इति॥ धूमनिष्ठया व्याप्त्या कृतकत्वस्यानित्यत्वगमकत्वप्रसङ्ग इत्यर्थः॥ प्रतियोगीति॥ व्याप्यव्यापकभावापन्नाभावयोर्हेतुसाध्ययोश्च प्रतियोग्यनुयोगिभावस्येत्यर्थः॥ व्यतिरेकिणीति॥
1.निश्चिते इति नास्ति -ग.ट.रा. 2.ण्यप्यव्या -ग. 3. द्युक्तिं -ठ.ड.
केल-व्यति-भङ्गः) विभागवादः पु - 189.
1 न च स्वनिरूपितव्याभिचारविरोधित्वरूपं वा स्वनिरूपितव्यभिचारधीप्रतिबन्धकधीविषयत्वरूपं वा व्याप्तिमत्वमुभयानुगतमिति वाच्यमा। स्वनिरूपितव्याप्त्यपेक्षयास्य गुरुत्वात्। 2 एतदज्ञानेप्यनुमित्युत्पत्तेरनुभवा 3 च्च। साध्यसाधनसामानाधिकरण्यगर्भितत्वेन त्वन्मते ऽस्य व्याप्तित्वायोगाच्च॥
किञ्च व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपलिङ्गपरामर्शो ऽनुमितिमात्रे हेतुः। व्यतिरेकिणि 4 च स न युक्तः। व्याप्तिपक्षधर्मतयोर्वैयधिकरण्यात्॥
कैवलव्यतिरेकि 5 साध्यपृथिवीत्वादिहेतावित्यर्थः। 6 साध्याभावस्यैपवव्याप्यत्वाद्धेतुत्वेनाभिमतपृथिवीत्वादेरव्याप्यत्वादिति भावः। व्याप्तिद्वयस्याप्यनुगमकमाशङ्क्य निराह -- न च स्वेति॥ व्यतिरेकोन्वयश्य स्वशब्दार्थः। व्यतिरेकनिरूपितो व्यभिचारो हेत्वभाववति साध्यासत्वं तद्द्विरोधित्व व्यतिरेकव्याप्तेरस्तीति स्वनिरूपितव्यभिचारविरोधित्वमुभयव्याप्तेरस्तिः। एवं धीपक्षेपीत्यनुगतव्याप्तिज्ञानरूपं करणमुभयत्रास्तीति तद्विशिष्टपरामर्शो व्यतिरेकिण्यपि युक्त इति भावः। त्वन्मत इति। सामानाधिकरण्यगर्भितव्याप्तिवादिनो मत इत्यर्थः।
1.ऽकिं च व्याप्तित्वविशिष्टपक्षधर्मताज्ञानरूपलिङ्गपरामर्शो अनुमितिमात्रहेतुः। व्यतिरेकिणि च सन युक्तः। व्याप्तिपक्षधर्मतयोर्वैयधिकरण्यात्। इत्यधिकम् - ग.ट.रा. 2.स्वनिरूपितेत्यादि नास्ति- ग.ट.रा. 3.च इति नास्ति -ग.ट.रा. 4. णि साध्याभावव्याप्तिपक्षधर्मतयो -क. 5.किणीतरचेदसा -ठ. 6. तत्रेत्यधिकम् -ठ.ड.
पु - 190. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
1 न चान्वयिनि लिङ्गपरामर्शो व्यतिरेकिणि साध्याभावव्यापकाभावप्रतियोगित्वज्ञानं अनुमितिमात्रे तु पक्षधर्मताधीर् 2 हेतुरिति वाच्यम्। 3 तृणारणिमणिजन्यवह्निष्विव
लिङ्गपरामर्शादिरूपोक्तकारणद्वयजन्यानुमितिष्ववान्तरविशेषस्याननुभवात्। तत्कल्पनस्य 4 चान्योन्याश्रयेण योग्यानुपलब्धि 5 चायुक्तत्वात्॥
अवान्तरवैजात्यस्येति॥ तदवश्यङ्गीकर्तव्यम्। अन्यथा सामग्रीद्वयस्य परस्परव्यतिरेकव्यभिचारेणानमितिं प्रति हेतुत्वासिद्ध्यापातात्तृणारणिमणिजन्यवह्निष्वपि वह्नित्वव्याप्यतत्तज्जन्य 6 तावच्छेदकावान्तरजातिर्नोपेया स्यात्। नचासौ जातिरनुभूयते। अतो नैवं कल्पना युक्तेति भावः। तृणारणिमणिजन्यवह्निष्ववेति पररीत्या व्यतिरेकदृष्टान्तः। तत्राप्यवान्तरजातेर्द्वितीयपरिच्छेदे निरासात्। स्वमतेनान्वयदृष्टान्त एवायमित्यन्ये। अननुभूयमानापि सामग्रीवैजात्यात्कल्पनं सामग्रीद्वयसिद्धौ वैजात्यकल्पनमित्यन्योन्याश्रयेणेत्यर्थः। व्यतिरेकिणि त्वदुक्तगमकत्वस्याद्याप्यसिद्धेरिति भावः॥
ननु व्यतिरेकिणोपि शास्त्रे तत्रतत्र संव्यवहारात्तदन्यथानुपपत्या व्यतिरेकव्यप्तेरप्यनुमितिसामग्रीत्वं कॢप्तमिति चेन्न। परंपरयैवानुमित्युपयोगाभिप्रायेण 7 तत्संव्यवहार इति भावेन साक्षादुपयोगं निराह -- किञ्चेति॥
1.किञ्चेत्यादिग्रन्थो नास्ति- ग.ट.रा. 2.धी पदं न -ग.रा. 3.तरणिमणि इत्यस्ति -ग. 4.च इति न -ग.ट.रा. 5.मात्रेणेत्यधिकम् -ट. 6.न्यव्यप्यता -ड. 7.णेति भावेन सा -ठ.
केल-व्यति-भङ्गः) विभागवादः पु - 191.
किञ्च व्यतिरेकव्याप्तेः साक्षाद्गमकत्वे व्यर्थविशेषणत्वस्य त्वदभिमतं व्याप्तिज्ञज्ञानप्रतिबन्धद्वारानुमितिप्रतिबन्धकत्वं न स्यात्। वैयर्थ्येनान्वयव्याप्तिविघटनेपि व्यतिरेकस्याखण्डाभावतया वैयर्थ्याभावेन व्यतिरेकव्याप्त्यविघटनात्॥
अपि चैवं विरुद्धस्य साध्यव्यापकाभावप्रतियोगित्वं दूषकताबीजमिति त्वदभिमतं न सिध्येत्। तथाहि -- उक्तप्रतियोगित्वस्य ज्ञानं
किमव्यभिचारज्ञानप्रतिबन्धद्वारानुमितिप्रतिबन्धकम्। किं वा सहचारज्ञानप्रतिबन्धद्वारा। नाद्यः। विरुद्धस्य साधारणान्तर्भावापातात्।
गगमकत्वे ऽनुमितिजनकत्व इत्यर्थः॥ व्यर्थविशेषणत्वस्येति॥ पर्वतोग्निमान्नीलधूमवत्वादित्यादौ व्यर्थविशेषणत्वस्य वह्निनिरूपितधूमनिष्ठव्याप्तिज्ञानप्रतिबन्धद्वारानुमितिप्रतिबन्धेनानुमितिः स्यादेव। नीलधूमरूपविशिष्टाभावस्य व्यापकत्वे व्यर्थविशेषणत्वाभावात्। अभावस्याखण्डत्वादित्यर्थः॥
ननु 1 व्यतिरेकव्याप्तिः केवलव्यतिरेकिण्येव साक्षाद्गमिका। अन्यत्र तु व्यभिचारज्ञाननिवृत्तिद्वारोपयुज्यते न साक्षादिति वदन्तं प्रत्याह-- अपि चेति॥ एवमिति॥ व्यतिरेकव्याप्तेः साक्षाद्गमकत्व इत्यर्थः॥ त्वदभिमतमिति॥ हेत्वाभावसग्रन्थे तथैवोक्तेरिति भावः। किमव्यभिचारेति॥ बाधप्रतिपक्षौ हि ग्राह्याभावावगाहितया साक्षादनुमतिप्रतिबन्धकौ। विरुद्धसिद्धव्यभिचारस्त्रयो ऽनुमितिकरणपरामर्शविघटकत्वेनानुमितिप्रतिबन्धकाः।
1. नु केवल - ड.
पु - 192. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न द्वितीयः। सकलसाध्यवति हेत्वभावज्ञानस्यान्वयसहचारज्ञानविघटकत्वेपिव्यतिरेकसहचारज्ञानविघटकस्य सकलसाध्याभाववति साधनमितिज्ञानस्याभावेन तदविघटनात्॥
तस्मान्न व्यतिरेक्यनुमानं युक्तम्॥
परीक्षकाणां व्यतिरेकव्याप्त्युपन्यासस्तु - यथोपाधिसिद्धिसाध्यसाधनवैकल्यादेरनुमानदूषकव्यभिचारादिसाधन 1 तयोपन्यासो न तु साक्षद्दूषकतया।
परामर्शविघटकत्वं 2 च तद्विषयाभावविषयकत्वेन। तद्विषयश्च व्याप्तिः पक्षधर्मता चेति द्वयम्। तत्रासिद्धिः पक्षधर्मताविरोधित्वेन। अन्यद्द्वयं व्याप्तिविरोधित्वेन।

व्याप्तिश्चाव्यभिचारः सहचारश्चेति दलद्वयम्। तत्र विरुद्धस्थले साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानं किमव्यभिचारज्ञानप्रतिबन्धद्वाराथसहचारज्ञानप्रतिबन्धद्वारेत्यर्थः॥ साधारणेति॥ साधारणानेकान्तिकेत्यर्थः। विरुद्धत्वज्ञानस्येत्यस्य विवरणेन निर्देषः -- सकलसाध्यवति हेत्वभावज्ञानस्येति॥ अन्वयसहचारेति॥ हेतौ साध्यसामानाधिकरण्यरूपसहचारेत्यर्थः। तदविघटनादिति॥ तथाच तत्र व्यतिरेकसहचारप्रतिबन्धेनाव्यभिचारज्ञानसंभवेनानुमितिः स्यादेवेति भावः। कथं तर्हि शास्त्रे तदुपन्यासस्ततत्र क्रियत इत्यत आह -- परीक्षकाणामिति ॥ 3. उपाधिश्च सिद्धसाधनं च साध्यवैकल्य च तदादेरित्यर्थः।
1.कतया-क.ग.ट.रा. 2.कञ्च -ट.ठ. 3.व्याप्तीति व्यतिरेक्याप्तीत्यर्थः। इत्यधिकम् -ट.ठ.
केल-व्यति-भङ्गः) विभागवादः पु - 193.
यथा वा दृष्टान्तस्यानुमानाङ्गव्याप्तिप्रदर्शकतयोपन्यासः न तु साक्षादङ्गतया। तथानुमानाङ्गान्वयव्याप्तिसाधकतया न तु साक्षादङ्गतयेति द्रष्टव्यम्॥
यद्यप्यन्वयव्यतिरेकिणि व्यतिरेकव्याप्तिर्नान्वयव्याप्तिसाधिका। तत्रान्वयव्याप्तेरन्यत एव सिद्धेः। तथापि स्पष्टव्यभिचारेप्यनुमाने उपाधिवन्मूकीभूता वा अन्वयव्याप्तेरेव व्यभिचारशङ्कां निराकुर्वन्ती वावतिष्ठते1॥
यत्तु सुधायां व्यतिरेकिनानुमानं पञ्चरूपतावैधुर्यादित्येतत्परिशेषादिरूपानुमानेष्वनैकान्तिकमिति व्यतिरेकिणस्तटस्थाशङ्किताननुमानत्वनिराकरणं तदप्रसिद्धविशेषणत्वस्य दोषत्वे व्यतिरेकिप्रमाणं न स्यादिति परंप्रत्यापादनस्य तत्र प्रस्तु-
व्यभिचारादीत्यदिपदेन सिद्धसाधनमाश्रयासिद्धेसाधकतया साध्यवैकल्यं व्याप्यत्वासिद्धिसाधकतयेत्येवं ग्राह्यम्। एवं हि धूमादावन्वयव्यतिरेकिणि व्यतिरेकोपन्यासो व्यर्थ इति शङ्कामनूद्यान्वयव्यतिरेकिणि तु
व्यतिरेकव्याप्तिरनुपयुक्तैवेत्यादिपद्धतिवाक्यं हृदि कृत्वा परिहारमाह -- यद्यपीति॥ भक्तिपादीयसुधाविरोधमाशङ्क्य 2 त्रिधा तात्पर्योक्त्या निराह -- यात्विति 3 ॥
इति केवलव्यतिरेकिभङ्गः

24.19

1.तिष्ठति -ग.ट.रा. 2.त्रेधा -ट.ठ.ड. 3.यत्विति इतिस्यात्.
पु - 194. न्यायदीपयुतर्कताण्डवम् (तृ.परिच्छेदः
-तत्वात्पररीतिमाश्रित्य वा 1 व्यतिरेकिव्याप्तिसाधकतयोपयुज्यत इत्यभिप्रेत्य वा, पञ्चरूपतावैधुर्यादननुमानत्वं न किं तु व्याप्तिपक्षधर्मतयोवैयधिकरण्यादेवेत्यभिप्रेत्य वेति द्रष्टव्यम्॥
अन्यथा व्यतिरेकव्याप्तिरनुमानाङ्गत्वादित्यादितद्वाक्यविरोधात्। तस्माद्व्याप्तेर्द्वैविध्यमनुमानस्य त्रैविध्यं चायुक्त 2 मिति॥
इति केवलव्यतिरेकिभङ्गः

24.20

1.अन्वय इति शोधितमस्ति -ट. 2.इति इति नास्ति -ग.रा.
23-6-2001.
पु - 194. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ पञ्चावयवादिनियमभङ्गः

24.21

पुनरप्यनुमानं द्विविधम्। सार्थं परार्थं च 1 । तत्र परोपदेशानपक्षं स्वार्थम्। तत्सापेक्षं परार्थम्।
अथ पञ्चावयवादिनियमभङ्गः

24.20

पुनरनुमानं द्विविधम् सार्थं परार्थं चेत्यादिना पद्धत्युक्तं विवृण्वान आह -- पुनरिति॥ प्रागुक्तविभागापेक्षया पुनःशब्दः। व्याप्तिविशिष्टलिङ्गज्ञानरूपमनुमानमित्यर्थः। तत्र तयोर्मध्ये। परोपदेशं वह्निव्याप्यधूमवानयमित्यादिरूपपरकृतोपदेशं नापेक्षत इति परोपदेशानपेक्षम्। व्याप्तिविशिष्टलिङ्गज्ञानमिति विशेष्यं अत्रोत्तरत्र च योज्यम्।
1. चेति -ट.रा.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 195.
ससामर्थ्यलिङ्गपतिपादकवाक्यात्मकः परोपदेशोपि परार्थानुमानमित्युपचर्यत इतिस्थिते तस्य परोपदेशस्य जिज्ञासासंशयशक्य 1 प्राप्तिप्रयोजनसंशयनिरासप्रतिज्ञाहोतूदाहरणोपनयता 2 नीति दशावयवा इति जरन्नैयायिकाः। प्रतिज्ञादयो 4 दाहरणादयो वा त्रय 5 इति मीमांसकाः। उदाहरणोपनयौ द्वावेवेति 6 सौगताः॥
परोपदेशस्वरूपस्य पद्धतावनुक्तेः"अनुमा युक्तिरेवोक्तेति"युक्तिपादीयानुव्याख्यानसुधोक्तमाह -- ससामर्थ्येति॥ व्याप्तिसमुचितदेशवृत्तित्वरूपसामर्थ्यसहितम्। यद्वा व्याप्तिरेव सामर्थ्यम्। तत्सहितं यल्लिङ्कं धूमादि तत्प्रतिपत्तिजनकं वाक्यं परोपदेश इत्यर्थः। स च वह्निव्याप्यधूमवनायमित्यादिरूपः। वाक्यमात्रस्य परोपदेशतानिवृत्तये प्रतिपादकेत्यन्तोक्तिः।
ससामर्थ्यलिङ्गप्रतिपत्तिसामान्यकारणाद्दृष्टमनःसंयोगादिष्वतिव्याप्तिवारणाय वाक्यात्मक इत्युक्तिः। धूमोस्तीति वाक्ये ऽतिव्याप्तिनिरासाय 7 सामर्थ्येति। पद्धतौ"तज्जनकत्वात्परोपदेशोपि परार्थानुमानमिति क्वचिदुपचर्यते"इत्युक्तेराह -- परार्थेति।. इत्युपचर्यत इत्यर्थः॥
यत्तु -- ससामर्थ्यलिङ्गप्रतिपादकवाक्यं न परोपदेशः तस्मिन्नेव वाक्ये ऽतिव्याप्तेरिति तन्न। ससामर्थ्यलिङ्गप्रतिपादकं वाक्यमिति -
1.शक्त्य - रा. 2.य निगमनानीति- क.ग.ट.रा. 3.का आहुः -क.ग.ट.रा. 4. वा -क.टरा. 5. य एवेति -ट. 6.द्वाविति -ग.ट.रा. 7.ससा -ट.ड.
पु - 196. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तन्न। आद्यपञ्चकस्याशब्दात्मकतया वाक्यावयवत्वस्यैवाभावात् उक्तनियमेषु हेत्वभावाच्च॥
ननु --
यावता व्याप्तिपक्षधर्मतादिविशिष्टलिङ्गधीस्तावदाकाङ्क्षाक्रमेणाभिधेयं अन्यथा न्यूनत्वापत्तेः। तत्र साध्यानुपस्थितौ हेत्वाकाङ्क्षैव नोदेतीति तदुपस्थित्यर्थं प्रतिज्ञा ।
-वाक्यस्य तादृशवर्णमालारूपवाक्यप्रतिपादकत्वेन तादृशलिङ्गाप्रतिपादकत्वात्। अन्यथा घटाभावज्ञानमपि
घटज्ञानं 1 घटाभावव्यवहारोपि घटव्यवहारा इत्यापातात्। अन्यानवच्छेदेन घटावगाहि घटज्ञानमिति चेत् अन्यानवच्छेदेन तादृशलिङ्गप्रतिपादकं परोपदेशः। न चैवमितिप्रसङ्गोस्ति। अन्यथा छलोत्तरर्तवं स्यादिति भावः। आद्येति॥ जिज्ञासा ज्ञातुमिच्छा वह्निमान्न वेत्यादिसंशयः प्राप्तुं योग्यता शक्यप्राप्तिः प्रयोजनं प्रसिद्धं वह्निमान्न वेत्यादिसंदहनिरास इत्येवंरूपाद्यपञ्चकस्येत्यर्थः॥
तत्र प्रतिज्ञादिस्वरूपं पक्षवचनं प्रतिज्ञा लिङ्गं हेतुरित्यादिना मिथ्यात्वानुमानखण्डनतट्टीकातद्भावप्रकाशिकासु प्रमाणपद्धत्यादौ च व्यक्तत्वात्तस्वरूपमनुक्त्वा पञ्चैवायवयवाः क्रमेणैव प्रयोज्याः न न्यूनाः, त्रय एव
प्रयोज्याः न न्यूनाः नाधिकाः, द्वावेव प्रयोज्यौ नत्वधिक इति वादिनां यो नियमपक्षस्तन्निरासे युक्तिपादीयानुव्याख्यानसुधाद्युक्तिं हृदि कृत्वा हेतुमाह -- उक्तनियमेष्विति॥ आकाङ्क्षैव हेतुरिति भावेन सुधाशङ्कितरीत्या मण्याद्युक्तरीत्या च शङ्कते -- नन्विति॥
1. स्यात् इत्यधिकम् - ठ.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 197.
ततः कस्मात्प्रमाणादिदं ज्ञेयं इत्याकाङ्क्षायां 1 पराङ्तापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमादिति हेतुवचनम्। ततोस्य सामर्थ्यजिज्ञासायां प्रथमं व्याप्तिप्रदर्शनार्थ 2 मुदाहरणम्। पश्चात्पक्षध्मताप्र 3 तिपादनार्थमुपनयः। ततः सर्वस्यैकबुद्ध्यारोहायैकवाक्यतामापादयितुं 4 निगमनम्॥
यद्वा 5 पक्षे प्रतिज्ञया प्रमेये उपस्थापिते 6 हेतुना च तदवधारणार्थं लिङ्गरूपे प्रमाण उक्ते तस्य निरस्तसमस्तदोष 7 शङ्कस्यैव प्रमेयावधारकत्वाच्छङ्कानिरासार्थं 8 उदाहरणादयो ऽपेक्षिताः। तत्र व्याप्तिदर्शकेनोदाहरणेन विरुद्धानैकान्तिकानव 9 ध्यसितानां निरासः। उपनयेनासिद्धेः। निगमने 10 नापि सिद्धे सत्यारम्भस्य नियमार्थत्वात् तस्मादेव नान्यस्मादिति हेत्वनुवादेन सिद्धसाधनतया --
पर आहेत्यादिना सुधोक्तं पक्षान्तरमनुवदति -- यद्वेति॥ अनध्यवसितपदेनासाधारणानैकान्तिकग्रहः। सुधोक्तरीत्या निराह -- आद्य इत्यादिना ॥
1.प्रमाङ्गता -ग. प्रमाणता -ट.रार्. 2.थं यो यो धूमवानसावग्निमानित्युदाहरणम्। पक्षादिक्षितस्थलधर्मताप्रतिपादनार्थमग्निव्याप्तधूमवांश्चायमित्युपनयःऽइति हंसवादेन पूरितमस्ति-ट. 3.प्रदर्शनार्थमग्निव्याप्तधूमवांश्चायमित्युपनयः ग.रा.
4.तस्मादग्निमानेवेति नि-ट. 5.पक्षे इति नास्ति -ट.रा. 6.तेपि -ग.रा. 7.षाशं -क.ट.रार्. 8. थं व्याप्तिप्रदर्शकेनो -इत्याद्यस्ति -क.ग.ट.रा. 9.नध्यवसि -क.ग.ट.रा. 10. नेपि -क.ग.रा.
पु - 198. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
- अग्निमानेव न त्वनग्निक इति साध्यानुवादेन बाधसत्प्रतिपक्षयोर्निरास इति कथं पञ्चावयवनियमे हेत्वभाव इति॥
उच्यते --
आद्यः पक्षस्तावन्न युक्तः। न हि वादिवाक्यमाप्तवाक्यतया व्याप्त्यादिविशिष्टलिङ्गप्रमापकम्। येनाकाङ्क्षाक्रमेणावयवनियमः स्यात्। वादिनोः परस्परमनाश्वासात्। अन्यथा प्रतिज्ञयैवालम्। किं तु गृहीतव्याप्त्यादिकं पुरुषं प्रति तत्साधकत्वेनागृहीतव्याप्त्यादिकं प्रति तु तज्जिज्ञासाजनकत्वेनोपयुज्यते॥
तथा च व्याप्तिपक्षधर्मताभ्यां वा व्याप्तिसमुचितदेशसिद्धिभ्यां वा विशिष्टलिङ्गस्मृतिर्यावता भवति तावदेव वक्तव्यम्। अन्यथाधिक्यापातात्॥
सा च पर्वतोग्निमान्धूमवत्वान्महानसवदिति प्रतिज्ञाहेतूदाहरणैकदेशदृष्टान्तवचनमात्रेण वा,
पररीत्या -- व्याप्तिपक्षधर्मताभ्यामिति॥ स्वमतेनाह -- व्याप्तिसमुचितदेशसिद्धिभ्यामिति॥
ननूक्तरूपिलङ्गस्मृतिः कियता भवतीत्यतः पद्धत्याद्युक्तसप्तप्रकारैर्भवतीत्याह -- सा चेति 1 ॥ जायमानेत्यन्वयः 2 । व्याप्त्यभिधानपूर्वं दृष्टान्तवचनं ह्युदाहरणम्।
1.उदाहरणस्यैकदेशो यो दृष्टान्तस्तद्वचनमात्रेणेत्यर्थः। उदाहरणेनेति। इत्यधिकम् -ट. 2.उदाहरणेति इत्यधिकम् -ठ.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 199.

अग्निव्याप्तधूमवत्पर्वतो ऽग्निमानिति हेतुगर्भप्रतिज्ञामात्रेण वा, विवादेनैव प्रतिज्ञासिद्धौ कुतः पर्वतो ऽग्निमानिति प्रश्ने ऽग्निव्याप्तधूमवत्वादिति हेतुमात्रेण वा पर्वतस्याग्निमत्वे किं प्रमाणमिति प्रश्ने ऽग्निव्याप्तधूमवत्वमिति लिङ्गोक्तिमात्रेण वा, धूमवन्महानसवत्पर्वतोग्निमानिति सप्रतिज्ञेन हेतुगर्भेण दृष्टान्तवचनमात्रेण वा, अग्निना व्याप्तो धूमः पर्वतेस्तीत्युपनयमात्रेण वा, व्याप्ति 1 मद्दूम 2 वत्वात्पर्वतो ऽग्निमानिति निगमनमात्रेण वा, जायमानानुभूयत इति किं पञ्चावयवादिनियमेन॥
आद्ये ह्यनुमानमुद्राभिज्ञस्य व्याप्तिग्रहणस्थले उक्ते व्याप्तिस्मृतिर्भ वत्येवेति न न्यूनता। व्याप्तिवाचकशब्दस्तु यो यो धूमवानसावग्निमानित्युदाहरणभागान्तरेपि नास्ति॥
तत्र यो यो धूमवानसावग्निमानिति व्याप्त्युक्त्यंशत्यागेन महानसवदिति दृष्टान्तवचनमात्रेणेत्यर्थः। उक्तसर्वपक्षेषु व्याप्तिस्मृत्युत्पादप्रकारमुपपादयन्न्यूनतादिदोषं निराह-- आद्ये हीत्यादिना॥
ननु व्याप्तिबोधकशब्दाभावे कथं व्याप्तिस्मृतिरित्यत आह-- व्याप्तिवाचकेति॥ यो य इति साध्ये सकलसाधनाधिकरणसत्वबोधकगस्यैव सत्वाव्द्याप्तीति पदाभावादिति भावः। नन्वेवमाद्यपक्षे --
1.व्याप्त्यादि म -क.ट. 2.मत्वात् प -ग. मवत्पर्व -ठ.
पु - 200. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
द्वितीयेपि लोके शास्रे च हेतुगर्भविशेषण 1 प्रयोगान्दृष्टवतो व्युत्पन्नस्य धूमवत्वं हेतुरिति धूर्भवत्येवेति न न्यूनता॥
तृतीयेपि धूमवत्वादित्यस्य प्रश्नस्थेनाग्नमानित्यनेनान्वयान्नापार्थकता। नापि प्रतिज्ञाभावेन 2 साध्यानुपस्थितेर्न्यूनता। विवादेनैव तदुपस्थितेः। न च समयबन्धादिना विप्रतिपत्तिर्व्यवहितेति वाच्यम्। समयबन्धानन्तरभाविना कुतो ऽग्निमानिति प्रश्नेन पुनरपि साध्योपस्थितेः। आद्यपक्षस्तु स्वपक्षं
साधयेत्याद्यनुयोग एव प्रवृत्त इति स्वपक्षभूतसाध्योपस्थित्यर्थं तत्र प्रतिज्ञापेक्षितैव॥
ननु -- तथापि हेतुमात्राकाङ्क्षाशामकेन हेतुवचनेन धूमादित्येवंरूपेणैव भाव्यम्। न तु धूमवत्वादित्येवंरूपेण। तथा च पक्षधर्मताया अलाभात् 3 पुनरपि तृतीये न्यूनतैव। मन्मते तूपनयेनतल्लाभ इति चेन्न। पक्षस्य साध्यवत्वे को हेतुरित्याकाङ्क्षाशामकेन हेतुवचनेन हेतौ पक्षसंबन्धस्यापि बोधनीयत्वात्। अत एवोपनयो ऽधिकः॥
1.विशेषणपदं न -ग.ट.रा. 2.वे च सा -रा. 3.अभावात् पु -रा.
पञ्चा-ववनि-भङ्गः) विभागावादः पु - 201.
पञ्चमेपि महानसवदित्यनेन व्याप्तेर्धूमवदिति दृष्टान्तविशेषणेन पक्षधर्मतायाश्चोपस्थितिरिति न न्यूनता॥
न चैवं वादिवाक्यस्याप्तवाक्यवदनुसरणीयत्वे निग्रहोद्भावनं न स्यादिति वाच्यम्। प्रमापकत्वांशत्यागेन ज्ञापकत्वांशे लोकशास्रप्रहतरीत्यनुसारिणो वादिवाक्यस्याप्यनुसारिणीयत्वात्। अन्यथाग्निमानित्युक्ते ऽग्निशब्दस्य चित्रमूलार्थत्वमादायार्थान्तराद्युद्भावनं स्यात्॥
किं च त्वत्पक्ष एव न्यूनादिनिग्रहोद्भावनं न स्यात्। न्यूनादिकं प्रति लोकसिद्धमर्यादाया एवावधित्वात्। मत्पक्षे निग्रहोद्भावनं तु लोकसिद्धरीत्यतिक्रमे सावकाशम्॥
व्यर्थ इति यावत्। प्रमापकत्वांशेति॥ आप्तवाक्य इव वादिवाक्ये प्रमापकत्वाभावेपि ज्ञापकत्वमात्रस्य सत्वाद्बाधितार्थकवाक्यस्यापि बोधकताया योग्यतावादे साधनादिति भावः॥
चित्रमूलादीति॥ ननु तथोक्तौ छलेन निगृह्येतेति चेत् तदेव कुतः। प्रकरणाद्यनुसंधानादिति चेत् समं प्रकृतेपीति भावः॥ लोकसिद्धेति॥ अस्मदुक्तप्रकारा एव लोकसद्धमर्यादानुसारिण इति भावः। ननु युक्तिपादीयसुधायं व्याप्तिपक्षधर्मत्वयोगरन्यतरदेवाभिधेयम्। व्याप्त्यभिधानं नावश्यकमिति 1 प्रतीतेः
प्रागुक्तपक्षेषु च द्वयोरप्यभिधानप्रतीतेर्विरोध इत्यतः सुधोक्तमनूद्य चतुर्धाभिप्रायोक्त्या विरोध निराह -- यातुसुधायमामित्यादिना॥
1. सुधावाक्यात्प्रतीतेः- ट.ठ
पु - 202. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
1 यातु सुधायां संस्कारोद्बोधोपयुक्तं सादृश्यसंबन्धादिकं किमप्येदृष्टव्यमित्यादिना व्याप्तिपक्षधर्मतयोरन्यतरस्मिन्नुक्ते ऽन्यस्य स्मृतिर्भविष्यतीत्युक्तिः सा दृश्यते खलु लोके पदैकदेशेन 2 पदार्थ 3 स्मृतिरित्युक्तिवत्कथा 4 बाह्यप्रयोगाभिप्राया वा, वादकथाभिप्राया वा, एकोक्तिमात्रेण 5 द्व्यंशस्मृतिमत्पुरुषविशेषाभिप्राया वा, कैमुत्याभिप्राया वा, न तु द्वयोरन्यतरदेवाभिधेयमित्यभिप्राया॥
अत एव विष्णुतत्वनिर्णयटीकायां -- स्मरणं तु पदैकदेशादिनापि दृष्टं किमुत प्रतिज्ञादिभिरित्युक्तम्। अत एव च ब्रह्मतर्के --
स 6 इत्यस्यार्धवाक्यप्रयोगाभिप्राया वेत्यादिनान्वयः। वादेति॥ तत्र निर्णीताप्तभावत्वेन निग्रहस्तानाभावेन चैकदेशकीर्तनेप्युभयस्मृतिसंभवादिति भावः॥ कैमुत्येति॥ एवमेकदेशकीर्तनेनापि ससामर्थ्यलिङ्गस्मृतिर्भवति किमु प्रागुक्तसप्तप्रकारैः तत्रापेक्षितशब्दानां सत्वादिति कैमुत्याभिप्राया वेत्यर्थः। अत एव चेति॥ व्याप्त्याद्यभिधानस्यावश्यकत्वादेवेत्यर्थः। सूचितमित्यन्वयः। ब्रह्मतर्क इति॥ तत्वनिर्णयोदाहृते। युक्तिर्व्याप्त्यादिमल्लिङ्गम्। प्रतिज्ञारूपं निरूपकं स्मृत्यादिजननी यस्याः सा तथोक्ता। एवं हेतुरूपिकादृष्टान्तरूपिकेत्याद्यपि व्याख्येयम् ॥
1.यत्तु - ग.रा. 2.शादितोपि-इति शोधितम्-ट. 3.स्मरणादिकमि - इति शोधितम् -ट. 4. दर्थ वाक्यप्रयो -ग.ट.रा. 5.णान्यस्मृ -ग.ट.रा. 6.सत्यस्य वाक्यार्थ -ठ. सा इत्यस्यार्धवाक्य -ड.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 203.
युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका।
तथोपनयरूपा च परा निगमनात्मिका ॥
इत्यवयवपञ्चकस्य प्रत्येकं परार्थानुमानत्वं प्रतिज्ञायन्ते व्याप्तिमाश्रित्य केवलमित्युक्त्या सर्वत्रापि व्याप्त्यभिधानं सूचितम्॥
विष्णुतत्वनिर्णयटीकायामपि"व्याप्तिमाश्रित्येत्यपि 1 पक्षान्तरदर्शनमित्युक्त्या प्रतिज्ञादावपि व्याप्त्यभिधानं सूचितम्॥
2 प्रमाणपद्धतावपि उपनयेग्निमा व्याप्तो धूमः पर्वते ऽस्तीति, निगमनेपि व्याप्त्यादिमद्धूमवत्वादिति व्याप्तिरूक्ता।
दृष्टान्तशब्देन तद्वचनमुपलक्ष्यते। उदाहरणैकदेशग्रहणार्थं दृष्टान्तेत्युक्तम्। युक्तिर्निगमनजन्यस्मृतिमतीत्यर्थे निगमनात्मिकेत्यौपचारिकप्रयोगः। युक्तेरेकत्वेपि तत्स्मृतिजनकभेदाभिप्रायेणोपचारेत्युक्तम्। अत्र सर्वत्र हेतुगर्भप्रतिज्ञारूपेति सप्रतिज्ञहेतुरूपिकेति हेतुगर्भसप्रतिज्ञदृष्टान्तरूपिकेति सप्रतिज्ञोपनयरूपेत्ये 3 वं पूरणीयम्। प्रतिज्ञाहेतु 4 रूपैवेत्यादिवाक्यशेषात्॥ विष्णुतत्वेति॥ अत एवेत्यनुषङ्गः। अत्र सप्रतिज्ञोपनयरूपेतिप्रागुक्तपक्षापेक्षया सव्याप्तिकोपनयरूपेत्येतदर्थपरत्वप्रतीतावपि तुल्यन्यायत्वात्प्रतिज्ञादावपीत्युक्तम्। प्राक् स्वोक्तरीत्येति भावः।
1.ऽत्यत्रऽइति स्थितं ऽत्येत्येतत्ऽइति शोधितमस्ति-ट. 2.प्रमाणपदं न -ग.ट.रा. 3.ति सप्रतिज्ञानिगमनरूपेत्ये -ठ. 4.तु गर्भेत्यादि वा-ट.ठ.ड.

पु - 204. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
प्रमाणलक्षणे ऽपि"हेतुगर्भा प्रतिज्ञा केवलापि, सिद्धौ प्रतिज्ञायां हेतुमात्रं च, दृष्टान्तः सप्रतिज्ञो हेतुगर्भ इति व्याप्यरूपलिङ्गवचनार्थकेन हेतुशब्देन सर्वत्रापि व्याप्त्यभिधानं सूचितम्। सुधायामपि ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यमुपदेश इत्युक्तम्॥
यद्वा धूमवत्वादित्येव हेतुः। न तु व्याप्तधूमवत्वादिति। एवमवयवान्तरे ऽपि द्रष्टव्यम्। तथापि न न्यूनता। प्रतिवादिन आकाङ्क्षाक्रमेण व्याप्त्यादे 1 स्तृतीयादिकक्ष्यासूक्तिसंभवात्। स्वीकृता च त्वयाप्याकाङ्क्षाक्रमेणोक्तिः।
सुधायामिति॥"व्याप्तिरेव तु सा स्मृते"ति युक्तिपादीयानुव्याख्यानव्याख्यावसरे सुधायामित्यर्थः। एवमवयवान्तरेपीति॥ प्रतिज्ञादयः पञ्चाप्यवयवाः हेत्वादिकिञ्चित्सहिताः सन्तः प्रत्येकं परोपदेश इत्युक्तम्। तत्र प्रागुक्तसप्तसु परोपदेशप्रकारवाक्येष्ववयवभूतो यो हेत्वंशः स व्याप्त्यभिधानशून्यः। केवल एवाभिधेय इत्यर्थः॥ तृतीयादीति॥
धूमवत्वादीति वादिनः प्रथमकक्षा 2 व्याप्तिर्नास्त्योपलभ्यते कथं व्याप्तिरित 3 वादिनो द्वितीया कक्ष्या, यो यो धूमवानिति 4 व्याप्त्यभिधानवादिनः तृतीया कक्षा, कथं व्याप्तस्य पक्षनिष्ठता समुचितदेशवृत्तिर्वेति प्रतिवादिनश्चतुर्थी कक्षा, वह्निव्याप्तो धूमः पुर्वते ऽस्तीत्युपनयवादिनो वादिनः पञ्चमी कक्षेत्येवंरूपेण कथाप्रवृत्तेस्तृतीया-
1.देर्द्वितीयादिकक्ष्यासू इति शोधितम् -ट. 2.क्ष्या -ठ.ड. 3.ति प्रति वा-ट.ठ.ड. 4.त्यादि -ट.ठ.ड.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 205.
किं तुप तवमते प्रतिवादिना द्वितीयादिकक्ष्यास्वाकाङ्क्षिष्यमाणमपि व्याप्त्यादिकं वादिना पञ्चावयवेन महावाक्येनाद्यकक्ष्यायामेव वक्तव्यमिति नियमः। मम तु न। उत्तरत्राकाङ्क्षिष्यमाणस्याप्यादावेवोक्तावाकथापरिसमाप्ति यावद्वक्तव्यं तावत आदावेवोक्तिप्रसङ्गात्॥
किञ्च युगपदुक्तिनियमे ऽपि तदभिमतस्योपनयस्य निगमनस्य च प्रत्येकं व्याप्त्याद्युक्तौ शक्तत्वात्किमवयवान्तरेण । तस्मादाद्यः पक्षो न युक्तः॥
नापि सकलशङ्कानिरासार्थं पञ्चावयवनियम इति द्वितीयः। आदावेव सकलशङ्कानिरासकस्यैव --
-दिकक्ष्या 1 स्वित्युक्तम्। मम तु नेत्ययुक्तम्। आकाङ्क्षिष्यमाणस्याप्यादावेव वक्तव्यत्वादित्यत आह-- उत्तरत्रेति॥ पररीत्याप्युपनयनिगमनान्यतराभ्यामेवालमन्यव्द्यर्थमित्याह-- किञ्चेति॥
न पञ्चावयवोक्तौ तु विवादावसितिर्भवेत्।
दृष्टान्तादिषु चैवं स्यात्॥
इत्यनुव्याख्यानसुधोक्तदिशा निराह -- आदावेवेत्यादिना॥ ननु हेत्वाभासादिदोषदुष्टतारूपावान्तरशङ्गापञ्चावयवप्रयोगमात्रेण निरस्यत इति तावदेवैकं महावाक्यमित्युच्यत इति चेत्तर्हि पर्वतो वह्निमान्न वेति शङ्कानिवर्तकत्वं पर्वतो ऽग्निमानिति प्रतिज्ञायाः कुतोग्निमत्वमिति सङ्कानिरासकत्वं धूमव 2 त्वादितिहेतुवचनस्य, कथमस्य व्याप्त्यादी-
1.अत्र सर्वत्र क्ष्या इत्येवास्ति- ट.ठ. 2. मत्वा-ठ.ड.
पु - 206. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
परार्थानुमाने पञ्चावयवप्रयोगेणैव तन्निवृत्तौ तावतैव कथामुद्रणापातेन तन्निवर्तिकाया कृत्स्नकथाया एव परार्थानुमानत्वप्रसङ्गात्। अवान्तरशङ्कानिवर्तकत्वं तु प्रत्येकं प्रतिज्ञादेरप्यस्ति॥
किञ्चोक्तरीत्यैकैकावयवेनापि व्याप्तिपक्षधर्मतयोरभिधानात्सकलशह्कानिवर्तकत्वं तस्याप्यस्ति। अपि चास्मिन् पक्षे कण्टकोद्धारो ऽपि पृथङ्न कर्तव्यः स्यात्। तस्मात्पक्षद्वयमप्ययुक्तम्॥
अपि च पञ्चावयवादिनियमोपि विप्रतिपन्नं प्रत्यनुमानेनैव साध्यः। तस्य प्रत्यक्षाद्यविषयत्वात्। पञ्चावयवप्रयोगेणैव 1 तत्साधने मीमांसकादि प्रत्याधिक्य प्रसङ्गात्। तत्परिहारार्थं पञ्चावयवनियमस्य तात्विकत्वसाधनेचानवस्थानात्।
तद्रीत्या त्र्यवयवादिप्रयोगे च तवन्यूनत्वापातात्॥
2 ति शह्कानिषेधकत्वमुदाहरणस्य, इत्येवं रूपेणावान्तरशङ्का एकैकावयवोक्तावपि निवर्त्यत इति प्रतिज्ञादिकमपि प्रत्येकं परोपदेशरूपमहावाक्यं स्यादित्यर्थः। पूर्वपक्ष इवास्मिन् पक्षोपि परीत्या
सर्वाभासनिरासस्य प्रत्येकं संभादवयवान्तरं व्यर्थमेवेत्यत आह -- किञ्चोक्तरीत्येति॥ सा च पर्वतोग्निमान् धूमवत्वादित्यादिनोक्तरीत्येत्यर्थः। तस्यापीति॥ प्रतिज्ञाहेतुदृष्टान्तरूपाद्यैकैकावयव 3 स्यापीत्यर्थः॥
त्रिपञ्चावयवामेवप युग्मावयवविनामपि।
नियमाद्योनुमां ब्रूयात्तं ब्रूया 4 द्यदिता दृशीम्॥
इत्यनुव्याख्यानसुधोक्तयुक्त्या च नियमपक्षं निराह-- अपि च पञ्चावयवेति॥ प्रत्यक्षाद्यविषयत्वादिति॥ आगमस्य चाभावादित्यपि ध्येयम्।
1. ण च -ग.रा. 2.दिकममि-ठ. दिरि-ड. 3.वोक्ता व -ट.ड. 4.तादृशीयदि -ट.ड.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 207.
तत्तन्मतरीत्या प्रयोक्तव्यमिति वा, यावतो व्याप्त्यादिविशिष्टलिङ्गधीस्तावत्प्रयोक्तव्यमिति वा, समयबन्धेन च मीमांसकादिना स्वाभिमतावयवनियमसिद्ध्यर्थं कृतेन व्यवयवादिप्रयोगे 1 न तव व्याप्तिस्मृत्यादिरावश्यक इति स्वीकृतत्वेन त्वयैव पञ्चावयवनियमस्त्यक्तव्यः। एवं मीमांसकादिभिरपि स्वाभिमतो नियमस्त्यक्तव्य इति कथं तन्नियमः॥
अवनवस्थानादिति॥ पञ्चावयवनियमस्य पञ्चावयवयुक्तानुमानेन मीमांसकमवयवत्रयनियमवादिनं प्रति साधने त्वया कृते मीमांसकेनाधिकं 2 निग्रहस्थानमित्युक्ते पुनस्त्वयाऽधिक्यदोषनिरासार्थं पञ्चावयवनियम एव परमार्थत्वमिति पञ्चावयवयुक्तेनानुमानेनैव स्याध्यम्। तत्रापि तेन पूर्वोक्तदोषे।भिहिते पुनरनुमानान्तरेण त्वया तथैव साध्यमित्यनवस्थानादित्यर्थः। तद्रीत्या मीमांसकरीत्या॥
एवं मीमांसकादिभिरिति॥ अवयवत्रययुक्तानुमाने मीमांसकेनोक्ते न्यूनतयानैयायिकेन प्रत्युक्ते ऽवयत्रयनियमस्य तात्विकतासाधनमपि तादृशप्रयोगेणैवप कार्यमित्यनवस्थानात्। न्यायमतरीत्या मीमांसकेनोक्ते स्वमतेनाधिक्यं तत्तन्मतरीत्या प्रयोक्तव्यमित्याद्युक्तौ च न्यायमतरीत्या नैयायिकेन
पञ्चावयवप्रयोगे कृते तेन तव व्याप्तिस्मृत्यादि --
1.गेण त -क.ट.रा. 2. नामेत्यधिकम् -ड.
पु - 208. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्च नेदं स्वसाध्यसाधकं, असिद्धत्वादित्याद्य 1 साधकानुमानेषु नायमसिद्धः तल्लक्षणरहितत्वात् इत्यादिकण्टकोद्धारानुमानेषु प्रथमप्रयुक्तहेतोर्व्याप्तिपक्षधर्मतादौ विप्रतिपत्तौ तत्साधकेषु द्वितीयादिकक्ष्यानिपातिषु शाखानुमानेषु वादिभ्यां कथामध्ये स्वाभिमततत्तत्प्रमेयसिद्ध्यर्थं पञ्चावयवतां विनाप्युच्यमानेषु परिशेषार्थापत्यादिरूपेषूपशाखानुमानेषु च त्वयैव नियमस्त्यक्त इति कथमन्यत्र तन्नियमः॥
नन्वसिद्धत्वा 2 देरसाधकत्वादिना व्याप्त्यस्वीकारे
भवतीत्युपेयमित्यवयवत्रयनियमस्त्यक्त 3 एव। एवं बौद्धेनापि स्वाभिमतो नियमस्त्यक्तव्य एवे 4 त्यर्थः॥

क्वचित्कॢप्तत्वात्प्राथमिकस्थापनानुमानेपि न पञ्चावयवादिनियमो ग्राह्य इति प्रतिबन्दीमुखेनापि नियमभङ्गं साधयति-- किञ्च नेदमिति॥ तथैव हेत्वाभासान्ते मणौ व्यक्तत्वादिति भावः। शाखानुमानेष्विति॥ प्रथमं प्रधानप्रमेयसाधनार्थं प्रयुक्तमनुमानं प्रधानं महावृक्षस्थानीयं तदुपयुक्ततया तद्दूषकतया वा प्रयुक्तानि शाखानुमानानि मध्येमध्ये ऽवान्तरप्रमेयोपयुक्ता 5 न्यनुमानान्युपशाखानुमानानीति शाखानुमानेषूपशाखानुमानेष्विति चोक्तम्॥
परमुखेनोत्तरं वाचयित्वा सममित्याह-- नन्विति॥ अविवादे तु नावयवान्तरप्रयोग इत्यत्र दोषान्तरमाह -- किञ्च केवलान्वयिनीति॥
1.द्यसाधकतासाधनानुमा --ग.रा. 2.दे रसाधकत्वादिना व्याप्त्या -क.ग.रा. 3.क्तव्य ए-ट.ठ. 4.एवेति नास्ति-ट.ठ। 5.अनुमानानीति नास्ति-ट.ठ.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 209.
कथानधिकारेण तत्र व्याप्तेरुभयसंमतत्वात्पक्षधर्मतामात्रं प्रदर्शनीयमिति चेत् तर्हि कृतकत्वानित्यत्वयोरपि व्याप्तेर्मीमांसकसम्मतत्वात्तत्र केवलान्वयिसाध्यके हेतौ च व्यभिचारशङ्कानुदयात्तत्रापि पक्षधर्मतामात्रं प्रदर्शनीयं स्यात्॥
किञ्च केवलान्वयिहेतौ पक्षधर्मतायाः सर्वसंतत्वात्तत्र व्याप्तिमात्रं प्रदर्शनीयं स्यात्॥
यदि च व्याप्त्यादौ प्रतिवादिनः संम 1 तेपि वादिना स्वर्वकर्तव्यं 2 तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तिप्रदर्शनमपि कर्तव्यमेव। किञ्चैवमसिद्धस्यापि साधकत्वस्वीकारे कथानधिकार इत्यपि सुवचत्वेनासाधकतानुमानं विफलम्॥
यदि च तत्स्वीकारिणो ऽपि कथमानधिकारे विप्रतिपन्नं प्रति असाधकतानुमानं सफलम्। तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तौ विप्रतिपन्नं प्रति 3 तत्प्रदर्शनमपि सफलमेव॥
किञ्चैवं शाखोपशाखा 4 नुमानेषु का गतिः तत्र व्याप्तेरुभयसम्मत्यभावात् मदुक्तरीतिरेव वक्तव्येति मूलानुमानेषु 5 तथैऽवास्तु॥
मदुक्तरीतिरिति॥ यावता तद्बोधः तावन्मात्रमित्यादिना प्रागुक्तसप्तप्रकारान्यतममेवानुसर्तव्यमित्यर्थः। सजातोयन्वयदर्शनरूपं वा -
1.मतावपि -क.ग.रा. 2.कर्तव्यमित्यधिकम्-क.ग.रा. 3.व्याप्ति प्र-क.ग.रा. 4.खाद्यनुमा -क.ग.ट.रा. 5.नेत -ग. नेपित -ट.रा.
पु - 210. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अपि चाग्निना व्याप्तो धूमः पर्वतेस्तीति वाक्यं आप्तोक्तं व्याप्त्यादिविशिष्टलिङ्गप्रमापकं दृष्टमिति तदेव वाद्युक्तं कथं तज्ज्ञापकं न स्यात्। किञ्च त्वयापि त्वत्कल्पितपञ्चावयवनियमविस्मृतिदशायामवयवानियमो ऽयुक्तः अतिप्रसङ्का 1 दित्येतावतैवा 2 वयवानियमायुक्तत्वस्य साध्यमानत्वात्स्वक्रियाविरोधः॥
नन्वेवमनियमवादिमते कथगं न्यूनाद्युद्भावनमिति चेन्न। उदाहरणान्तमुदाहरणादि वावयवत्रयमेवेति पर 3 मते कथमप्राप्तकालाद्युद्भावनम्।
अन्वयितावच्छेद 4 कवत्वंरूपं वा योग्यतावत्वं हेत्ववयवेप्यस्तीति तदेवानुमितिहेतुलिङ्गज्ञानजनकमित्यवयवान्तरं व्यर्थमेव। तावतैव सर्वदोषशङ्कानिवृत्तिसंभवाच्चेति भावेनाह -- 5 अपि च अग्निनेति॥
व्याघाताच्च नियमपक्षस्त्याज्य इत्याह-- किञ्च त्वयापीति॥ इत्येतावतैव साध्यमानत्वादित्यन्वयः। इत्येतावतैव -- प्रतिज्ञाहेतुरूपावयवद्वयेनैवेत्यर्थः। तत्र ह्तुस्त्वत्कल्पितेत्यादि॥ अनियमेति॥ पञ्चावयनियमपक्षस्य यदयुक्तत्वं तस्येत्यर्थः। प्रतिबन्द्योत्तरमाह-- उदाहरणान्तमिति॥ मन्मत इव तन्मतेप्यनियमस्य तुल्यत्वादिति भावः॥ अप्राप्तेति॥ क्रमविपर्यासोप्राप्तकालमित्यप्राप्तकालाख्यनिग्रहस्थानाद्युद्भावनमित्यर्थः। कथञ्चेत्यस्य न्यूनाद्युद्भावनमित्यन्वयः। ---------------------------------------------------------------------------
1.ङ्गत्वादि-ग.ट.रा. 2.वानियमा-ग.रा. ऽवानिमाऽइति स्थितं वनियमा इति शोधितम्-ट. 3.भट्ट -ग.ट.रा. 4.कत्व-ठ.ड. 5.अपि चेति। आग्निनेति। व्या - इत्याद्यस्ति -ड.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 211.
कथं चोदाहरणे दृष्टान्तोक्तिः यच्छब्दतच्छब्दयोर्वीप्सा विशिष्य कण्टकोद्धारः असाधकतऽनुमानं उपाधेः स्वशब्दो 1 ऽद्भावनं चानियतमिति नैयायिकमते न्यूनाद्युद्भावनम्॥
समयबन्धानुसारेणेति चेत्। समं प्रकृते ऽपि। उक्तपक्षेष्वेतं पक्षमाश्रित्य वक्तव्यमिति वा लोकशास्त्र 2 सर्वावगतमार्गेण व्याप्तिपक्षधर्मताविशिष्टलिङ्गोपस्थितिर्यवता तावद्वक्तव्यमिति वा समयस्य बन्धनीयत्वात्। अत एव ब्रह्मतर्के॥
"पृथक्पृथक्प्रमाणत्वं याति युक्तितयैव तु"।
इत्यत्र परार्थानुमानत्वे युक्तिशब्दवाच्यव्याप्तिपक्षधर्मताविशिष्टलिङ्गोपस्थापकत्वमेव तन्त्रमित्युक्तमा। यच्चोक्तं साध्योपस्थापकत्वात्प्रतिज्ञैव प्रथमेति। तन्न। क्वचिद्विधितोप्यर्थवादस्य प्राधम्यवत्, भट्टादिमते उदाहरणस्य प्राधम्यवत्,
अनियतपदं प्रत्येकमन्वेति। तेनैवोत्तरं वाचयति- समयेति॥ त्वयोदाहरणान्तमेव वाच्यमिति समयबन्धे सति तदतिक्रमेणोदाहरणादिप्रयोगे कथिते निग्रहस्थानोद्भावनमिति चेदित्यर्थः। अनियमपक्षे समयबन्ध इत्यत आह-- उक्तपक्षेष्विति॥ सा चेत्यादिना प्रागुक्तसप्तपक्षेषु॥
ननु यावतेत्यादिना ग्रन्थेन प्रतिज्ञाद्यवयवानां यः पौर्वापर्यरूपक्रमः शङ्कितः तमपि प्रत्याचष्टे -यच्चेति॥ विधितोप्यर्थवादस्येति॥
1.ब्देनो -ग.ट.रा. 2.स्त्रप्रहतमा-क.ग.ट.रा.
पु - 212. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
"आम्नायस्य क्रियार्थत्वादानार्थक्यमतदर्थानां तस्मादनित्यमुच्यते""अत एव प्राणः""प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं"इत्यादौ निगमने च हेतोः प्राथम्यवच्च लोक 1 शास्त्रव्यवहृतेनोपाद्यतन्यायेन 2 हेतोरपि प्राथम्य 3 सम्भवात्। विवादेनैव साध्योपस्थितेरुक्तत्वाच्च।
"प्रजापतिर्वा इदमेक आसीत्, सोकामयत प्रजाः पशून् सृजेयेति स चात्मनो वपामुदखितत्तामग्नौ प्रागृह्णात्ततोजस्तूपरः समभवत् तं स्वायै देवताय आलभत्त 4 तो वै स प्रजाः पशूनसृजत यः प्रजाकामः पशुकामस्स्यात्स एतं प्राजापत्यमजं तूपरमालभेते"त्यादावर्थवादस्य प्राथम्यं यथेत्यर्थः॥
भट्टादीत्यादिपदेन बौद्धग्रहः। हेतोः प्राथम्येर्ऽथवादाधिकरणगतजैमिनिसूत्रमुदाहरति -- आम्नायस्येति॥ वेदस्य धर्माधर्मरूपकर्मलक्षणक्रियाबोधकत्वात्। अतदर्थानामक्रियार्थकानां अर्थवादानामानर्थक्यं
तस्मादर्थहीनत्वादनित्यमिवानित्यमप्रमाणमुच्यतेर्ऽथवादजातमिति पूर्वपक्षासूत्रार्थः। तत्रैव व्याससूत्रमुदाहरति -- अत एवेति॥ निरवकाशलिङ्गादेव प्राणशब्दार्थो ब्रह्मेति सूत्रार्थः। तत्रैव गौतमसूत्रमुदाहरति -- प्रवृत्तीति॥ सफप्रवृत्तिजनकत्वादर्थावगाहिप्रमाणमित्यर्थः॥ निगमनेति॥ तस्मात्पर्वतो वह्निमानिति निगमनाख्यावयवे 5 त्यर्थः। अत्रापि कथकानुमानप्रयोगस्थलेपीत्यर्थः। प्रतिज्ञाया एवा 6 नैयत्यं कुतस्तत्प्राथम्यनैयत्यमित्याह -- विवादेति॥

1. के शास्त्रे च प्रहतेनो -क.ग.ट.रा. 2.नात्रापि हे-क.ग.ट.रा. 3.ततः ऽनियमविस्मृतिदशायां । इत्याद्येवास्ति-ग.रा. 4.अलभद ततः -ठ.ड. 5.व इ-ठ. 6.वयै -ठ.ड.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 213.
पर्वतस्याग्निमत्वं कुत इति प्रश्ने प्रतिज्ञाया अनन्वयाच्च। त्वयापि त्वत्कल्पितप्रतिज्ञाप्राथम्यनियमविस्मृतिदशायां कदाचिद्धेतोरपि पूर्वमुक्त्या स्वक्रियाविरोधाच्च॥
अत एव हेतुवचनस्य द्वितीयत्वनियमो ऽपि निरस्तः। उपनयस्य सार्थक्यार्थं 1 हेतुवचनस्य मतुबादिराहित्यं तु प्रागेव निरस्तम्। पृथिवीत्वादि 2 संबन्धात्पृथिवीत्यादिस्वभाष्यविरुद्धं च ॥
यच्चोक्तं प्रतिज्ञायामग्निशब्दे 3 हेतौ धूमशब्दे 4 च तज्ज्ञाने 5 लक्षणा। अन्यथा धूमस्याग्निं प्रत्यकारणत्वेन पञ्चम्या अयोगादिति।
ननु गिरिरग्निमान् गिरिरनग्निक इति विवाद एव स्वपरपक्ष प्रतिज्ञारूप इति वदन्तं प्रति प्रकारान्तरेण तदनैयत्यमाह -- पर्वतस्येति॥ अत एवेति॥ हेतुवचनप्राथम्यस्य प्रदर्शितत्वादेवेत्यर्थः। यत्तु मण्यादौ कथायां धूमादित्येव प्रयोक्तव्यं न तु धूमवत्वादिति। मतुबो व्यर्थत्वात्। पक्षधर्मता तूपनयभ्येत्युक्तं तन्निराह --उपयनस्येति॥ मतुबादीत्यादिपेदन उदाहरणसार्थक्यार्थं यद्य्याप्तिराहित्यमुक्तं तद्ग्रहः। वह्निव्याप्यधूमवत्वादिति प्रयोगस्य
दर्शितत्वादितिभावः॥ प्रागेवेति॥ ननु तथापि हेतुमात्राकाङ्क्षाशामकेत्यादिग्रन्थेनेति 6 भावः॥ इति स्वभाष्येति॥ गोतमसूत्रभाष्ये। हेतुवचन एव मतुबर्थस्य पक्षसंबन्धस्योपादानेन हेतुवचने मतुबो राहित्यकथनं तद्विरुद्धमित्यर्थः। मण्याद्युक्तमन्यदपि निराह -- यच्चेति॥ अग्निमानित्यस्याग्निज्ञानमित्यर्थः। धूमादित्यस्य च धूमज्ञानादित्यर्थः।
1.परोक्तमित्यधिकम् -क.ग.रा. परोक्त हे-ट. 2.त्वाभि सं -ग.रा. 3.ब्दस्य इति शोधितम्-ट. 4.ब्दस्य इति शोधितम्-ट. 5.नल -रा. 6.त्यर्थः -ठ.
पु - 214. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तन्न। धूमे वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकहेतुत्वस्य सत्वात्॥
ननु तद्विषयकज्ञानजनकत्वमेव ज्ञापकहेतुत्वं तच्च धूमज्ञानस्यैव न तु धूमस्येति चेन्न। धूमज्ञानगतं हि ज्ञापकत्वं न तावद्वह्निं प्रति। धूमज्ञानाद्वह्निरित कदाप्यप्रयोगात्। नापि वह्निज्ञानं प्रति। 1 तत्र कारकहेतुत्वस्यैव संभवात्। व्यावृत्तिधीहेतुधीविषये दण्डादौ व्यावर्तकशब्दस्येव वह्निधीहेतुधीविषये धूम एव वह्निज्ञापक शब्दस्य प्रयोगाच्च॥
ज्ञापकहेतौ चानुपपत्तिप्रति 2 सन्धाननिरपेक्षप्रचुरप्रयोगादिना पञ्चमी मुख्यैव। अन्यथा साकारकहेतावेवामुख्या स्यात्।
धूमादिप्रातिपदिकेन ज्ञानलक्षणायां हेतुत्वार्थकपञ्चमी मुख्यैव संपद्यत इत्यर्थः। यज्ञपत्याद्युक्तदिशा निराह-- धूम इति॥ व्यावृत्तीति॥ दण्डविशिष्टे अदण्डितो व्यावृत्तीत्यर्थः॥
ननु धूमे वह्निज्ञापकशब्दप्रयोगो लक्षणयास्त्वित्यत आह-- ज्ञापकहेतौ चेति॥ मुख्यार्थानुपपत्तीत्यर्थः। एव प्रयोगे ऽपि लक्षणेत्युक्तौ 3 बाधकमाह -- अन्यथेति॥ यद्वा नन्वन्यायश्चानेकार्थत्वमितिन्यायेनैकत्रैव मुख्यत्व 4 मन्यत्रामुख्यत्व 5 मुपेयमित्यत आह -- अन्यथेति॥
1.तत्प्र -ग.ट. 2.त्यनुसं -क.ग.ट.रा. 3.साधक -ट. 4.ख्यार्थ-ट.
5.ख्यार्थ-ट.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 215.
कारकहेतावेव मुख्यत्वेपि पञ्चम्यामेव लक्षणास्तु। न तु प्रधाने धूमप्रातिपादिके। न च सुब्विभक्तौ न लक्षणेति कुलधर्मः। वेदे"प्रयाजशेषेण हर्वीष्यभिधारयति"इत्यादौ, त्वन्मते चतुर्विंशतिगुणाः, एकः समवाय इत्यादौ च तद्दर्शनात्। न हि गुणा इत्यादिविभक्त्युक्ता 1 बहुत्वादिसंख्या त्वन्मते गुणादावस्ति।
अस्तु वा त्वद्रीत्या कारहेतावेव पञ्चमी मुख्या। तथाप्यन्यत्र ज्ञापक 2 हेतौ लाक्षणिकीति स्यादित्याह -- कारकहेतावेवेति॥
ननु सुब्विभक्तौ लक्षणा न युक्तेत्यत आह-- न चेति॥ क्वाप्यनुपलम्भान्न सुब्विभक्तौ लक्षणेत्यत आह-- वेद इति॥ प्रयाजशेषेणेति॥ वाजपेयगते प्रयाजशेषेणेति वाक्ये द्वितीयातृतीयाभ्यां शेषस्य हविस्संस्कारार्थत्वप्रतीत्या प्रयाजनामकयागसाधनाज्यद्रव्यशेषेण हविस्संस्कुर्यादित्यर्थ इति प्राप्ते शेषस्य प्रतिपत्तिमात्रापेक्ष 3 त्वात्तत्प्रतिपदिकस्वारस्यानुरोधेन प्रयाजनामकयागसाधनाज्यशेषं हविष्षु स्थापयेदित्यर्थस्य चतुर्थस्याद्यपादे"अभिधारणे विप्रकर्षादनुयाजनवत्पात्रभेदः स्या"दिति त्रयोदशे ऽधिकरणे व्यवस्थितत्वेन तृतीयाद्वितीययोः कर्मत्वाधिकरार्थत्वस्वीकारदर्शनादित्यर्थः। 4 बहुवचनैकवचनयोरविवक्षितार्थत्वभ्रान्तिनिरासाय 5 चतुर्विंशतीति एक इति च विशेषणोपादानम्। तद्दर्शनादिति॥ गुण्यादिस्थसंख्यालक्षणया दर्शनादित्यर्थः॥
1.क्त व-ग.ट.रा. 2.के हे -ठ. 3.क्षित -ट.ठ.ड. 4.द्वितीययोरित्यारभ्य नास्ति -ड. तद्दर्शनादिति इति पर्यन्तं नास्ति -ठ. 5.तद्दर्शनादिति इति पर्यन्तं नास्ति-ट.
पु - 216. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
प्रत्युत हेतुवचने ज्ञानलक्षणायामुदाहरणे उपनये च ज्ञानस्य गमकत्वार्थं तस्यैव
व्याप्त्यादिविषयकत्वं वक्तव्यम्। न तु लिङ्गस्य व्याप्त्यादिमत्वम्॥
किञ्चावयवेनानुमित्यङ्गमेव ज्ञानमुत्पादयितव्यम्। लिङ्गज्ञानमेव च तदङ्गम्। न तु लिङ्गज्ञानज्ञानम्। 1 नापि वह्निशब्दे 2 लक्षणा। पञ्चम्युक्तज्ञापकत्वान्तर्गतज्ञानं प्रति विषयतया वा ज्ञापकत्वं प्रत्येव ज्ञाप्यतया वान्वयेनैव 3 वह्नेर्ज्ञाप्यत्वसिद्धेः। दृश्यते च चैत्रमातेत्यादौ स्त्रीत्वविशिष्टजनकत्वरूपमातृत्वान्तर्गतजनकत्वेन सह चैत्रस्य जन्यतयान्वयः। उदाहरणेपि योयो धूमवानसाव 4 ग्निमानित पूर्वभागेनैव वा,
लिङ्गज्ञानमेव चेति॥ न तु लिङ्गज्ञानम्। ज्ञानलक्षणापक्षे च लिङ्गज्ञानज्ञानमेवोत्पाद्यम्। गङ्गापदेन तीरज्ञानमिव। तच्च नानुमित्यङ्गमिति भावः। हेतौ ज्ञानलक्षणां निरस्य साध्येपि तां निराह-- नत्विति॥ वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकत्वान्तर्गतवह्निज्ञानं प्रतीत्यर्थः। ज्ञाप्यतयेति॥ ज्ञानजनकत्वरूपज्ञापकत्वं प्रत्येव तज्जन्यज्ञानविषयत्वरूपज्ञाप्यतयेत्यर्थः॥
नन्वाद्यपक्षे पदार्थैकदेशेन कथमन्वय इत्यत आह-- दृश्यतेचेति॥ उदाहरणरूपावयवमपि पराभिप्रेतं निराह-- उदाहरणेपीति॥
1.न तु इत्यादि नास्ति-ट.रा. 2.ब्देनल-क.ग.रा. 3.ह्निज्ञाप्यत् -ग.ठ.रा. 4.सावसाय -क.रा.
पञ्चा-ववनि-भङ्गः) विभागवादः पु - 217.
यथा महानस इत्युत्तरभागेनैव वा व्याप्त्युपस्थितेरन्यतरव्द्यर्थम्॥
अत एव दृष्टान्ताभिधान सामियकमिति चेन्न। अनुपयुक्तमप्यभिधेयमितिसमयबन्धस्यैवायोगात्। यस्य पुंसः
पूर्वभागेन न व्याप्तिस्मृति 1 स्तं प्रति दृष्टान्तस्याप्युक्तिरिति चेन्न। तथात्वे ऽवयवानियमसिद्धेः॥

यच्च सकलस्यापि साधनवतः साध्यवत्वरूपव्याप्त्यन्तर्गतसाकल्यार्थं यच्छब्दे 2 वीप्सेत्युक्तमा। तन्न।"गौर्न पदा स्पष्टव्या""यस्योभयं हविरार्तिमार् 3 छेत्"
यो ब्राह्मणायावगुरेत्तं शतेन यातया"दित्यादाविव वीप्सां विनापि यो धूमवानिति सामान्यतोक्त्यैव तत्सिद्धेः।
शङ्कते -- अत एवेति॥ पूर्वभागमात्रेण व्याप्त्युपस्थितेर्जातत्वादेव। सामयिकं समयबन्धकृतमित्यर्थः॥ अवयवेति॥ अवयवानियमस्यास्मत्पक्षस्य सिद्धेरित्यर्थः॥
गौरिति॥ या गौः सा पदा न स्पष्टव्येत्यभिप्रायण"गौर्न पदा स्पष्टव्ये"त्युच्यते वेदे, तथा"यस्योभयं सायङ्कालीनं प्रातःकालीनं च हविः क्रिमिकीटादिवशेनार्तिं नाशमाप्नुयात् ऐन्द्रं पञ्चशरावमोदनं निर्वपे"दित्यत्र यस्य यस्य पुंस इति वक्तव्ये यस्येति सकृदेवोक्तिर्यथा, अत यो ब्राह्मणायावगुरेत् वधोद्योगं कुर्यात् तं शतयातनाख्यनरकिणं विद्यादित्यादौ योय इति वीप्सां विना यथोक्तिरित्यर्थः॥
1.धीस्तं -ग.रा. 2.ब्दादौ -ग.रार्. 3. छति अथ यो-ट.रा.
पु - 218. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
इदमेतदभिन्नम्, एतदसाधारणधर्माधिकरणत्वात् एतद्वदित्यभेदानुमाने सपक्षव्यक्तिभेदाभावेन वीप्सार्थाभावाच्च। क्वचिद्वीप्सा तु स्पष्टतार्था। अत एव विमतो भिन्नो मुक्तत्वाद्यदित्थं तत्तथेत्यादावाचार्यो 1 क्तौ न वीप्सा॥
उपनयोपि हेतुवचनेन गतार्थः। अग्निव्याप्तधूमवांश्चायमिति त्वदभिमते उपनये उदाहरणसिद्धव्याप्त्यनुवादांशवैयर्थ्यं च। निगमनमपि प्रतिज्ञया गतार्थम्। न चोपसंहारार्थं तत्। विजातीयबहुप्रमेयाव्यवधानेन तदनपेक्षणात्। अन्यथा प्रत्येकं कण्टकोद्धारा 2 नन्तरं तस्मात्सर्व-
ननु कथं तर्हि"यद्यत्पापं प्रति जहि जगन्नाथ 3 तन्मे""यां यां प्रियः प्रैक्षते"त्यादौ वीप्सोक्तिरित्यत आह-- क्वचिदिति॥ आचार्योक्ताविति॥ तत्वोद्योते। उपनयाख्यावयवत्वं च निराह -- उपनयोपीति॥ पञ्चमावयवं च निराह -- निगमनमपीति॥ उपसंहारार्थमिति॥
पृथक्पृथग्वाक्योक्तानामेकबुद्ध्यारोहार्थमित्यर्थः। प्रत्येकं कण्टकेति॥ नायमसिद्धः तल्लक्षणहीनत्वादित्युक्त्वा तस्मादसिद्धराहित्यादिदं साधकम्, नायं विरुद्धः तल्लक्षणराहित्यादित्युक्त्वा विरुद्धराहित्यादिदं साधकमिति प्रत्येकं 4 निगमनं स्यात्, तथा नायमाभासः तल्लक्षणैर्हीनत्वादित्यनन्तरं तस्मात्सर्वदोषराहित्यादिदं साधकमिति,
1.क्तिः -ट. 2.रायानं-क. 3.नम्रस्य- इति पूरितम्-ड. 4.साधकं इत्यस्ति-ड.
स्वाता-नुन-दोषाः) अनुमादोषवादः पु - 219.
दोषराहित्यादिदं साधकमित्याद्यपि निगमनं नियतं स्यात्। 1 न च बाधादिशङ्कानिरासार्थं तत्। उदाहरणोपनयोक्तव्याप्तिपक्षधर्मताभ्यामेव स्वविरोधिसर्वदोषप्रतिक्षेपात्॥
तस्मात्पञ्चावयवादिनियमो न युक्त इति॥
पञ्चावयवादिनियमभङ्गः

24.21

तथा इदमसाधकं असिद्धत्वादिति दूषकतानुमानेपि तस्मादसिद्धत्वादिदमसाधकं तस्मादाभासकत्वादिदमसाधकमित्युपसंहारः स्यात्। ननु कदाचित्तत्रापीष्यत एवेत्यत आह -- नियतमिति॥
तदिति॥ निगमनमित्यर्थः। पूर्वोक्तदिशेति भावः॥
पञ्चावयवादिनियमभङ्गः

24.21

अथ स्वाभिमतानुमानदोषः

24.22

अथानुमानदोष उच्यते ॥
अथ स्वाभिमतानुमानदोषः

24.21

निर्देषोपपत्तिरनुमेत्युक्तम्। तत्र दोषज्ञाने सत्येव तद्विविक्ततयोपपत्तिः सुज्ञानेत्यतः"अथ निर्देषोपपत्तिरनुमानमित्युक्तम् 2 के तत्रोपपत्तिदोषा"इत्यादिना पद्धत्याद्युक्तेष्वनुमानदोषान्निष्कृष्य विवृण्वान आह -- अथेति॥
एवमनुमानो 3 पयुक्ताशेषोक्त्यनन्तरमित्यवसरसङ्गतिमथपदेन सूचयति।
1.नापि-ट. 2.क्ते के-ठ. 3.नोक्तदौ -ट. एव मन्योपयुक्ता दोषोक्त्यनन्तरं इत्वसरसंगतिरथपदेनेति सूचयति-ठ. नोपयुक्तदौषोक्त्यनन्तरं इत्यव -ड.
पु - 120. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यत्सद्भावे लिङ्गाभिमतं प्रमां न जनयति सोनुमानदोषः। प्रमाजनकत्वाभावश्च संशयविपर्ययजनके 1 ज्ञानाजनाके चानुगतः ॥
स च त्रिविधः। प्रतिज्ञाहेतुदृष्टान्तभेदेन।
अनुमानपदेनात्र लिङ्गत्वेनाभिमतमुच्यते। तथाचार्यदोषोक्तेरेवेयं प्रतिज्ञा न तु वचनदोषस्यापि। तस्यापि परम्परयार्ऽथदोषत्वे ऽपि साक्षादर्थदोष एवात्रोच्यत इत्यर्थः। उपलक्षणमेतत्। प्रतिज्ञादृष्टान्तदोषश्चोच्यत इत्यपि ध्येयम्॥
यद्वानुमानदोष एतावानिति निष्कृष्योच्यत इत्यर्थः। प्रतिज्ञादृष्टान्तदोषोक्तिरग्रेतनी अनुमानदोषविवेकार्था। अथावा अनुमानपदेनात्र प्रतिज्ञादृष्टान्तरूपपरिकरसहितं लिङ्गमुच्यते। तस्य दोष इत्यर्थः। अत एवाग्रे प्रतिज्ञादित्रितयदोषसाधारणं सामान्यलक्षणमुच्यते॥
यत्सद्भाव इति॥ व्याप्त्यादिमल्लिङ्गस्य प्रमितिजनकत्वनियमादसंभवनिरासाय लिङ्गमित्यनुक्त्वा लिङ्गाभिमतमित्युक्तम्। स्वज्ञानद्वारेति योज्यम्। लिङ्गाभिमतस्य प्रमित्यजनकतापादकत्वं दोषत्वमित्यर्थः। 2 एतस्य ज्ञानमात्रजनके 3 संशयविपर्ययजनके च भावाद 4 व्याप्तिरित्याह-- प्रमाजनकत्वाभावश्चेति॥ च शब्देन ज्ञानाजनक 5 ग्रहः। पद्धत्यादौ"यत्सद्भावे 6 लिङ्गाभिमतं ज्ञानं न जनयति, संशयविपर्ययौ वा करोती"त्युक्तिस्तु विस्पष्टार्थेति भावः। परोक्तहेत्वाभासानां सर्वेषां न हेतुदोषत्वं किं तु केषां चिदेवेति वक्तुं विभागमाह-- स चेति॥ प्रतिज्ञेति॥ प्रतिज्ञाहेतुपदाभ्यां तदर्थग्रहणम्। यद्वार्ऽथदोष एव तद्बोधकवचनस्यापीति प्रतिज्ञाहेत्वित्येवोक्तम्।
1. कञ्चानु ग - ग.रा. 2.नन्वस्य-ट. 3.सत्वेपि संशयजनके च अभा इत्यस्ति -ट. 4.वान्नाव्या -ट.ठ.ड. 5.परिग्र- ठ. संग्र-ट. 6.वाल्लिङ्गानुमतं-ड.
स्वाता-नुन-दोषाः) अनुमानदोषवादः पु - 221.
तत्र प्रतिज्ञातार्थस्य प्रमाणविरोधः प्रतिज्ञादोषः। स द्विविधः। 1 बलवत् प्रमाणविरोधः। समबलप्रमाणविरोधश्चेति। हीनबलस्याकिञ्चित्करत्वात्। समबलत्वं चाभिमानिकम्॥
द्वयमपि पुनस्त्रिविधम्। प्रत्यक्षानुमानागमविरोधभेदात्। अनुमानविरोधोपि द्विविधः। तेनैव हेतुना हेत्वन्तरेण 2 चेति। तत्राद्यः परैः प्रकरणसम इत्युच्यते। द्वितीयस्तु सत्प्रतिपक्ष इति।
"त्रिवधो विरोधः प्रतिज्ञाहेतुदृष्टान्तभेदेने"त्यादिप्रमाणलक्षणानुरोधेनायं निर्देषो ऽग्रे लक्षणोक्तिरपीति ज्ञेयम्। साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः तस्येत्यर्थः। हीनबलप्रमाणविरोधस्यापि सत्वास्त्रिविध इति वाच्यमिति आह-- हीनबलस्येति॥ वस्तुनो द्वैरूप्यापातेन समबलत्वमसंभावितमित्यत आह-- समेति॥ पुनस्त्रिविधमिति॥ समबलप्रत्यक्षविरोधः, प्रबलप्रत्यक्षविरोधः, समबलानुमानविरोधः, प्रबलानुमानविरोधः, समबलागमविरोधः, प्रबलागमविरोध इति त्रिविध इत्यर्थः। त्रिविधमध्ये द्वितीयमपि विभज्याह -- अनुमानेति॥
ननु पक्षद्वयेपि त्रिरूपो हेतुः प्रकरणसम इति समबलो भवति। स च न युक्तः। शब्दो ऽनित्यः गुणत्वात्, शब्दो नित्यः गुणत्वादित्यत्रानित्यत्ववादिनो हि घटरूपादिः सपक्षः, नित्यत्ववादिनः स एव विपक्षः। तथा च सपक्षे सत्वं ततो व्यावृत्तत्वं च द्वयमेकस्य न युक्तम्। अत उभयनिरूपितव्याप्त्योरेकत्रा 3 युक्तत्वात्तेनैव हेतुना विरोधो ऽसम्भवतीत्याशङ्क्य निराह -- न चाद्य इति॥
1.प्रबल प्र-ग.ट.रा. 2.इति इति नास्ति-ग.ट.रा. 3.रेकत्वायुक्त-ड.
पु - 222. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न चाद्योसम्भवी। एकस्मिन् पक्षे साध्यतदभावव्याप्ययोरिवैकस्मिन् हेतौ साध्यतदभावव्याप्त्योरप्यभिमानतः सम्भवात्॥
हेतोः साध्यप्रमाजननसामर्थ्याभावो हेतुदोषः। स द्विविधः असिद्धिरव्याप्ति 1 श्चेति। समुचितदेशे हेतोरभावोसिद्धिः। व्याप्तिविरहो ऽव्याप्तिः। सा च त्रेधा संभवति। साधनस्य साध्याभावेनेव साध्येनाप्यसम्बन्धेन सत्यपि साध्यसम्बन्धे तदभावेनापि सम्बन्धेन साध्याभावेनैव सम्भन्धेन चेति॥
व्याप्ययोरिवेति॥ सत्प्रतिपक्षहेत्वोरिवेत्यर्थः। एकस्यैव हेतोः वादिनः साध्यव्याप्यत्वाभिमानः। प्रतिवादिनस्तदभावव्याप्यत्वाभिमान इति सपक्षसत्वादिकमप्यभिमान एवेति ध्येयम्। एवं प्रतिज्ञादोषं निरूप्य हेतुदोषमाह-- हेतोरिति॥ लिङ्गस्येत्यर्थः। सामर्थ्येति॥ व्याप्तिसमुचितदेशवृत्तित्वरूपसामर्थ्याभाव इत्यर्थः। अनुगतसामान्याभावे विभागायोगात्पद्धत्याद्यनुक्तमपि स्वयमाह-- व्याप्तीति॥ अन्यथानुपपत्तिरूपव्याप्तिविरह इत्यर्थः। साधनस्य साध्याभावेनेवेत्यादित्रयमपि परैः क्रमादसाधारणानैकान्तिकसाधारणानैकान्तिकविरुद्धशब्दैर्गीयते॥
1. प्तिरिति - ग. रा.
स्वाता-नुन-दोषाः) अनुमानदोषवादः पु - 223.
व्याप्तिग्रहणानानुकूल्यं दृष्टान्तदोषः। स द्विविधः। साध्यवैकल्यं साधनवैकल्यं चेति। तत्र प्रमाणविरोधाख्य आद्यो दोषः प्रत्यक्षागमसाधारणः। इतरौ त्वनुमानासाधारणौ॥
उक्तं हि प्रमाणलक्षणटीकायाम्। अत्र प्रतिज्ञाविरोधः साधारणः। इतरौ त्वसाधारणाविति। न च हेतुदोषविभागस्य न्यूनता। पराभिमताः सव्यभिचारविरुद्धव्याप्यत्वासिद्ध्यो अव्याप्तावन्तर्भूता इति बाधप्रतिरोधौ तु
हेतुदोषावेव नेति आश्रयासिद्धिव्यधिकरणासिद्धी तु सत्यां व्याप्तौ न दोषाविति वक्ष्यमाणत्वात्। सिद्धसाधनस्य तु मन्मते स्वार्थानुमाने ऽदोषत्वात्। परार्थानुमाने चासङ्गतावन्तर्भावात्। अनुकूलतर्काभावस्य प्रतिकूलतर्कस्य
चाव्याप्तावन्तर्भावात्। उपाधेरपि --
प्रतिज्ञाहेतुदोषौ निरूप्य दृष्टान्तदोषमाह-- व्याप्तीति॥ ग्रहणपदेन प्रमाग्रहः। यस्मिन् सति व्याप्तिर्न प्रमातुं शक्यते स दृष्टान्तदोषः। एवं विरोधत्रयं निरूप्य तद्विवेकमाह-- तत्रेति॥ प्रतिज्ञाहेतुदृष्टान्तविरोधमध्ये। इतरौ त्विति॥ हेतुदृष्टान्तदोषौ। निरूपितविभागस्य फलं वक्तुमाह-- न चेति॥ परोक्तानां सव्यभिचार विरुद्धसत्प्रतिपक्षबाधितानां मण्याद्युक्तानां तदवान्तरभेदानां च बहूनां सत्वात्। तेषां चेहापरिगणनादिति भावः। कुतो न न्यूनतेत्यत आह-- पराभिमता इति॥ इति शब्दद्वयस्याप्यग्रेतनेतिशभ्दस्येव वक्ष्यमाणत्वादित्यनेनान्वयः। असभङ्गताविति॥ विरोधोसङ्गतिश्चेति द्वावर्थदोषौ। तत्र विरोधस्यैवात्र प्रपञ्चनं कृतम्। न त्वसङ्गतेः।
पु - 224. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः

सत्प्रतिपक्षे ऽव्याप्तौ चान्तर्भावस्योक्तत्वात्। व्यर्थविशेषणा 1 देश्चाधिक्येन्तर्भावात्॥
तस्मादसिद्धिरव्याप्तिश्चेति द्वावेव हेतुदोषौ ॥
स्वाभिमतानुमानदोषः 2

24.22

सा त्वाकाङ्क्षाविरहो ऽसङ्गतिरित्यादिना पद्धत्यादौ प्रपञ्चितेतीह त्यक्ता। इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेवेति प्रमाणलक्षणाद्युक्तेरिति भावः। उक्तत्वादिति॥ उपाधेर्दूषकताबीजौक्तिप्रस्तावे उक्तत्वादित्यर्थः॥
व्यर्थेति॥ यद्यपि,"विशेषणे, वैयर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि"इति भक्तिपादीयानुव्याख्यानसुधायां विशेषणवैयर्थ्ये तु विशिष्टस्य व्याप्यत्वाभावाद्दोषत्वमित्युक्तम्। तथापि यद्बाधिक्यान्तर्भूतमेवैतदित्यप्युक्तत्वादेवमुक्तमित्यदोषः ॥
स्वाभिमतानुमानदोषाः

24.22

अथ स्वमते बाधादेर्व्यभिचाराद्यसङ्करः

24.23

ननु पक्षे साध्याभावप्रमितिदशायां 3 हेतुरप्रमितः प्रमितो वा।
अथ स्वमते बाधादेर्व्याभिचारासङ्करः

24.22

प्रतिज्ञादोषस्य हेतुदोषात्पार्थक्यं यदुक्तं तदयुक्तम्। हेतुदोषाभ्यां असिद्ध्यव्याप्तिभ्यामेव सङ्ग्रहसंभवादिति भावेन --
"स्ववाक्येन विरोधे ऽपि नैव साधकतां व्रजेत्"।
इति युक्तिपदीयानुव्याख्यानसुधोक्तं विवृण्वान आक्षिपति -- नन्विति॥ प्रबलप्रमाणविरोधापेक्षयोक्तं साध्याभावप्रमितीति। प्रतिरोधापेक्षया तु साध्याभावज्ञानदशायामिति ध्येयम्।
1.णत्वादे-ट.रा. 2.षाः -ट.रा. 3.तत्रेत्यधिकम् -ट.रा.
स्वते-बादेर्-व्यचा-द्यङ्गरः) अनुमादोषवादः पु - 225.
आद्ये प्रमित्यसिद्धिः। द्वितीये पक्ष एव व्यभिचारो ज्ञात इति कॢप्तेन व्यभिचारादिनैव
दुष्टत्वेनासङ्कीर्णोदाहरणाभावात्किं बाधप्रतिरोधयोर्देषत्वकल्पनयेति चेत् न। पक्षद्वये ऽपि दोषाभावात्॥
तथा हि -- आद्यस्तावदस्तु। प्रमित्यसिद्धिर्हि करणसामर्थ्यविघटनद्वारानुमितिप्रतिबन्धिका। हेतुवचनाधीनोपस्थितिका च। बाधादिस्तु साक्षा 1 त्पतिबन्धकः। प्रतिज्ञाधीनोपस्थितिकश्च। न चान्तरङ्गे पूर्वोपस्थिते प्रत्यक्षा 2 दौ कॢप्ते च -
व्यभिचारो ज्ञात इति॥ प्रबलप्रमाणविरोधे व्यभिचारज्ञानं निश्चयरूपं, समबलविरोधपक्षे तु संशयरूपं ध्येयम्। अत एव ज्ञात इति सामान्योक्तिः। न च पक्षीयव्यभिचारसन्देहोनुकूल एव नानुमानप्रतिकूलः तथात्वे ऽनुमानमात्रोच्छेदापात्तेरिति चेन्न। स्वारसिकव्यभिचारसन्देहस्यानुकूलत्वे ऽपि प्रमाणविरोधा 3 द्याहितसन्देहस्य प्रतिकूलत्वात्। अन्यथा सन्दिग्धोपाध्योदरदोषत्वापातादिति भावः। पक्षद्वयेपीति॥ अप्रमितत्वप्रमितित्वरूपपक्षद्वय इत्यर्थः॥ सामर्थ्येति॥
समुचितदेशस्थत्वरूपसामर्थविघटनद्वारेत्यर्थः। अनुमितिविषयाभावानवगाहिनस्तथैव प्रतिबन्धकत्वादिति भावः॥ हेतुवचनेति॥ प्रतिज्ञामात्रेण तदनुपस्थितेरितिभावः॥ प्रतिज्ञाधीनेति॥"प्रतिज्ञामात्रेणास्यस्फुरणा"दिति प्रमाणलक्षणटीकोक्तेरिति भावः।
1.त्तत्प्रति -रा. 2. दिक्षु कॢ -ट.रा. 3. धाद्ध्या -ट. धादाहि -ठ.
पु - 226. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
बाधादौ 1 लब्धे तद्विपरीतस्यासिद्धत्वस्य प्रतीक्षा युक्ता। अन्यथोच्यमानग्राह्ये निग्रहे लब्धेपि उक्तग्रह्यः प्रतीक्षेत॥
द्वितीयो वास्तु। हेतुर्हि साध्याभाववार्तानभिज्ञेन ज्ञानान्तरेण पक्षे प्रमितः साध्याभावस्तु हेतुवार्तानभिज्ञेन बाधेन। हेतोः साध्याभावसामानाधिकरण्यरूपव्यभिचारस्तु न केनापि। तद्विषयकस्य साध्याभाववति हेतुरिति ज्ञानस्याभावात्। तथा च बाधाद्युपस्थितिदशायां सन्नपि व्यभिचारो न धीस्थ इति द्राग्धीस्थत्वाद्विषयापहारित्वेनोत्कटत्वाच्च बाधादिरेव दोषः। यथा मूको वक्तेत्यादौ प्रमाणविरोधे सत्यपि द्राग्धीस्थः प्रतिज्ञापदविरोध एव दोषः। यथा च माता वन्ध्या प्रमेयत्वादित्यत्र व्यभचारे सत्यप्युत्कटः प्रतिज्ञाविरोध एव दोषः। अस्तु वा साध्याभाववति पक्षे हेतुरिति विशिष्टज्ञानम्। तथापि पक्षे साध्यं नेति ज्ञानांशः पक्षे हेतुरिति ज्ञानांशनिरपेक्ष एव दोषः।
त्रेणास्यस्फुरणा"दिति प्रमाणलक्षणटीकोक्तेरिति भावः॥ उच्यमानेति॥ मूकोहमित्यादौ स्वक्रियाविरोध उच्यमानग्राह्य प्रमाणविरोध उक्त्यनन्तरग्राह्यत्वादुक्तग्रह्यः। पूर्वं हेतोः साध्याभावसामानाधिकरण्यरूपव्यभिचारो नोपस्थित इत्युपेत्य पृथग्दोषत्वं बाधादेरुक्तम्। इदानीं व्यभिचारोपस्थितिमभ्युपेत्यापि पृथग्दोषत्वं बाधादेराह -- अस्तु वेति॥
1.दौ सिद्धे त -ट.रा.
वाप्र-रोयोः-प्रज्ञा-दोत्व-सनम्) अनुमादोषवादः पु - 227.
विषयापहारित्वात्। पक्षे हेतुरिति ज्ञानांशस्तु पक्षे साध्यं नेति ज्ञानांशसापेक्ष एव दोषः। तन्निरपेक्षस्य तस्य गुणत्वात्। तथा च यथा साधारण्ये सपक्षवृत्तित्वे सत्यपि विपक्षवृत्तित्वमेव दोषः तथा पक्षे हेतुज्ञाने सत्यपि प्राप्ताप्राप्तविवेकेन पक्षे साध्याभावप्रमारूपबाधाद्यंश एव दोषः॥
स्वमते बाधादर्व्यभिचाराद्य 1 सङ्करः

24.23

साधारण इति॥ पक्षसपक्षविपक्षवृत्तिरूपसाधारणानैकान्तिक इत्यर्थः। विपक्षवृत्तित्वमेवेति॥ पक्षसपक्षवृत्तित्वस्यानुमित्यनुकूलत्वेन विपक्षवृत्तित्वमात्रस्यैव प्रतिकूलकत्वेन तस्यैव दोषताया हेत्वाभासग्रन्थे मण्यादावुक्तेरिति भावः॥ प्राप्ताप्राप्तेति॥ दोषत्वेन प्राप्त साध्याभावप्रमांशः दोषत्वेनाप्राप्तः हेतुसत्वप्रमांशः इति प्राप्ताप्राप्तविवेकेनेत्यर्थः॥
स्वमते बाधादेर्वभिचारा 2 सङ्करः

24.24

अथ बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम्॥
केचित्तु बाधप्रतिरोधौ हेतुदोषावित्याहुः ।
अथ बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम्

24.23

नन्वथापि बाधप्रतिरोधयोरसिद्ध्यव्याप्तिरूपहेतुदोषत्वाभावेपि बाधितविषयत्वादिरूपं पृथगेव हेतुदोषत्वमस्तु तथैव मण्याद्युक्तेः प्रतिज्ञादोषत्वं कथमित्यतस्तत्समर्थयितुमाह -- केचित्विति॥ तार्किकादयः॥
1.रासं -ट.रा. 2.रस - ठ.ड.
पु - 228. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
कुठारे कुण्ठत्वादिदोषाभावेप्याकाशस्य छेदनायोग्यत्वेनैव 1 छेदानुत्पत्तिवत्,
चक्षुरादौ काचादिदोषाभावेप्यतिदूरत्वातिसामीप्यसमानाभिहारसादृश्याद्यर्थदोषेणैव प्रत्यक्षप्रमानुत्पत्तिव्त, अग्निना सिञ्च 2 तीत्यादिशब्दे निरभिधेयत्वन्यूनत्वादिशब्ददोषाभावेप्ययोग्यत्वरूपार्थदोषादेव शाब्दप्रमानुत्पत्तिवदनित्यो घटः प्रमेयत्वादित्यादौ प्रमेयदोषाभावेपि हेतुदोषेणैव दुष्टत्ववच्च, सर्वं तेजो ऽनुष्णं प्रमेयत्वादित्याद्यनुमाने हेतुदोषाभावेपि प्रतिज्ञातार् 3 थस्य प्रमाणान्तरविरुद्धत्वेन साधनानर्हत्वरूपप्रमेयदोषेणैवानुमानिकप्रमानुत्पत्तेर्वक्तव्यत्वात्॥
"विरोधोपि त्रिधैवस्यात्प्रतिज्ञार्थविरुद्धता।
लिङ्गराहित्यमव्याप्ति"
रित्यादियुक्तिपादीयानुव्याख्यानसुधोक्तं हृदि कृत्वा करणस्यादुष्टत्वेप्यर्थदोषनिबन्धनकार्यानुत्पत्तिस्थले 4 दोषस्यैव वाच्यत्वादिति सदृष्टान्तमाह-- कुठारे 5 ति॥ समानेति॥ क्षीरनीरादौ माषराशिमष्यादौ सादृश्यसूक्ष्मत्वरूपार्थदोषेणेत्यर्थः। विजातीयकरणं सजातीयप्रत्यक्षशब्दरूपकरणं च दृष्टान्तीकृत्यान्तरङ्गानुमानरूपकरणं च दृष्टान्तयति -- अनित्य इति॥ प्रमेयेति॥ साध्यदोषाभावेपीत्यर्थः। हेतुदोषाभावेपीति॥ सर्वतेजसः पक्षतया तदन्यस्य व्यभिचारस्थलस्याभावेन व्यभिचारदोषाभावात् असिद्ध्यादेरनाशङ्क्यत्वादिति भावः॥
1.छिदा- ट.रा. 2.ञ्चोदित्या-ट.रा. 3.ज्ञार्थं -ट.रा. 4.लेर्थ -ठ. 5.र इ-ट.ड.
वाप्र-रोयोः-प्रज्ञा-दोत्व-सनम्) अनुमादोषवादः पु - 229.
किञ्च बाधप्रतिरोधयोरनुमितिग्राह्यविरुद्धविषयत्वेन परमुखनिरीक्षणनिरपेक्षतया प्रत्यक्षादाविवानुमानेपि साक्षादेवानुमितिरूपफलप्रतिबन्धकत्वे संभवति बकबन्धन्यायेन करणवैकल्यसंपादनद्वारा
फलप्रतिबन्धककल्पनमयुक्तम्। अन्यथा सादृश्याद्यर्थदोषेणैव दूषिते प्रत्यक्षे काचादिकरणदोषः कल्प्येत॥
ननु बाधस्य पक्षनिष्ठत्वेन प्रमिताभावप्रतियोगिसाधकत्वे न रूपेण हेतुदोषत्वोक्तावप्या 1 नुमानिकप्रमानुत्पत्तिर्युक्तेति वादिनं प्रति लक्षणटीकोक्तरीत्या दोषान्तरं चाह -- किञ्चेति॥ प्रत्यक्षादाविति॥ पीतः शङ्ख इत्यादिप्रत्यक्षे श्वेतः शङ्ख इति प्रत्यक्षस्य यथा साक्षाद्ग्राह्यविरुद्धविषयकत्वेन पीतत्वप्रत्यक्षप्रतिबन्धकत्वं, घटोस्ति, घटो नास्तीत्यनयोः शब्दज्ञानयोर्यथा विरुद्धविषयकत्वेन प्रतिबध्यप्रतिबन्धकभावस्तथेत्यर्थः॥
बकबन्धेति॥ केन चित्कञ्चित्प्रतिबन्धोपायं ब्रूहीति पृष्टे वदति। बकस्य शिरसि नवनीते निहिते सत्यातपेन नवनीते द्रवीभूते चक्षुषोर्मध्ये पतिते सति चक्षुषोर्निमीलनं यदा बकस्य भवति तदा तद्बन्धनं कार्यमिति। तत्र नवनीतनिधानदशायामेव बन्धसंभवे पश्चाद्बन्धनोपायो यथा वक्रस्तथा व्याप्तिरूपकरणवैकल्यसंपानद्वारा हेतुदोषत्वकल्पनमपि वक्रत्वादयुक्तमित्यर्थः। यद्वा परामर्शरूपकरणे व्याप्तिविषयकत्ववैकल्यसंपादनद्वारेत्यर्थः॥
1. प्यनुमानत्वात्तिर्यु - ट.
पु - 230. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अपि च यो हि यन्निष्ठतया ज्ञातः सन्ननुमितिप्रतिबन्धकः स तस्य दोषः। अन्यथा प्रतिज्ञाहान्यादिकमपि हेतुहान्यादिकं स्यात्। नित्यः शब्दः अनित्य इति प्रतिज्ञाश्रिताः स्ववचनविरोधादयः अनित्यो वर्ण इति मामांसकप्रयुक्त प्रतिज्ञाश्रितापसिद्धान्तादयश्य हेतुदोषाः स्युः। न च बाधादिर्हेतुनिष्ठतया ज्ञातस्तत्प्रतिबन्धकः। प्रतिज्ञानन्तरं हेतूपस्थितेः प्रागेव प्रतीतेन तेनानुमितिप्रतिबन्धात्॥
यदि च पक्षनिष्ठत्वेन प्रमिताभावप्रतियोगिसाधकत्वं बाध इति बाधस्य हेतुनिष्ठत्वेन ज्ञानं कल्प्यते।
गुरुत्वान्न हेतुदोषत्वकल्पनं युक्तमित्युक्तम्। कल्पकाभावाच्च न हेतुदोषत्वं युक्तमिति सामान्यन्यायं विपक्षबाधपूर्वमाह-- अपि चेति॥ प्रतिज्ञेति॥ येन यद्यथा प्रतिज्ञातं तेन तस्य तथा परित्यागः प्रतिज्ञाहानिः, आदिपदेन
प्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासन्न्यासादिग्रहः। पूर्वं शब्द इत्यविशिष्टतयोक्ते साध्यभागे वर्णात्मको नित्य इति विशेषणप्रक्षेपः प्रतिज्ञन्तरम्। मिथो व्याघातः प्रतिज्ञाविरोधः। स्वोक्तापलापः प्रतिज्ञासन्न्यासः। प्रतिज्ञाहान्यादिनिग्रहस्थानमपि त्यक्तप्रतिज्ञकत्वादिरूपेण हेतुहान्यादिकं स्यादित्यर्थः। हेतुदोषाः स्युरिति॥ विरुद्धप्रतिज्ञकत्वादिरूपेण हेतुनिष्ठतयेति भावः। व्याप्तिं समर्थ्य पक्षे नास्तीत्याह -- न चेति॥
बाधकभावाच्च न हेतुदोषत्वकल्पनं युक्तमित्याह -- यदि चेति॥ यद्वा बाधादिरपि हेतुनिष्ठत्वेनैव ज्ञातो दोषो नान्यथेति वादिनं प्रतिबाधकमाह -- यदि चेति॥
वाप्र-रोयोः-प्रज्ञा-दोत्व-सनम्) अनुमादोषवादः पु - 231.
तर्हि पक्षनिष्ठत्वेन प्रमिताभावप्रतियोगिसाध 1 कत्वमसिद्धिः व्याप्तिराहितसाधक 2 त्वमव्याप्तिरित्यसिद्ध्यव्याप्त्येरपि साध्यनिष्ठत्वेन ज्ञानं कल्प्यताम्॥
अपि च बाधादिः प्रत्यक्षादिसाधारणः। हेत्वाभासत्वे तु हेत्वसाधारणदोषत्वं तन्त्रम्। अन्यथा मनोनवधानादिरपि हेत्वाभासः स्यात्॥
ननु साधारण्ये ऽपि ज्ञायमानत्वेनानुमितिप्रतिबन्धकतया मनो ऽनवधानादिविलक्षणत्वाद्बाधादेर्हेत्वाभासत्वमिति चेन्न। त्वन्मते ऽनुमितिप्रतिबन्धकसाध्यसिद्धिं प्रति विषयस्य साध्यस्यापि हेत्वाभासत्वात्॥
प्रतिज्ञाविरोधः साधारणः इतरौ त्वसाधारणाविति लक्षणटीकासूचितयुक्त्या च हेतुदोषत्वं निराह-- अपि च बाधादिरिति॥ प्रतिरोध आदिपदार्थः। तावता कुतो न हेतुदोषतेत्यत आह -- हेत्विति॥ अन्यथेति॥ प्रत्यक्षादिसाधारणदोषस्यापि हेत्वाभासत्व इत्यर्थः वैषम्यमाशङ्क्य निराह-- नन्वित्यादिना ॥ साधायस्यापीति॥ साध्यसिद्धेः प्रतिबन्धकत्वे साध्यस्यापि ज्ञायमानतया प्रतिबन्धकत्वादिति भावः॥
बाधादेः प्रत्यक्षादिसाधारण्यमेवासिद्धं येन हेतुदोषत्वं न स्यादिति शङ्कते --नन्विति॥
1. धनक- रा. 2.धनक -रा.
पु - 232. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ननु प्रत्यक्षादावुत्पन्नस्य ज्ञानस्य बाधेनाप्रमाणत्वमेव बोध्यते दिङ्मोहादौ दर्शनात् 1 अनुमितौ तूत्पत्तिरेव प्रतिबध्यते इत्यसाधारण्यमिति चेन्न। 2 तथापि 3 शब्दस्यात्यन्तासत्यपि धीहेतुत्वेन 4 लिङ्गाभासस्यापि तद्धेतुत्वावश्यंभावात् 5 मत्साधारण्यपरिहारात्। विषयबाधे ऽविशिष्टे 6 शब्दाभास एवासदर्थबोधको न तु लिङ्गाभास इत्यस्य च परिभाषामात्रत्वात्। दृश्यते च बाधावतारानन्तरमपि त्वदनुमितमसदित्यनु 7 वादः॥

किं च यः करणसामर्थ्यरूपव्याप्तिपक्षधर्मतान्यतरविघटनरूपः स एव हेत्वाभासः। बाधादिस्तु न तथा। करणासंस्पर्शित्वात्॥
बाधेन विपरीतज्ञानेनेत्यर्थः॥ उत्पत्तिरेवेति॥ अनुमित्युत्पत्तिरेव बाधेन प्रतिबध्यत इत्यर्थः। उत्पत्तिप्रतिबन्ध एवासिद्धः येनासाधारण्यं स्यादित्याह -- शब्दाभासस्येति॥ शशविषाणमस्तीत्यादिवाक्याद्गोविषाणमस्तीति वाक्यादिव बुद्ध्युत्पत्तेर्वादिवाक्यादसदर्थकात्प्रतिवादिनो बोधोत्पादनस्य योग्यतावादे व्युत्पादितत्वादिति भावः॥
ननु तत्र बाधावतारानन्तरं शब्दादवगतमस 8 देवेत्यनुभवादस्तु शब्दाभासस्याबोधकत्वं न तु लिङ्गाभासस्य। तथाननुभवादित्यत आह -- दृश्यते चेति॥ करणसंस्पर्शितत्वादिति॥
1.परोक्षायां इत्यधिकम् -ग.ट.रा. 2.तथापि इति न -ग.ट.रा. 3.ब्दाभासस्या-ग.ट.रा. 4.त्वदर्शनेन-ग.ट.रा. 5.मत्साधारण्यापरिहारात् इति न -ग.रा. 6.ष्टेपि -ग.ट.रा. 7.नुभवः-ग.ट.रा. 8.दित्यनु-ट.
वाप्र-रोयोः-प्रज्ञा-दोत्व-सनम्) अनुमादोषवादः पु - 233.
तस्माद्बाधप्रतिरोधौ साधनाहेत्वरूपप्रेमेयदोषत्वात्, साक्षादेवानुमितिप्रतिबन्धकत्वात्, प्रतिज्ञानन्तरं हेतूपस्थिततः प्रागेव प्रतिभासात्, प्रत्यक्षशब्दसाधारण्यात्, करणसामर्थ्याविघट 1 नत्वाच्च न हेतुदोषौ। किं तु प्रतिज्ञादोषाविति॥
या तु टीकाकारीत्या --
"अदृष्टे व्यभिचारेतु साधकं तदितिस्फुटम्।
ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत्॥
इत्यनुव्याख्यानस् प्रत्यक्षबाधेनानुमानस्य व्यभिचारो भवतीति व्याख्या सा व्याप्तिग्रहणदशाभिप्राया। तदा प्रतिज्ञादिविभागाभावात्। अनुमितिदशायां तु बाधो विषयापहारेण प्रतिज्ञा दोष एव। अन्यथा प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति प्रमाणलक्षणविरोधात्॥
यापि अनुव्याख्याने --
साध्याभावप्रमायां 2 करणाप्रतीतेरिति भावः। तस्मादित्येतत्प्रागुक्तरीत्या पञ्चधा व्याचष्टे -- साधनानर्हत्वेत्यादिना॥ भक्तिपादीयसुधाविरोध 3 माशङ्क्य तदभिप्रायोक्त्या निराह-- यात्विति॥ सेत्यन्वयः। व्याप्तिग्रहणेति॥ व्याप्तिग्रहणसमये ऽव्याप्तेरुत्थापको बाध इति पक्षस्त्विष्यत एव"मानबाधे न तद्भवेदिति वक्ष्यमाणत्वा"दिति युक्तिपादीयसुधोक्तेरिति भावः। युक्तिपादीयानुव्याख्यानोक्तिविरोधञ्च निराह -- यापीति॥ तत्र प्रतिज्ञार्थविरोध इत्येवोक्तावपि सुधायां वक्ष्यमाण--
1.टकत्वा-ग.ट.रा. 2.याः -क.ठ. 3.रोधायाश --ड.ठ.
पु - 234. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
"विरोधोपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता।
लिङ्गराहित्यमव्याप्तिः"
इति बाधप्रतिरोधयोरसिद्ध्यादिना सह हेतुदोषत्वोक्तिः सापि बाधादिनैव दूषिते विषये प्रवर्तमानस्य हेतोरप्यविषयवृत्तित्वं नाम दोषोस्तीत्यभिप्रेत्यैव । न तु
बाधादिन् विषयदोष इति॥
बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम्

24.24

विभागानुरोधेन बाधप्रतिरोधयोरित्यनुवादः। इत्यभिप्रत्येति॥ तथैऽवसुधायां प्रतीतेरिति भावः॥
बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम्

24.24

अथ साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम्

24.25

ननु साध्यविकलो दृष्टान्तो विपक्ष एवेति तत्र वर्तमानो हेतुः सपक्षान्तरवृत्तौ सत्यां पक्षत्रयवृत्तित्वात्साधारणः।
अथ साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम्

24.24

साध्यवैकल्यादेर्हेतुदोषत्वेन 1 पार्थक्यं प्रागुक्तमयुक्तमित्याशङ्क्य निराह -- नन्वित्यादिना ॥
1.संग्रहसंभवाद्दृष्टान्तदोषत्वेन इत्यधिकम् -ठ.ड.
सामान-वैल्ययो-दृन्तदोत्व-सनम्) अनुमादोषवादः पु - 235.
असत्यां तु सपक्षवृत्तौ पक्षविपक्षयोरेव वर्तमानत्वाद्विरुद्धः। साध्यधर्मवति दृष्टान्ते साधनविकले हेतुर्व्याप्यत्वासिद्ध इति दृष्टान्ताभासो हेत्वाभासान्तर्गत एवेति चेन्न। बाधादेः पक्षाश्रिततयेवाव्याप्त्यादेर्हेत्वाश्रिततयेव च साध्यवैकल्यादेर्दृष्टान्ताश्रिततयैव प्रतिभासात्। प्रतिभासानुसारेण चोद्भाव्यात्वात्। उद्भाव्यस्य चैव व्युत्पाद्यत्वात्॥
किञ्चोपजीव्यत्वेनानुमानाङ्गदृष्टान्तदोषेणैवानुमाने दुष्टे कथं पिष्टपेषकहेत्वाभासप्रतीक्षा। अन्यथा बाधे पक्षस्यैव विपक्षत्वात् बाधो व्यभिचारे ऽ 1 न्तर्भूतः स्यात्। सव्य 2 भिचारविरुद्धौ 3 च व्याप्तिहीनत्वाव्द्याप्यत्वासिद्धे ऽन्तर्भूतौ स्याताम्। असाधारणे च सपक्षस्य सपक्षस्य साधनवैकल्यावश्यंभावात्सोपि साधनवैकल्येन्तर्भूतः स्यात्।
"साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे"।
4 इति भक्तिपादीयानुव्याख्यानसुधोक्तरीत्या दृष्टान्तदोषत्वमुपपादयति -- बाधादेरिति॥ ननु साध्यवैकल्यादिस्थले व्यभिचारादेरपि सामग्रीबलेन स्पुरसणसंभवात् व्यभिचारादिरप्युद्भाव्य इति हेत्वाभासत्वेन व्युत्पादनं युक्तमिति चेत्तदाप्युपजीव्यत्वाद्दृष्टान्तदोष एवेत्याह-- किञ्चिति॥ विपक्षे ऽनेकबाधकसत्वा 5 च्च दृष्टान्तदोषत्वमेव युक्तमित्याह -- अन्यथेति॥
1.रान्त -ग.ट.रा. 2.व्यभिचा - ग.रा. 3.विरुद्धौचाव्याप्त्यधीनत्वात् व्याप्यत्वासिद्धौ अन्तर्भू -ट. विरुद्धौ च व्या-रा. 4.इत्यादि
भ -ठ. 5.सद्भावाच्च -ठ.
पु - 236. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अनुपसंहारिणि च दृष्टान्ताभाव आवश्यक इति सोपि दृष्टान्ताभासेन्तर्भूतः स्यात्॥
किञ्च जीवच्छरीरजातं सात्मकं प्राणादिमत्वात् घटवदित्यत्र शब्दो ऽभिधेयः प्रमेयत्वाव्द्यतिरेकेण घटवदित्यत्र च क्रमेण व्यतिरेकव्याप्तेरन्वयव्याप्तेश्च सत्वेन हेतुदोषाभावेपि धूमानुमानेपि हृदे दृष्टान्तिते हेतुदोषाभावेपि दृष्टान्तो दुष्ट इति तद्दोषः पृथगेव। तत्राप्यनुपदर्शितव्याप्तिकत्वाव्द्याप्यत्वासिद्धिरेवेति चेन्न। तथाप्यथदोषाभावात्। तत्रैव माहनसे दृष्टान्तिते व्याप्यत्वासिद्धिर्नेति तस्यानित्यदोषत्वापाताच्च । हृदे दृष्टान्तितेपि यत्र धूमस्तत्राग्निरिति पूर्वभागेन व्याप्तेरुपदर्शितत्वाच्च॥
हेतुदोषसाङ्कर्यमात्रेण हेतुदोषत्व इत्यर्थः। अनुपसंहारिणिचेति॥ सव्यभिचाभेदभिन्ने सर्वमनित्यं कार्यत्वादित्यादावित्यर्थः। हेतुदोषासंङ्कीर्णत्वाच्च दृष्टान्तदोषः पृथगित्याह-- किञ्च जीवच्छरीरेति॥ सपक्षान्तरे वर्तमानस्य साधनस्य दृष्टान्तीकृते"सपक्षे वृत्तौ हेत्वाभावसत्वानुपपत्तेश्चे"ति पद्धत्युक्तमाह -- धूमेति॥ हेतुदोषसाङ्कर्यमाशङ्कते -- तत्रापीति॥ तत्रैवेति॥ धूमानुमान
एवेत्यर्थः। तस्याः व्याप्यत्वासिद्धेः। उपदर्शितव्याप्तिकत्वदशायां व्याप्यत्वासिद्धिशङ्कापि नेत्याह-- हृद इति॥
नन्वस्त्वेवं साध्यवैकल्यादेर्दृष्टान्तदोषत्वं तथापि दृष्टान्तदोषो द्विविध इत्ययुक्तं तस्यानेकविधत्वादित्यत आह-- उभयेति॥ सुधोक्तमेवाह-- एकवैकल्येनैवेति॥
1.रिचेत्युक्तसव्यभिचा -ठ.
सासान-वैल्ययो-हन्तदोत्व-सनम्) अनुमादोषवादः पु - 237.
उभयवैकल्यं तु न पृथग्दोषः। एकवैकल्येनैव दुष्टत्वसिद्धे 1 रितरवैकल्यस्य वैयर्थ्यात्। संभवमात्रेण पृथग्वचने अनैकान्तिककालातीतत्वं असिद्धकालातीतत्वमित्याद्यपि हेत्वाभासान्तरं स्यात्। आश्रयहीनत्वाव्याप्त्यभिधानाद्युदाहरणाभासस्यान्तर्भावः पद्धत्यादौ दृष्टव्यः॥
या तु"साध्यस्य साधनस्य वाननुगमो दृष्टान्तविरोध"इति प्रमाणलक्षणव्याख्यावसरे टीकाकारीया"उभयोर्वेति ग्राह्य"मित्युक्तिः सा यथा मनो ऽनित्यं मूर्तत्वात्परमाणुवत् कर्मवत् इत्यत्र क्रमेण साध्यवैकल्यं साधनवैकल्यं च दोषः तथा गगनवदित्यादौ उभयवैकल्याख्यौ दोषौ स्त इत्यभिप्रेत्यैव। न तूभवैकल्य 2 दूषणस्य पृथग्दोषत्वमित्यभिप्रेत्य। अन्यथैकेकवैकल्येन दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यादित्यादि--
नन्वथापि दृष्टान्तरूपाश्रयासिद्धिव्याप्त्यनभिधनविपरीतव्याप्त्यभिधानादीनां दृष्टान्तदोषाणां कां गतिरित्यत आह-- आश्रयहीनत्वेति॥ आदिपदेन प्रमाणलक्षणटीका ग्राह्या। उभयवैकल्यस्यापि दोषत्वेन
लक्षणटीकायामुक्तत्वप्रतीतेः तद्विरोधमाशङ्क्यनिराह-- 3 यात्विति॥
1.द्धो इत- ग.ट.रा. 2.ल्यरूपेणैकदोषत्वमि-ग.रा. 3.ङ्क्या -ड.
पु - 238. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
सुध 1 योभयवैकल्यं न पृथग्गणनीयमति 2 प्रमाणपद्धत्या च विरोधात्॥
साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम्

24.25

सुधयेति ॥ भक्तिपादीय सुधयेत्यर्थः ॥
साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम्

24.25

अथाश्रयासिद्धेर्देषत्वभङ्गः

24.26

आश्रयासिद्धिस्तु न दोषः। तथा हि --
न तावदाश्रयासिद्धत्वं अनित्यो घटः कार्यत्वात् --
अथाश्रयासिद्धेर्देषत्वभङ्गः

24.25

ननु यदुक्तमसिद्धिरव्याप्तिरिति द्वावेव हेतुदोषाविति तदयुक्तम्। आश्रयासिद्धत्वात्प्रसिद्धसाध्यकत्वव्यधिकरणासिद्धत्वरूपहेतुदोषाणां भावादित्यतः"आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्"इत्यादिप्रमाणलक्षणतट्टीकाद्युक्तरीत्याश्रयासिद्धत्वादेरदोषत्वं व्युत्पादयितुकाम आश्रयासिद्धत्वांशे तावदुक्तमाह -- आश्रयासिद्धिस्त्विति॥ तत्किमाश्रयासिद्धत्वं सिद्धसाधकत्वं वा पक्षीकृताकारेणासत्वं वा अभावाश्रयत्वं वा 3 असदाश्रयत्वं वा असदाश्रयकत्वं वा आद्यत्रयं तावन्नयुक्तमिति निराकरोति-- न तावदिति, नापि स्वर्णमय इति, नाप्यत्यन्ताभावेति च ग्रन्थेन॥
1.धायां -ग.ट.रा. 2.प्रमाणपदं न -ग.ट.रा. 3.असदाश्रयत्वं वा इति नास्ति -ठ. असदाश्रयकत्वं वा इति न -ड.
आयाद्धेःदोत्वभङ्गः) अनुमादोषवादः पु - 239.
घटवदित्यादाविव सिद्धसाधकत्वं तत्र सन्देहगर्भितपक्षत्वाभावेन पक्षरूपाश्रयाभावादिति युक्तम्। सन्देहाभावेपि 1 पक्षताया उक्तत्वात्। तस्य मन्मतेप्यसङ्ग 2 तत्वान्तर्भावेण दोषत्वात्॥
नापि स्वर्णमयोद्रिरग्निमानित्यादाविव पक्षविशेषणाभावेन पक्षीकृताकारेणासत्वं तस्य मन्मते ऽपि बाधान्तर्भावेण 3 दोषत्वात्॥
नाप्यत्यन्ताभावश्रय 4 कत्वम् अभावस्य तुच्छत्वेन प्रतिबन्धकाभावे 5 कारणत्वस्येवाभावे आश्रयत्वस्याप्यभावात् अत्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्वेनाप्रामाणिकत्वाच्चेति युक्तम्। अत्यन्ताभावप्रतियोगिन एव तुच्छत्वेनाभावस्यातुच्छत्वात्।
न तावदित्यस्य युक्तमित्यन्वयः। सिद्धसाधकस्य कथमाश्रयासिद्धत्वमित्यतो दूषणसौकर्यायाह -- तत्रेति॥ उक्तत्वादिति॥ पक्षलक्षणोक्तिप्रस्तावे साध्य 6 धर्मविशिष्टः पक्ष इत्युक्तत्वादित्यर्थः। दोषत्वादिति॥ परार्थानुमाने ऽसङ्गतिरूपनिग्रहस्थानान्तर्भूतत्वेन दोषत्वस्य स्वाभिमतानुमानदोषोक्तिप्रस्तावे कथितत्वादिति
भावः॥ पक्षविशेषणाभावेनेति॥ आश्रयविशेषणासिद्ध्या चाश्रयासिद्धिरसंकीर्णेति मण्युक्तेरिति भावः॥ बाधान्तर्भावेनेति॥ पक्षतद्विशेषणसाध्यतद्विशेषणादिबाधभेदेन बाधस्योनकविधत्वात्पक्षविशेषणबाधे 7 न्तर्भाव इति भावः॥ नापीति॥ युक्तमित्यन्वयः॥
अभावपक्षकत्वे आश्रयासिद्धत्वं हेतोः कुत इत्यत आह -- अभावस्येति॥ अप्रामाणिकत्वाच्चेति॥ तथा च तस्य कतं पक्षत्वेनानुमानप्रमाणविषयतेत्यर्थः।
1.अपिपदं न -ग.ट.रा. 2.ङ्गत्यन्त- क.ग.ट.रा. 3.वेन दो -क.ग.ट.रा. 4.यकत्वं -क.ग.रा. 5.कारणत्वाश्रयत्वाभावे -क. वे आश्रय -ठ. 6.धर्मपदं न -ठ.ड. 7. न्तर्भवतीति -ठ.
पु - 240. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
प्रतिबन्धकाभावस्या 1 प्यन्यथासिद्ध्यैवाकारणत्वात्। अप्रामाणिकत्वस्य प्रामाणिकात्यन्ताभावप्रतियोगित्वरूपत्वेन हेतोर्विरुद्धत्वाच्च। तस्याप्यभावत्वाप्रामाणिक 2 प्रतियोगिकत्वादिधर्माश्रयत्वाच्च। तदुक्तम्।"न चात्यन्ताभावो ऽपि सर्वधर्मरहित"इति॥
किन्तु वन्ध्यासुतो न वक्ता अचेतनत्वादित्यादाविवासदाश्रयत्वात्। तस्य तु दोषत्वं किमसतो निर्धर्मकत्वेन,
कथं तर्हि प्रतिबन्धकाभावस्य कारणत्वं नेत्युक्तं द्वितीयपरिच्छेदे इत्यतस्तस्यासत्वादकारणत्वं न भवतीत्याह -- प्रतिबन्धकेति॥ द्वितीयो हेतुरयुक्त इत्याह -- अप्रामाणिकत्वस्येति॥ अत्यन्ताभावोप्रामाणिकः अप्रामाणिकप्रतियोगिकत्वादित्युक्तिरयुक्ता 3 अप्रामाणिकप्रतियोगिकत्वादित्यस्यतु 4 प्रामाणिकात्यन्ताभावप्रतियोगी यः तत्प्रतियोगिकत्वादित्यर्थः। तथा चात्यन्ताभावोपामाणिक इति यत्साध्यं तदभावेन प्रामाणिकत्वेनाप्रामाणिकप्रतियोगिकत्वादितिहेतुर्व्याप्त इति कथं न विरुद्धहेत्वाभास इत्यर्थः। तस्यापीति॥ तथाचाश्रयत्वस्यैवाभावादिति व्याहतमिति भावः॥ तदुक्तमिति॥ प्रमाणलक्षणे॥
एवं पक्षत्रये निरस्ते पश्नपूर्वं चतुर्थमवशेषयति -- किन्त्विति॥
1.अपिपदं न -ग.ट. 2.कत्वप्र -ग.रा. 3.अप्रामाणिक इत्यस्य प्रामाणिकात्यन्ताभावप्रतियोगीत्यर्थः - ट. 4.स्य प्रा - ड.
आयाद्धे-दोत्वभङ्गः) अनुमादोषवादः पु - 241.
साध्यधर्मानाश्रयत्वेन बाधात् साधनाभावेनासिद्धेर्वा प्रतीत्यविषयत्वेन विधिनिषेधरूपसकलव्यवहाराभाजनत्वाद्वा 1 अप्रामाणिकत्वेन प्रमाणानङ्गत्वाद्वा तस्यादोषत्वे ऽतिप्रसङ्गादा निरधिकरणयोर्धर्मयोर्नियतसामानाधिकरण्यरूपव्याप्त्यभावाद्वा॥
नाद्यौ। असति त्वदुक्तयोः साध्यसाधनधर्मानाश्रयत्वरूपयोः साध्ययोर्निर्धमकत्वरूपस्य साधनस्य चासंभवेन तवापि बाधादिप्रसङ्गात्। त्वदुक्तधर्माणामभावरूपत्वात्तत्र संभे 2 च तत एव मदुक्तावक्तृत्वाचेतनत्वादेरपि संभवात्। भावरूपाणां तु मयाप्यनङ्गीकारात्॥
यदि च साध्यधर्मा 3 द्यभावाद्याश्रयत्वाभावे ऽपि --
"दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधन"
इत्यादिभक्तिपादीयानुव्याख्यानावतरणप्रस्तावे सुधायां विकल्पिरीत्या षोढा विकल्पयति -- किमित्यादिना॥ बाधादित्यादिपञ्चम्यन्तानां दोषत्वमित्यनेनान्वयः॥ धर्मयोरिति॥ साध्यसाधनरूपधर्मयोरित्यर्थः। नाद्याविति॥
साध्यं नास्ति साधनं नास्तीति कल्पावित्यर्थः। बाधादीत्यादिपदेनासिद्धिग्रहः॥ त्वदुक्तधर्माणामिति॥ साध्यधर्मानाश्रयत्वसाधनधर्मानाश्रयत्वनिर्धर्मकत्वरूपधर्माणामित्यर्थः। तत्रेति॥ वन्ध्यासुतादावसतीत्यर्थः। एतेनेत्युक्तं व्यनक्ति --
1.अप्रमाणत्वेनानाङ्गत्वाद्वा -ट. 2.अप्रामाणिकत्वाद्वा -रा. 2.वेन तत -क.ग. 3.आदिपदं न -क.ग.ट.रा.
पु - 242. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
साध्यधर्माद्यनाश्रयत्वस्य सत्वात्तव न बाधादिः 1 तर्हि वक्तृत्वाभावा 2 श्रयत्वाभावे ऽपि वक्तृत्वा 3 नाश्रयत्वस्य सत्वान्ममापि न बाधादि॥
एतेनासत्वादेव वक्तृत्वादिवदवक्तृत्वादिकमपि नेति बाधादीति निरस्तम्। वन्ध्यासुतविशिष्टस्य वक्तृत्वस्याभावं प्रति वन्ध्यासुतासत्वस्य साधकत्वेनाबाधकत्वात्। विशेषणविशेष्ययोरभावे विशिष्टाभावदार्ढ्यात्। तत एव प्रामाणिकत्व 4 वदप्रामाणिकत्वस्याप्यभावापाताच्च॥
नन्वप्रामाणिकत्वादिकमसत्वानुगुणं तदभावे प्रामाणिकत्वेन 5 सत्वापातादिति चेत्। समं प्रकृते ऽपि अवक्तृत्वाभावे वक्तृत्वेन सत्वापातात्॥
किञ्च वक्तृत्ववदक्तृत्वस्याभावे बाधवदबाधोपि स्यात्।
वन्ध्येति॥ कथं साधकत्वमित्यत आह-- विशेषणेति॥ वन्ध्यासुत 3 रूपविशेषणस्य वक्तृत्वरूविशेषस् चाभाव इत्यर्थः। तत एवेति॥ असत्वादेवेत्यर्थः। सममित्युक्तं व्यनक्ति -- अवक्तृत्वेति॥ अवक्ततृत्ववदिति॥ अवक्तृत्वस्येवेत्यर्थः। वन्ध्यासुतो न वक्ताचेतनत्वादित्यत्रावक्तृत्वरूपसाध्यधर्माभावाद्बाध इत्युक्तं त्वया, मया
अवक्तृत्वाभावे वक्तृत्वं स्यादित्युक्तमा। वक्तृत्वमपि न चेत्तर्हि अवक्तृत्वं नेति कृत्वा बाध इति त्वयोच्यते तता तदभावरूपवक्तृत्वमपि नेत्यबाधोपि स्यादित्यर्थः।

1.दि -ग.रा. ऽदिऽइति शोधितम्-ट. 2.वाद्याश्र -ग.रा. 3.त्वाद्यना -ग.ट.रा. 4.वदप्रामाणिकतेति नास्ति-क.ग.ट.रा. 5.नासत्वाभावापा -रा. 6.तत्वरू -ठ. 7.अपिपदं अधिकं -ग.ट.रा.
आयाद्धेः-दोत्व-भङ्गः) अनुमादोषवादः पु - 243.
अपि च त्वदुक्तवक्तृत्वावक्तृत्वोभयाभावरूपं साध्यमसत्वरूपं साधनं च न स्यादिति तवापि बाधादि स्यात्। नन्वप्रामाणिकत्वादिकं प्रत्यसतो नाश्रयत्वे ऽपि अप्रामाणिकत्वादिके तदाश्रितत्वं वा असत्येव तज्ज्ञानहेतुभूतज्ञानविषयत्वविशेषरूपं निरूपकत्वं वा युक्तम् आतीतादौ विषयत्व 1 रूपधर्माभावेपि तज्ज्ञाने त 2 द्विषयकत्वदर्शनात्। शुक्तिरूप्यतादात्म्यादौ प्रतीतमात्रेण निरूपकत्वदर्शनाच्चेति चेत्। समं प्रकृतेपि॥
असदाश्रयस्थले बाधासिद्ध्योरुद्भावनं स्वव्याहतं चेत्याह-- अपि च त्वदुक्तमिति। वन्ध्यासुते वक्तृत्ववदवक्तृत्वमपि नास्ति असत्वादेवेति त्वदुक्तमित्यर्थः। न स्यादिति॥ असत्वादिति त्वदुक्तहेतोरेवेति भावः॥ बाधादीति॥ बाधासिद्धी स्यातामित्यर्थः 3 ॥
परमुखेन समाधिं वाचयित्वा साम्येनोत्तरमाह -- नन्वित्यादिना॥ एतज्ज्ञानेति॥ अप्रामाणिकत्वादिकं प्रति असत् आश्रय इति निरूपक्तवमस्ति। निरूपकत्वं च निरूप्यज्ञानहेतुभूतज्ञानविषयत्वमित्यर्थः। घटादिव्यवहारं प्रति निरूपकघटादिनिष्ठनिरूपकत्वव्यावृत्यर्थं विशेषरूपमित्युक्तम्। केषाञ्चिदाश्रयाभावे असत्वमेव दृष्टमिति कथमाश्रयाभावे धर्माणां सत्वमित्यतः स्वभाव एवाय धर्माणामिति भावेन सुधोक्तमेवाह-- विचित्रा हीत्यादिना॥
1.त्वप्रतियोगित्वरू -ग.ठ.रा. 2.दभावे च विषयित्वस्य तत्प्रतियोगिकत्वस्य चद -ग.ट.रा. 3.घटादिव्यवहारं प्रति निरूपकघटादिनिष्ठनिरूपकत्वव्यावृत्त्यर्थं
विशेषरूपमित्यपि इत्यधिकम् -ठ.
पु - 244. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
विचित्रा हि धर्माः। केचिदाश्रिताः। यथा रूपादयः। केचिन्याश्रिता अन्योनपरञ्जकाः। यथा ज्ञानादयो घटादीनाम्। केचिदनाश्रिताः। यथासत्वादयः शशश्रङ्गमसदित्यबाधितप्रतीतेः। अन्यथा तस्यासत्वासिद्धेः॥
किं च त्वन्मते भूतलघटाभावयोरपि संबन्धो न संयोगादिः नाप्यूर्ध्वाधरीभावादिः। किन्तु निरूप्यस्याभावस्य स्वरूपमेव। न तु निरूपकस्याधिकरणस्योभयोर्वा स्वरूपम्। 1 घटतज्ज्ञानयोः सम्बन्धस्य निरूप्यज्ञानमात्रस्वरूपत्वदर्शनात्।
ननु वन्ध्यासतु वक्तृत्वाभावरूपसाध्यासंबन्धो न वन्ध्यासुतसत्वं विनोपपद्यत इति कथं तत्राचेतनत्वहेतुना साध्यसम्बन्धः सिध्येदित्यतो ऽभावस्वरूपमेव तत्र संम्बन्ध इति दृष्टान्तपूर्वमाह -- किञ्च त्वन्मत इति॥ संयोगादिः समवाय आदिपदार्थः। द्रव्यत्वादिरूपत्वाभावादिति भावः। नापीति॥ घटादि 2 मूर्तत्वाभावादिति भावः। नतु निरूपकस्येति॥ तथात्वे भूतलोल्लेख्यपि ज्ञानमभावोल्लेखि स्यादिति भावः॥ उभयोर्वेति॥ अनेकत्वापत्तेः भूतलधियोभावानुल्लेखित्वाच्चेति भावः। अभावस्य स्वरूपमेवेत्यत्र हेतुमाह-- घटस्येति॥ यद्वा अभावस्वरूपमेवेत्यत्र नत्वित्यादिनोक्तसाध्यद्वये च हेतुमाह -- घटस्येति॥ नायमिति॥ वक्तृत्वाभावसम्बन्ध इत्यर्थः॥
1.घटस्य स्वज्ञानस्वाभावाभ्यां संबन्धस्य निरूप्यज्ञानाभावस्वरूपमात्रत्वदर्शनात् - ग.ट.रा. 2. दिवन्मूर्त -ठ.ड.
आयाद्वेः-दोत्व-भङ्गः) अनुमादोषवादः पु - 245.
एवं वन्ध्यासुतवक्तृत्वाभावयोरप्यभावस्वरूपमेव संबन्ध इति नायमधिकरणसत्वापेक्षः॥
मन्मते ऽपि भूतलघटाभावयोरिव वन्ध्यासुतवक्तृत्वाभावयोरपि संयोगाद्यन्यो ऽभावमात्राश्रितः संबन्धो नाधिकरणसत्वापेक्षः। अतीततज्ज्ञानयो 1 रसत्तज्ज्ञानयोः 2 शुक्तिरूप्यतादात्म्यतदभावयोरतीते 3 वर्तमानं 4 नास्तीत्यबाधित 5 प्रतीत्या अतीतवर्तमानाभावयोः शशश्रङ्गमस 6 दित्यबाधितप्रतीत्या शशश्रङ्गसत्वाभावयोः सम्बन्धे निरूप्यज्ञानाभावादिस्वरूपमात्राश्रितत्वदर्शनात्। तद्वदचेतनत्वा-
नन्वेवमपि भवन्मते सत्वापेक्षः स्यादित्यत आह-- मन्मतेपीति॥ अभावमात्राश्रित इत्यत्र हेतुमाह-- अतीतेति॥ षष्ठीद्विवचनान्तानां षण्णां सम्बन्ध इत्यनेनान्वयः। एवं वन्ध्यासुतो न वक्ता अचेतनत्वादित्यत्र बाधदोषं निरस्यासिद्ध्यादि निराह-- तद्वदिति॥ अप्रामाणिकत्वादेरिव। तस्या यथा असदाश्रितत्वादिकमुच्यते तथेत्यर्थः।
1.रतीतर्ध्वंसयोरस - ग.ट.रा. 2.शशश्रङ्गमसदित्यबाधितप्रतीतेः शशश्रङ्गसत्वाभावयोः अतीत - ट. 3.तेव -क.ग.ट.रा. 4.नत्वं ना-ट.रा. 5.तप्रतीतेरतीतवर्तमानत्वाभावयोः शुक्तिरूप्यतादात्म्याभावयोरभावमात्राश्रित-ट. 6.त्वद्यभा - ग.
पु - 246. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
देरसत्वादेरसदाश्रितत्वस्य वा तन्निरूप्यस्वभावत्वरूपस्वरूपसम्बन्धस्य वा अभावमात्राश्रितस्य सम्बन्धान्तरस्य वासिद्ध्यादिशब्दार्थत्वान्नासिद्ध्यादि॥
न तृतीयः। प्रतीत्यविषय इति प्रतीतिविषयत्ववम् सकलव्यवहाराभाजनमिति व्यवहारविषयत्ववच्च न वक्तेत्यादिप्रतीतिविषयत्वव्यवहारभाजनत्वयोरपि संभवात्। विस्तृतं चैतन्न्यायामृते॥
किञ्च सकलव्यवहाराभाजनत्वे तव मौनं स्यात्। न चाप्रामाणिकेर्थे वावदूकत्वादपि मूकत्वमेव वरमिति वाच्यम्। वन्ध्यासुतस्याप्राणिकत्वेपि तदप्रामाणिकत्वस्येव तदवक्तृत्वस्यापिप्रामाणिकत्वात्।
अभावमात्रेति॥ चेतनत्वाभावमात्रेत्यर्थः। सिद्ध्यादिपदार्थत्वादितिपदच्छेदः। आदिपदेन 1 बाधग्रहः। प्रतीत्यविषयत्वेन विधिनिषेधरूपसकलव्यवहाराभाजनत्वाद्वेति पक्षं निराह-- न तृतीय इति॥ न्यायामृत इति॥ असतोपि साध्यसाधनधर्माश्रयत्वादिकमस्तीत्येतत् मिथ्यात्वनिरुक्तिभङ्गे असतः प्रतियोगित्वसमर्थनवादे चेति भावः। तवमौनमिति॥ वन्ध्यासुतो न वक्ता अचेतनत्वादित्यादावस्माभिरुक्ते सति तत्र प्रत्युत्तरं न 2 शक्यं स्यादितिभावः॥
सत्यमेवमवक्तृत्वस्याप्रामाणिकत्वे मूकत्वमेव वरमिति भाषणं न चैतदप्रामाणिमित्याह -- वन्ध्यासुतस्येति॥ अप्रामाणिकसंबन्धिनः कथं प्रामाणिकक्तमित्यतो दृष्टान्तोक्तिः।
1.न पक्षधर्मतादिग्रहनि - ट. 2.वाच्यम् स्या - ड.
आयाद्वे-दोत्व-भङ्गः) अनुमादोषवादः पु - 247.
अप्रामाणितकेर्थे इत्युक्त्वा पुनर्मूकत्वोक्तौ, मूकत्वविधौच व्याघाताच्च। अप्रामाणिकमसदाश्रयकत्वं निषेद्धुं 1 प्रकम्य व्याघातोद्भावने ऽप्रतिभया मध्ये मूकीभावादपि आदावेव मूकूभावस्य वरत्वेन मदुक्तासदाश्रयत्वनिरासासिद्धेश्च॥
न चतुर्थः। असन्न प्रमाणाङ्गं अप्रामाणिकत्वादिति प्रमाणा 2 ङ्गत्वात् न वक्ता अचेतनत्वादिति प्रमाणाङ्गत्वस्यापि सम्भवात्॥

स्वक्रियाविरोधं चाह -- अप्रामाणिकेर्थे इति॥ पुनर्मूकत्वोक्तौ व्याघातादित्यन्वयः। प्रकारान्तेरेणापि व्याहतिमाह -- विधिनिषेधेति॥ असदाश्रयत्वमिति॥ असतः साधनाश्रयत्वमिति वा साध्यसाधनयोरसदाश्रयत्वं वा अप्रामाणिकमिति निषेद्धुमुपक्रम्य वर्तमानस्य तव प्रतीत्यविषशय इति प्रतीतिविषयत्ववदित्यादिनास्माभिर्व्याघातोद्भावने कृते सति प्रत्युत्तरापरिस्फूर्तिरूपाप्रतिभया कथामध्ये मूकीभावादपि कथोपक्रम एव मूकीभावस्य वरत्वेनेत्यर्थः॥
असतोप्रामाणिकत्वेन प्रमाणानङ्गत्वाद्वासदाश्रयत्वं दोष इति पक्षं निराह--
न चतुर्थ इति॥ असदाश्रत्वस्यादोषत्वे ऽतिप्रसङ्गादिति पक्षं निराह -- न पञ्चम इति ॥
1.द्धुमुपक -क.ग.ट. 2.णानङ्ग-ग.ट.रा.
पु - 248. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
न पञ्चमः। बाधादिहीनस्य वन्ध्यासुतो न वक्तेत्यादेः सद्धेतुत्वेन शशश्रङ्गमस्ति शृङ्गत्वात् वन्ध्यासुतो वक्ता
सतत्वादित्यादेरसद्धेतोश्च बाधासिद्ध्यादिनैव दुष्टत्वेन चातिप्रसङ्गभावात्। सुतत्वाभावेपि वन्ध्यासुतो न वक्तेत्यादौ पक्षीकरणं च वन्ध्यासुतशब्देन तथा प्रतीतिमात्रेण युक्तम्। नहि वन्ध्यासुतोसन्निति निषेधप्रयोजनक प्रसक्त्यर्थं वन्ध्यासुत इत्युक्तिमात्रेण 1 सुतत्वस्य सत्वं सिध्यति। अतिप्रसङ्गात्॥
न षष्ठः। सदाश्रयत्वेपि प्रमेयत्वानित्यत्वादौ -
अतिप्रसङ्गो हि नृशृङ्गास्तित्वादिरपि सिध्येदिति वक्तव्यः। स तु न युक्तः। दोषान्तरेणैव तत्सिद्धिप्रतिबन्धादिति भावेन --
"दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्व साधने"
इत्याद्यनुव्याख्यानसुधोक्तमाह -- बाधादीति॥ ननु सुतत्वाभावाद्वन्ध्यासुत इति पक्षीकरणायोगात्सोप्यसद्धेतुरेवेत्यत आह -- सुतत्वाभावेपीति॥ अतिप्रसङ्गादिति। शुक्तिरूप्यतादात्म्यं नास्ति, इह घटो नास्ति, शशे विषाणं नास्तीत्यादावपि निषेध्यस्य तत्र सत्वापातादिति भावः। सामानाधिकरण्यरूपव्याप्त्यभावादसदाश्रयत्वं दोष इति पक्षं प्रत्याह -- न षष्ठ इति॥ साध्यसाधनयोर्व्याप्त्यभावे आश्रयस्यासत्वं न प्रयोजकं व्यतिरेकतोन्वयतश्च व्यभिचारात्।
1.सुतशब्देन -- इत्यादिरेतावान्प्रन्थः नास्ति -ग.रा.
आयद्धेः-दोत्व-भङ्गः) अनुमादोषवादः पु - 249.
व्याप्त्यदृष्ट्या असदाश्रयत्वेप्यप्रामाणिकत्वासत्वयोर्व्याप्तिदृष्ट्या चावक्तृत्वाचेतनत्वयोरपि व्यभिचारादर्शनेनाविनाभावरूपव्याप्तेः संभवात्। तयोर्घटादौ सामानाधिकरण्यदर्शनाच्च॥
किञ्च असदाश्रयस्य साधकत्वं नेत्यपि केनचिल्लिङ्गेन साधनीयम्। तत्र चासन्नाश्रयः एवं वत्वादित्यसन्वा पक्षीकर्तव्यः, असदाश्रयो हेतुर्न साध्यसाधकं एवं 1 त्वादित्यसदाश्रयो हेतुर्वा उभयथापि सहेतुरसदाश्रय एव। असति सद्धर्मानङ्गीकारात्।
किन्तु व्यभाचारदर्शनादिकमेव। तदभावे ऽसदाश्रययोरपि व्याप्तिरवधारयितुं शक्यत एवेतिति व्याप्त्यभावोसिद्ध इत्याह-- असदाश्रयत्वेपीत्यादिना॥
ननु कथमसदाश्रयत्वे सामानाधिकरण्यघटितव्याप्तिरित्यत उक्तं अविनाभावेति॥ तादृशव्याप्तेः प्रागेव निरासादिति भावः। तादृशव्याप्तिमङ्गीकृत्याप्याह-- तयोरिति॥ अवक्तृत्वाचेतनत्वयोरित्यर्थः। यत्तु सुधायामत्रोक्तरीत्यासदाश्रयत्वस्य दोषत्वं षोढा विकल्प्यातिप्रसङ्गकल्पकमेकं निरस्यन्ते"एतेन कल्पिताः पक्षाः समस्ता अपि निरस्ता"इति भक्तिपादीयसुधावाक्यमत्र प्रतिपक्षदूषणाभिधानेन विवृतं ध्येयम्। असदाश्रयस्य साधकत्वे नेत्यपि व्याप्तिं विना कथं निवार्यत"इति प्रमाणलक्षणतट्टीकयोरुक्तं विवृण्वानः असदाश्रयसाध्यसाधनयोर्व्याप्त्यभावे बाधकं चाह - किञ्चेति॥
ननु हेतुपक्षकप्रयोगे प्रागुक्तहेतोः कथमसदाश्रयत्वं येनोभयथापि हेतुरसदाश्रय एवेति स्यादित्यत आह-- असतीति॥
1. पूर्वत्रात्र च वंरूपत्वात् इत्यस्ति -ट.
पु - 250. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तच्च लिङ्गं व्याप्त्यभावे ऽसाधकत्वसाधकं न स्यादिति कथमसदाश्रयधर्मयोर्व्याप्त्यभावः॥
तदुक्तं भगवत्पादैः।"असदाश्रयस्य साधकत्वे नेत्यपि व्याप्तिं विना कथं
निवार्यते"इति॥
तस्माद्दोषान्तरासङ्कीर्णोदाहरणाभावा 1 न्निषेधं प्रति पक्षत्वस्य च प्रतीतिमात्रेणोपपत्तेः नाश्रयासिद्धिर्देष इति॥
तदुक्तं भगवत्पादैः।"असत्यापि व्याप्तिरस्त्येवे"ति। पक्षे असत्यापि अविनाभावरूपा व्याप्तिरस्त्येवेत्यर्थः॥
आश्रयासिद्धिर्देषत्व भङ्गः

24.26

तथा चासन्निष्ठत्वेन प्रयुक्ताचेतनत्वादि 2 रूपधर्मोप्यसति नास्त्येवेति तत्पक्षकोप्यसदाश्रय एवेति भावः॥ धर्मयोरिति॥ साध्यसाधनरूपयोरित्यर्थः। तदुक्तमिति॥ प्रमाणलक्षणे। तस्मादित्युक्तहेतुं द्वेधा व्यनक्ति-- दोषान्तरेति॥ निषेधं प्रत्यवक्तृत्वादिरूपवक्तृत्वादिनिषेधं प्रतीत्यर्थः। अविनाभावरूपव्याप्तेः संभवादित्युक्तेर्थे प्रमाणलक्षणवाक्यं संवादयति -- तदुक्तमिति॥
आश्रयासिद्धेर्देषत्वभङ्गः

24.26

1.वादसत्वप्रतिकूलधर्मं प्रतिपक्षत्वासंभवेप्यप्रामाणिकत्वादिकं प्रतीव असत्तानुकूलान्नि -क.ग.ट. 2. दिहतुरू -ट.ठ.ढ.
अप्रद्ध-विशेषस्य-दोत्वङ्गः) अनुमादोषवादः पु - 251.
अथाप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः

24.27

एवं साध्याप्रसिद्धिरपि न दोषः तथा हि -- तस्या दोषत्वं किमतिप्रसङ्गात्, साध्यकोतेरप्रसिद्ध्या सन्देहाभावेन तद्घटितपक्षधर्मताविघटनाद्वा 1 व्याप्तिविघटनाद्वा प्रतिज्ञावाक्यस्याविदित-
अथाप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः

24.26

अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते॥
इति भक्तिपादीयानुव्याख्यानसुथोक्तदिशा विकल्पयति --किमतिप्रसङ्गादिति॥ विमतं सदसद्विलक्षणं बाध्यत्वात्, भूः शशशृङ्गवती भूत्वादित्यादेरपि
प्रमाणत्वापत्तिरूपातिप्रसङ्गादित्यर्थः॥ तद्घटितेति॥ सन्दिग्धसाध्यधर्मकधर्मीरूपपक्षनिष्ठत्वरूपत्वात् पक्षध्मता इति भावः। व्याप्तीति॥ साध्याप्रसिद्धौ तन्निरूपितव्याप्तिग्रहासंभवेन व्याप्तिविघटनादित्यर्थः। अविदितेति॥ भूः शशविषाणोल्लिखितेति प्रतिज्ञावाक्ये शशविषाणपदार्थो न ज्ञातः अप्रसिद्धत्वात्। तथा च तस्य तत्र शक्तिग्रहासंभवेन 2 तत्पदार्थस्मृतेरयोगात् प्रतिज्ञावाक्यस्य तदन्वयाबोधकत्वप्रसङ्गादित्यर्थः। सुधानुक्तं कोठ्यन्तरं तार्किकरीतिमनुसृत्य तार्किकरीतिमनुसृत्य स्वयं पक्षान्तरं विकल्पयति -- कारणस्येति।
1.व्याप्तिविघटनाद्वा इति नास्ति - ट.रा. 2.तदानीम् इत्यधिकम्-ट.ठ.ड.
पु - 252. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
पदार्थकत्वेनाबोधकत्वप्रसङ्गाद्वा, कारणस्य विशेषणज्ञानस्याभावे कार्यस्य विशिष्टज्ञानस्यायोगात्॥
नाद्यः। असाधुत्वेन संमतस्य विमतं सदसद्विलक्षणं बाध्यत्वादित्यादेः कॢप्तेन व्याघातादिना दोषान्तरेणैव इयं भूः शशशृङ्गवती एतद्भूत्वादित्यादेर्योग्यशृङ्गसाधकत्वे योग्यानुपलब्धिबाधादिना
दोषान्तरेणैवायोग्यसाधकत्वे ऽतीन्द्रिये 1 श्वरादिभिः -
विशिष्टज्ञानस्येति॥ अनुमितिरूपस्येत्यर्थः। सुधोक्तदिशा निराह-- असाधुत्वेनेत्यादिना॥ व्याघातादिनेति। सन्नेत्युक्ते असत्वमुक्तं स्यात्। सत्वप्रतिक्षेपरूपत्वादसत्वस्य पुनरसन्नेत्युक्ते स्ववचन्याघातः। एवमसन्नेत्युक्त्या"द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्वं लब्धम्। पुनः सन्नेत्युक्ते स्ववचनव्याघात एव। आदिपदेन प्रमाणबाधव्याप्त्यभावादिग्रहः॥
ननु व्याघातादेरेव दोषत्वमुपेत्य तत्र साध्याप्रसिद्धिर्देष इत्येवोपेयतामित्यत उक्तम् -- कॢप्तेनेति॥ माता वन्ध्येत्यादौ दोषत्वेन कॢप्तेनेत्यर्थः। शृङ्गवतीत्यत्र शृङ्गशब्देन महत्वसमानाधिकरणोद्भूतरूपवान् शिरस्संयुक्तो ऽवयवविशेषोभिप्रे 2 यतो ऽथ कश्चिदतीन्द्रियः। आद्य आह --
योग्येति॥ व्याप्त्यभावादिरादिपदार्थः। द्वितीय आह-- अयोग्येति॥ शृङ्गेति नाममात्रम्। न ह्यतीन्द्रियं नाम शृङ्गमस्ति। अत एवादिपदप्रयोगः। --
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते।
1.यैः शृङ्गादिभिः सि- ग.ट.रा. 2.प्रेतः अथ -ठ.
अप्रद्ध-विशेस्य-दोत्वङ्गः) अनुमादोषवादः पु -253.
सिद्धसाधनादिना च दोषान्तरेणैव दुष्टत्वात् दोषान्तररहितत्वेन संमतस्य तु जीवच्छरीरजातं सात्मकं प्राणादिमत्वादित्यादेः साधुत्वातदिप्रसङ्गाभावात्॥
प्रत्युत अप्रसिद्धस्या 1 सिद्धावेवातिप्रसङ्गः। पर्वताग्निसंबन्धस्य कार्यत्वाद्यनुमाने ईश्वरसार्वज्ञ्यादेश्चाप्रसिद्धस्यैव सिद्धेः। वह्नेरपि महानसाद्यसम्बद्धस्य वस्तुगत्या अपूर्वस्यैव वह्नित्वेन 2 भौमवह्नित्वेन च प्रकारेण सिद्धेश्च॥
ननु -- पक्षधर्मताबललभ्यादन्यस्याप्रसिद्धस्य सिद्धिर्न साध्यस्य पक्षसंबन्धादिकं तु पक्षधर्मताबललभ्यम् सार्वज्ञ्यमपि तथा। द्व्यणुकादिभूगोलकपर्यन्तस्यानाद्यनन्तकालीनस्य कार्यस्य पक्षत्वादिति चेन्न। कार्यत्वानुमेषु तदलभ्यस्यापि कर्त्रैकत्वादेः सिद्धेः॥
इत्यनुव्याख्यानसुधोक्तं हृदि कृत्वाऽह -- प्रत्युतेति॥ अतिप्रसङ्ग इति॥ पर्वताग्निसंबन्धस्येश्वरसार्वज्ञ्यादेश्चासिद्ध्यापातादित्यर्थः। इष्टापत्तिरित्यत आह-- पर्वतेति॥ सम्बन्धस्याप्रसिद्धस्य सिद्धावपि न वह्नेः साध्यभूतस्याप्रसिद्ध्सय सिद्धिरिति वदन्तं प्रत्याह-- वह्नेरपीति॥ अप्रसिद्धसाध्यकत्वमात्रं न दोषो येनोक्तातिप्रसङ्गः स्यादिति शङ्कते -- नन्विति॥ क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र सार्वज्ञ्यं कथं पक्षधर्मताबललभ्यमित्यतो व्यनक्ति -- व्द्यणुकादीति॥ तादृशपक्षधर्मत्वं कार्यहेतोः कर्तुः सार्वज्ञ्यं विना न युक्तमितीति भावः। तदलभ्यस्य पक्षधर्मताबलललभ्यस्येत्यर्थः।
1.प्यसिद्धावति -ग.ट.रा. द्धत्वा -देवा-ग.रा. 2.नाकारेण सिद्धेश्च -ग.ट. न प्रकारेण -रा.
पु - 254. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ व्याप्तिबललभ्यस्य साध्यतावच्छेदकावच्छिन्नस्याप्रसिद्धस्या 1 सिद्धिर्न कर्त्रैक्यं तु न व्याप्तिबललभ्यं लाघतर्कानुग्रहललभ्यत्वादिति चेन्न। अत्रापि प्राणादिमत्वस्य सात्मकत्वप्रयोज्यतया व्याघाततर्कानुग्रहादेवाप्रसिद्धस्य सिद्ध्युपपत्तेः। त्वयाप्ययं वह्नित्वेनानुभवः। वह्नित्वाभावववति वह्नित्वप्रकारको
नेत्याद्यभावसाध्यके केवलव्यतिरेकिणि साध्यतावच्छेदकावच्छिन्नसाध्यस्याप्रसिद्धस्य सिद्धिस्वीकाराच्च। न च तत्राभावरूपं -
आदिपदेन ज्ञाननित्यत्वादिग्रहः। एकत्वादावतिप्रसङ्गाभावमाशङ्क्य निराह-- अथेति॥ लाघवेति॥ अनेककर्तृकल्पनापेक्षयैककर्तृकल्पनमात्रेण कार्यत्वहेतोरुपपत्तिरूपलाघवतर्केत्यर्थः। व्याघातेति॥ प्राणादिमत्वमुपेत्य सात्मकत्वानङ्गीकारे प्रयोजन्योपगमेन प्रयोजकानङ्गीकारात्कार्याद्देशेन कारणे प्रवृत्तिरूपस्वक्रियाविरोधरूपव्याघाततर्केत्यर्थः। तथाच तस्य दोषत्वमुपेत्य सामान्यप्रसिद्ध्यर्थं नक्लेशो ऽनुभोक्तव्य इत्यर्थः। अथेत्यादिना वदतः शङ्कास्य व्याहतेत्याह -- त्वयापीति॥ इत्याद्यभावसाध्यक इति। अप्रामाण्याभावादिसाध्यकेत्यर्थः। वेषम्यमाशङ्क्य प्रतिबन्द्योत्तरमाह -- न च तत्रेत्यादिना ॥
1. स्य सिद्धि -ट.रा.
अप्रद्ध-विशेस्य-दोत्वङ्गः) अनुमादोषवादः पु - 255.
यत्साध्यं तदभावरूपस्य भावस्यैव 1 व्याप्तिग्रहः तत्र चाभावरूपसाध्यात्मकप्रतियोगिज्ञानं नापेक्षितमिति व्याप्तिग्रहसंभवात्
साध्याप्रसिद्धिरदोष इति वाच्यम्। भूः शशशृङ्गतवतीत्यादावपि शशशृङ्गराहित्याभावः साध्यः। सात्मकमित्यत्रापि निरात्मकत्वाभाव एव साध्य इति सुवचत्वाच्च॥
2 किञ्च तत्तन्मतप्राप्तकोटिप्रसिद्धिमूलायां जगत्परमाणूपादानकं वा, प्रधानोपादनकं वेति विप्रतिपत्तौ सत्यां तदनुसारेण विमतं परमाणूपादानकं तदन्योपादानकत्वे बाधकोपपन्नत्वे सति सोपादानकत्वादिति सामान्यव्याप्तिमाश्रित्य तार्किकप्रयुक्ते ऽनुमाने कथं साध्यप्रसिद्धिः। नचात्रापि विप्रतिपत्त्यननुसारिणी अर्थान्तराप्रप्तकाल-
3 "साधनं परमाण्वादेर्यदसिद्धस्य चेष्यते"।
इत्यनुव्याख्यानसुधोक्तिं हृदि कृत्वाह -- किञ्चेति॥ ननु तत्र परेण साध्याप्रसिद्धावुद्भावितायां नैयायिकेन व्द्यणुकस्याप्रत्यक्षत्वे ऽपि त्र्यणुकं सोपादानकं कार्यद्रव्यत्वादिति व्द्यणुकं प्रसाध्य व्द्यणुकं सोपादानकं भावकार्यत्वाद्घट 4 वदित्यनुमानेन परमाणुप्रसिद्धिं संपाद्य साध्याप्रसिद्धिः परिहारणीयेत्यत आह -- न चात्रापीति॥ केवलं कार्यातवादिप्रयोगे -

1.व्यतिरेकग्रहः-क. 2.त्वयाप्ययं इत्यादिरेतावान्ग्रन्थः नास्ति- ग.ट.रा. 3.अथेत्यादिन वदतः शङ्कास्य -इत्यारभ्य एतावान्प्रन्थः नास्ति-ट.ठ.ड. 4.ठाविव -ड.
पु - 256. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
-त्वान्यतरापादिका त्र्यणुकोपादानत्वेन व्द्यणुकं प्रसाध्य तदुपादनत्वेन परमाणुः साध्यत इति क्लिष्टकल्पनैवाश्रयणीयेत्यत्र हेतुरस्ति॥
किञ्च भाट्टैर्यत्र गुणगुण्यादौ समानाधिकृतत्वान्यायानुपपत्तिरूपार्थापत्या भेदाभेदौ साध्येते तत्रार्थापत्तेरनुमानत्वादिना तार्कितेणानुमानेनैव तद्धीर्वाच्येति कथमनुमानेनाप्रसिद्धस्यासिद्धिः॥
प्रयोगोत्तरकालं साधने प्रकृतानुपयुक्तान्वितोक्तिरूपार्थान्तरापादिका प्रयोगात्पूर्वं
विप्रतिपत्यनन्तरमेव साधने क्रमविपर्यासरूपाप्राप्तकालत्वापादिका इति कल्पनेत्यन्वयः। उभयत्र हेतुर्विप्रतिपत्यननुसारिणीति। परमाणूपादानकं प्रधानोपादानकं वेति विप्रतिपत्तौ परमाणूपादानकत्वरूपेण साध्यप्रसिद्धिसंपादनस्यैवानुगुणत्वादिति भावः --
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः।
इत्यनुव्याख्यानोक्तेरिति भावः॥
परिशेषो मिथः सिद्धिश्चक्रकः स्वाश्रयादयः।
असिद्धसाधकत्वेन पञ्चावयतां विना॥
अङ्गीकार्या"
इत्यनुव्याख्यानसुधोक्तं हृदि कृत्वा परिशेष इत्युपलक्षणं मत्वाह-- किञ्चेति॥ समानाधिकरण्यप्रयोगो ऽस्ति, अत्यन्ताभिन्ने च घटः करीर इति प्रयोगोस्ति,
1.त्वेति - ट. ठ. ड.
अप्रद्ध-विशेषस्य-दोत्वङ्गः) अनुमादोषवादः पु - 257.
अपि च यथात्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघाताद्यापादकेषु तर्केष्वप्रसिद्धस्यैवात्माश्रयादेरापादनं तथापसिद्धस्य साधनमपि किं न स्यात्। न ह्यात्माश्रयादिकं क्वचित्प्रमितम्। न चाप्रसिद्धमापाद्यं न तु साध्यमित्यत्र हेतुरस्ति॥
किञ्च मन्मते तर्कोप्यनुमानं त्वन्मतेत्वननुमानरूपोपि तर्को व्याप्तिसापेक्ष इति कथमनुमानं प्रसिद्धिसापेक्षं तर्कस्तु तन्निरपेक्ष इति व्यवस्था॥
अपि चाप्रसिद्धस्या 1 पि सिद्धौ शशशृङ्गादिकमपि सिध्येदिति त्वायाऽपाद्यमानास्याप्यतिप्रसङ्गस्याप्रसिद्धत्वात्कथमापादानमिति दिक्॥
गुणगुण्यादौ तु नीलो घटः शुक्लः पट इत्यस्ति सामानाधिकरण्यप्रयोगः, स च तयोर्भेदाभेदौ विना नोपपद्यत इति तदन्यथानुपपत्तिरूपार्थापत्येत्यर्थः। तद्धीः भेदाभदधीरित्यर्थः। अर्थापत्यैव तद्धीजन्माङ्गीकारेर्ऽथापत्तेः भाट्टानां भेदाभेदधीरनुमितिरूपैव। अथाप्यत्रार्थापत्तिफलत्वाभिमानमात्रमिति नैयायिकेन
वाच्यमित्यर्थः। कथमापादनमिति दिगिति॥
नन्वप्रसिद्धमप्यापादयितुं शक्यते न तु साधयितुमिति चेन्न। हेत्वाभावेन निराकृतत्वात्। व्याप्तिसापेक्षत्वस्यापादाने साधने चोभयत्र तुल्यत्वात्। ननु शब्दाभासादिना शशशृङ्गादिज्ञाने सति -
1.स्यसि - ग.ट.रा.
पु - 258. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
नापि पक्षधर्मताविघटनादिति द्वितीयः। पक्षधर्मतासंदेहानपेक्षेत्युक्तत्वात्॥
न तृतीयः। उक्तेषु परमाणूपादनकत्वादिसाधकेष्वनुमानेष्वर्थापत्तिस्थले आत्माश्रयाद्यापादतर्करूपानुमानेषु च साध्याप्रसिद्धावपि व्याप्तेः सत्वात्। केवलव्यतिरेकिमात्रे साध्याप्रसिद्धावपि -
शशशृङ्गादिसिद्धिरापादयितुं शक्यते एव। यदपि विमतं परमाणूपादानकमित्यादौ साध्याप्रसिद्धिः कथमिति॥
तन्न। कारणादादिवादिवाक्येन परस्य तज्ज्ञानसंभवात्। तावन्मात्रेण तत्प्रसिद्ध्या 1 पत्तौ प्रमाणेनैव प्रसिद्ध्या भाव्यमिति निर्बन्धा 2 पातात्। नैयायिकस्यापि कारणादाद्युपदेशेन वा स्वार्थानुमानेन वा परमाण्वाद्यवगतिसंभवेन साध्यप्रसिद्धेरिति चेत्तर्हि सात्मकत्वादिस्थले ऽप्येवं वक्तुं शक्यत्वादप्रसिद्धत्वं न दोषायेत्येवमुपेयमित्याद्यूह्यमिति भावः। उक्तत्वादिति॥ पक्षलक्षणोक्तिप्रस्ताव इत्यर्थः। व्याप्तिविघटनाद्वादोषत्वमिति पक्षं निराह-- न तृतीय इति॥ किं व्याप्तिस्वरूपविघटकत्वमभिप्रेतं उत तद्ग्रहविघटकत्वम्। आद्ये --
"व्याप्तिश्च व्यतिरेकेण तत्रतैश्चावगम्यते"।
इत्यनुव्याख्यानसुधोक्तं हृदि निधायाह-- उक्तेष्वित्यादि॥ तर्कस्यानुमानतायाः साधितत्वात्तर्करूपानुमानेष्वत्युक्तम्। व्यतिरेकमात्र इति॥ मात्रशब्दः कार्स्न्यपरः। सर्वकेवलव्यतिरेकिषु भूरितरेभ्यो भिद्यते भूतत्वात्, जीवच्छरीरं सात्मकमित्येवमादिष्वित्यर्थः॥
1.द्धद्युपपत्तौ -ट.ठ.ड. 2.न्धोस्ति- -ट. न्धाभावात् -ठ.ड.
अप्रद्ध-विशेषस्य-दोत्वङ्गः) अनुमानदोषवादः पु - 259.
ममान्वयव्याप्तेस्तव व्यतिरेकव्याप्तेः सत्वाच्च। शिष्टं व्यतिरेकिभङ्गे उक्तम्॥
ननु व्यतिरेकिण्यप्रसिद्धेन साध्येन साधनस्य कथमन्वयव्याप्तिरिति चे 1 न्न। व्यतिरेकव्याप्तिरपि कथम्। प्रतियोग्यज्ञाने व्यतिरेकानिरूपणात्। किञ्च मन्मते साध्यं विना साधनस्यानुपपत्तिरेव व्याप्तिः। तत्र च विनाशब्दोक्तसाध्याभावज्ञानाय प्रतियोगिभूतसाध्यधीरेवापेक्षिता। न तु पूर्वं तत्प्रमितिः।
ननु भूरितरभिन्नेत्यादौ त्रयोदशान्योन्याभावानां विशकलिततया प्रसिद्धत्वेनैकबुद्ध्युपारूढानां तेषां व्यतिरेकव्याप्तिनिरूपणं सुशकम्। घटादावेव वा साध्यप्रसिद्धिः। न च तथात्वेन्वयित्वं. तस्य पक्षैकदेशत्वात्। न चैवमनुमानं व्यर्थम्। उद्देश्यसिद्ध्यर्थत्वादिति चेत्तर्हि तत्र हेतुसत्वासत्वाभ्यामन्वयित्वासाधारण्योरापात्त इत्याद्यभिप्रायेणाह-- शिष्टमिति॥ ननु ममान्वयव्याप्तेरित्ययुक्तम्। साध्याप्रसिद्धौ तत्सामानाधिकरण्यस्य हेतौ क्वाप्यग्रहेण सामानाधिकरण्यघटितान्वयव्याप्तेरसम्भवादिति शङ्कते -- नन्विति॥ प्रतिबन्दीमाह -- व्यतिरेकेति॥ ननु परपक्षे ऽनुपपत्युक्तिमात्रेण कथं स्वपक्षे ऽनुपपत्तिपरिहारः। न हि पराङ्गं दग्धमिति स्वाङ्गदाहः शाम्यदीत्यतः न केवलं प्रतिबन्दी उपपत्तिश्चास्मत्पक्षे ऽस्तीत्याह -- किञ्चिति॥
1.सत्तुभ्यां -ट.ठ.
पु - 260. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अस्तु वा सामानाधिकरण्यनियमो व्याप्तिः। तथापि न तावदप्रसिद्धेन साध्येन साधनस्यानन्वय एवेति युक्तम्। व्यतिरेकिणो विरुद्धहेत्वाभासत्वापातात्। साध्यप्रसिद्धेर्व्याप्तिहेतुत्वेन व्याप्तिं प्रत्यहेतुत्वाच्च। नापि सत्या 1 मन्वयव्याप्तौ
तद्ग्रहो 2 न शक्य इति वाच्यम्। पक्षादिप्रविभागात्प्राक् स्वशीररादावेव प्रत्यक्षेणोपदेशादिना 3 वावगतसात्मकत्वस्य पुंसो भूयोदर्शनादिना धूमाग्न्योरिव प्राणादिमत्वसात्मकत्वयोरप्यन्वयव्याप्तिग्रहस्यस्वार्थानुमितौ 4 सम्भवात्। न च जीवच्छरीरमात्रस्य पक्षीकरणादन्वयदृष्टान्ताभावः। अभेदसाधकानुमान इवानुमित्यादिना पक्षस्यापि स्वशरीरस्य निश्चितसाध्यकतया दृष्टान्तत्वस्यापि सम्भवात्॥

नन्वथापि न्यायमतसिद्धसामानाधिकरण्यनियमरूपव्याप्तिरशक्यैवेत्यतः तत्राप्युपपत्तिमाह -- अस्तु वेति॥ अनन्वय एवेति॥ असामानाधिकरण्यमेवेत्यर्थः। तथात्वे नित्यः शब्दः कृतकत्वादितिवत् विरुद्धहेत्वाभासः स्यादित्यर्थः। नन्वस्तु सामानाधिकरण्यं तन्नियमरूपव्याप्तिस्तु साध्याप्रसिद्धिस्थले कथमित्यत आह -- साध्येति॥ तथा च साध्याप्रसिद्धिस्थले तन्निरूपितव्याप्तिज्ञप्तेरभावेपऽपि नियतसामानाधिकरण्यरूपव्याप्तेरप्रतिबन्धाव्द्याप्तिविघटनात्साध्याप्रसिद्धिर्देष इति न युक्तमिति भावः। द्वितीयं निराह-- नापीति॥ सुधोक्तमाह-- पक्षादीति॥ व्यितरेकवादे मण्युक्तं सर्वमत्राह-- अभेदेति॥
1.मप्य -ग.ट.रा. 2.होश -ग.ट. 3.नाचाव -ग.ट. 4.तेश्च -ट.रा.
अप्रद्धःविशेस्य-दोत्वङ्गः) अनुमादोषवादः पु - 261.
------ --------------------------------------------------------------------
नापि सिद्धसाधनम्। स्वार्थानुमाने तस्यादोषत्वात्। उद्देश्यायाः शरीरत्वावच्छेदेन साध्यप्रतीतेः प्रागसिद्धेश्च। न च 1 पक्षस्य पक्षैकदेशस्य वा दृष्टान्तत्वे सपक्षत्वेन 2 व्यतिरेकित्वभङ्गप्रसङ्गो व्यतिरेकवादिनस्तवेव तदभाववादिनो ममाप्यनिष्टः॥
ननु स्वेन गृहीतापि व्याप्तिः शरीरमात्रे विप्रतिपन्नं प्रति कथं दर्शनीयेति चेन्न। तं प्रति 3 व्याप्तिग्रहणस्थलस्याविप्रतिपत्या प्रतिरुद्धत्वेन प्रदर्शयितुमशक्यत्वे ऽपि जीवच्छरीरजातं सात्मकं प्राणादिमत्वात् यत्कार्यवत्तत्कारणवत् यथाङ्कुरवती भूमिर्बीजगर्भेति सामान्यव्याप्तिप्रदर्शनस्य वा
प्राणादिमत्वं सात्मकत्वेन व्याप्तं तदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तं यथा धूमो वह्निनेति व्यतिरेकव्याप्त्या 4 विशेष्यान्वयव्याप्तिसाधनस्य वा, अनुपपत्तिरूपान्वयव्याप्तेर्विशिष्यप्रदर्शनस्य वा संभवात्।
ननु प्राग्व्यतिरेकिभङ्गे पक्षैकदेशस्य दृष्टान्तत्वे व्यतिरेकित्वभङ्गो भवद्धिरेवापादितः स दोषस्तर्हि स्यादित्याशङ्क्या निराह-- न चेति॥ स्वार्थानुमादोषत्वा 5 सम्भवेपि परार्थप्रयोगे दोष इति शङ्कते -- नन्विति॥ सुधोक्तदिशा समाधिमाह-- तं प्रतीत्यादिना॥ अनुपपत्तिरूपेति॥
1.पक्षस्येति न -ग.ट.रा. 2.सपक्षत्वेनेति नास्ति-ग.रा. 3.विशिष्टस्येत्यधिकम्-ग.ट.रा. 4.विशिष्टान्वव्यतिरेकव्याप्तिप्रसेसा -ट. तिव्यातिरेकव्याप्त्यान्वयव्याप्तिप्र -रा. 5.मानासंभ - ट.ठ.
पु - 262. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यथा च व्यभिचारस्थलानुक्तावप्युपाधिना व्यभैचारः, यथा वा दृष्टान्तानुक्तावपि धूमो वह्निव्याप्य इति आप्तवाक्येन व्याप्तिः, तथान्वयदृष्टान्तानुक्तावप्यनेनानुमानेनान्वयव्याप्तिः सिदध्यत्येव॥
एतेन साध्यरूप्रतियोग्यज्ञानात्तदभाव 1 रूपज्ञानं न युक्तमिति साध्याभावस्य साधनाभावेन व्याप्तिज्ञानं न संभवतीति निरस्तम्। उक्तरीत्या प्रत्यक्षेणोपदेशादिना वा साध्यसाधनरूपासाधारणधर्मावेकत्रोपलब्धवतः ततो ऽन्यत्र सर्वत्रापि तदभावं च पश्यतो वादिनः प्रतिवादिनोपि वादिवाक्यावगतप्रतियोगिनस्तदभावग्रहसंभवेन व्यतिरेकव्याप्ति 2 ग्रहस्य सुलभत्वात्। न च प्रमाणेनैव प्रतियोगी ज्ञातव्य इति नयमोस्ति। शशश्रङ्गाद्यभावासिद्ध्या शशश्रङ्गादेरसत्वासिद्धिप्रसङ्गात्। न ह्यसतो निषेधः स्वविरिद्धसत्वापेक्षः॥
प्रणादिमत्वस्य सात्मकत्वप्रयोज्यतया प्राणादिमत्वं सात्मकत्वेन विनानुपपन्नमित्येवंरूपेणानुपपत्तिरूपान्वयव्याप्तेर्विशिष्य प्रदर्शनसंभवादित्यर्थः।
ननु प्रमाणेन प्रतियोगिनो ऽनवगतौ क्वचित्सत्वाभावात्कथं तन्निषेध इत्यत आह-- न ह्यसत इति। सत्वे सति
निषेधस्यैवायोगादिति भावः।
1.रूपपदं न -ग.क.ट.रा. 2.ज्ञानस्य -क.ग.रा.
अप्रद्ध-विशेस्य-दोत्वङ्गः) अनुमादोषवादः पु - 163.
किं चैवं सति तत्तद्वादिनां पराभिमतसप्तम 1 पदार्थप्रधानपरमाण्वादिनिषेधो न स्यात्। न च तत्रापि प्रधानादिकं नेति न निषेधः। किं तु जगदुपादानं परमाण्वा 2 दिकं नेत्येवं 3 तथाच खण्डशः प्रमितरस्तीति वाच्यम्। पररीत्याप्रसक्तस्य स्वरूपेणैव निषेधसंभवे स्वाभिमतस्य निषेधप्रतियोगिप्रमाणिकत्वस्य निर्वाहायानानुभाविककॢष्टकल्पने ऽन्योन्याश्रयात्॥
सप्तमेति॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडेव भावपदार्थाः। न सप्तमोस्तीति सप्तमपदार्थस्य साङ्क्याभिमतप्रधानस्य च निषेधो नैयायिकस्य न स्यात्। तथा साङ्ख्यादेः परमाण्वादिनिषेधो न स्यादित्यर्थः। खण्डश इति॥ जगति परमाण्व 6 तिरिक्तपदार्थस्य च प्रमितिरस्तीत्यर्थः। परीत्याप्रसक्तस्येति॥ तदीयवाक्याभासप्रसक्तस्येत्यर्थः। अन्योन्याश्रयादिति॥ त्वदुक्तरीत्यैव निषेधे सिद्धे निषेध्यस्य प्रामाणिकत्वसिद्धिः। सिद्धे च तस्मिन्नुक्तरीत्या निषेधसिद्धिरित्यन्योन्याश्रयादित्यर्थः॥
त्वदुक्तरीत्या 7 निषेधो न युक्त एव। जगदुपादानमिति परमाणुत्वेनोपादान 8 मभिप्रतेमुत सांख्याभिमतप्रधानत्वेनाथोभयानुगतोपादानत्वरूपसामान्यधर्मेणोपादनमात्रमिति विकल्पान् क्रमेण निराह--
1.प्तपदा- क.ट. 2.ण्वतिरिक्तं -क.ग.ट.रा. 3.ततश्च-क.ग.ट. 4.त्पदार्थस्य उपा -ट.ठ. उपादानभूत -ठ. 5.स्य च -ट. 6.णुपदार्थ -स्यातिरिक्तपदार्थस्य च -ट. 7.त्यापि -ड. 8.न त्वम -ठ.
पु - 264. न्यायदीपयुततर्कताण्डवम् (तृ. परिच्छेदः
किञ्च जगदुपादनशब्देन परमाणोरवोक्तौ सिद्धसाधनम्। प्रधानोक्तावाश्रयासिद्धिः। प्रमाणिकाप्रमाणिकानुगतं सामान्यं तु नास्त्येवः॥
एतेन सात्मकत्वरूपसाध्यघटितान्वयव्याप्तिरूपसाध्याप्रमिता 1 न्वयव्याप्त्या सह व्यतिरेकव्याप्तेरन्वयव्याप्त्यग्रहात्कथं व्यतिरेकव्याप्त्यान्वयव्याप्त्यनुमितिः।
किञ्चेत्यादिना। प्रमाणिकेति॥ परमाणुर्हि त्वन्मते प्रामाणिकः प्रधानमप्रमाणिकं न हि शशविशषाणयोर्विषाणत्वसामान्यमिव प्रामाणिकाप्रामाणिकपरमाणुप्रधानरूपोभयगतमुपादानत्व 2 सामान्यमस्ति। आश्रयाभावे धर्मायोगात्। न हि प्रतियोगित्वासत्वादिवदुपादानत्वं धर्मिसत्तानिरपेक्षम्। येन प्रतियोगित्वादिप्रतिबन्दी स्यादिति भावः॥
ननु व्यतिरेकव्याप्त्यान्वयव्याप्त्यनुमानं प्रागुक्तमयुक्तम्। साध्यस्याप्रसिद्धौ तन्निरूपितान्वव्यप्तेरप्यप्रसिद्ध्या तया सह लिङ्गभूतव्यतिरेकव्याप्तेर्व्याप्तिग्रहासंभवादित्याशङ्कामनूद्य निराह -- एतेनेति॥ ननु व्यतिरेकव्याप्तिरूपलिङ्गेनान्वयव्याप्तिरूपसाध्यस्यानुमानस्थले ऽपि लिङ्गलिङ्गिभूतयोर्व्यतिरेकव्याप्त्यन्वयव्याप्त्योरन्वयव्याप्तिस्तयोर्व्यतिरेकव्याप्त्यानुमिता सती सात्मकत्वप्राणादिमत्वनिष्ठान्वयव्याप्त्यनुमित्यनुकूलास्त्वित्यत आह-- तत्रापीति॥
1.तावन्व -क.ट.रा. 2.रूपपदमधिकम्- ट.ड.
अप्रद्ध-विशेस्य-दोत्वङ्गः) अनुमादोषवादः पु - 265.

तत्रापि व्यतिरेकव्याप्त्याश्रयणे चानवस्थेति निरस्तम्। यद्यदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तं यथा धूमोग्निनेति सामान्यव्याप्तेः। अनुपपत्तिरूपाया विशिष्यान्वयव्याप्तेश्च दर्शितत्वात्। एवं शब्दः अष्टद्रव्यातिरिक्तद्रव्याश्रितः, अष्टद्रव्याश्रितत्वे बाधकोपपन्नत्वे सति गुणत्वात्। गगनमितरेभ्यो भिद्यते शब्दा 1 श्रयत्वादित्यादिकेवलव्यतिरेकिष्वपि योयदा 2
श्रयत्वे बाधकोपपन्नत्वे सति गुणः स तदन्याश्रितः, यद्य 3 दसाधारणधर्मवत् तत्तो भिद्यत इति सामान्यव्याप्तिर्वा। कणादोपदेशादिना शब्दे गगने च साध्यसाधने उपलब्दवतः"तदन्यत्र सर्वत्र तदभावं च पश्यत"इत्यादि पूर्वोक्तरीत्या व्यतिरेकव्याप्त्या 4 विशिष्यान्वयव्याप्तिर्वा अनुपपत्तिरूपा विशिष्टान्वयव्यप्तिर्वा उपपाद्या ॥
व्यतिरेक्यन्तरेष्वपि सुधोक्तं हृदि कृत्वा प्रागुक्तरीत्यान्वयव्याप्तिं त्रेधोपपादयति -- एवमित्यादिना॥
यत्तु मण्यादितार्किकग्रन्थे व्यतिरेक्यनुग्रहार्थं सामान्यप्रसिद्धिसंपादकं सामान्यतोदृष्टानुमानं नियमिति तत्कथनं तदाशङ्क्य निराह--
1.श्रयत्वादित्यादि व्यतिरे -क.ट.रा. 2.दाश्रितत्वे -ग.ट. 3.दवृत्तिधर्मा -क.ट.रा. 4. प्त्यनुमितेति शोधितम् -ट.
पु - 266. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
नचा 1 त्रापि शब्दः क्वचिदाश्रितो गुणत्वादित्यनुमानेन साध्यं सामान्यतः प्रसिद्धमिति वाच्यम्। उक्तरीत्या साध्याप्रमितावपि त्रेधा व्याप्तिग्रहसंभवेन सामान्यतोदृष्टानपेक्षणात्॥
किञ्च सामान्यतोदृष्टस्यावश्यकत्वे तदेव तर्कं विनाकृतमनिर्धारिताश्रयविशेषमाश्रितत्व 2 सामान्यं गृङ्णदपि इतरबाधकतर्कानुगृहीतं पुनरनुसन्धीयमानमष्टातिरिक्ताश्रितत्वरूपविशेषमेव ग्रहीष्यति। एकस्यैव सहकारिवैचित्र्येण विचित्रकार्यजनकत्वदर्शनात्। सामान्यस्यैकविशेषबाधे विशेषान्तरे पर्यवसाननियमाच्चेति किं व्यतिरेकिणा। न चादृष्टद्रव्यातिरिक्तद्रव्याश्रितत्वप्रकारिका प्रतीतिर्व्यतिरेकिसाध्या सा च न सामान्यतो दृष्टेन 3 सिध्यति ततः प्राग 4 नुपस्थितेरिति शङ्क्यम्। ईश्वरानुमाने -
न च तत्रापीति॥ तदपेक्षायां बाधकं चाह-- किञ्चेति॥ इतरेति॥ इतराश्रितत्वे
यद्बाधकं तादृशतर्कानुगृहीतमित्यर्थः। एकस्यैवेति॥ कार्यत्वाद्यनुमानं लाघवतर्कानुगृहीतं सत् कर्त्रैक्यमपि गृह्णाति न चेत्कर्तृमात्रं गृह्णाति। संस्कारादिसहकृतं चक्षुरादि तत्तामपि गृह्णाति न चेदिदन्तामेवेत्येवं दर्शनादित्यर्थः। व्याप्तिबलाच्च सामान्यस्यैव विशेषे पर्यवसानं न्याय्यमित्याह-- सामान्यस्येति॥ उद्देश्यसिद्ध्यर्थत्वेन व्यतिरेकिसार्थक्यमाशङ्क्य निराह -- न चेदित्यादिना ॥
1. च तत्रापि क. ट.रा. 2.ज्ञानेत्यधिकम् ग.रा. 3.ननसि- ग.ट.रा. 4.गुक्तरूपस्य प्रकारस्या, 5.अनुव्यवसाये इत्यादि नास्ति- ग.रा.
अप्रद्ध-विशेस्य-दोत्वङ्गः) अनुमादोषवादः पु - 267.
कर्त्रैकत्ववदनुव्यवसाये रजतत्वप्रकारकत्व 5 वदभावज्ञाने ऽनुयोगित्वप्रतियोगित्वादिवच्च प्रागनुपस्थितस्यापि
प्रकारत्वोपपत्तेः॥
ननु तथापि कथञ्चित्साध्यप्रसिद्धिरावश्यकीति त्वयापि स्वीकृतत्वत्कथं तदावश्यकत्वनिरास इति चेन्न। मम हि पराभिप्रेतायाः पक्षादन्यत्र साध्यतावच्छेदकावच्छिन्नत्वेन प्रकारेण प्रतिवादिनं प्रति साध्यप्रसिद्धेरावश्यकतैव निरस्या। न तु प्रतीतिमात्रस्य । उक्तं हि टीकायाम्। प्रत्यक्षेणोपदेशादिना वासाधारणधर्मावेकत्रोपलब्धवत इत्यादि। टीकाकारीया परेण व्यतिरेकिणि सामान्येनान्वयव्याप्त्यादिके शङ्किते तं प्रति क्लिष्टकल्पनत्वोक्तिस्तु व्यतिरेकवादिनस्तवान्वयव्याप्त्युक्तिः -
कथं चिदिति॥ प्रमाप्रसाधारण्येनेत्यर्थः। स्वीकृतत्वादिति॥ प्रतिवादिनोपि वादिवाक्यावगतेत्यादिपूर्वग्रन्थेन तथा प्रतीतेरपि भावः। उक्तं हीति॥ भक्तिपादे --"यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा"इत्येतव्द्याख्यावसरे सुधायामित्यर्थः। पूर्वयत्रेधा व्याप्त्युपपादनं व्यतिरेकिणि कृतं तत्र भक्तिपादीयसुधावाक्यविरोधमाशङ्क्य तदभिप्रायोक्त्या निराह -- टीकाकारीयेत्यादिना॥
1. एवेति नास्ति -ग.ट.रा.
पु - 268. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्यतिरेकित्वहान्यापादकत्वात्क्लिष्टेत्यभिप्रायेणैव। न तु स्वमतेपि क्लिष्टेत्यभिप्रायेण। सिद्धान्ते ऽपि सामान्यव्याप्त्यादेः सत्वादेव 1 । तस्मात्साध्याप्रसिद्धिर्व्याप्तिविघटिकेति तृतीयो न युक्तः॥
तदुक्तं भगवत्पादैः -- असत्यपि व्याप्तिरस्त्येवेति॥ साध्यस्य प्रसिद्धत्वे ऽसत्यपि साध्यं विनानुपपत्तिरूपा वा, नियतसामानाधिकरण्यं व्याप्तिरिति पक्षे ऽपि सामान्यतो ऽन्वयव्याप्तिर्वा व्यतिरेकव्याप्त्यनुमिता विशिष्टान्वयव्याप्तिर्वा उक्तरीत्यास्त्येवेत्यर्थः॥
नापि चतुर्थः। उक्तरीत्या स्वेन ज्ञातस्य सात्मकमित्यादिशब्दार्थस्य वादिनापि प्रतिवादिनं प्रति समवायान्त्यविशेषादिशब्दार्थस्येव व्युत्पादने ऽविदितपदार्थकत्वाभावात्। तदर्थज्ञाने तत्र विवादायोगाच्चऽ
तदुक्तमिति॥ साध्याप्रसिद्धावपि व्याप्तिरस्तीत्येतत्प्रमाणलक्षणे उक्तमित्यर्थः। प्रागार्थान्तरस्योक्तत्वात्प्रकृतोपयोगितयात्रार्थमाह-- साध्यस्येति॥ प्रतिज्ञावाक्यस्याविदितपदार्थत्वेनाबोधकत्वप्रसङ्गात्साध्यासिद्धेर्देषत्वमिति पक्षं निराह -- नापि चतुर्थ इति॥ उक्तरीत्येति॥ स्वशरीरादौ पत्यक्षेणोपदेशादिना वावगतसात्मकत्वस्य पुंस इत्यादिनोक्तरीत्येत्यर्थः। अस्ति नास्तीति विवादरूपकार्येणैव तज्ज्ञानं वादिप्रतिवादिनोः सिद्धमिति कथमविदिपदार्थकत्वं प्रतिज्ञावाक्यस्येति भावेनाह -- तदर्थाज्ञान इति॥ कारणस्य विशेषणज्ञानस्याभावे कार्यस्य विशिष्टज्ञानस्यायोगाद्वा साध्यासिद्धेर्देषत्वमिति पक्षं निराह -- न पञ्चम इति॥
व्यकणाद्धेः- दोत्वङ्गः) अनुमादोषवादः पु 269.
न पञ्चमः। विशेषणज्ञानं विशिष्टज्ञानहेतुर्नेति निर्विकल्पकभङ्गे उक्तत्वात्। हेतुत्वेप्यप्रामाण्याभावसाध्यकानुमान इवादौ सा ध्यविशेष्यकैव धीः
पश्चात्साध्यविशेषणिकेति सुवचत्वाच्च॥
तस्मात्साध्याप्रसिद्धिर्न दोष इति॥
अप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः

24.27

अप्रमाण्येत्यादि॥ व्यक्तमेतत्प्रामाण्यवादे परमते प्रामाण्यानुमित्यसंभवोक्तिप्रस्तावे॥
नन्वेवम"निर्वचनीयासिद्धेरप्रसिद्धविशेषणः पक्षः"इति प्रकरणादौ तत्रतत्राप्रसिद्धविशेषणत्वस्य दोषत्वेनोद्भावनं विरुध्यत इति चेन्न। तस्य परमतानुसारित्वस्य तत्र टीकायामेव व्यक्तत्वादिति भावः॥
अप्रसिद्धविशेषणत्वस्य दोषत्वभङ्गः

24.27

27-6-2001.
व्यकणाद्धेः-दोत्वङ्गः) अनुमादोषवादः पु - 269.
अथ व्यधिकरणासिद्धेर्देषत्वभङ्गः

24.28

एवं व्यधिकरणासिद्धिरपि न दोषः। तथा हि --
अथ व्यधिकरणासिद्धेर्देषत्वभङ्गः

24.27

"व्याप्तत्वे व्याश्रयत्वं तु कथमेवहि दूषणम्।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका"।
पु - 270. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तस्या दोषत्वं 1 किमितिसङ्गात्, पक्षधर्मताविघटनाव्द्याप्तिविघटनाद्वा 2 ॥
नाद्यः। नित्य आत्मा काकस्य कार्ष्ण्यादित्यादेर्व्याप्त्यभावेनैव दुष्चत्वात्। शब्दो नित्यः घटस्य कृतकत्वादित्यत्र तु शब्दस्य कृतकत्वं स्वीकृतं चेद्घटस्येत्यस्य वैयर्थ्यात्। अस्वीकृत्य घटगतेनैव कृकत्वेन शब्दानित्यत्वसाधने तु यत्र कृतकत्वं तत्रानित्यत्वमिति व्याप्तेस्तत्र सामानाधिकरण्यगर्भितत्वेनान्यगतस्य तस्यान्यगतेनानित्यत्वेन व्याप्तेरेवाभावात्॥
इति भक्तिपादीयानुव्याख्यानसुधोक्तरीत्या विकल्पान् दोषांश्च व्यनक्ति-- किमित्यादिना॥ अतिप्रसङ्गादिति 3 ॥ काकस्य कार्ष्ण्यादित्यादेरपि सद्धेतुत्वापत्तिरूपातिप्रसङ्गादित्यर्थः। इत्यत्रत्विति॥ यत्र कृतकत्वं तत्रानित्यत्वमिति व्याप्तिसत्वेन व्याप्त्यभावेन तत्र दुष्टताया वक्तुमशक्यत्वे ऽपि प्रकारान्तरेण दुष्टत्वं तत्रेति विशेष 4 द्योतकस्तु शब्दः। वैयर्थ्यादिति॥ व्यर्थविशेषणत्वेनैव दुष्टत्वमिति भावः॥
ननु प्रतियोग्यसामानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरिति मण्युक्तसामान्यलक्षणपक्षे महानसीयधूमस्य पर्वतादिनिष्ठवह्निनेव व्यधिकरणयोरपि व्याप्तिरस्तीति पक्षे
दोषान्तरमाह -- किञ्चेति॥
1.किमदोषत्वेति -ग.रा. 2.नाच्च व्या-क. 3.ऽअतिप्रसङ्गादितिऽ इति नास्ति -ट.ठ. 4.ष्यद्यो -ट.ठ.
व्यकरणाद्धेः-दोत्वङ्गः) अनुमादोषवादः पु - 271.
किञ्च सत्यां व्यप्तौ 1 व्यधिकरणत्वस्य दोषत्व एवातिप्रसङ्गः। दृश्यते हि व्यधिकरणेनापि पद्मविकासेन सूर्योदयस्य, समुद्रवृत्या चन्द्रोदयस्य, छायया मेघसय्, भूमिष्ठेनालोकेन उपरिसवितुः, चक्रभ्रमेण कुलालासत्तेः, कृत्तिकोदयेन रोहिण्युपयासत्तेः, अधोदेशे 2 नदीपूरेण ऊर्ध्वदेशवृष्टेः, ऊर्ध्वभागस्थधूमेन अधोभागस्थवह्नेश्चानुमितिः॥
नन्वत्राप्ययं कालः सूर्योदयवान् पद्मविकासवत्कालत्वात्सम्मतवत् अयं प्रदेशः कुलालासत्तिमान् भ्रमच्चक्रादिकरणत्वात् सम्मतवत् इयं नदीवृष्टिमदूर्ध्वदेशे अयं धूमो मूले 4 ग्निमान् धूम 5 वत्वात् सम्मतवदिति कालं देशादिकं वा पक्षीकृत्य सामानाधिकरण्यं संपाद्यमिति चेत्॥
अतिप्रसङ्ग इति ॥ सद्धेतूनामसद्धेतुत्वापत्तिरूपातिप्रसङ्ग इत्यर्थः। तत्कथमित्यत आह -- दृश्यते हीति॥
अनुमितिरित्यन्वयः। अनुव्याख्यानोक्तोदाहरणमुपलक्षणं मत्वाऽह -- पद्मेत्यादि॥ कालं देशं वाऽदाय सर्वत्र सामानाधिकरण्यमाशङ्कते -- नन्विति। देशादिकं वेत्यादितपदेन नदीमिति गृह्यते।
1.प्तौ वैयधिकरण्यस्य -क.ग.रा. 2.शनदी -ग.रा. 3.शसं -क.ग.ट.रा. 4.लेव - ग.ट.रा. 5.मत्वा -ट.
पु - 272. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
1 किमियं लौकिकप्रतीतिः उत त्वदभिमतसामानाधिकरण्यनियमनिर्वाहायैवं
प्रयोगविपरिणामः कल्प्यते॥
नाद्यः। त्वदुक्तकुसृष्टिमजानतामपि लौकिकानां पद्मादौ विकासादिदर्शनेनैव सूर्योदयादौ स्वार्थानुमितेः तदनुसारिपरार्थानुमितेश्च दर्शनात्। परीक्षकैश्च लोकसिद्धरीत्यनुसारिण्येव प्रक्रिया कल्प्या। न तु स्वकल्पितप्रक्रिया सा बाध्या। अतिप्रसङ्गात्। उक्तं च न्यायटीकायाम् --
सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम्॥
दृश्यते ह्यद्तनस्य सूर्योदयस्य श्वस्तनेन सूर्योदयेन गम्यगमकभाव इति॥
लोकरीत्येरेवंरूपत्वेषऽपि भवद्भिरिव मयापि लोकरीत्यनुरोधेनैव परिभाषा कार्येति कुत इत्यत आह-- परीक्षकैश्चेति॥ अतिप्रसङ्गादिति॥ धूमादिना वह्न्याद्यनुमित्युत्पादनादिकमपि न स्यात्। ज्ञानस्यापीच्छाद्वारा प्रवृत्तिहेतुत्वकल्पनं दण्डादेर्घटहेतुताव्युत्पादनादिकमपि न स्यादित्येवमाद्यतिप्रसङ्गादित्यर्थः। यद्वा समानाधिकरणानामपि गम्यगमकभावो नेत्यपि व्युत्पादनप्रसङ्गादित्यर्थः॥
1.किमेवं लैकिकी -ग.ट.रा.
व्यक-णाद्धेः-दोत्वङ्गः) अनुमादोषवादः पु - 273.
न द्वितीयः अन्योन्याश्रयत्वा 1 त्। अन्यथा मदभिमतवैयधिकरण्यादिनिर्वाहाय पर्वताधोदेशो ऽग्निमान् 2 ऊर्ध्वदेशस्य धूमवत्वात् विमतः कालो देशो वा अग्निमत्पर्वतसंबद्धः धूमवत्पर्वतसंबद्धत्वात् संमतवदित्यादिरपि विपरिणामः स्यात्॥
किं चैवं सामानाधिकरण्यस्य सर्वत्र सुसंपादत्वेन व्यधिकरणासिद्धिर्निरवकाशा स्यात्। तदसंपादने सा सावकाशेति चेत्तर्ह्यसिद्धिरुक्तिदोषः स्यात्।
त्वदभिमतसामानाधिकरण्यनियम 3 निर्वाहायेत्युक्तकल्पं निराह -- न द्वितीय
इति॥ अन्योन्येति॥ सामानाधिकरण्यनियमे सिद्धे सति तन्निर्वाहाय प्रयोगविपरिणामकल्पना सिद्धे चोक्तदिशा प्रयोगविपरिणामे सामानाधिकरण्यनियमसिद्धिरित्यन्योन्याश्रयादित्यर्थः॥ 4 निरवकाशेति॥ अयं काल आत्मनित्यत्ववान् काककार्ष्ण्यवत्वादित्यादिरूपेण त्वदभिमतव्यधिकरणासिद्धहेत्वाभासस्थलेपि सामानाधिकरण्यस्य सुवचत्वेन व्यधिकरणासिद्धेरुदाहरणं न किमपि लभ्येतेति। दोषत्वेन तस्य परिगणनमयुक्तमापाद्येतेति भावः। तदसंपादने देशकालादिना सामानाधिकरण्यासंपादने इत्यर्थः।
1.यात् -ट.रा. 2.न्तदू -ट.रा. 3.मे सिद्धेसति तन्निर्वा -ड. 4.मदभिमतेति मदभिमतं यद्वैयधिकरण्यं तदादिनिर्वाहायेत्यर्थः। आदिपदेन सर्वत्रप्रयोगेषु देशकालयोरन्यतरस्यैव पक्षीकरणनिर्वाहायेति गृह्यते"--
इत्यधिकम् -ठ.
पु - 274. न्यायदीपुयुततर्कताण्डवम् (तृ.परिच्छेदः
नार्थदोषः। किञ्च नोक्तिदोषत्वमपि। रोहिण्युदय आसन्नः कृत्तिकाय उदितत्वात् इत्युक्तावपि श्रोतृणामनुमित्युत्पत्तेः॥
न द्वितीयः। व्यधिकरणेष्व 1 प्यन्यथानुपपन्नेषु समानाधिकरणेष्वप्यन्यथोपपन्नेष्वलिङ्गत्वस्य च दर्शनेन पक्षध्मताया अनावश्यकत्वात्। 2 इहेदानीं सता कार्येणान्यत्रान्यदासतस्तदुचितकारणस्यानुमानाच्च॥
नार्थदोष इति॥ तथा च पुरुषस्य पयोक्तृः पराभवेपि तत्र जामानानुमितिः प्रमारूपैव स्यादिति भावः। ननूक्तिदोषस्थले वचनद्वारार्ऽथस्यापि दुष्टत्वमेव तादृशस्थले ऽनुमिते 3 श्चानुदयादित्यत आह -- किञ्चेति॥
पक्षधर्मताविघटनाद्वेति पक्षं निराह-- न द्वितीय इति॥ अन्यथानुपपन्नेष्विति॥ अविनाभावरूपव्याप्तिमस्त्वित्यर्थः। प्रागुक्तपद्मविकासादिष्विति भावः। 4 अन्यथोपपन्नेष्विति॥ पर्वतो वह्निमान् पाषाणवत्वत्प्रमेयत्वादित्यादिष्वित्यर्थः। अलिङ्गत्वस्य प्रमित्यजनकत्वस्येत्यर्थः। व्यधिकरणेष्वन्यथानुपपन्नेषु लिङ्गत्वस्य

दर्शनादित्युक्तं तत्कार्यकारणभावापन्नेषु दर्शयति -- इहेति॥ सत इति पदविभागः। इदानीन्तनाङ्कुरादिदर्शनेन तत्पूर्वकाले बीजस्य पद्मस्थविकासरूपकार्येणोदयाचलोदितसूर्यस्यानुमानदर्शनादित्यर्थः। अत एवासमानाधिकरणयोरसमानकालीनयोरपि कार्यकारणयोर्लिङ्गिभावसत्वादेवेत्यर्थः।
1.ष्वन्यथा -क.ग.ट.रा. 2.इदा -क.ट. 3.तेरेवानु -ट.ठ.ड. 4.न्यथाप्युप-ट.ठ.
व्यक-णाद्धेः-दोत्वङ्गः) अनुमादोषवादः पु - 275.
अत एव वैशेषिकैरपि अस्येदं कार्यं कारणं संबन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकमित्येकार्थसमवायिनः विरोधि चेति लैङ्गिकमित्येकार्थसमवायिनः कार्यकारणरूपलिङ्गे पृथगुक्ते त्वन्मते पतत्पतितयोरवयवापचयादिना भेदे ऽपि पतन्निष्ठ 1 पतनेन पतिते गुरुत्वानुमानाच्च। त्वयापि पाको मत्कृतिं विनासत्वे सति
अस्येति॥ अस्येदं कार्यमिति, अस्येदं कारणमिति, अस्येदं संबन्धीति अस्येदमेकार्थसमवायेति, अस्येदं विरोधीति पञ्चधा लैङ्गिकं व्यापकमित्यर्थः। विशिष्टमेधोन्नत्यादेर्वृष्ट्याद्याद्यं धूमादेर्वह्न्यादि द्वितीयं संयोगाद्दृष्टव्यं तृतीयं सरसादेरूपादि चतुर्थं ध्वंसादेः प्रतियोग्यादि पञ्चममिति ध्येयम्॥
परसंम्मत्यापि व्यधिकरणयोर्लिङ्गिभावं दर्शयति-- त्वन्मत इति॥ पतदिति॥ पततः पतितस्य चेत्यर्थः। वर्तमानपतनक्रियावतो ऽतीतपतनक्रियावतश्येति यावत्। पतनदशायामवयवापचयाभावे ऽपि पतिते सत्यभिघातशेनावयवापचयावश्यं भावात्। अवयवापचयस्थले च पीलुपाकप्रक्रिया आपरमाणु नाशेन पुनर्द्रव्योत्पत्तेरङ्गीकारात्पततः फलस्येव पतितत्वदशायामन्यत्वात्तत्र च पतितं 2 फलमिदं गुरुत्व 3 वत् पतनक्रियावत्वात्सम्मतवदित्यनुमानदर्शनात् पतनगुरुत्वयोश्च लिङ्गलिङ्गिभावापन्नयोर्देशतः कालतश्च व्यधिकरणत्वात्कथं
1.ष्ठेनप - क.ग.रा. 2.तमिदं फलं -ट.ठ.ड. 3.त्ववत्वात् -ठ.
पु - 276. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
मदिष्टसाधनत्वात् मद्भोजनवत् इत्यत्र सिद्धपाकनिष्ठतया ज्ञातेन हेतुनासिद्धपाकरूपपक्षनिष्ठतया साध्यप्रमितेरुक्तवाच्च॥
किञ्च त्वन्मते प्रमात्वमेव 1 वा निष्कर्षज्ञानत्वमेव वा 2 प्रमेयत्वं एवं कृतित्वेच्छात्वद्वेषत्वादिकमेव कार्यत्वेष्टत्वद्विष्टत्वादिकं तथा च शब्दोभिधेयः प्रमेयत्वादित्यादौ कथं पक्षधर्मता। प्रमात्वस्य शब्देन परम्परासंबन्धो ऽस्तीति चेन्न।
व्यधिकरणासिद्धेर्देषत्वमित्यर्थः॥ सिद्धपाकेति॥ असिद्धपाके हेतोरभावेन तन्निष्टत्वेन तवाज्ञानादिति भावः॥ उक्तत्वाच्चेति॥ विधिवादे। अतो न पक्षधर्मताविघटकत्वेन दोषत्वं व्यधिकरणासिद्धेरिति भावः। स्थलान्तरेपि व्यधिकरणस्य गमकत्वं परमते दर्शयति-- किं च त्वन्मत इति॥ प्रमात्वस्याप्यर्थसत्वौपाधिकत्वेनाजातिरूपत्वात्तद्वति तत्प्रकारकज्ञानत्वरूपप्रमात्वे ज्ञानत्वस्य प्रवेशमाह-- अनिष्कर्ष इति॥ प्रमात्वशरीरघटकोपाधिविवेकेनाख्डजातिविमर्शे सतीत्यर्थः। अस्तु किं तत इत्यत आह - तथा चेति॥ इत्यादाविति॥ इदं सरकर्तृकं कार्यत्वात्, इदं सङ्ग्राह्यमिष्टत्वात, इदं हेयं द्विष्टत्वादित्यादिरादिपदार्थः। कथमिति॥ प्रमात्वादेः प्रमादिनिष्ठत्वेन शब्दाद्यनिष्ठत्वादिति भावः। परम्परेति॥ शब्दस्य प्रमायाः स्वरूपसंबन्धः प्रमया प्रमात्वस्य समवाय इति परम्परेत्यर्थः। प्रतीतिबलाद्धि येनकेनचित्संबन्धेन"कृष्णं वस्त्रं
लोहितःस्फटिक"इत्यादाविव परम्परासंबन्धेनापि तद्धर्मत्वं कल्प्यं न हि तथा धीरित्याह -- शब्द इति॥ प्रमास्वरूपत्वादिति॥
1.वातिनिष्कर्षे ज्ञा -क.ग. 2.वातिनिष्कर्षज्ञा -ट. 3.प्रमेव वा इत्यधिकम्- क.
व्याक-णाद्धेः-दोत्वङ्गः) अनुमादोषवादः पु - 277.
शब्दे प्रमात्वमिति कदाप्यप्रतीतेः। प्रत्युत प्रमात्वं नेत्येव प्रतीतेः। तस्य तद्धर्मत्वायोगात्। न च प्रमाजातीयविषयत्वं वा ईश्वरप्रमाविषयत्वं वा प्रमेयत्वं तच्च शब्दे ऽस्तीति वाच्यम्॥ विषयत्वरूपसंबन्धस्यापि त्वन्मते प्रमास्वरूपत्वात्। प्रमायाश्य शब्दानिष्ठत्वात्॥
किञ्च व्यतिरकेव्याप्तिः साक्षादङ्गमिति त्वन्मते व्याप्तिपक्षधर्मतयोर्वैयधिकरण्येपि गमत्ववत् साध्यसाधनयोरपि वयैधिकरण्ये ऽपि गम्यगमकतास्तु। तत्र प्रतियोग्यनुयोगिभावो नियामकश्येदत्रापि वृष्टपूराश्रयोर्दशयोर्ध्वाधरीभावो नियामकोस्तु॥
अपि च धूमजातीयस्य वह्निजातीयं प्रतिव्याप्यत्वात्पर्वतीयो धूमो महानसीवयवह्निं प्रत्यपि व्याप्य इतित्वन्मते कथं व्याप्यव्यापकयोः सामानाधिकरण्यम्॥
अन्यथातीतादौ प्रमेयत्वाभावापातादिति भावः। प्रतिबन्द्यापि वैयधिकरण्यं न दोषायेत्या 1 ह-- किञ्च व्यतिरेकेति॥ मण्युक्तव्याप्तिसामानाधिकरणपक्षे व्यधिकरणयोरपि व्याप्तिस्वीकारात्तदनुसृत्याऽह -- अपि चेति॥
1.त्यत आ -ट.ड.
पु - 278. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
ऐतेन सामानाधिकरण्यव्यतिरेकनिश्चयादिनानुमितिप्रतिबन्धात्तनिश्रयो ऽनुमितिहेतुरिति निरस्तम्। वृष्टिपूरयोः सामानाधिकरण्यव्यतिरेकनिश्चयेप्यनुमितिदर्शनात्॥
न तृतीयः। वैयधिकरण्येपि व्याप्तेरूपपादितत्वात्॥
व्यधिकरणासिद्धेर्देषत्वभङ्गः

24.28

व्याप्तिविघटनाद्वा दोषत्वमिति पक्षं निराह -- न तृतीय इति॥
व्यधिकरणासिद्धेर्देषत्वभङ्गः

24.28

बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम्

24.29

केचित्तु --
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चहेत्वाभासाः।
बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम्

24.28

नन्वेवमाश्रयासिद्धसाध्यासिद्धिव्यधिकरणासिद्धीनामदोषत्वे ऽपि व्यभिचारादीनां हेतुदोषाणां भावादसिद्धिरव्याप्तिरिति द्वावेव हेतुदोषावित्ययुक्तमित्याक्षिपति -- केचित्वित्यादिना द्वावेव हेतुदोषावित्ययुक्तमित्याहुरित्यन्तेन ॥ केचित् तार्किकाः। प्रमाणलक्षणटीकादावसिद्धविरुद्धनैकान्तिकानध्यवसितकालात्यपदिष्टप्रकरणसमसत्प्रतिक्षभेदेन प्राचां रीत्या सप्तविधानुवादे ऽपि अनध्यवसितत्वस्यानैकान्तिके ऽन्तर्भावं प्रकरणस्यासंभवनया परिगणनायोग्यत्वमुपेत्य मण्याद्युक्तदिशा पाञ्चविध्यमनुवदति -- सव्यभिचारेति॥
अत एव नैयायिका इत्यनुक्त्वा केचिदित्युक्तिः।
बाप्रयो-प्रर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 279.
तदुक्तं गौतमेव --"सव्यभिचारवुरुद्धप्रकरणसमसाध्यसमातीतकालाः हेत्वाभासाः"इति। तत्र साध्यतदभावकोटिद्वयोपस्थापकरूप-
एवं निर्देशो पञ्चत्वपरिगणने च मूलमाह-- तदुक्तमिति॥ 1 मणेरपीदमेव मूलमित्यपि सूचितम्। प्रकरणसमशब्देन सत्प्रतिपक्ष उच्यते। साध्यसमपदेन चासिद्धिः अती कालपदेन बाध इत्युक्तार्थसंवादित्वं ध्येयम्। मण्याद्युक्तदिशा तेषां लक्षणान्यनुवदति-- तत्र तेषुमध्य इत्यादिना॥ उपस्थापकेति॥ तदुभयोपस्थितिजनकं यद्रूपं साधारणे सपक्षविपक्षवृत्तित्वेन साध्यतदभावसाहचर्यं असाधारणे तदुभयव्यावृत्तत्वं, अनुपसंहारिणि च तदुभयशून्यत्वेन पक्ष एव साध्यतदभावसाहचर्यमित्यग्रे व्यक्तम्। तादृशधर्मत्वं साधारणादित्रितगसाधारणं लक्षणम्॥
यद्यपि मणावुभयकोटीत्याद्येवोक्तम्। तथापि तेनासाधारणस्य साध्यतदभावोपस्थापकतया दूषत्वपक्षे
नाव्याप्तिरित्युत्तरग्रन्थपर्यालोचनयोभयकोचिपदस्य एवमेवार्थोभिमत इतीत्थमनुवादः कृतः॥
यत्तु पक्षधरावुभयकोट्युपस्थितिपदेन व्याप्तिनिश्चयविरोधिसंदेहजनककोट्युपस्थितिर्विवक्षिता अन्यथा सर्वसमभिधेयं व्सतुत्वादित्यादौ केवलान्वयिसाध्यकानुपसंहारिणि साध्याभावकोटेरप्रसिद्धेर 2 व्याप्तिः स्यात्। उक्तविवक्षायां तु नाव्याप्तिः। केवलान्वयिसाध्यके इदमभिधेयं न वेत्येवं सन्देहा 3 योगे ऽपि अभिधेयत्वं पक्षवृत्तिन वेत्येवं संशयसंभवात्। व्याप्तिनिश्चयविरोधिसंशयश्च साध्यतदभावसंशयः साध्ये पक्षवृत्तित्वसंशयश्च भवतीति कथनं तत्तु मणिवाक्यविरुद्धम्।
1.तयोरपीदमेव -ठ. 2.द्धत्वेनाव्या- ठ. 3.हाभावेपि -- ठ.
पु - 280. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
वत्वं सव्यभिचारत्वं विप्रतिपत्तिवाक्ये सत्प्रतिपक्षे च द्वयोः कोटिद्वयोपस्थापऽकत्वेपि
न चैवं केवलान्वयिसाध्यकानुपसंहारिण्य 1 व्याप्तिः। 2 तस्यात्रासंग्राह्यत्वादित्याहुः॥
नन्वथानित्यः शब्दः शब्दत्वादित्यत्राप्तवाक्यादिना व्याप्तिग्रहदशायां सद्धेतुत्वात्। तत्र सर्वसपक्षविपक्षव्यावृत्तत्वस्योभयकोट्युपस्थापकरूपस्य सत्वादतिव्याप्तिरिति वाच्यम्। तत्र व्याप्तिसपक्षव्यावृत्तत्वांशस्य तत्राभावात्। अत्र लिङ्गनिष्ठतया यज्ज्ञानमुभयकोट्युपस्थापकं प्रामाण्याप्रामाण्योभयकोट्युपस्थापकरूपज्ञानत्ववति सद्धेतौ नातिव्याप्तिः। ज्ञानत्वस्य प्रामाण्यसंशयविषयानुमितिवृत्तितया ज्ञानत्वेनैवोभयकोट्युपस्थापकत्वादिति॥
नन्वेवमपि पर्वतो ऽग्निमान् पर्वतो ऽग्निमान्न भवतीति विरुद्धार्थप्रतिपादकवाक्यद्वये शब्दो ऽनित्यः कृतकत्वात् नित्यः शब्दः श्रावणत्वादिति सत्प्रतिपक्षे चातिव्याप्तिरेवेत्यत आह -- विप्रतिपत्तीति॥
विप्रतिपत्तिस्तु प्रत्येकं न तथेति पूर्वपक्ष 3 मण्युक्तेः। तथासाधारणग्रन्थे सत्प्रतिक्षेद्धौ अत्र त्वेक एवेति चोक्तेरिति भावः। यद्यपि विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यं दृश्यत्वाद्ब्रह्मवदित्यादिप्रकरणसमेप्येकस्यैवोभयोपस्थापकत्वमस्ति, तथापि तस्यैतन्मते ऽसंभावितत्वेनास 4 ङ्ग्रहान्नातिव्याप्तिशङ्कावकाशः। तस्यापि सव्यभिचारत्वेन सङ्ग्र 5 ह्यत्वाददोष इति केचित्॥
1.ण्यतिव्या -ट. 2.स्यसंग्राह्य -ठ. 3.ण्याद्युक्ते -ट. 4. णावु - ठ.ड. 4.संग्राह्यत्वा -ड. 5.ङ्ग्रहा - ठ.
वाप्रयो-प्रर्थप्रण- विनैक्यम्) अनुमादोषवादः पु - 281.
सव्यभिचारवदेकस्य तदुपस्थापकत्वाभावान्न स व्यभिचारलक्षणस्यातिव्याप्तिः। विपक्षमात्रवृत्तित्वं विरुद्धत्वम्। समबलप्रमाण 1 प्रतिरुद्धत्वं सत्प्रति -
प्रमाणलक्षणटीकाद्युक्तदिशा 2 ऽऽह - विपक्षमात्रेति॥ मात्रपदेन सपक्षवृत्तित्वं व्यावर्त्येते न तु पक्षवृत्तित्वमपि। तथात्वे ऽसिद्धिसाङ्कर्यापत्तेः। पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्ध इति लक्षणटीकाविरोधाच्च। वृक्षः संयोगवान् द्रव्यत्वादित्यत्र द्रव्यत्वहेतोः साध्याभाववद्वृत्तित्वे ऽपि निश्चितसंयोगरूपसाध्यवलत्यपि वृत्तेर्न तत्रातिव्याप्तिः। प्रतियोग्यसमानाधिकरणसाध्याभावन्मात्रवृत्तित्वं तदर्थ इत्येके॥
यत्तु मणौ साध्यव्यापकाभावप्रतियोगित्वं वा वृत्तिमतः साध्यवदवृत्तित्वं वा विरुद्धत्वमित्यादि। तन्न। हेत्वभावस्य साध्यव्यापकत्वज्ञानस्य ग्राह्याभावसंस्पर्शितया ग्राह्यभूतव्याप्तिज्ञानाप्रतिबन्धकत्वात्। निश्चितसाध्यवदवृत्तित्वे सति तदभाववद्वृत्तित्वस्य चाव्यभिचरितसहचाररूपव्याप्त्यभावरूपतया तज्ज्ञानस् व्याप्तिज्ञानप्रतिबन्धद्वारानुमितिप्रतिबन्ध्य सम्भवादिति भावः। पक्षत्रयवृत्तिसाधारणे ऽतिव्यापतिवारणाय मात्रपदम्॥ समबलेति। समबलत्वं चाभिमानिकं ध्येयम्। अन्यथा वस्तुनो द्विरूपताऽपत्तेः।
"समबलतयाभिमतप्रमाणविरुद्धः सत्प्रतिपक्षः"इति लक्षणटीकोक्तेश्च। विरुद्धत्वं प्रतिरुद्धकार्यकत्वमा। बोधेति व्याप्तिनिरासाय समेत्युक्तिः। साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं सत्प्रतिपक्षत्वमिति मण्युक्तिः। व्याप्तस्य -
1.णविरु --ग.रा. 2.शानिराह-- ठ.
पु - 282. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
पक्षत्वम्। परामर्शविषयाभाववत्वं असिद्धत्वम्। प्रबलप्रमाणविरुद्धत्वं बाधः॥
तत्र सव्यभिचारः त्रिविधः। साधारणासाधारणानुपसंहारिभेदात्। तत्र पक्षवृत्तित्वं साधारणत्वम्। सर्वसपक्षविपक्षव्यावृत्तत्वमसाधारणत्वम्।
पक्षधर्मताप्रमितिः सिद्धिः तद्रहितोसिद्ध इति प्राचां रीतिमाश्रित्य लक्षणटीकोक्तं निष्कृष्याह -- परामर्शेति॥ परामर्शविषयो व्याप्तिः पक्षधर्मता च तदुभयराहित्यमित्यर्थः॥

यत्तु मणौ परामर्शविषयाभावो नासिद्धः व्यर्थविशषणत्वात् किं तु आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिरिति प्रत्येकमेव दोष इत्युक्तम्। तत्वितरव्यभिचारादित्वदुक्तलक्षणेपि तुल्यमित्यग्रे व्यक्तम्। सङ्ग्राहकमात्रत्वेस्यापि तथात्वादिति भावः।"प्रमाणबाधितविषयः कालात्ययापदिष्ट"इति लक्षणटीकाद्युक्तेराह -- प्रबलेति ॥ प्राबल्यमत्र वास्तवं वाभिमानिकं वा ध्येयम्। सत्प्रतिपक्षे ऽतिव्याप्तिनिरासाय प्रबलेति। प्रबलप्रमाणनिर्धारिताभावप्रतियोगिसाध्यकत्वं बाध इत्यर्थः। वक्ष्यमाणान्तर्भावसुबोधाय मण्याद्युक्तदिशावान्तरविभागमाह -- तत्र॥ तेषु मध्ये इति॥ पक्षत्रयेति॥ पक्षसपक्षविपक्षवृत्तित्वमित्यर्तः। 1 यथा शब्दोनित्यः प्रमेयत्वादिति॥ सर्वेति॥ यथा भूर्नित्या गन्धवत्वादिति॥"केवलान्वयिधर्मावच्छिन्नपक्षको वे"ति मण्युक्तरीत्याऽह -- केवलान्वयीति॥
1.प्रमेयत्वादिति लक्षणं तु सर्वसपक्षव्यावृत्तत्वमिति मण्युक्तेराह -- सर्वेति.ड.
बाप्रयो-पर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 283.
केवलान्वयिधर्मावच्छिन्नपक्षताकत्वमनुसंहारित्वम्। असिद्धिरपि आश्रयपक्षधर्मत्वव्याप्यत्वासिद्धिभेदेन त्रिविधा। तत्प्रमित्यसिध्या सह चतुर्विधा वा। एं विरुद्धादेरपि भेदो द्रष्टव्यः॥
1 तन्न शब्दो नित्यो मेयत्वादिति साधारणस्य सर्वमनित्यं प्रमेयत्वादित्यनुपसंहारिणश्च साध्यतदभावसाहचर्यं कोटिद्वयोपस्थापकं रूपम्। इयांस्तु भेदः साधारणस्य पक्षादन्यत्र तत्साहचर्यं अनुपसंहारिणस्तु पक्ष एवेति। अनित्यः शब्दः शब्दत्वादित्य 2 साधारणस्य तु साध्यवतः तदभाववतश्च व्यावृत्तत्वं तदुपस्थापकमिति सव्यभिचारलक्षणस्य 3 नातिव्याप्तिः। आश्रयहेतुव्याप्तीनां लिङ्गपरामर्शविषयत्वात्तदभाव 4 वत्वरूपमाश्रयासिद्ध्याद्यसिद्धित्रयानुगतम्॥
केवलान्वयीति॥ यथा सर्वमनित्यं मेयत्वादित्यादिप्राचीनमतावष्टम्भेन पद्धत्याद्युक्तदिशाऽह -- भेदो द्रष्टव्य इति॥ स च पद्धतिलक्षणटीकयोर्व्यक्तः। ग्रन्थगौरवभयात् प्रकृते वक्ष्यमाणान्तर्भावानुप्रयोगाच्च नास्माभिरपि लिख्यते सव्यभिचारादिलक्षणं साधारणादित्रये ऽसिद्धित्रये च व्यनक्ति - तत्र शब्द इत्यादिना॥
1.अत्र -क.ट. 2.त्वद्यसा - क.ट.रा. 3. स्याव्या -क.ग.रा. 4.वरूपत्-क.ग.ट.रा.
पु - 284. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अत्रासाधारणानुपसंहारिसत्पतिपक्षा अनित्यदोषाः। अनुकूलतर्कावतारशायामनुमित्यप्रतिबन्धकत्वात्। इतरे तु नित्यदोषाः। तत्रापि बाधप्रतिरोधौ साक्षादनुमितिप्रतिबन्धकौ। नतु करणिघटनद्वारा । 1 तत्रापि बाधो अनुमितिग्राह्याभावविषय 2 धीत्वेन।
प्रतिरोधस्त्वनुमितिग्राह्याभावविषयधीसामग्रीत्वेन। इतरे त्रयः करणविघटनेन। असिद्धिः परामर्श 3
षिवयविघटनेन। तत्राप्याश्रयासिद्धिस्वरूपासिद्धीपक्षधर्मताविघटनेन। व्याप्यत्वासिद्धिस्तु व्याप्तिविघटनेन। तत्माद्वावेव हेतुदोषावित्ययुक्तमित्याहुः॥
अनित्यदोषत्वं व्यनक्ति-- अनुकूलेति॥ न तु करणेति॥ परामर्शरूपकरणेत्यर्थः। अनुमितीति॥ पूर्वप्रयुक्तहेतुजन्यानुमितिग्राह्यस्याभावविषयकधीत्यर्थः। इतर इति॥ सव्यभिचारविरुद्धासिद्धास्त्रय इत्यर्थः। द्वारेत्यनन्तरं अनुमितिप्रतिबन्धकता इत्यनुकर्षः। त्वदुक्तरीत्या पाञ्चविध्यसम्भवेपि तेन रूपेण ज्ञातानां तेषामनुमित्यप्रतिबन्धकतया तथानुद्भाव्यत्वेनैवं व्युत्पादनमयुक्ततमपित्वस्मदुक्तरीत्यैव तेन रूपेण ज्ञातानामनुमितिप्रतिबन्धकत्वादुद्भावनीयत्वाच्चेति भावेनोक्तरीत्या ज्ञातानां प्रतिबन्धकत्वमित्येतदसाधकतालिङ्गत्वं चेत्यादिना वक्तुं सामान्यन्यायमाह -- यद्रूपेणेति॥ यद्धर्मप्रकारेणेत्यर्थः।
1.रा कथमपि बोधोनुमिति -क. रातत्राप्यनु - ट. 2.यप्रमात्वेन -ग.ट.रा. 3. विषयेति नास्ति -क.ट.
ब्रप्रयो-प्रर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 285.
तदसत् यद्रूपेण हि ज्ञानमनुमितिप्रतिबन्धकं तद्रूपेणैव दोषः परं प्रत्युद्भावनीयः। यद्रूपेण चोद्भावनं तद्रूपेणैवासाधकता साधनीया। यद्रूपेण च तत्साधनं तद्रूपेणैव हेत्वाभासादिदोषो विभजनीयः। अन्यथान्यः शस्त्री, अन्यो यद्धा, अन्यो जयी अन्यस्तु श्लाघ्य इतिद्वैरूप्यापातात्। असाधकतासाधकस्य हेत्वाभावसस्याप्रयोजकत्वापाताच्च। संभवतोप्यसाधकतासाधनादिव्यवहारानुपयोगिनो निष्प्रयोजनस्य विभागस्यापि प्रसङ्गित्वाच्च॥
सम्भवन्ति हि हेत्वाभासेनन्ताः प्रकाराः। उक्तं हि न्यायसारे 1 ।"यद्यपि चैषां सूक्ष्मो भदोनन्तत्वाद्वक्तुं न शक्यते"इति॥
असाधकतेति॥ इदमसाधकं एवन्त्वादिति॥ कुत एवमित्यत आह-- अन्यथेति॥ वैरूप्येति॥ अन्यज्ञानं प्रतिबन्धकमन्यदुद्भाव्यं ततोन्यदसाधकतासाधाकं तदन्यस्य विभाग इति वैरूप्यापातादित्यर्थः। अप्रयोजकत्वेति॥ अन्यथेत्यत्रानुषङ्गः। तद्रूपेण ज्ञानस्यानुमित्यप्रतिबन्धकत्व इत्यर्थः। नन्वसाधकतायामनुपयोगिनोपि सम्भवमात्रेण विभगस्योक्तौ को दोष इत्यत आह -- संभवतोपीति॥ अतिप्रसङ्गित्वाच्चेत्युक्तं व्यनक्ति -- सम्भवन्ति हीति॥ तथा च तेषामपि परिगणनापातेन पञ्चैवेत्युक्तिरयुक्तेति भावः।
1.रेपि - ग.ट.रा.
पु - 286. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
असाधकतालिङ्गत्वं च बाधप्रतिरोधयोरुभयानुगतेन प्रतिज्ञार् 1 थप्रमाणविरोधित्वेनैव। न तु बाधत्वादिना बाधितत्वात्प्रति 2 रुद्धत्वादित्यस्य हि प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः।
ते च प्रकाराः प्रमाणलक्षणटीकायां व्यक्ताः। अस्त्वेवं येन रूपेण ज्ञानमित्यादिनोक्तं प्रकृते कियित्यतः
विरोधोपि त्रिविधैव स्यात्प्रतिज्ञार्थविरुद्धता।
लिङ्गराहित्यमव्याप्तिः"
इति युक्तिपादीयानुव्याख्यानव्याख्यावसरे सुधोक्तरीतिमनुसृत्याऽह -- असाधकतालिङ्गत्वं चेति॥ कुत इत्यतः 3 वह्निरनुष्णः पदार्थत्वादित्यादौ वादिनोक्ते प्रतिवादिना पदार्थत्वादिति हेतुः असाधकः
बाधितत्वात्सत्प्रतिपक्षत्वादित्युच्यते सति वादिना व्यर्थविशेषणत्वदूषणं वक्तुमापाद्यत इत्याह -- बाधितत्वा 4 प्रतिरुद्धत्वादित्यस्य हीति॥
ननु विरुद्धत्वादिज्ञानादेव स्वार्थानुमितेरिव परार्थानुमितेरपिप्रतिबन्धकात्किमसाधकतानुमानेन यद्वाक्ये प्रतिवाद्युक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ
दूषणमात्रमुद्भाव्यम् अन्यथार्थान्तरत्वम्। एवं चासाधकतानुमानस्यैवानावश्यकत्वाद्व्यर्थविशेषणत्वानवकाश इति चेन्न। द्वयं ह्युद्देश्यम्। तत्राद्यं दूषणमात्रज्ञानादेव द्द्वीतीयं तु --
1.तार्थप्र-ट.रा. 2. तिपक्षत्वादि-ग.रा. 3.त आह -बाधितत्वादिति - इत्यधिकम्-ट. 4.त्वादित्यस्यहीति इत्येवास्ति - ट.ठ.ड.
बाप्रयो-प्रर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 287.

तत्र चेदमसाधकं प्रमाणविरुद्धत्वादित्येवास्तु। अन्यद्व्यर्थम्। दुर्बलस्य प्रमाणपदेनैव व्यावर्तितत्वात्। प्रमाणतदाभासाविवेक एव हि प्रमाणपदप्रयोगः। न त्वप्रामाण्यनिश्चये। अहीनबलवत्वेन वा वि 1 शिष्यताम्। तदवान्तरभेदोपादानं व्यर्थमेव।
न च बाधप्रतिरोधयोरन्यमसङ्करार्थं तदुपादानम् दूषकताबीजैक्येन सङ्करस्यैवोचितत्वात् -
तस्य दूषणस्य लिङ्गत्वज्ञानम् प्रतिबन्धकत्ववदनेनापि त्वसम्भव इत्यभिप्रायेण वासाधकतासाधनमिति मणावेवोक्तत्वादिति भावः॥
दुर्बलप्रमाणविरोधस्य अकिञ्चित्करत्वेनासाधकत्वासाधकतया तद्व्यावृत्तये प्रबलेत्याद्यर्थवदित्यत आह -- दूर्बलस्येति॥ दुर्बलं हि हीनबलत्वादेवाप्रमाणत्वेन निर्णीतमिति प्रमाणपदप्रयोग एव तत्र न युक्त इति तेन तद्व्यावृत्तिरित्यर्थः। ननु कथं तर्हि सत्प्रतिपक्षस्थले वस्तुतो हीनबले समबलतयाभिमन्याने प्रमाणपदप्रयोग इत्यत आह-- प्रमाणेति॥ न त्विति॥ हीनबले तु तन्निश्चय एवास्तीति भावः। उभयानुगतं हीनबलव्यावर्तकं धर्मान्तरमाह -- अहीनेति॥ तदवान्तरेति॥ प्रबलसमबलेत्यवान्तरभेदेत्यर्थः। तथा चैकमेवेदं दूषणं स्यादिति पञ्चेति विभागभङ्ग इति भावः॥ तदिति॥ प्रबलसमबलेति विशेषणोपादानं बाधप्रतिरोधयोरित्यर्थः। दूषकताबीजस्येति॥ प्रमाणविरोधरूपत्वस्य वा अहीनबलप्रमाणविरोधत्वरूपस्य वा एकत्वेनेत्यर्थः॥
1.शेष्य - ट.रा.
पु - 288. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्यावर्त्याभावे ऽपि विद्यमानत्वमात्रेणोपादाने प्रबलचाक्षुषप्रत्यक्षविरुद्धत्वादित्याद्यापि प्रयुज्येत। न च परस्यात्यशक्तिज्ञापनार्थत्वान्न वैयर्थ्यमिति वाच्यम्। अशक्तिज्ञापनस्यैवोद्देश्यत्वाद्बाधाज्ञा 1 न मुलाशक्तौ प्रतिरोधाज्ञानमूलाशक्तितो ऽतिशयाभावाच्च॥
किञ्च बाधितेनापि त्वामहं जेतुं शक्त इति
ननु सम्भवमात्रेण तथा प्रयोगे को दोष इत्यत आह-- व्यावर्त्येति॥ बाधो हि प्रबलप्रत्यविरोधप्रबलानुमानविरोधप्रबलागमविरोधादिभेदेनानेकविधो लक्षणटीकायां व्यक्तः। तथा च प्रबलप्रमाणविरुद्धत्वादिवत्प्रत्यक्षविरोधेप्यवान्तरभेदोपपादनेन प्रबलचाक्षुषप्रबलस्पार्शनविरोधादिभेदेनाप्युद्भाव्येत। न चैवमङ्गीकृतम्। तथात्वे पञ्चत्वविभागभङ्गप्रसङ्गादिति भावः। अत्यशक्तीति॥ प्रबलविरोधमपि त्वं न
ज्ञातवान् किमु प्रमाणविरोधमात्रमित्यशक्तिज्ञापनार्थत्वादित्यर्थः॥ अशक्तिज्ञापकस्यैवेति॥ अशक्तिज्ञापनमात्रेण परापजयस्य स्वजयस्य च संभवेन तन्मात्रस्यैवोद्देश्येनातिशयि 2 ताशक्तिज्ञापनस्यानुद्देश्यतया तादर्थ्येन सार्थक्योक्तिरयुक्ता। तन्मात्रं चावान्तरभेदानुपादानेनाप्युक्तदिशा सिध्यत्येवेति भावः। अतिशयेनाशक्तिज्ञापनस्य लाभे कुतः परित्याज्य इत्यत आह-- बाधाज्ञानेति॥
ननु प्रबलमपि न जानामि किमु समबलमित्यस्तु कश्चिततिशय इति मन्वानं प्रत्याह -- किं चेति॥ सुवचत्वाद्वादिनेति योज्यम्।
1.धाज्ञा -रा.
बाप्रये-प्रर्थप्रण-विनैक्य) अनुमादोषवादः पु - 289.
भावेनेदं प्रयुक्तमित्यपि सुवचत्वात्परस्य शक्त्यतिशय एव किं न सिध्येत्। किं चैवमपि प्रतिरोधे समबलपदवैयर्थ्यं तदवस्थमेव॥
किञ्च बाधेपि प्रमाणपदेनैव प्रबल 1 त्वेपि लब्धे प्रबलपदं 2 व्यर्थम्। प्रत्युत समबलव्यावर्तकतयाहानिकृतेवेति विपरीतफलम्॥
यद्यपि प्रतिरोधस्य परपक्षप्रतिबन्धमात्रं फलम्। बाधस्य तु स्वपक्षसिद्धिरपि। तथापि स्वपक्षस्थापनायाः पृथक्कर्तव्यत्वात्। बाधस्य परपक्षप्रति-
परस्येति॥ बाधितानुमानप्रयोक्तृर्वादिन इत्यर्थः। एवमपीति॥ बेधे प्रबलेति प्रमाणविषेषस्यात्यशक्तिज्ञापनार्थतया सार्थक्येपीत्यर्थ। तदवस्थमेवेति॥ संभावितत 3 त्कृत्यस्य सर्वस्य प्राङ्गनिरासादिति भावः। प्रबलपदं व्यर्थमित्येव न किन्तु विरुद्धार्थकत्वाच्च नोपदेयमसाधकत्वानुमान 4 मित्याह -- किञ्च बाधेपीति॥ इदमसाधकं प्रमाणविरुद्धत्वादित्युक्ते प्रबलप्रमाणविरुद्धत्वस्य स्वाभिमतस्य लाभद्दोषत्वेन समबलप्रमाणविरोधसाधारण्ये संभवति तव्द्यावर्तकत्वाद्धनिकृदेवेत्यर्थः॥
ननु समबलव्यावृत्यर्थकस्य न हानिकरत्वेन विपरीतफलत्वं बाधस्य स्वपक्षस्थापनापरपक्षप्रतिक्षेपलक्षणाद्विरुद्धिरूपत्वात् समबले च तदभावादनुकूलफलमेव प्रबलपतम्। अत एव नानर्थकमपीति चोद्यमनूद्यावद्यति -- यद्यपीत्यादिना॥ अत्यशक्तिज्ञापनार्थतया सार्थक्ये ऽतिप्रसङ्गं चाह -- किञ्चैव परस्येति॥
1.लेतिलब्धप्रबल - ग.ट.रा. 2.व्यर्थपदं न -क.ग.रा. 3.ततत्तत्पक्ष -ठ. तकृत्यस्य - ड. 4.ने इ -ट.ठ.ड.
पु - 290. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
बन्ध एवोद्देश्य इति यावताप्रतिबन्धसिद्धिस्तावदेव वक्तव्यम्। न त्वन्यत्॥
किञ्चैवं परस्यातितरामशक्तिज्ञापनाय बहुत्वोपजीव्यत्वनिरवकाशत्वैः प्रबलप्रमाणविरुद्धत्वादिति बाधितत्वे सति सव्यभिचारित्वादित्याद्यपि प्रयुज्येत। एवं स्वस्यातिशक्तिज्ञापनायानेकहेतूक्तिरपि स्यादित्यधिकनिग्रहोच्छेदः स्यात्।
वादे वादप्रक्रियया प्रवृत्ते शास्त्रे चातिहेयत्वव्युत्पादनाय बहुदोषोक्तिर्युक्ता । न तु जल्पादौ समयबन्धं विना॥
ननु -- प्रमितसाध्याभाववत्पक्षकत्वं बाधः। अत्र च न विशेषणवैयर्थ्यमिति चेन्न।
ननु कथं तर्हि वादकथायां शास्त्रे चानेकदोषः परोक्तानुमानेषु प्रदर्श्यते तत्राप्याधिक्यनिग्रहस्थानापत्तिरित्यत आह
-- वाद इति॥ न तु जल्पादौ । जल्पविदण्डाकथनोर्नानेकोक्तेत्युक्तम्। यावत्स्फुरति द्वयं त्रयं ततो ऽधिकं वा तावत्सर्वं वाच्यमिति समयबन्धे सति तदनुक्तौ दोषाभावादित्यताह -- समयबन्धं विनेति॥ मणिकृन्मतमाशङ्क्य निराह -- नन्विति॥ अवधृतप्रामाण्यकनिश्चयविषयसाध्याभाववत्पक्षकत्वमित्यर्थः। साध्याभावज्ञानत्व प्रमात्वनिश्चये बाध इत्यभ्युपगमाद्विरोधिज्ञानद्वयेत्याद्यग्रेतनग्रन्थाच्च। यद्वा साध्याभावप्रमा बाध इति मतेनेदम्। साध्याभावज्ञानस्य प्रमात्वनिश्चयो बाध इति मते ऽवधृतप्रामाण्यक-
त्वयापि साध्याभावप्रमाबाधफलमित्युक्तत्वेन तस्याः 1 बाधकत्वायोगात्। बाधस्य ज्ञानोपाधिकत्वे साध्याभावाज्ञानदशायां बाधाभावेन तस्यानित्यदोषत्वापाताच्च। विरोधिज्ञानद्वयसन्निपाते एकत्र प्रमात्वनिश्चयस्य करणप्राबल्यनिश्चयं विनाप्युपपत्याऽवश्यकस्य प्रबलप्रमाणविरोधस्यैव दोषत्वौचित्याच्च॥
किञ्च प्रतिरोधे कॢप्तत्वेन बाधोपि करणविरोधस्यैव दोषत्वं युक्तम्। किं च प्रतिरोध इव बाधे ऽपि आवश्यकेनाहीनबलत्वेनैव प्रतिबन्धसंभवे किं प्रमात्वविशेषणेन।

निश्चयविषयसाध्याभाववत्पक्षकत्वमर्थमुपेत्य दोषान्तरकथनं विरोधिज्ञानद्वयेत्यादीति ध्येयम्। इत्युक्तत्वेति॥ तथा च प्रबलप्रमाणविरोध एव बाधो वाच्यः। तदैव साध्याभावप्रमायाः फलत्वसिद्धघिरित्यस्त्येव विशेषणवैयर्थ्यमिति भावः॥ विरोधिज्ञानद्वयेति॥ साध्यतदभावगोचरविरोधिज्ञानद्वयेत्यर्थः। करणेति॥ तज्ज्ञानकरणेत्यर्थः। प्रतिरोधे सत्प्रतिपक्षे एवमपि 2 वैयर्थ्यमेवास्मिन् पक्षे प्रभवत्येवेत्याह -- किञ्च प्रतिरोध
इवेति॥ प्रतिरोधेपि समबलेत्य य व्यर्थत्वादिना 3 बलत्वेन विशेषण विशेषणत्य प्रागुपपादानात् प्रतिरोध इवेत्युक्तम्। प्रमात्वेति॥ साध्याभावज्ञाने प्रमात्वविशेषणेनेत्यर्थः। अहीनबलप्रमाणविरोधत्वेन वा अहीनबलसाधकविरोधत्वेन वा अहीनबलावगतसाध्याभाववत्पक्षकत्वेन वा प्रतिबन्धसंभव इत्यर्थः।
1. स्य न बाधकत्वयो -क. 2.पि व्यर्थमे- ट.ड. 3.नाहीन - ट.ठ.
पु - 292. न्यायदीयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्चैवं वह्निः शीतः कृतकत्वादित्यत्र वह्निरुष्ण इति प्रमाबाधो न स्यात्। उष्णस्पर्शस्य शीतस्पर्शाभावनात्मकत्वात्। अभावपदेन विरोधिमात्रविवक्षायां सिद्धं मदभिप्रेतं सत्प्रतिपक्षसाङ्कर्यम्। दूषकानुमानीयहेतुप्रमायाः दूष्यानुमानीयसाध्यविरोधिविषयत्वात्॥
किञ्चैव प्रहतमार्गत्यागेन कुसृष्ट्याश्रयणे प्रमितसाध्याभाववत्पक्षकत्वं बाध इतिवत्प्रमितसाध्य 1 संबन्धाभाववत्पक्षकत्वं वा प्रमितसाध्यवत्प्रतियोगिकान्योन्याभाववत्पक्षकत्वं वा बाध इत्यपि निर्वक्तुं शक्यत्वाद्बाधो नाना स्यात्। अत्र चैकमेवासाधकतालिङ्गं सर्वं वा।
प्रमितसाध्याभाववत्पक्षकत्वं बाध इति लक्षणे ऽव्याप्तिं चाह-- किञ्चैवमति॥ अव्याप्त्युद्धारमाशङ्कयते -- अभावेति॥ प्रमितसाध्यविरोधिमत्पक्षकत्वमित्यर्थोभिमत इति भावः। सिद्धमिति॥ मदभिप्रेतं सत्प्रतिपक्षसाङ्कर्यं सिद्धमित्यर्थः। तत्कथमित्यतो व्यनक्ति - दूषकेति॥ वाद्युक्तस्थापनानुमानप्रतिभटतया प्रतिवाद्युक्तेत्यर्थः। तथा च प्रतिपक्षोप्येवमेवेति बाधप्रतिपक्षयोरेकदूषणत्वमेव प्रप्तमिति पञ्चेति विभागभङ्ग इति भावः। प्रहतेति॥ सर्वावगतप्रमाणवलिरोधरूपमार्गत्यागेनेत्यर्थः। अस्तु 2 नाम को दोष इत्यत आह-- अत्र चेति॥
1.ध्याभाववत्व -ट. ध्यवत्प्रतियो - ग.रा. 2.नाना क -ट.ड.
बाप्रयो-प्रर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 293.
आद्ये ऽन्यज्ञाने नानुमितिप्रतिबन्धो न स्यात्। अन्यानुमितेनैकेनैवानुमितिप्रतिबन्ध इति तु नानुभवानुसारि। द्वितीयं मिलितं लिङ्गं प्रत्येकं वा। आद्ये एकेनैवपूर्णत्वाच्छेपवैयर्थ्यम्। अन्त्ये हेत्वाभासाधिक्यम्। प्रतिज्ञार्थप्रमाणविरोधव्याप्यत्वेनैकीकरणेवाचवश्यकत्वाल्लाघवाच्च प्रमाणविरोध एव दोषोस्तु॥
एतेन साध्यविरोध्युपस्थापनसमर्थया समानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं वा, समबलसामग्रीप्रतिबन्धेन निर्णयाजनकत्वं वा सत्प्रतिपक्षत्वमिति निरस्तम्। समबलपदवैयर्थ्यात्। तत्यागे च बाधसाङ्कर्यात्॥
एतेनैव परामर्शविषयीभूतप्रतिसाधनत्वं सत्प्रतिपक्षत्वमिति च निरस्तम्। प्रत्यक्षस्य समबलाभ्यां -
ननूक्तरूपाणां त्रयाणां मध्ये द्वयं लिङ्गरूपम् एकं तु लिङ्गिभूतम्। तत्र ताभ्यां लिङ्गाभ्यामनुमितिमेकं बाधत्वेन दूषणमस्त्विति चेत् किं लिङ्गं किं लिङ्गीति निर्धारकप्रमाणाभावात्। अनुभवविरुद्धं चैतदियत्याह - अन्येति॥ द्वितीय इति ॥ सर्वं वेति पक्षे हेत्वभासाधिक्यमिति पञ्चम्योधिकहेत्वाभासगणनापात इत्यर्थः। मण्याद्युक्तलक्षणानि निराह-- एतेनेति॥ वैयर्थ्यादिति॥ तथोपपादितत्वादिति भावः। केनचिदुक्तं लक्षणान्तरं चाव्याप्त्या निराह -- एतेनैवेति॥ अनुव्याख्याने चेति॥ युक्तिपादे न विलक्षणत्वाधिकरणानुव्यख्यान इत्यर्थः।
पु - 294. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
प्रत्यक्षशब्दाभ्यां शब्दस्य च समबलाभ्यां शब्दप्रत्यक्षाभ्यां प्रतिरोधे ऽव्याप्तेः। परामर्शविषयीभूतप्रबलानुमानरूप्रतिसाधनात्मकबाधसाङ्कर्याच्च। तस्माद्बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैव दोषत्वं न तु प्रबलप्रमाणविरोधत्वादिना॥
अत एव भगवत्पादैः प्रमाणलक्षणे प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति
अनुव्याख्याने च"प्रतिज्ञार्थविरुद्धते"ति तयोरुभयानुगतेन प्रमाणविरोधत्वरूपेणैव दोषत्वमुक्त्वा असिद्धिरव्याप्तिरिति हेतुविरोधः साध्यस्य साधनस्य वाननुगमो दृष्टान्तविरोध इत्यसिद्ध्यादीनां चतुर्णामसिद्धित्वादिरूपेणैव दोषत्वमुक्तम्॥
या तु पद्धतौ प्रमाणविरधोपि द्वेधा प्रबलप्रमाणविरोधः, समबलप्रमाणविरोधश्चेति टीकाकारीया --
तयोरिति॥ बाधप्रतिपक्षयोरित्यर्थः। प्रमाणलक्षणवाक्ये आह -- असिद्धिरित्यादि॥ असिद्धत्वादिरूपेणेति॥ असिद्धित्वाव्याप्तित्वसाध्यविकल्पत्वसाधनविकलत्वरूपेणेत्यर्थः। उक्तमिति॥ प्रमाणलक्षण इत्यनुकर्षः। प्रमाणवि 1 रुद्ध्तवेनैकीकरणे 3 प्रमाणपद्धतिविरोधमाशङ्क्य तदभिप्रायोक्त्या निराह-- या त्विति॥
1.रोधत्वे - ड.ट. 3. प्रमाणपदं न -ट.ठ.
बाप्रयो-प्रर्थप्रण-विनैक्यम्) अनुमादोषवादः पु - 295.
द्वैविध्योक्तिः सा प्रत्यक्षादिविरोधभेदेन द्वावपि प्रत्येकं त्रिविधाविति त्रैविध्योक्तिः शिछष्यमतिवैशद्याय वस्तुस्थितिप्रदर्शनार्थं वा, प्रतिवादिनो विशेषजिज्ञासायां सोपि वक्तव्य इति शिक्षार्थं परोक्तयोः कालात्ययापदिष्टसत्प्रतिपक्षयोर्विभज्यान्तर्भावोक्त्यर्थं वा॥
अत एव प्रमाणलक्षणे"प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधन"इत्युक्तम्। न तु बाधत्वादिनासाधकता साध्येत्येतदर्थमिति ज्ञेयम्। अन्यथा शिष्यमतिवैशद्यार् 1 थं व्युत्पादन 2 मनुमतमेवेति न स्वीयव्यवहारविरोध इति सुधया, न चात्र प्रबलत्वादिविशेषणस्य प्रयोजनमस्तीत्यादिसुधया च विरोधात्॥
केचित्तु प्रमाणलक्षणादिकमसाधकतामात्रसाधने प्राबल्यमनुपयुक्तमित्यभिप्रेत्य प्रवृत्तम्। पद्धतिस्तु
अत्यन्तासाधकत्वसाधने प्राबल्यमुपयुक्तमित्यभिप्रेत्य। अत एव मिथ्यात्वानुमानखण्डने बाधप्रतिरोधौ पृथगुक्तावित्याहुः॥
विभज्येति॥ समबलप्रमाणविरोधे सत्प्रतिपक्षस्यान्तर्भावः बाधस्य
प्रबलप्रमाणविरोध इति विभज्यान्तर्भावोक्त्यर्थं चेत्यर्थः। सुधयेति॥ प्रागुक्तानुव्याख्यानव्याख्यानरूपया युक्तिपादीयसुधयेत्यर्थः। समाध्यन्तरमप्यन्यापदेशेनाह -- केचित्विति॥
1.द्याय व्यु-ग.रा. 2.नन्त्वनु- क.ग.रा.
पु - 296. न्यायदीयुततर्कताण्डवम् (तृ.परिच्छेदः
तस्माद्बाधप्रतिरोधौ प्रमाणविरोधत्वेनैव दोषौ। न तु प्रबलप्रमाणविरोधत्वादिनेति॥
बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम्

24.29

अत्रारुचिबीजं त असाधकत्वज्ञापनमात्रेण परस्य पराजये किमत्यन्ताभावसाधकत्वज्ञापनेन। ग्रन्थान्तरे पृथगुक्तिस्तु पररीत्यापि संभवति। अत एव साध्याप्रसिद्धेरदोषत्वे ऽपि"अनर्वचनीयासिद्धेरप्रसिद्धविशेषणः पक्ष"इति पररीत्या तत्र तत्रव्यवहार इति॥
बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम्

24.29

गौतमोक्तहेत्वाभासपञ्चत्वभङ्गः

24.29

एवं हेतूदोषेप्यसाधकतालिङ्गत्वं 1 व्यभिचारविरुद्धव्यापत्यत्वासिद्धानुगतेनाव्याप्तित्वेनैव। न तु गौतमोक्तेन सव्यभिचारत्वादिना॥
मणावेव कोटिद्वयोपस्थापकरूप 2 वत्वं नानुमिति-
गोतमोक्तहेत्वाभासपञ्चत्वभङ्गः ॥
एवं परिगणितहेत्वाभासपञ्चके बाधप्रतिरोधयोः प्रतिज्ञाविरोधे ऽन्तर्भावमुक्त्वान्येषां त्रयाणां प्रागुक्तहेतुदोषयोरन्तर्भावं"लिङ्गराहित्यमव्याप्ति 3 रिति प्रागुक्तानुव्याख्यानव्याख्यानसुधोक्तरीत्या व्यनक्ति -- एवमित्यादिना॥ मणावेवेति॥ उभयकोट्युपस्थापकतावच्छेदकरूपवत्वं
सव्यभिचारत्वमित्युक्त्वा तच्च साधारणत्वादि,
1.सव्यभि -ट.रा. 2.पत्वेन ना -ग.ट.प. वत्वेन ना -रा. 3.प्तमिति -ट.ठ.ड.
गौक्त-हेपत्व-भङ्गः) अनुमादोषवादः पु - 297.
प्रतिबन्धक 1 म्। साधारणत्वादिरूपेणैव 2 ज्ञातस्य प्रतिबन्धकत्वात् लक्षणानुरोधेन प्रत्येकमेव हेत्वाभासत्वमित्युक्तत्वेन, एवमाश्रयासिद्धिर्व्याप्यत्वासिद्धिः पक्षधर्मतासिद्धिश्च प्रत्येकमेव दोषः प्रत्येकस्य ज्ञानादुद्भावा 3 च्चानुमितिप्रतिबन्धादिति चोक्तत्वेन प्रथमविभाग एव साधारणासाधारणानुपसंहारिविरुद्धसत्प्रतिपक्षाश्रयासिद्धव्याप्यत्वासिद्धपक्षधर्मत्वासिद्धबाधिता इत्यादेर्वक्तव्यत्वेन 4 गौतमोक्तपञ्चत्वायोगात्॥
ननु महर्षिणा स्वरूपसता कोटिद्वयोपस्थापकत्वेनानैकान्तिकत्रयं परामर्शविषयाभावत्वेन चासिद्धत्रयमेकीकृत्य
विभागः कृत इति न पञ्चत्व-
तेनैव रूपेण ज्ञातस्य प्रतिबन्धकत्वादित्युक्तत्वेन लक्षणानुरोधेन प्रत्येकमेव हेत्वाभासत्वमिति चोक्तत्वेन साधारणत्वासाधारणत्वानुपसंहारित्वानां पृथग्दोषत्वोक्तेः। तथासिद्ध्युक्तिप्रस्तावे 5 आश्रयासिद्धिः स्वरूपणासिद्धिः व्याप्यत्वासिद्धिः प्रत्येकमेव दोषः। प्रत्येकज्ञानादुद्भावनाच्चानुमितिप्रतनबन्धादिति चोक्तत्वेनाश्रयासिद्ध्यादेः पृथग्दोषत्वेन चेत्यर्थः। प्रथमेति॥ हेत्वाभाससामान्यलक्षणानन्तरप्राप्तविभाग एवेत्यर्थः॥
नन्वेतदेवाशङ्क्य मणौ स्वरूपसतानुगतरूपेण त्रयमेकीकृत्य महर्षिणा विभगकरणादित्युक्तमित्यतस्ततदाशङ्क्याह -- नन्विति॥
1.कत्वम् -ट. धनं-ट.रा. 2. ज्ञानस्य -ट.रा. 3.वनाच्च -क. व्यत्वाच्च -ग.रा. व्याच्च -ट. 4.प्रथमविभाग एवेत्यारभ्य एतावान् ग्रन्थः नास्ति -ग.रा. 5.के चा-ठ.
पु - 298. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
हानिरिति चेन्न। तथात्वे साक्षात्प्रतिबन्धकत्वेन बाधप्रतिरोधयोर्व्याप्तिरहितलिङ्गत्वेन सव्यभिचार 1 विरुद्धयोरप्येकीकरणं स्यादित्याद्यतिप्रसङ्गः स्यात्॥
स्वतन्त्रपुरुषेच्छा नियन्तुमशक्येति चेन्न। असाधकतासाधकनादिव्यवहारानुपयोगित्वेन निष्फले विभागे निर्मर्यादं प्रवृत्तस्य प्रमाणपरतन्त्रत्वेन नियन्तुं शक्यत्वादिति॥
गौतमोक्तहेत्वाभासपञ्चत्वभङ्गः

24.39

इत्याद्यतिप्रसङ्गादिति॥ आदिपदेनासिद्धेनाव्याप्तित्वेत्यादिग्रहः। ननु मणावेवमेवाशङ्क्य स्वतन्त्रेच्छाया नियोगपर्यनुयोगाविषयत्वादिति समाहितमिति भावेन तदाशङ्क्य निराह -- स्वन्त्रेति॥
गौतमोक्तहेत्वाभासपञ्चत्वभङ्गः ॥ 3.0 ॥
साधारणस्याव्याप्तावन्तर्भावः ॥ 3.0 ॥
नापि मण्युक्तप्रकारेण 2 साधारणत्वादिनासाधकतालिङ्गत्वम्।
साधारणस्याव्याप्तावन्तर्भावः ॥ 3.1 ॥
उभयकोट्युपस्थापकतावच्छेदकरूपवत्वं च साधारणत्वादि तेन रूपेण ज्ञातस्य प्रतिबन्धकत्वादि 3 त्यादिमण्याद्युक्तेराह -- साधारणेत्यादिनेति॥ असाधारणत्वानुपसंहारित्वयोरादिपदेन ग्रहः।
1.रेप्यकीकार -ग.रा. 2.ण असा -ग.ट. 3.ति समाहितमिति भावेन तदित्या-ट.
साधास्या-व्यावन्तवः) अनुमादोषवादः पु - 299.
तथाहि -- साधारणत्वं पक्षत्रयवृत्तित्वं चेद्विपक्षवृत्तित्वेन 1 शेपवैयर्थ्यम् स्यात् 2। प्रत्युत पक्षसपक्षवृत्तित्वं गुणः। न तु दोषः। विरुद्धव्यावृत्त्यर्थत्वान्न वैयर्थ्यमिति
चेन्न। दूषकताबीजैक्ये संग्राह्यत्वेनाव्यावर्तनीयत्वात्। विपक्षवृत्तित्वं साध्याभावसम्बन्धरूपत्वात्। तस्यैव चाव्याप्तित्वात्॥
एतेनाव्याप्तिं प्रत्युपजीव्यत्वाव्द्यभिचार एव दोष इति अव्याप्त्यज्ञानदशायां व्यभिचारज्ञानेनाप्यनुमितिप्रतिबन्धदर्शनाव्द्यभिचारोपि दोष इति 3 च निरस्तम्। तयोरभेदात्॥
एतेनैव विरुद्धस्यापि तत्वा 1 ज्ञाने विपक्षवृत्तित्वज्ञानदशायां साधारणत्वं उपधेयसङ्करे ऽप्युपाधेरसङ्कर इति च निरस्तम्। विरुद्धापि विपक्ष-
सुधोक्तं हृदि कृत्वाऽह -- साधारणत्वमित्यादिना । दूषताबीजेति॥ विपक्षवृत्तित्वरूपदूषकताबीजस्य साधारणविरुद्धयोरेकत्व इत्यर्थः॥
ननु मणौ विपक्षवृत्तित्वेनैव दूषकताबीजमुक्तमित्यस्तदनूद्य निराह -- विपक्षवृत्तित्वं चेदिति॥ व्यभिचारोपि दोष इति॥ पृथग्दोष इत्यर्थः। तयोरभेदादिति॥ विपक्षवृत्तित्वमात्रस्यैव साधारणत्वे तस्यैवा 5 व्याप्तित्वादिति भावः। उपधेयेति॥ परस्पर-
1.नैव शे -ग.रा. 2.स्यादिति न -ग.ट.रा. 3.च इति नास्ति -क.ट. 4.तत्र -रा. 5.वव्या -ट.
पु - 300. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
वृत्तित्वमेवोपाधिरितति वक्ष्यमाणत्वेनोपाध्यसङ्करस्याप्यभावात्॥
किञ्चाव्याप्तावान्तर्भावाच्छादनाय विपक्षवृत्तित्वं साधारणत्वमित्युक्तौ विपक्षत्वं साध्यात्यन्ताभाववत्वं साध्यसंबन्धात्यन्ताभाववत्वं साध्यवद्भिन्नत्वमित्यादिरूपेण नानेति तद्दृत्तित्वमपि नानास्यात्। तथा च बाधप्रस्तावोक्तन्यायेन सर्वेषां प्रत्येकं हेत्वाभासत्वस्य वक्तव्यतया हेत्वाभासाधिक्यं स्यात्॥
या तु व्याप्तिज्ञानहेतुभूतसहचारज्ञानस्य सहकारि यो ऽभावः तत्प्रतियोगिभूतं यज्ज्ञानं तद्विषयत्वेनैकीकरणान्नाधिक्यमिति कश्चिदाह तन्न। त्वदुक्तातिवक्त्रविषत्वस्याज्ञानेपि व्याप्त्यभावज्ञानेनैवानुमितिप्रतिबन्धात्।
व्यावर्तकतत्त्क्रोडीकारकोपाधिमतो विशेष्यस्य साङ्कर्येपि विपक्षवृत्तित्वं साधारणत्वं विपक्षमात्रवृत्तित्वं विरुद्धत्वमित्युपाध्योरसङ्कर इति च निरस्तमित्यर्थः। वक्ष्यमाणत्वेति॥ विरुद्धत्वस्याव्याप्त्नतर्भावोक्तिप्रस्ताव इत्यर्थः। इत्यादिरूपोणेति॥ आदिपदेन साध्यतत्प्रतियोगिकान्योन्याभा 1 ववत्वसाध्याधिकरणनिष्ठान्योन्याभावप्रतियोगित्वादिग्रहः। सहकारी यो ऽभाव इति॥ प्रागुक्तत्रिविधविपक्षवृत्तित्वानां ज्ञानस्याभावः तत्प्रतियोगिभूतं ज्ञानं प्रागुक्तानामेव ज्ञानं तद्विषयत्वेनेत्यर्थः। उक्तरूपविपक्षवृत्तित्वज्ञानानां व्यभिचारज्ञानत्वेन तदभावसहकृतसहचारज्ञानस्यैव व्याप्तिग्रहहेतुत्वादिति भावः। एतत्सङ्ग्रहकमात्रमुक्तम्।
1.ववत्व सा -ट.
साधास्या-व्यावन्तवः) अनुमादोषवादः पु - 301.
स्वरूपसतैवोक्तविषयत्वेनैकीकरणे तु न तद्धेत्वाभासविभागे तन्त्रमित्युक्तत्वेन हेत्वाभावसाधिक्यतादवस्थ्यम्॥
किञ्च व्याप्तिज्ञानहेतुभूतसहचारज्ञानस्य 1 व्यभिचारज्ञानाभाव इव सहचाराभावज्ञानाभावो व्याप्त्यभावज्ञानाभावश्च सहकारीति तत्प्रतियोगिभूतज्ञानविषयत्वं विरुद्धोपाधेरसहचारस्य व्याप्यत्वासिद्ध्युपाधेरव्याप्तेश्चास्तीति तयोरपि साधारणोपाधित्वं स्यात्॥
न च सहकार्यभावशब्देन व्यभिचारज्ञानाभावरूप एव सहचारिभूताभावो विवक्षित इति नोपा-
न तु प्रतिबन्धकज्ञानविषयत्वेनेत्येतदनूद्यनिराह -- स्वरूपसतेति॥ उक्तत्वेनेति॥"यद्रूपेण हि ज्ञानमनुमितिप्रतिबन्धकमि"त्यादिना ग्रन्थेन व्यवहितभङ्गे उक्तत्वेनेत्यर्थः। आधिक्येति 2 ॥ विपक्षवृत्तित्वानां प्रागुक्तदिशा नानात्वेन पञ्चापेक्षयाधिक्यमित्यपरिहार्यमित्यर्थः॥
यदपि नानाभूतविपक्षवृत्तित्वानां व्याप्तिज्ञानहेतुसहचारज्ञानसहकारीभूताभावप्रतयोगिज्ञानविषयत्वेनैकीकरणं
तदतिव्याप्तं चेत्याह -- किञ्च व्याप्तिज्ञानेति॥ सहचारज्ञानसहकारीभूता 3 भावे सङ्कोचविवक्षयातिव्याप्त्यभावशङ्कां निराह -- न च सहकारीति॥
1.स्यव्य- क.ग. 2. क्यमिति -ट. 3.ते अ- ट.ठ.
पु - 302. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
धिसाङ्कर्यमिति वाच्यम्। आत्माश्रयादननुगमाच्च॥
किञ्च समवायवृत्या यत्र वह्न्यभावः तद्दृत्तित्वं धूमेप्यस्तीति व्याप्तिग्रहानुप्रविष्टसंबन्धेन यत्र साध्यं नास्ति स विपक्ष इति वक्तव्यतयावश्यकत्वेनाव्याप्तिरेव दोषः॥
साधारणस्याव्याप्तावन्तर्भावः ॥ 3.0 ॥
आत्माश्रयादिति॥ साधारणव्यभिचार 1 त्वं नानेत्युक्ते साधारणव्यभिचार 2 त्वं नाम व्याप्तिग्रहहेतुसहचारज्ञानसहकारीभूतो यो व्यभिचारज्ञानाभावः तत्प्रतियोगिज्ञानविषयत्वं व्यभिचारत्वं सर्वेष्वनुगकमेकमित्युक्ते व्यभिचारनिरुक्तेर्व्यभिचारघटितत्वादात्माश्रय इत्यर्थः। अननुगमाच्चेति॥ व्यभिचारनिरुक्तिशरीरप्रविष्टव्यभिचराणा विपक्षत्वं साध्यात्यन्भाववत्वमित्यादिना प्रागुक्तदिशा नानात्वादिति भावः। उपजीव्यत्वादव्याप्तित्वेनैव दोषोस्त्वित्याह -- किञ्चिति ॥ आवश्यकत्वादिति॥ व्याप्तिशरीरप्रविष्टसम्बन्धाभावस्याज्ञाने विपक्षत्वादेरज्ञानेन तज्ज्ञाने ऽवश्यंभाविनि तदभावरूपाव्याप्तिरेव दोषोस्तु किं तादृशसम्बन्धेन साध्याभाववद्वृत्तिनेत्यर्थः॥
साधारणस्याव्याप्तावन्तर्भावः ॥ 3.1 ॥
1.रित्वं -ठ. 2.रित्वं -ठ. रित्वमिति स्थितं रत्वमिति शोधितम् -ड.
असास्या-व्यावन्तवः) अनुमादोषवादः पु - 303.
अथासाधरणस्याव्याप्तावन्तर्भावः ॥ 3.1 ॥
असाधारणत्वमपि सर्वसपक्षविपक्षव्यावृत्तत्वं चेत् विशेष्यवैयर्थ्यम्। प्रत्युत सर्वविपक्षव्यावृत्तत्वं गुण एव। न तु दोषः। न च विरुद्धव्यावृत्त्यर्थं तत्। दूषकताबीजैक्येन तस्यापि सङ्ग्राह्यत्वात्॥
यच्चोक्तमसाधारणे -- उभयव्यावृत्तत्वमेव दूषकताबीजं तच्च विरुद्धे 1 नास्तीति न दूषकताबीजैक्यम्। असाधारणस्य लक्षणं तु सर्वसपक्षव्यावृत्तत्वं तदेवोद्भाव्यमसाधकतासाधकं च। दूष्यानुमानसाध्याभावोपपादकत्वात्। न तु विपक्षव्यावृत्तत्वमपीति। तन्न। अदूषकताबीजेनासाधक-

अथासाधारणस्याव्याप्तावान्तर्भावः ॥ 3.2 ॥
साध्यवतस्तदभाववतश्चेत्यादिमण्युक्तं निष्कृष्यानुवदति -- यच्चेति॥ 2 सपक्षविपक्ष्वयावृत्तत्वमित्यर्थः। 3 सपक्षव्यावृत्तत्वस्य दूषकत्वे नित्यः शब्दः कृतकत्वात् इत्यादिविरुद्धस्यापि तथात्वाद्विपक्षव्यावृत्तत्वमुक्तम्। विरुद्धस्य विपक्षवृत्तित्वात्। विरुद्ध इत्युपलक्षम्। सद्धेतौ च नास्तीत्यपि ध्येयम्। अदूषकताबीजेनेति॥
दूषकताबीजनादन्यत्वेनेत्यर्थः। सर्वसपक्ष 4 व्यावृत्तत्वमस्तु मास्त्वसाधकत्वमित्युक्ते बाधकाभावादिति --
1.द्धत्वना -क.रा. 2. उभयव्य वृत्तत्वमिति । सपक्षविपक्षव्यावृत्तत्वस्य दूषकत्व इत्यादिरीत्यास्ति- ठ. 3.सपक्षेत्यादि नास्ति -ट. 4.क्षाद्वया - ठ.
पु - 304. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तासाधने अप्रयोजकत्वापातात्। न ह्यन्यस् भुक्त्यान्यस्य तृत्पिः॥
तर्हि सर्वसपक्षव्यावृत्तत्वमेव दूषकताबीजम्। लक्षणं उद्भाव्यमसाधकतासाधकं च। विरुद्धोपि विरुद्धत्वाज्ञाने सर्वसपक्षव्यावृत्तत्वज्ञानदशायामसाधारण एव । न चास्याव्याप्तावान्तर्भावः। पक्षादन्यत्रसाध्याभावस्य सत्वेपि तत्र हेतोरभावात्। पक्षे हेतुसत्वे ऽपि साध्याभावानिश्चयादिति चेन्न। तथाप्यसाधारण्यानुकूलतर्कानवतरारदशायां तर्काभावादेव सन्दिग्धव्याप्तिकत्वेनाव्याप्तावन्तर्भावात्। तर्कावतारदशायां तु असाधारण्यादुत्तीर्णत्वेन हेत्वाभासत्व्यैवाभावात्। असाधारणो ह्यनित्यदोषः
इदमेवह्यभिप्रेत्य सुधायामसाधारणस्य दूषणत्वासम्मतेरित्युक्तम्॥
अन्यस्य दूषकताबीजत्वे तदन्यस्य नासाधकतासाधकत्वमित्येतदर्थान्तरन्यासेन व्यनक्ति -- न हीति॥ सर्वसपक्षव्यावृत्तत्वमात्रमुद्भाव्यमित्यादिमण्युक्तानुरोधेनाह-- तर्हीत्यादि॥ इदमेवेति॥ तर्कावतारकालीनादोषत्वमेवेत्यर्थः।"साध्यव्यापकवैकोम्यम्याप्ति"रित्येतव्द्याख्यानावसरे उक्तमित्यर्थः॥
"सत्यपि सपक्षे तत्रावर्तमानस्य किं व्याप्तिरेव नस्त्युत केवलव्यतिरेकिवदस्तीति सन्देहावस्कन्दना"दिति पद्धत्युक्तं 1 हृदि कृत्वाऽह -- यद्वासाधारण इति॥
1.क्तिं -ट.ड.
असास्या-व्यावन्तव्यः) अनुमादोषवादः पु - 305.
यद्वासाधारणः सर्वसाध्यवद्व्यावृत्या साध्याभावव्याप्तो वा सर्वसाध्याभाववद्व्यावृत्या साध्यव्याप्तोवेति सन्देहेनाव्याप्तावन्तर् 1 भावः॥
अथ वासाधारणस्य पक्षमात्रवृत्तित्वेन नान्वयव्याप्तिधीः। नापि व्यतिरेकव्याप्तिधीः। यत्र 2 नित्यत्वाभावः तत्र शब्दत्वाभाव इति व्यतिरेकव्याप्तेर्यत्रानित्यत्वाभावः तत्र शब्दत्वाभाव इति प्रतिकूलया व्यतिरेकव्याप्त्या प्रतिरुद्धत्वात्। तस्यात् व्याप्तिप्रमित्यसिद्धा 3 वव्याप्तावन्तर्भावः। अत एव प्रमाणलक्षणटीकायां पक्ष एव वर्तमानत्वेन व्याप्तेरग्रहणादित्युक्तम्॥
यद्वासाधारणः पक्षे साध्यसन्देहात्सन्दिग्धा-
व्यतिरेकव्याप्तिसंभवो ऽयं न हेत्वाभास इति पद्धत्युक्तं कस्य चिन्मतमपाकुर्वाणः लक्षणटीकारीत्यान्तर्भावमाह -- अथवेति॥
ननु न व्यतिरेकव्याप्तिधीरित्ययुक्तम्। व्याप्तिसम्भवेन तद्धीसंभवादित्यतो व्याप्तेः सम्भवे ऽपि प्रतिरोधान्न तद्धीरित्याह -- यत्रेति॥ व्याप्तेरग्रहणादित्यस्य
पक्ष एव व्याप्तेरनिश्चयात् किं तु सन्देहादित्यप्यर्थमुपेत्याह -- यद्वेति॥ निश्चितसाध्याभाववति हेतुसन्देह इव -
1.भूतः -क.ग.रा. 2.त्रानि -ग.ट.रा. 3.अव्याप्तिपदं न-ग.ट.रा.
पु - 306. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्याप्तः। दृष्टं च पक्ष एव व्यभिचारसन्देहस्य दोषत्वम् स श्यामो मित्रातनयत्वादित्यादौ। तनयान्तरे श्यमत्वानिश्चयात्॥
ननु तत्र संशयः उपाध्याहितः। स एव च संशयोनुमितिप्रतिबन्धकः। फलबलेनैव तथा कल्पनात्। न त्वन्यः। तस्यानुमानाङ्गत्वात्। सदनुमाने तु संशयो नोपाध्याहित इति 1 । अन्यथानुमानमात्रोच्छेदा 2 दिति चेत्। इहापि संशयः सर्वसपक्षविपक्षव्यावृत्त्याहितः। स एव च संशयः प्रतिबन्धकः। फलबलात्। सदनुमाने तु संशयो न तदाहित इति नातिप्रसङ्गः॥
सन्दिह्यसाध्या 3 भाववति हेतुनिश्चये ऽपि व्यभिचारसन्देहेन सन्दिग्धव्याप्त्यभावरूपत्वात्सन्दिग्धाव्याप्त इत्यर्थः।"सन्दिग्धे न्यायः प्रवर्तते"इत्यनुमानमात्रे साध्यसन्देहस्यावर्जनीयत 4 या पक्षीयव्यभिचरसन्देहस्य 5 दोषत्वे 6 नुमानमात्रोच्छेदात्कथं सन्दिग्धाव्याप्तत्वमित्यतः स्वानसिकस्यादोषत्वोप्याहितस्य दोषत्वमेव प्रकृते चाहित 7 सन्देह इति भावेनाह -- दृष्टं हीति॥ उपाधीति॥ शाकपाकजत्वोपाधीत्यर्थः। पक्षीयसन्दिग्धव्यभिचारस्य 8 साधारणे दोषत्वे ऽपि न सद्धेतुमात्रोच्छेदः वैषम्यादिति भावेनाह -- किञ्चिति॥
1.ति नानुमान - क.ग.रा. 2.च्छेद इति चे- ट.रा. 3.ध्यवति-ठ. 4.यत्वात् -ठ. 5.हस्या -ठ. 6.त्वेनानु -ठ.ड. 7.एवेत्यधिकम् -ट.ठ.ड. 8.स्यासाधारणदो -ट.ठ.ड.
असास्या-व्यावन्तवः) अनुमादोषवादः पु - 307.
किञ्चेह साध्याभावसंशयो हेत्वधिकरणत्वेन ज्ञायमाने सर्वस्मिन्नप्यस्ति। अत्र हेतोः सर्वसपक्षव्यावृत्ततया सन्दिग्धसाध्यवन्मात्रवृत्तित्वात्। स एव संशयः प्रतिबन्धकः। फलबलात्। सदनुमाने तु हेतुः सन्दिग्धसाध्यवत्पक्षवृत्तिरपि सन्दिग्धसाध्यवन्मात्रवृत्तिर्न । निश्चितसाध्ये सपक्षेपि वृत्तेः॥
ननु सन्दिग्धसाध्यवन्मात्रवृत्तित्वं सदनुमाने केवलव्यतिरेकिण्यप्यस्तीति तस्याप्यव्याप्त्यन्तर्भावः स्यादिति चेन्न। अनुकूलतर्कानवतारदशायामिष्टत्वात्। मदभिप्रेतस्यान्वयव्याप्त्यभावान्तर्भावस्याहानेश्च। असाधारणे व्यतिरेकव्याप्तिस्तु प्रतिकूलव्यतिरेकव्याप्त्या प्रतिरुद्धेत्युक्तम्॥
एतेन सर्वसपक्ष्वयावृत्तत्वरूपमसाधारणत्वं विपक्षवृत्तित्वरूपाव्याप्तेरुपजीव्यमित्यसाधारणत्व-
इह असाधारणे। अस्मिन् पक्षे बाधकमाशङ्क्य निराह -- ननु सन्दिग्धेति॥
नन्वेवं व्यतिरेकिवदेवान्वयव्याप्त्यभावे ऽप्यसाधारणो हेतुः 1 सद्धेतुः स्यात्। व्यतिरेक्यनुमान इव व्यतिरेकव्याप्तिसंभवादित्यतस्तद्वैषम्यमाह -- असाधारण इति॥ प्रकारद्वयेन पृथग्दोषत्वमनूद्य निराह -- एतेनेति॥ सर्वसपक्षव्यावृत्तत्वमव्याप्तेरुपजीव्यमित्यप्ययुक्त-
1.सद्धेतुपदं न - ट.ठ.
पु - 308. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
मेव दोष इत्यव्याप्त्यज्ञानदशायामसाधारणत्वमपि दोष इति च निरस्तम्। उपजीव्यत्वे ऽपि व्याप्त्याद्यभावरूपत्वाभावेन स्वतो दूषकताभावात्। व्याप्त्यभावव्याप्यतया दूषकत्वे चाव्याप्त्युन्नायकत्वे
नोपाधिवत्स्वतो हेत्वाभासत्वायोगात्। अनुकूलतर्के ऽवतीर्णे उत्तीर्णासाधारणत्वे हेतावव्याप्त्यज्ञानदशायां सर्वसपक्षव्यावृत्तत्वज्ञाने ऽप्यनुमित्यप्रतिबन्धाच्च। तस्मादसाधारणो ऽव्याप्तावन्तर्भूत एव। एतदेवाभिप्रेत्य पद्धतौ असाधारणप्रस्तावे"सर्वथाव्याप्तावन्तर्भूत"इत्युक्तम्॥
केचित्तु असाधारणः सर्वसपक्षव्यावृत्तत्वात्साध्याभावस्य, सर्वविपक्षव्यावृत्तत्वात्साध्यस्य च साधक इति सत्प्रतिपक्षान्तर्भूतः। न हि विरोधे स्वभिन्नत्वं तन्त्रम्। गौरवादित्याहुः॥

असाधारणस्याव्याप्तान्तर्भावः ॥ 3.1 ॥
मित्याह --अनुकूलतर्क इति॥ अव्याप्त्यज्ञानदशायामिति॥ तथा चान्वयव्यतिरेकाभ्यामव्याप्तिरेव दोष इति भावः। केचिदिति॥ तार्किकैकदेशिन इत्यर्थः। तदा तु प्रतिज्ञाविरोधेन्तर्भाव स्पष्ट इति भावः॥
असाधारणस्याप्तावन्तर्भावः ॥ 3.2 ॥
अपसंणो-अव्यान्तर्वः) अनुमादोषवादः पु - 309.
अनुपसंहारिणो ऽव्याप्तावन्तर्भावः ॥ 3.2 ॥
अनुपसंहारित्वमपि न तावव्द्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावः। व्याप्त्यभाव 1 वत्वादित्येतावतै 2 व पूर्णत्वेन शेषवैयर्थ्यात्। साधारणादिव्यावृत्त्यर्थमिति तु निरस्तम्॥
अनुपसंहारिणो ऽव्याप्तावन्तर्भावः ॥ 3.3 ॥
मणौ हि व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावः यत्र स हेत्वभिमतो 3 ऽनुपसंहारी, केवलान्वयिधर्मावच्छिन्नपक्षको वेति लक्षणद्वयमुक्तम्। तत्राद्यं तावदपाकरोति -- न तावदिति॥ व्याप्तिग्रहस्यानुकूलो य एकस्मिन् धर्मिण्युपसंहारः सहचारग्रहः तदभाव इत्यर्थः। पक्षे सन्देहरूपसहचारग्रहसत्वेन तदभावोसंभवतीत्यतो व्याप्तिग्रहानुकूलेत्युक्तम्। तादृशस्तु सहचारनिश्चय इति भावः। 4 व्याप्त्यभावादिति॥ व्याप्त्यभावो यत्र सोनुपसंहारीत्येतावता पूर्णत्वे व्याप्तिग्रहानुकूलैकधर्मिसहचारग्रहाभाव इत्येतावन्न वाच्यमित्यर्थः। साधारणासाधारणविरुद्धबाधादावपि व्याप्त्यभावोस्तीत्यतिव्याप्तिनिरासायैवं विन्यास इत्यत आह -- साधारणेति॥ दूषकताबीजैक्ये 5 तव्द्यावृत्तेरेवायोगादित्युक्तत्वान्निरस्तमित्यर्थः॥
1.भावादित्येता - क. भाव इत्ये -ग.ट,रा. 2. ता पूर्णत्वे शेष - ग.ट. रा. 3.तानुप-ठ. 4.इदं प्रतीकग्रहणं नास्ति -ठ. 5.क्येति व्यावृ -ठ.
पु - 301. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किञ्चोपसंहारशब्देन सहचारज्ञानविवक्षायां सहचारज्ञानस्य स्वरूपसत एवनुमितिप्रतिबन्धकतया त्वन्मते हेत्वाभावसत्वमेव न । मन्मते तु व्याप्तिप्रमित्यसिद्धावन्तर्भावः॥
उक्तं हि सुधायाम्। असिद्धिश्च द्विविधा। स्वरूपसतो ऽज्ञानतश्चेति। सहचारविवक्षायां तु विरुद्धोपाधिसाङ्कर्यम्। त्वन्मते विरुद्धे ऽप्यसहचारस्यैवोपाधित्वात्॥
ननु व्याप्त्यभावस्य दूषकताबीजत्वे स्यादेवं न चैवं किन्तूक्तरूपोपाधिरेवेत्यतः एवमपि विरुद्धसाङ्कर्यमेवेति वक्तुमाह -- किञ्चेति॥ उपसंहारशब्देन सहचारज्ञानग्रहे तदभावस्य सहचारज्ञानाभावरूपत्वात् सहाचारज्ञानस्येत्युक्तम्। पक्षधराद्युक्तमेवाह-- हेत्वाभासत्वमेव नेति॥
अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वं वा ज्ञायमानं सत् यदनुमितिप्रतिबन्धकं तत्वं वा हेत्वाभासत्वमित्युक्तेरिति भावः। विरुद्धेति॥ यत्वज्ञायमानदशायां सद्धेतावतिव्याप्तिनिरासाय साध्यसहचारनिश्चयविरोधिहेत्वाभासतोपाधित्वं विवक्षितं चेदपि विरुद्धेतिव्याप्तमित्यतः स्वसाध्यसिद्ध्यनुकूलव्याप्तिग्रहानुकूलसहचारत्वावच्छन्निनिश्चयविरोधिहेत्वाभासतोपाधित्वस्य विवक्षितत्वात्। विरुद्धस्य व्यतिरेकसहचारनिश्चयाविरोधित्वान्न तत्रातिव्याप्तिरिति तन्न। एतदज्ञाने ऽपि व्याप्त्यभावज्ञानमात्रेणानुमितिप्रतिबन्धात्। दूषकताबीजैक्ये विरुद्धव्यावृत्तेरेवायोगादिति॥
अपसंणो-अव्यान्तर्वः) अनुमादोषवादः पु - 311.
किं च यो निश्चितः यत्र साध्यं तत्र हेतुरिति सहाचारस्याभावः स तु न
साक्षाद्दोषः। यत्र हेतुस्तत्र साध्यमिति व्याप्त्यभावरूपत्वाभावात्। व्याप्त्यभावव्याप्यतया दोषत्वे चोपाधिवदव्याप्त्युन्नायक एव स्यादित्युक्तम्। यश्च दोषः यत्र हेतुस्तत्र साध्यमिति सहचारस्याभावः स तु हेतुमति साध्याभावात्मकत्वादव्याप्तिरेव। नहि साध्या-
यद्वा अस्त्वेवं क्लेशेन तथापि न पृथग्दोषत्वमित्याह -- किञ्चिति। व्याप्तिग्रहानुकूलसहचाराभावो ऽनुपसंहारित्वमित्यत्र यत्र साध्यं तत्र हेतुरित्येवंरूपसहचारस्याभावो अभिमतः उत यत्र हेतुस्तत्र साध्यमित्येवंरूपसहचारस्याभावः। आद्य आह -- य इति॥ यो निश्चितोभाव इत्यन्वयः। कस्येत्यतो यत्रेत्यादि। यद्यपि व्याप्तिग्रहानुकूलेत्युक्तत्वादस्य चातादृशत्वान्नास्य कल्पस्यावतारः। तथापि संभवमात्रेण वा कृतकत्वानित्यत्वयोरेवमपि सहचारो व्याप्तिग्रहानुकूल एवेति वदन्तं प्रति वास्यावतार इत्यदोषः। इति 1 व्याप्त्यभावरूपत्वाभावादिति॥ तथा च परामर्शविषयाभावत्वाभावाद्दोषत्वमेव न स्यादिति भावः। उक्तमिति॥ पूर्वभङ्गान्त इत्यर्थः। यश्च दोष इति अभाव इत्यस्य विशेषणम्। अव्याप्तिरेवेति॥ अविनाभावो हि व्याप्तिः। साध्येन विनैव सत्वे कथं नाव्याप्तिः। भवत्येवाव्याप्तिरित्यर्थः। ननु साध्याभावसामानाधिकरण्यस्य व्यभिचारतया सैवाव्याप्तिः साध्याभावस्य
हेतुसामानाधिकरण्यस्य कथं व्यभिचारता। येनाव्याप्तिः स्यादित्यत आह -- न हीति॥
1.इत्यव्याप्तिरू - ठ.
पु - 312. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
भाववति हेतुसत्वमेव व्यभिचारः। न तु हेतुमति साध्याभाव इति युक्तम्। द्वयोरपि हेतुसाध्याभावसामानाधिकरण्यरूपव्यभिचारात्मकत्वाविशेषात्॥
नापि केवलान्वयिधर्मावच्छिन्नपक्षताकत्वमनुसंहारित्वम् अनित्यो घटः घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादि तु विरुद्धमेवेति वाच्यम्। उत्तीर्णानुपसंहारित्वास्थे सर्वमभिधेयं प्रमेयत्वादिति सदनुमाने 1
तत्प्रतिसन्धानेप्यनुमित्यप्रतिबन्धात्। द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः अनित्याः वस्तुत्वादित्याद्यसदनुमाने तदप्रतिसन्धानेप्यनुमितिप्रतिबन्धाच्च॥
मण्युक्तं द्वितीयलक्षणमपि निराह -- नापीति॥ अनुपसंहारविशेषे लक्षणमिदमव्याप्तमित्यतो मण्युक्तदिशा लक्ष्यबहिर्भावेन निराह -- अनित्यो घट इति॥ अन्वयव्यतिरेकव्यभिचारेणैतज्ज्ञानस्यानुमित्यप्रतिबन्धकतया ज्ञायमाने सत्यनुमितिप्रतिबन्धकत्व 2 रूपोक्तहेत्वाभासतोपाधित्वाभावाद्धेत्वाभावसत्वमेव नेति भावेन व्यभिचारा 3 वाह -- उत्तीर्णेति॥ बहुव्रीहिः। विपक्षव्याघातादितर्कबलेनेति भावः। तदप्रतिबन्धाने ऽपीति॥ अत्र
पक्षतावच्छेदकस्याकेवलान्वयित्वेन केवलान्वयिधर्मावच्छिन्नपक्षताकत्वप्रतिसन्धानस्यात्रानुदयादिति भावः। यथाश्रुतमूलस्य तव्द्याख्यातृविवक्षितं लक्षणमुक्तदोषपरिहाराय शङ्कते -- नन्विति॥
1.नेसत्प्र -रा. 2.त्वादुक्तहे - ट.ड. 3.त्वद्युक्तहे -ठ. 3.रं चा -ठ.
अपसंणो-अव्यान्तर्वः) अनुमादोषवादः पु - 313.
ननु सन्दिग्धसाध्यवन्मात्रवृत्तित्वं अनुपसंहारित्वम्। अस्यां दशायामसाधारणोप्यनुपसंहारि चेत्। तथाप्यसाधारणप्रस्तावोक्तरीत्या तर्कानवतारदशायां तर्काभावादेव सन्दिग्धाव्याप्तेः। तदवतारदशायां तु न दोषः॥

उत्तीर्णवस्थे ऽनुमाने सन्देहाभावेन सन्दिग्धासाध्यवृत्तित्वं नास्तीति तत्र तदनुसन्धानस्यैवायोगेन नान्वयव्यभिचारः। द्रव्यगुणेत्यादौ च सन्दिग्धसाध्यवन्मात्रे पक्षे हेतोर् 1 वृत्तिमत्वेन तत्र तदनुसन्धानसम्भवेन तेनैवानुमितिप्रतिबन्धान्न व्यतिरेकव्यभिचारो ऽपीति भावः। नन्वेवमपि सर्वमभिधेयं मेयत्वादित्यादावनुत्तीर्णानुपसंहारित्वदशायामव्याप्तिः। तत्र साध्याभावाप्रसिद्ध्या साध्यसन्देहाभावादिति चेन्न। इदमभिधेयं न वेत्येवं सन्देहाभावेप्यनभिधेयत्वमत्रास्ति न वेत्येवं सन्देहस्य तत्रापि संभवादिति भावः।
नन्विदं पक्षमात्रवृत्य 2 साधारणे ऽतिव्याप्तमित्यत आह-- अस्यामिति॥ सन्दिग्धसाध्यवन्मात्रवृत्तित्वमनुपसंहारित्वमिति दशायां सन्दिग्धसाध्यवन्मात्रवृत्तित्वानुसन्धानदशायां वेत्यर्थः। न दोष इति॥ हेत्वाभासत्वमेव नेत्यर्थः। रुचिदत्तादौ तु 3 सन्दिग्धसाध्यवन्मात्रवृत्तित्वज्ञाने सत्यपि शब्दाव्द्याप्तिग्रहसंभवे तस्य न व्याप्तिधीप्रतिबन्धद्वारानुमितिप्रतिबन्धकत्वम्। साध्यसामानाधिकरण्य 4 सन्देहस्य योग्यतासंशयपर्यवसन्नतया तत्राप्रतिबन्धकत्वेन तत्सामग्र्याः सुतरामप्रतिबन्धकत्वादिति दूषणमुक्तम्। पूर्वं सन्दिग्धाव्या
1.तुमत्वेन -न तत्र -ट.ड. 2.त्तिसाधारणे -ट.ड. 3.तु इति न -ट.ठ. 4.संशयज्ञानस्य -ठ. सन्देहयोग्यता -ड.
पु - 314. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यद्वानुपसंहारिणि सर्वस्यापि पक्षत्वेनान्वयव्याप्तेर्व्यतिरेकव्याप्तेर्वा ग्रहणासंभवाद्व्याप्तिप्रमित्यसिद्धावन्तर्भावः। यद्वासाधारणे उक्तरीत्या मित्रातनयत्वादिरिव पक्ष एव साध्यसन्देहात्सन्दिग्धाव्याप्तः॥
एतदेवाभिप्रेत्योक्तं पद्धतौ। सर्वं क्षणिकं सत्वादित्ययमप्युभयसंबन्धाभावादव्याप्तावन्तर्भूत इति॥
केचित्तु सर्वं क्षणिकं सत्वादित्यत्र पक्ष एव साध्याभावेनैव संबन्धावगमात्। सर्वमनित्यं सत्वादित्यादौ तु पक्ष एव साध्याभावेनापि -
प्तित्वमुक्तं इदानीं व्याप्तिप्रमित्यसिद्धावन्तर्भावमाह -- यद्वेति॥ पूर्वं तर्कानवतारे 1 हेतोरप्रयोजकत्वाहितसाध्यसामानाधिकरण्यमादायाव्याप्तावन्तर्भाव उक्तः अधुनान्यत्र साध्येन तदभावेन वा सहाचारदर्शनाहितसाध्यसामानाधिकरण्यसंशयमादाय सन्दिग्धाव्याप्तत्वमाह -- यद्वासाधारण इति अनुमानमात्रोच्छेदप्रसङ्गनिरासायो 2 क्तरीत्येति मित्रातनयत्वदेरिवेति चोक्तम्। शाकपाकजत्वादिरूपोपाधिसन्देहाहितसाध्यसन्देहवद्वृत्तित्वेन मित्रातनयत्वादेर्यथा
सन्दिग्धा 3 व्याप्तत्वं तथा साध्यतदभावाभ्यां सहचारदर्शनाहितसाध्यसन्देहप्रयुक्तसन्दिग्धाव्याप्तत्वमित्यर्थः। प्रकारान्तरेणाव्याप्त्यन्तर्भावं परमुखेनाह-- केचिदिति॥ पक्ष एवेति॥ प्रत्यभिज्ञया घटादेः सर्वस्य स्थायित्वनिश्चयादिति भावः। साध्याभावेनापीति॥ क्वचिन्नित्यत्वस्यापि निश्चयादिति भावः। अत्रारिचिबीजं -
1.रहेतो-ट. 2.प्रसङ्गनिरासायाह उक्त -ठ. 3.दिग्धव्या -क.ग.रा.
अपसंणो-अव्यान्तर्वः) अनुमादोषवादः पु - 315.
संबन्धावगमादव्याप्तः। सर्वमभिधेयं प्रमेयत्वादिति तु सदनुमानमेवेत्याहुः॥
एतेनाव्याप्तिं प्रत्युपजीव्यत्वादनुमपसंहारित्वमेव दोष इत्यव्याप्त्यज्ञानदशायामनुपसंहारित्वमपि दोष इति च निरस्तम्। त्वदुक्तलक्षणत्रये आद्यस्य निष्कर्षे स्वयमेवाव्याप्तिरूपत्वात्। द्वितीयस्य स्वतो दोषत्वाभावात्। तृतीयस्य च स्वयमेव सन्दिग्धाव्याप्यत्वात्॥
अनुपसंहारिणो ऽव्याप्तावन्तर्भावः ॥ 3.2 ॥
तु साध्यसन्देहवान्पक्ष इति मते सर्वस्य साध्यसन्देहवत्वेन तदभावानिश्चयात्साध्याभावेनैवेति पक्षस्य साध्याभावेनापीति पक्षस्य 1 चोयागात् पक्षे सन्दिग्धसाध्याभावसंबन्धेन चाव्याप्तत्वे ऽपि प्रसङ्गादस्मदुक्तदिशा सन्दिग्धाव्याप्तत्वस्यैवापन्नत्वाच्चेति। मण्युक्तमेव पृथग्दोषत्वप्रकारमनूद्य निराह -- एतेनेति॥ सर्वसपक्षव्यावृत्तत्वाद्यज्ञाने व्यप्तेरज्ञानात्तत्प्रतिसन्धान एव ज्ञायमानत्वात्तस्योपजीव्यत्वमिति भावः। तत्र हेतुमाह -- त्वदुक्तेति॥ आद्यस्येति॥ व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभाव इत्यस्य। अव्याप्तिरूपत्वादिति॥ किञ्चेत्यादिना प्रागुपपादनात् तथा चाभेदे कथमुपजीव्योपजीवकभावः । द्वितीये केवलान्वयीत्यादिनोक्तलक्षणे ऽन्वयभिचारेकाभ्यां तज्ज्ञानस्यानुमितिप्रतिबन्धकत्वव्यभिचारस्योक्तत्वात्तथा च स्वस्यैवादोषत्वे कथं दोषान्तरं प्रति स्वयमुपजीव्यं स्यादिति भावः॥ तृतीयस्येति॥
सन्दिग्धसाध्यवन्मात्रवृत्तित्वलक्षणस्य। तथा चाभेदान्नोपजीव्योपजीवकभाव इति भावः॥
अनुपसंहारिणो ऽव्याप्तावन्तर्भावः ॥ 3.3 ॥
1. स्यायो - ट.ठ.
पु - 316. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
अथ विरुद्धस्याप्यव्याप्तावन्तर्भावः ॥ 3.3 ॥
विरुद्धत्वमपि विपक्षमात्रवृत्तित्वं चेत्, मात्रपदवैयर्थ्यम्। तत्त्यागे च साधारणसाङ्कर्येणाव्याप्तावन्तर्भावः। साधारणव्यावृत्त्यर्थं मात्रपदमिति तु निरस्तम्। साध्याभावव्याप्तत्वं चेत् साध्याभावसंबन्धेनैवालम्। किं व्याप्तिशरीरान्तर्गतेन नियमेन। नियमांशत्यागे च साधारण्यसाङ्कर्यम्॥
अथ विरुद्धस्याप्यव्याप्तावन्तर्भावः ॥ 3.4 ॥
विरुद्धहेत्वाभासत्वरूपदोषस्याप्यव्याप्तावन्तर्भावं सुधाद्युक्तदिशा विवरितुकामः किं विपक्षमात्रवृत्तित्वं विरुद्धत्वं विपक्षवृत्तित्वमेव वा साध्याभावव्याप्तत्वं वा साध्याभावसंबन्धत्वमात्रं वा मण्युक्तरीत्या साध्यव्यापकाभावप्रतियोगित्वं वेति विकल्पान् हृदि कृत्वाऽद्यं निराह -- विरुद्धत्वमपीति॥ मात्रपदेति॥ विपक्षवृत्तित्वमात्रस्यैव साधारण इव दूषकत्वसंभवे सपक्षावृत्तित्वे सतीत्यर्थकमात्रपदस्य व्यर्थत्वादित्यर्थः । द्वितीये दोषमाह -- तत्त्यागे चेति॥ साधारणस्याव्याप्यन्तर्भावोक्तेः साधारणसाङ्कर्येण हेतुनाव्याप्तावन्तर्भाव
इत्युक्तम्। निरस्तमिति॥ दूषकताबीजसाम्ये तद्व्यावृत्तेरेवायोगादित्युक्तत्वादिति भावः। तृतीयमनूद्य निराह -- साध्येति॥ चतुर्थं निराह-- नियमांशेति॥
विरुस्याप्यव्यान्तर्वः) अनुमादोषवादः पु - 317.
ननु -- साध्यव्यापकाभावप्रतियोगित्वं विरुद्धत्वम्। एवं च न
विशेषणवैयर्थ्यम्। नापि साधारणसाङ्कर्यमितिचेन्न। अस्य हि यत्र साध्यं तत्र साधनाभाव इति व्याप्तिर्विरुद्धत्वमित्यर्थः॥
पञ्चममाशङ्कते -- नन्विति॥ साध्यव्यापकीभूतो यो ऽभवः तत्प्रतियोगित्वमित्यर्थः। नित्यः शब्दः कृतकत्वादित्यत्र हेत्वभावः साध्यव्यापको भवति यत्र नित्यत्वं गगनादौ तत्र कृतकत्वाभाव इति व्याप्तेः। न विशेषणवैयर्थ्यमिति॥ यद्यप्यत्रापि नियमांशो ऽधिको ऽनुप्रविष्टः। तथापि साध्यसमानाधिकरणाभावप्रतियोगित्वस्य विषमव्याप्तिके सद्धेतौ धूमादावप्यस्तीति सद्धेतुव्यावर्तकत्वान्नियमांशः सफल इति भावः। नापीति॥ साधारणस्य सपक्षवृत्तितया साध्येनापि सम्बन्धेन साध्य 1 व्यापकाभाव 2 प्रतियोगित्वादिति भावः॥

अस्मिन् लक्षणे ऽपि विरुद्धस्याव्याप्ताव 2 न्तर्भावं वक्तुं तस्यार्थनिष्कर्षं तावत्करोति -- अस्य हीति॥ अस्तु किं तत इत्यत एतज्ज्ञानं च न साक्षादनुमितिप्रतिबन्धकम् अनुमितिविषयाभावानवगाहित्वात् बाधप्रतिपक्षयोरेव तथात्वात् किन्तु तत्कारणविघटकत्वेन। तच्च परामर्शविषयाभावावगाहित्वेनैव परामर्शरूपकारणविघटनद्वारा तज्जन्यानुमितिप्रतिबन्धकत्वमिति वाच्यम्। परामर्शविषयश्च पक्षधर्मता व्याप्तिश्चेति द्वयम्। तत्रं किं पक्षधर्मताज्ञानविघटनद्वारा व्याप्तिज्ञानप्रतिबन्धनद्वारा वानुमितिप्रति-
1.साध्याव्या - ड. 2.वाप्रति-ड. 3.व्याप्त्यन्त-ड.
पु - 318. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
उक्तव्याप्तिज्ञानं च न तावद्दृष्यानुमानीयपक्षधर्मताज्ञानविघटकम्। विरुद्धे ऽपि तज्ज्ञानस्य सत्वात्। किं तु यत्र साधनं तत्र साध्यमित्युदाहरणदर्शिता या दूष्यानुमानीया व्याप्तिः तज्ज्ञानप्रतिबन्धकमित्येव 1 वाच्यम्। तत्प्रतिबन्धकत्वं च किं तद्ग्राह्या या दूष्यानुमानीया व्याप्तिः तदभावविषयत्वेन किं वा तद्ग्राह्य या व्याप्तिस्तदभावव्याप्यविषयत्वेन वा। नाद्यः। दूषिकायाः यत्र साध्यं तत्र साधनाभाव इति व्याप्तेः यत्र साधनं तत्र साध्यमिति
दूष्यमानीय्यप्त्यभावरूपत्वाभावात्। भावे वा मदभिप्रेतस्याव्याप्त्यन्तर्भावस्य सिद्धेः। अन्त्ये ऽपि किं दूषिकाया व्याप्तेः स्वरूपेण ज्ञानं दूष्यानुमानीयव्याप्तिज्ञानप्रतिबन्धकम् किं वा 2 दूष्यानु-
बन्धकत्वम्। आद्यं निराह -- न तावदिति॥ द्वितीयमेव प्रश्नपूर्वं 3 विशेषयति --किन्त्वित्यादिना। उदाहरणप्रदर्शितेति विभागः। तत्रापि विकल्पयति -- तत्प्रतिबन्धकत्वं चेति ॥ तद्ग्राह्येति पदच्छेदः। प्रतिबध्यत्वेनाभिमतज्ञानग्राह्येत्यर्थः। दूषिकाया इति॥ स्वज्ञानद्वारा प्रतिबन्धकीभूताया इत्यर्थः। व्याप्त्तभावरूपत्वाभावादिति॥ हेत्वभावस्य साध्यव्यापकत्वं साध्यवन्निष्ठात्यन्ताभावप्रतियोगित्वम्। अत्र च साध्यसामानाधिकरण्यांशस्य साध्याभावसंबन्धरूपव्यभिचारांशस्य वा प्रवेशाभावादित्यर्थः। अभ्युपेत्यापि दोषमाह-- भावेवेति॥
1.वं वा -ग.रा. 2.ऽयत्र साध्यं तत्र साधनंऽ इत्यनन्तरं दूष्यानुमानीयेत्यरभ्येतावान्ग्रन्थः लुप्तः-क.ग.रा.
3.पिरशेषयति - ड.
विरुस्याप्यव्यान्तर्वः) अनुमादोषवादः पु - 319.
मानीयव्याप्त्यभावव्याप्यत्वेन ज्ञानम्। नाद्यः। अतिप्रसङ्गात्। नान्त्यः। व्याप्त्यभावज्ञाने तद्व्याप्यत्वज्ञानसंभवेनावश्यकस्य व्याप्त्यभावस्यैव दोषत्वसिद्धेः॥
किं च विरुद्धस्योपाधितवद्व्याप्त्यभावव्याप्यतया दोषत्वे स्वतो हेत्वाभासत्वं न स्यात्॥
किञ्चान्तरङ्गं लघुतरं कॢप्तमानुभाविकं च साध्याभावसंबन्धज्ञानं त्यक्त्वा स्वकल्पितप्रक्रिया-
अतिप्रसङ्गादिति॥ तन्निर्विकल्पकेन वा प्रमेयत्वादिप्रकारकतज्ज्ञानेनापि वा प्रतिबन्धापातादित्यर्थः। अस्मिन्पक्षे विरुद्धस्य हेत्वाभावसत्वमेव दुर्घटमिति कथं पञ्चेति विभाग इति भावेनाह -- किं चेति॥ उपाधिवत् उपाधेरिव। उपाधेर्यथा
1 व्यभिचारोन्नायकत्वेन स्वतो दोषत्वाभावान्न हेत्वाभासत्वं तथेत्यर्थः॥
ननूपाधेर्व्यभिचारव्याप्यत्वेन तदनुमितिद्वारा व्यप्त्यभावगमकत्वं न साक्षात्। न हि व्यभिचार एव व्याप्त्यभावः। अव्यभिचरितसहचाररूपत्वाद्व्याप्तेः साध्यहेत्वभावयोर्व्याप्तेः साध्यहेतुव्याप्तिव्याप्यत्वं तु साक्षादेव व्याप्त्यभावावगम इति नोपाधिसाम्यमिति वदन्तं प्रत्याह -- किं चान्तरङ्गमिति॥साध्यहेत्वभावव्याप्तेः साध्यहेतुव्याप्त्यभावं प्रति व्याप्यत्वविषयकत्वापेक्षया साध्याभावसम्बन्धज्ञानस्याल्पविषयकत्वादन्तरङ्गत्वं लघुतरत्वं च व्यक्तमेव। कॢप्तमिति॥ साधारणे प्रतिबन्धकत्वस्य निर्णीतत्वादिति भावः। साध्याभावव्याप्तो विरुद्ध इति प्रसिद्धलक्षणानुरोधेनोक्तं साध्याभावसंबन्धज्ञानं त्यक्त्वेति॥ प्रक्रियेति॥ सव्यभिचारादिभेदेन पञ्चैव हेत्वाभासा इति प्रक्रियानिर्वाहयेत्यर्थः॥
1.चारित्वेन -ट.ड.
पु - 320. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
निर्वाहाय बहिरङ्गस्य गुरुतरस्याकॢप्तस्यानानुभाविकस्य च साध्यहेत्वभावव्याप्तेर्हेतुसाध्यव्याप्त्यभावेन सह व्याप्तिज्ञानस्य प्रतिबन्धकत्वकल्पनमत्यन्तायुक्तम्। न ह्यत्र हिंसात्वमित्रातनयत्वादाविव साध्याभावसम्बन्धोन स्फुटः। येन तत्रोपाधिनेवात्र त्वदुक्तेन विरुद्धत्वेन स उन्नीय 1 ते॥
कि चेदं ज्ञानं किं प्रत्यक्षस् दूष्यानुमानीयव्याप्तिज्ञानस्य विरोधि। किं वानुमानिकस्या। नाद्यः। शङ्खे पीतत्वाभावव्याप्यशङ्खत्वग्रहे ऽपि पीतत्वसाक्षात्कारदर्शनात्। अन्त्ये दूष्यानुमानीयव्याप्ति-
नन्वेवं स श्यामो मित्रातनयत्वादित्यादावपि साध्याभासंबन्धत्वमेव दोषः। तज्ज्ञानमेव च प्रतिबन्धकं, तदेव चोद्भाव्यं स्यात् न तु शाकपाकजत्वोपाधिरित्यत आह -- न हीति॥ यद्वा मित्रातनयत्वादौ साध्याभावसम्बन्धद्योतनायोपाध्युक्तिवदिहापि
तदुक्त्यर्थमेवोक्तरूपविरुद्धत्वमस्त्वित्यत आह -- न हीति॥
ननु साध्याभावसंबन्धाज्ञाने ऽपि कदाचित्सामग्रीवशेनाप्तवाक्येन चोक्तरूपज्ञाने सति व्याप्तिज्ञानप्रतिबन्धदर्शनादयमपि पृथग्दोषो वाच्य इति वादिनं प्रत्याह -- किं चेदं ज्ञानमिति॥ साध्यहेत्वभावव्याप्तेर्हेतुसाध्यव्याप्ति 2 भावेन सह व्याप्तिज्ञानमित्यर्थः। अन्त्य इति॥
1.येत -रा. 2.प्त्यभावे - ठ.
विरुस्याव्यान्तर्वः) अनुमादोषवादः पु - 321.
ज्ञानस्यानुमानिकत्वे दूष्यानुमानीयहेतौ व्याप्तिव्याप्यस्य त्वदुक्तरीत्या व्याप्त्यभावव्याप्यस्य च ज्ञातत्वेन सत्प्रतिपक्षान्तर्भावः स्यात्। न हि सत्प्रतिपक्ष एवोदाहरणभेदमात्रेण विरुद्धो भवति॥ किञ्चाव्यप्त्यन्तर्भावाच्छादनाय साध्यव्यापकाभावप्रतियोगित्वं विरुद्धत्वमित्युक्तौ वृत्तिमतः साध्यवदवृत्तित्वं वा साध्यासामानाधिकरणधर्मत्वं -
नित्यः शब्दः कृतकत्वादित्यादिविरुद्धहेतौ साध्यनिरूपितव्याप्तिज्ञानस्यानुमानिकस्यैवोक्तरूपव्याप्यत्वज्ञानं प्रतिबन्धकमिति पक्ष इत्यर्थः। अस्मिन् पक्षे विरुद्धहेतौ साध्येन सह व्याप्तिज्ञानमानुमानिकमित्येव वाच्यमन्यथा तस्य प्रतिबन्धायोगादिति भावेनोक्तं दूष्येत्यादि। अनुमानं च विरुद्धहेतौ कृतकत्वादौ नित्यत्वादिरूपसाध्यनिरूपितव्याप्तिं प्रति व्याप्यस्य कस्य चिज्ज्ञानमेवेति वाच्यमिति भावेनोक्तं -- दूष्यानुमानीय हेतौ व्याप्तिव्याप्यस्येति॥ त्वदुक्तरीत्येति, ॥ साध्यहेत्वभावयोर्व्याप्तिरूपस्य हेतुसाध्यव्याप्त्यभावं प्रति व्याप्यस्य चेत्यर्थः॥
नन्वनित्यः शब्दः कृतकत्वात्, नित्यः शब्दः श्रावणत्वादित्यादिरेव सत्प्रतिपक्षोदाहरणं नैतादृशमित्यत आह -- न हीति॥ अनित्यत्वसाध 1 ककृतकत्वहेतुः साध्यव्याप्तः पक्षे साध्यसमानाधिकरणत्वात् कृतकत्वहेतुः न प्रकृतसाध्यव्याप्तः साध्यव्यापकाभावप्रतियोगित्वादित्युदाहरणभेदमात्रेणेत्यर्थः। व्याप्तितदभावानुमित्यन्यस्थल एव प्रतिपक्षतेति मन्वानं प्रत्याह -- किञ्चेति॥

इत्युक्तावित्यस्य विरुद्धत्वं नानास्यादित्यन्वयः। कथमित्यतो मण्युक्तान्येवाह -- वृत्तिमत इति॥
1.ध्यकृ - ट.ड.
पु - 322. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
वा साध्यवद्दृत्तिभिन्नधर्मत्वं वा विरुद्धत्वमित्यपि 1 सुवचत्वाद्विरुद्धत्वं नाना स्यात्। तत्र च बाधप्रस्तावोक्तरीत्या सर्वेषां प्रत्येकं हेत्वाभासत्वस्य वक्तव्यत्वेन हेत्वाभासाधिक्यं स्यात्॥
यत्तु व्याप्तिज्ञानकारणीभूतसहचारज्ञानविरोधिज्ञानविषयत्वेनैकीकरणान्नाधिक्यमिति कश्चिताह ॥ तन्न। 2 त्वदुक्तविषयत्वाज्ञाने ऽपि साध्याभावसम्बन्धज्ञानेनैवानुमितिप्रतिबन्धात्॥
किञ्च व्याप्तिज्ञानकरणीभूतं यत्र हेतस्तत्र -
पर्वतो ऽग्निमान् गगनवत्वादित्यादावतिव्याप्तिनिरासाय वृत्तिमत इत्युक्तिः। न च तल्लक्ष्यकोटिप्रविष्टमेवेति वाच्यम्। साध्यवदवृत्तित्वरूपविरुद्धत्वस्य तत्र ज्ञाने ऽपि व्यतिरेकव्याप्तिग्रहाप्रतिबन्धेन तेन तत्रानुमित्युदयाक्षतेरिति भावः। अस्तु को दोष इत्यत आह -- तत्र चेति॥ बाधेति॥ बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्योक्तिप्रस्तावे एकमेव 3 साधकतालिङ्गं सर्वं वा। आद्ये अन्यज्ञानेनानुमितिप्रतिब्धो न स्यात्। अन्यानुमितिनैकेनामितिप्रतिबन्ध इति तु नानुभवानुसारी। द्वितीये मिलितं लिङ्गं प्रत्येकं वा। आद्ये एकनैव पूर्णत्वाच्छेषवैयर्थ्यम्। अन्त्ये हेत्वाभासाधिक्यमित्युक्तरीत्येत्यर्थः। यज्ज्ञानेनानुमितिप्रतिबन्धो भवति तद्धि संग्राहकतया निर्वक्तव्यम्। न हीदं तथा। तथा च पञ्चभ्यो ऽधिकमवर्जनीयमिति भावेनाह -- त्वदुक्तेति॥ 4 त्वदुक्तविवक्षैकीकरणपक्षे ऽपि हेतोः साध्याभावसम्बन्धज्ञानमावश्यकम्। एवं च तेनैवालं किमनेनेति भावेनाह -- किञ्च व्याप्तिज्ञानेति॥
1.मित सु -क.ट. 2.त्वदुक्तविषय इत्यधिकम्-ग.रा. 3.वासाध -ड. 4.इतः नन्वित्यविधिको ग्रन्थः नास्ति -ट.ठ.ड.
विरुस्य-व्यावन्तर्वः) अनुमादोषवादः पु - 323.
साध्यमित सहचारज्ञानं प्रति यत्र साध्यं तत्र हेत्वभाव इत्येवंरूपस्य साध्यव्यापकाभावप्रतियोगित्वरूप 1 विरुद्धोपाधिज्ञानस्य साक्षादविरोधित्वेन विरोधार्थं यावद्धेत्वधिकरण 2 वृत्तिसाध्याभावकल्पं विरुद्धत्वमिति निर्वक्तव्यत्वेन साध्याभावव्याप्य 3 त्वस्यैव विरुद्धत्वसिद्धिः। तत्र च नियमांशो व्यर्थ इत्युक्तम्॥
किञ्च सहचारशब्देन व्याप्तिशरीरानुप्रविष्टस्य सहचारस्यैव 4 विवक्षणीयत्वेन लाघवाद्व्याप्तिज्ञानविरोधिज्ञानविषय 5 भूतायां अव्याप्तावेवान्तर्भावसिद्धेः॥
एतेन विरोधस्य व्याप्त्यभावं प्रत्युपजीव्यत्वाद्विरोध एव दोष इति, अव्याप्त्यज्ञानदशायां विरो-
ननु कदाचित्साध्याभावसम्बन्धाज्ञानेप्युक्तरूपविषयत्वज्ञाने ऽप्यनुमिति प्रतिबन्धो ऽस्तीति वादिनं प्रत्याह -- किञ्चेति॥ व्याप्तिशरीरेति॥ अन्यादृशस्य प्रकृतव्याप्तिधीकारणत्वाभावात्समवायवृत्या सहचारज्ञानविरोधज्ञानविषयत्वस्य धूमवह्निसामानाधिकरण्ये ऽपि सत्वेनातिप्रसङ्गाच्चैवं विवक्षाया आवश्यकत्वादिति भावः। मण्युक्तदिशा प्रकारान्तरेण विरुद्धस्य पृथग्दोषत्वमनूद्य निराह -- एतेनेति॥ प्रहतं प्रसिद्धम्। साध्याभावव्याप्तो विरुद्ध इति सर्वैरुपगमादिति भावः। उपजीव्यत्वं -
1.पस्यवि-ग.रा. 2.णत्वेन सा -ग.रा. 3.व्यत्वेनैव -ग.ट.रा. 4.रस्य वि -ग.रा. 5.यतया -ग.रा. 6.प्ययुक्त-ट.ड.
पु - 324. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
धो ऽपि दोष इति निरस्तम्। व्याप्त्यभावस्यैव प्रहतं साध्याभावव्याप्यत्वादिरूपं
विरुद्धत्वं प्रत्युपजीव्यत्वात्। न हि हेतोः साध्याभावेन संबन्धं 1 ज्ञात्वा तेन व्याप्यता ज्ञातुं शक्या। त्वत्कल्पितं साध्यव्यापकाभावप्रतियोगित्वादिरूपं विरुद्धत्वं साध्यव्यापकाभावप्रतियोगित्वादिरूपं विरुद्धत्वं प्रत्यपि व्याप्त्यभाव एवोजीव्यः। तथाह --त्वत्कल्पितस्य विरुद्धत्वस्य स्वरूपेण ज्ञानं यद्यपि न व्याप्त्यभावज्ञानाधीनम् । तथापि तन्नानुमितिप्रतिबन्धकम्। यत्तु प्रतिबन्धकं व्याप्त्यभावव्याप्यतया ज्ञानं 2 तद्व्याप्त्यभावज्ञानाधीनमेवेति कथं व्याप्त्यभावो नोपजीव्यः॥
एतेनैवोपधेयसङ्करे ऽप्युपाधेरसङ्कर इति च निरस्तम्। विरुद्धे ऽपि साधारणवद्विपक्षवृत्तित्वस्यैवोपाधित्वोक्तेः॥
तस्मात्साधारणसाङ्कर्यपरिहाराय त्वत्कल्पितं -
व्यनक्ति -- न हीति॥ ननु मण्युक्तविरुद्धत्वलक्षणे व्याप्त्यभावस्योपजीव्यत्वं नास्तीत्यत आह - त्वदिति॥ मणिकृत्कल्पितेत्यर्थः। आदिपदेन वृत्तिमतः साध्यवदवृत्तित्वादेर्ग्रहः। व्याप्त्यभावज्ञानाधीनमिति॥ तज्ज्ञाने तन्निरूपितव्याप्यत्वस्य दुर्ज्ञानत्वादिति भावः। मण्युक्तं प्रकारान्तरेण विरुद्धस्य पृथक्त्वं निराह --- एतेनेति॥ उक्तेरिति॥ अस्माभिः प्रतिपादितत्वादित्यर्थः 3 । त्वत्कल्पितमिति॥
1.न्धमज्ञा -ग.ट.रा. 2.द्व्यापकाभाव -ग.रा. 3.दिति भावः- ट.ड.
विरुस्याव्यावन्तर्वः) अनुमादोषवादः पु - 325.
यद्विरुद्धत्वं तद्व्याप्त्याद्यभावानात्मकत्वादुपाधिप्रतिकूलतर्कादिवदव्याप्त्युन्नायकमेव। न तु स्वयं हेत्वाभासः। यत्तु प्रहतं विपक्षमात्रवृत्तित्वं 1 रूपं विरुद्धत्वं तत्साधारणोपाधिसङ्कीर्णत्वेनाव्याप्त्यन्तर्भूतमेव॥
2 एतेनाव्यभिचारितसामानाधिकरण्यरूपव्याप्तिशीरप्रविष्टस्याव्यभिचाररूपविशेषणांशस्य विरहः साधारणः, तत्प्रतिविष्टस्य सामानाधिकरण्यरूपविशेष्यांशस्य विरहो
विरुद्धः, विशिष्टो 3 विरहो व्याप्यत्वासि 4 द्धः इति भेद इति निरस्तम्। हेत्वाभासविशेषभूता या असिद्धिः तद्विशेषभूता या व्याप्यत्वासिद्धिः तदवान्तरभेदमादाय हेत्वाभाससामान्यविभागे हेत्वाभासविशेषभूता या असिद्धिः
मण्युक्तं साध्याव्यापकाभावप्रतियोगित्वरूपमित्यर्थः। उपाधिरिति॥ उपाधिश्च प्रतिकूलतर्कश्चादिपदोक्तानुकूलतर्काभावश्च तद्वदित्यर्थः। प्रहतं प्रसिद्धं सर्वैरुच्मानमित्यर्थः। प्रकारान्तरेण साधारणादित्रयस्य भेदमनूद्य निराह - एतेनेति। हेत्वाभासविशे 5 षणेति॥ ज्ञायमानत्वे 6 सत्यनुमितिप्रतिबन्धका 7 दिरूपं हेत्वाभावसत्वं हि सामान्यम्। तद्विशेषाः
1.त्वादिरू - ग.ट.रा. 2.ऽविरुद्धस्य व्याप्तावन्तर्भावःऽ इति प्रकरण विभागो ऽस्ति -क. 3.ष्टविर -ग.ट.रा. 4.द्धिरिति -ट.रा. 5.षभूतेति-ट.ठ. 6.त्वेस्या -ट.ड. 7.कत्वादि -ट.ठ.
पु - 326. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
तद्विशेषभूतायाः स्वरूपासिद्धेः शब्दो ऽनित्यः चाक्षुषत्वे सति द्रव्यत्वादित्यादौ विशेषणविशेष्यविशिष्टाभावमादाय हेत्वाभाससामान्यविभागापत्तेः। हेत्वाभासविशेषस्य बाधस्य हृदो धूमवत्वे सत्यग्निमानित्यादौ विशिष्टसाध्याभावान्तर्गतविशेषणाभावादिभेदमादाय हेत्वाभाससामान्यविभागप्रसङ्गाच्च॥
तत्र कॢप्तत्वादनुगतत्वाच्च विशि 1 ष्टाभावरूपहेत्वाभास -

सव्यभिचारादयः इत्यसिद्धिरपि हेत्वाभासविशेषः। तद्विशेषा व्याप्यत्वासिद्ध्याश्रयस्वरूपासिद्ध्य 2 इत्यादिभेदेनासिद्धेस्त्रिविधत्वस्य प्रागुक्तेः। व्याप्यत्वासिद्ध्यनवान्तरभेदो हि व्याप्तिविशेषणासिद्धिव्याप्तिविशेष्यासिद्धी। तथा च तादृशावान्तरभेदमादाय हेत्वाभाससामान्यस्य सव्यभिचारविरुद्धादिरूपेण पञ्चेतिविभागकरणे स 3 त्यसिद्धिविशेषभूतस्वरूपासिद्धेरवान्तरभेदाः हेतुविशेषणासिद्धिहेतुविशेष्यासिद्धिविशिष्टहेत्वसिद्धी 4 रप्यादायापि
हेत्वाभासविभागप्रसङ्गः स्यात्। तथा च पञ्चेति विभागभङ्गः स्यादित्यर्थः॥
अतिप्रसङ्गान्तरं चाह -- हेत्वाभासविशेषस्येति॥ परमुखेन समाधिं वाचयित्वा सममित्याह -- तत्रेति॥ स्वरूपासिद्धिबाधस्थल इत्यर्थः। ननु विशेषणाद्यभावस्थले ऽप्यनुमितिप्रतिबन्द्यो दृश्यत इत्यत --
1.शिष्टाभाव एव दो-क.ट.रा. 2.द्धिभेदे -ठ. द्व्यादिभेदे -ट.ड. 3.तिये असिद्ध्यादि सिद्धिविशेष -ठ. 4.द्धीरादायापि -ठ.
विरुस्याव्यान्तर्वः) अनुमादोषवादः पु - 327.
एव दोषो विशेषणाद्यभावो ऽपि विशिष्टाभावोन्नयनद्वारैव दोष इति चेत् 1 समं प्रकृते ऽपि 2 ॥
किञ्च व्यधिकरणासिद्धेरदोषत्वप्रस्तावोक्तरीत्यान्यथानुपपत्तिरूपाव्यभिचार एव व्याप्तिः। न तु
तद्विशिष्टसामानाधिकरण्यमिति क्वांशभेदो ऽपि॥
तस्मात्साधारणासाधारणानुपसंहारिविरुद्धानां साध्याभावसंबन्धरूपायां, अन्यथोपपत्तिरूपायां वा, अव्याप्तावेवान्तर्भावः। तत्रापि साधारणविरुद्धयोर्व्याप्त्यभावो निश्चितः असाधारणानुपसंहारिणोस्तु सन्दिग्ध इति ज्ञेयम् ॥
आह -- विशेषणादीति॥ विशेष्याभाव आदिपादर्थः। प्रकृतेपीति॥ विरुद्धहेतावपीत्यर्थः। तथा चाव्याप्तिरिवेति भावः॥
ननु -- व्यभिचाराज्ञाने ऽपि सहचारविरहज्ञानेनाप्यनुमितिप्रतिबन्धो ऽस्तीति वदन्तं प्रत्यव्यभिचारसामानाधिकरण्यं व्याप्तिरित्यङ्गीकृत्योक्तम्। वस्तुतस्तु तदेव नास्ति। येन सामानाधिकरण्यविरहस्य 3 ज्ञानं प्रतिबन्धकमिति सो ऽपि पृथग्दोषः स्यादिति भावेनाह -- किञ्चेति॥ तद्विशिष्टं अव्यभिचारविशिष्टम्। पद्धतिविरोधमाशङ्क्य -
1.समं इति न-ट.रा. 2.कॢप्तत्वादनुगतत्वस्य विशेषणांशविरहरूपव्यभिचार एव दोषो ऽस्तु न तु स्वतन्त्र सामानाधिकरण्यविरहः केवलव्यतिरेकिण्य सत्वात् -
ट. ण्यपि स -ग.रा. इत्यधिकम्. हस्य प्रकृतेपि भावेनाह किञ्चेति इत्यस्ति -ट.ड.
पु - 328. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
यत्तु पद्धतौ विरुद्धः साध्यसंबद्धाभावे सति तदभावसंबन्धित्वादव्याप्तः। साधारणो ऽपि साध्यतदभावसंबन्धित्वादव्याप्तः। अनध्यवसितभेदावसाधारणानुपसंहारिणावुभयसंबन्धाभावादव्याप्ता 1 वन्तर्भवत इत्युक्तम्। तत्र स्वमते त्रिप्रकारा व्याप्तिः प्रत्येकं हेत्वाभास इति नाभिप्रायः। किं तु वस्तुगत्या विद्यमानायां परैः प्रत्येकं हेत्वाभासत्वेन स्वीकृतायां त्रिप्रकारायामव्याप्तावनुगता, स्वाभिमता, साध्याभावसंबन्धादिरूपा, अव्याप्तिरेकैव हेत्वाभासः विशेषणवैयर्थ्यादिदोषाभावादि 2 त्येवाभिप्रायः। पद्धतावपि साध्यसंबन्धाभावे सति तदभावसंबन्धित्वादे-
तदभिप्रायोक्त्या निराह -- यत्विति॥ तत्र हि पूर्वं स्वाभिमतदोषोक्तिप्रस्तावे हेतुविरोधो द्विविधः असिद्धिरव्याप्तिश्चेति, अव्याप्तिरपि त्रिविधा, लिङ्गस्य साध्येन तदभावेन च संबन्धः, साध्यसंबन्धाभावे सति तदभावेनैव सम्बन्धः, उभसम्बन्धाभावश्चेत्युक्त्वा परोक्तदोषप्रपञ्चनेनान्तर्भावोक्तिप्रस्तावे द्वितीयपरिच्छेदान्ते उक्तमित्यर्थः। तथाच तत्र साध्यतदभावसंबन्धवत्वादिरूपेण प्रत्येकहेत्वाभासत्वप्रतीतेस्तद्विरोध इति भावः। कुत एषोभिप्राय इत्यतो ज्ञापकं विपक्षे बाधकं चाह -- पद्धतावपीति॥ तथा चाव्याप्तिरेकैव दोष इति भावः।
1.प्तेन्त-रा. 2.त्यव्यभिचाराय -ग.रा.
विरुस्याव्यावन्तर्वः) अनुमादोषवादः पु - 329.
रव्याप्तिं प्रति हेतुत्वस्यैवोक्तेः। अन्यथा हि भङ्ग्यन्तरेण परोक्तप्रक्रियैव स्वीकृता स्यात्॥
सुधायामनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति
विपक्षवृत्तित्वादित्यर्थः। एवं विरुद्धत्वादित्यस्य सपक्षवृत्तित्वादित्यर्थः। न चात्र 1 विशेषणव्यवच्छेद्यमस्तीत्युक्तत्वेन तद्विरोधश्च स्यात्। त्रिप्रकारायाम-
अन्यथेति॥ पृथग्दोषत्वाभिप्राय इत्यर्थः। साध्याभावसंबन्धत्वेनैवानैकान्तिकत्वादेरेकदोषत्वमेव न पृथग्दोषत्वम्। अन्यथा परोक्तप्रक्रियाङ्गीकारापत्तिरित्ये 2 कं बाधकमुक्त्वा बाधकान्तरं चाह -- सुधायामिति॥ न चात्र विशेषणव्यवच्छेद्यमस्तीत्युक्त 3 भेदेन तद्विरोधश्च स्यादित्यन्वयः। अत्रेत्यनेन परामृश्यमानं दर्शयितुमुक्तं अनैकान्तिकत्वाद्विरुद्धत्वादिति। तयोर्यदि विपक्षवृत्तित्वमेवार्थस्तदा नचात्रेत्युत्तरवाक्यासाङ्गत्यमाशङ्क्य तयोरर्थोक्तिरित्यस्येत्यर्थ इति। युक्तिपादीयमसुधायां हि अव्याप्तिरूपहेतुदोषोनैकान्तिकत्वदेरन्तर्भावतयाव्याप्तित्वेनैव दोषत्वं वक्तुपुपक्रम्य पृथग्दोषत्वं दूषणमुच्यते इदमसाधकं अनैकान्तिकत्वाद्विरुद्धत्वादिति त्वया वाच्यम्। न चात्र विशेषणव्यवच्छेद्यमस्तीत्युच्यते पृथग्दोषत्वे तदुक्तिविरोधः। अन्योन्यस्य व्यवच्छेद्यत्वसम्भवादिति भावः॥
नन्वव्याप्तेरुक्तत्रिप्रकारानुगतमव्याप्तित्वरूपसामान्यं कुत उपेयम्। त्रिरूपैवास्त्वव्याप्तिरित्यत आह-- त्रिप्रकारेति॥ साध्यतदभावसम्बन्धि-
1.त्रापि -ग.रा. 2.त्यत्रैकं -ड. 3.क्तत्वेन त -ट.ड.
पु - 330. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्याप्तावनुगतैकरूप्या 1 भावे हेत्वाभासाधिक्यं च स्यात्। सत्वे चानुगतेन लघुना साक्षाद्व्याप्तिधी 2 विरोधिधीविषयेण च तेनैवासाधकता साध्यताम्। किं वस्तुतः सताप्यनुगत्यादिरहितेनेतरेणांशेन॥
2 विरुद्धस्याव्याप्तावन्तर्भावः ॥ 3.3 ॥
त्वादित्रिप्रकारेत्यर्थः। अनुगतैकरूपस्येति॥ साध्याभावसम्बन्धित्वरूपस्य वान्यथोपपत्तिरूपस्य वा प्रागुक्तस्येत्यर्थः। अत एव पूर्वं स्वाभिमतदोषोक्तिप्रस्तावे
व्याप्तिविरहो ऽव्याप्तिरिति व्याप्तिविरहत्वमनुगतैकरूपमुक्तम्। आधिक्यमिति॥ हेतुविरोधो द्विविधः असिद्धिरव्याप्तिरिति प्रमाणलक्षणादौ यद्वैविध्यं हेतुदोषस्योक्तम्। तन्न स्यात्। किन्तु चातुर्विध्यरूपाधिक्यं च स्यादित्यर्थः। सत्वे 4 चेति॥ अनुगतैकरूपस्येत्यनुकर्षः। प्रागुक्तसाध्याभावसम्बन्धवत्वादिरूपस्येति भावः। इतरेण साध्यसम्बन्धाभावादिनेत्यर्थः ॥ 3.4 ॥
विरुद्धस्याव्याप्तावान्तर्भावः ॥ 3.4 ॥
1.स्यासत्वे -क.ट.रा. 2.विरोधपदं न -क.रा. 3.मण्युक्तहेत्वाभाससङ्करभङ्गः इत्यस्तु -क.
1-7-2001.
पते-वास्य-व्यचार-संरः) अनुमादोषवादः पु - 331.
अथ परमते बाधस्य व्यभिचारसङ्करः ॥ 3.4 ॥

यच्चोक्तं मणौ -- बाधस्यादोषत्वे वस्तुतो माहानसीयः प्रसिद्धौ वह्निः पर्वते वह्नित्वेन सिध्येत्। पर्वते वह्निजातीयस्य सत्वेन व्यभिचाराभावात्। पर्वते महानसीयो वह्निर्नास्तीति प्रत्यक्षबाधात्तु न सिध्यतीति बाधस्य व्यभिचारासङ्कर इति। तन्न। वर्वते महानसीयो वह्निर्ना-
अथ परमते बाधस्य व्यभिचारसङ्करः ॥ 3.5 ॥
स्वमते बाधस्य व्यभिचारासाङ्कर्यं 1 तद्रीत्यनुसरणे तत्साङ्कर्यमेव प्राप्नोति। तथा च बाधस्य पृथग्दोषत्वहानेः 2 पञ्चेति हेत्वाभासविभागभङ्ग इति भावेनाह -- यच्चेति॥
ननु पर्वतीयधूमस्य महानसीयवह्न्यभावसामानाधिकरण्येन व्यभाचिरान्न तेन महानसीयवह्निः सिध्यतीत्यत आह -- पर्वत इति॥ व्यापकतावच्छेदकतावच्छिन्नव्यापकाभावसामानाधिकरण्यस्यैव व्यभिचारत्वाद्वह्नित्वस्य व्यापकतावच्छेदकत्वेन तदवच्छेदेन 3 अत्र तस्य सत्वादित्यर्थः। तर्हि कुतो न सिध्यतीत्यत आह -- पर्वत इति॥ त्वदुक्तप्रत्यक्षस्य पर्वतीयवह्न्यनुमितिं प्रति 4 बाधकत्वमेव नास्ति। कथं तस्य बाधत्वेन पार्थक्यमिति भावेन निराह -- तन्नेत्यादिना॥
1. त्यननु -ट.ठ. 2.नेन प-ट.ड. 3.तत्रेति न -ठ.ड. 4.प्रति प्रतिबन्धकत्व -ठ.ड.
पु - 332. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
स्तीति प्रत्यक्षस्य पर्वते वह्निरस्तीति प्रत्यक्षशाब्दबोधौ प्रतीव पर्वते वह्निरित्यनुमितिं प्रत्यपि भिन्नविषयकत्वेनाबाधकत्वात् । यथा हीन्द्रियं स्वसन्निकृष्टविषयकज्ञानजननस्वभावम्। तथा लिङ्गमपि स्वसमानाधिकरण 1 लिङ्गिविषयकज्ञानजननस्वभावम्। समानाधिकरणयोर्लिङ्गलिङ्गिनो 2 र्हि
व्याप्तिः॥
एवं तर्हि महानसीयवह्निविषयानुमितिः कुतो न जायते पर्वतीयवह्निविषयैव कुतो जायत इत्यतो न त्वदुक्तबाधदोषबलात् किं तु लिङ्गस्य व्याप्तिप्रकारमपेक्ष्य लिङ्गिज्ञानजनकत्वं स्वभाव इति स्वभावबलादेवेति भावेन दृष्टान्तपूर्वमाह -- यथा हीति॥
यद्वा भिन्नविषय 3 कत्वेनेत्युक्तम् । तदसिद्धम्। बाधस्यादोषत्वे समानविषययत्वस्यैव प्रत्यक्षानुमित्योर्बाधकबाध्यत्वाभिमतयोः स्यादित्यतः स्वभावकृतमेव भिन्नविषयत्वमित्याह -- यथा हीति॥ तथा च सामग्र्यभावादेव महानसीयवह्न्यसिद्ध्युपपत्तौ किं बाधवशेन तदसिद्धिकल्पनया। अत एव पद्धतौ"पर्वते धूमं दृष्टान्तो ऽपि कथमन्यत्रा 4 नुमित्यनुद्भवः। व्याप्तिप्रकारमपेक्ष्य लिङ्गस्य लिङ्गिज्ञानजनकत्वनियमात्। तथा हि-- कयोश्चित्समानदेशत्वे ऽपि भिन्नकालीनयोः व्याप्तिः। यथा धूमस्याग्निने"त्याद्युक्तम्। 5 तत्रान्यत्रानुद्भव इत्युपलक्षणम्। कथमन्यदीयाग्निप्रमानुद्भव इत्यपि ध्येयमिति भावः॥
1.रणजननस्वभा-ग.रा. 2.नोर्व्या-क.ग.ट. 3.यत्वेन-ट.ड. 4.त्रानुद्भव-ट.ड. त्राग्निप्रमानुद्भ-ठ. 5.पद्धतौ कथमन्यत्राग्निप्रमानुद्भवः -ठ. पद्धतौ तत्रान्यत्राग्निमा -ड.
पते-बास्य-व्यचार-संरः) अनुमादोषवादः पु - 333.
अस्तु वा प्रत्यक्षानुमित्योः समानविषयकत्वं तथापि न तन्मात्रं बाधत्वे तन्त्रम्। किन्तु समानप्रकारकत्वमपि । घटवत्येव गेहे घटो नास्तीति भ्राम्यतो ऽपि गेहे प्रमेयमस्तीति प्रमया तत्र सतो घटस्यापि प्रमेयत्वेन ग्रहणदर्शनात्। पर्वतेतरवृत्तिर्वह्निः पर्वते नास्तीति प्रमावतो ऽपि पर्वतो वह्निमानिति भ्रान्तिरूपानुमितिदर्शनाच्च।
ननु प्रतियोग्यसमानाधिकरणयत्समानाधिकरणेत्यादिमण्युक्तसामान्यव्याप्तिलक्षणपक्षे
व्यधिकरणधूमवह्न्योरपि व्याप्ति 1 रस्त्येवेति पर्वतीयधूमो महानसीयवह्निज्ञानजननस्वभाव एवेति भिन्नविषयत्वस्वभावो नेति चेन्न। तस्य लक्षणस्य निरस्तत्वात्। अत एव समानाधिकरणलिङ्गेत्युक्तम्। तुष्यतु दुर्जन इत्यभ्युपेत्यापि बाध्यबाधकभावो न युक्त इत्याह -- अस्तु वेति॥ महानसीयवह्निः पर्वते नास्तीति प्रत्यक्षस्य पर्वतो वह्निमानित्यनुमिते 2 रित्यर्थः। कुत इत्यर्थः समानविषयत्वं ज्ञानस्य भ्रमरूपज्ञानस्य वा प्रमारूपज्ञानस्य वा ज्ञानान्तरबाधकत्वे तन्त्रम्। आद्ये दोषमाह-- घटवतीति॥ अन्त्य आह -- पर्वतेति॥ यद्वा समानविषयकत्वं ज्ञानस्य किं तादृशप्रमाबाधने तन्त्रम्। उत भ्रान्तिबाधने। आद्य आह -- घटवतीति॥ अन्त्य आह -- पर्वतेति॥ अत्यन्तासदेव भ्रान्तासदेव भ्रान्तावरोप्यत इति सिद्धान्ते समानविषयक 3 त्याभावे ऽपि मणिकृन्मते तदस्तीत्याह --
1.रस्तीति -ड. 2.श्चेत्यर्थः- ट.ठ.ड. 3.यत्वा -ठ.ड.
पु - 334. न्यायदीपयुततर्कताण्डम् (तृ.परिच्छेदः
देशान्तरे सन्नेव भ्रान्तिविषय इति त्वन्मते पर्वतेतरवृत्तिवह्नेरेव भ्रान्तिरूपानुमितौ पर्वतवृत्तिवह्नित्वेन भानात्॥
किं 1 चास्ति बाधो ऽत्र 2 चेद्व्यभिचारो ऽप्यस्त्येव। बाधितसाध्यके हेतुवृत्तेरेव व्यभिचारत्वात्॥
अपिच 3 यदि बाधादेव महानसीयवह्नेरसिद्धिः। तर्हि बाधानवतारदशायां स सिध्येत्॥
देशान्तरे इति॥ समानप्रकारकत्वाभावान्न त्वदुक्तप्रत्यक्षस्य बाधकतेत्युक्तम्। कॢप्तव्यभिचाररूपदोषादेव महानसीयवह्न्यसिद्ध्युपपत्तौ न तदर्थं बाधस्य दोषतेत्याह -- किञ्चेति॥
यद्यन्यनिष्ठलिङ्गस्य स्वसमानाधिकरणसाध्यविषयानुमितिजनने इवान्यनिष्ठसाध्यगोचरानुमितिजनने ऽपि शक्तिमुपेत्य बाधरूपदोषादेव तदभावं मन्यसे तदा दोषान्तरं चाह -- अपि चेति॥ स इति॥ महानसीयवह्निः।
सामग्री 4 सद्भावात्प्रतिबन्धाभावात्। अन्यथा पर्वतीयचवह्निसिद्धिरपि न स्यात्। सामग्र्याः प्रतिबन्धाभावस्य चोभयत्र तुल्यत्वात्। तस्मात्तदंशे व्यधिकरणधूमादेः शक्तिरेव नेति भिन्नविषयत्वेन प्रागुक्तप्रत्यक्षानुमित्योः न बाध्यबाधकाभाव इत्येव युक्तः पन्था इति भावः। पराभिमतं बाधस्यासङ्कीर्णमुदाहरणान्तरमप्यनूद्य निराह--
1.चात्र -क.ग.ट.रा. 2.धो ऽस्ति-क.ग.ट.रा. 3.यत् इत्यधिकम्-क.ग.ट.रा. 4. ग्रीप्रतिबन्धाभा -ट.ठ.ड.
पते-बास्य-व्यचार-संरः) अनुमादोषवादः पु - 335.
एतेनेति ॥ निरस्तमित्यन्वयः। गन्धः सिध्येदिति॥ लिङ्गमपि 3 स्वसमानाधिकरणलिङ्गिविषयकज्ञानजननस्वभावमित्यादिप्रागुक्तसाग्र्याः सत्वादिति भावः॥
ननु सामग्रीसत्वे ऽपि व्यभिचाररूपकॢप्तदोषादेव तत्र गन्धासिद्धिरित्यत आह -- गन्धेति॥ साध्यप्रागभाववद्गामित्वं न व्यभिचारः। किं तूक्तरूप एव। स च तत्र नास्ति। प्रागभावेन विरोधात्। अग्रे गन्धानुदयापाताच्चेति भावः। कथं तर्हि तत्र बाध इत्यत आह -- प्रागभावेति॥ साध्यसंसर्गाभावप्रमाया एव
बाधशब्दार्थत्वादिति भावः। अस्तीतीति॥ इति 4 इति च दोषद्वयस्येत्यन्वयः। बाधितसाध्यके हेतुवृत्तेरेव व्यभिचारात्वात्। तथा समानाधिकरणसाध्यगोचरप्रमाजननस्वभावत्वाच्च। बाधस्य चानवतारादिति भावः। कथं तर्हि तत्र गन्धसिद्ध्यभावः। बाधस्य च त्वया तत्र दोषत्वानङ्गीकारादिति चेत् गन्धप्रागभाववति गन्धापादकसामग्र्या अभावा-

1.अपि पदं न-क.ग.ट.रा. 2.अपिपदं न -क.ग.ट.रा. 3.पि समा -ठ.ड. 4.एकं इति पदं न -ट.ठ.
पु - 336. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
किं च प्रागभाववति काले गन्धापादनं न ताव 1 त्सिषाधयिषामात्रेण। शब्दस्य तात्पर्पारतन्त्र्यवदनुमानस्य सिषाधयिषापारतन्त्र्याभावात्॥
नापि गन्धप्रागभावावच्छिन्नत्वस्य पक्षतावच्छेदकत्वमात्रेण तदापादानम्। पक्षतावच्छेदकस्य हि यत्र पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिबलेन साध्यस्य समानदेशत्वाक्षेप एव सामर्थ्यम्। न तु स्वसमानकालीनत्वापेक्षे ऽपि॥
नापि यदा पृथिवीत्वं तदा गन्ध इति व्याप्तिबलात्ततापादनम्। गन्धप्रागभावध्वंसदशायां पृथिवीत्वस्य सत्वे ऽपि गन्धाभावात्॥
ननु -- तथापि हेतुः स्वावच्छिन्नदेशकालीनसाध्यतावच्छेदस्वभावः। न हि धूमेन वह्निः सिध्यन्नर्वाग्भागे काले 2 च सिध्यति।
देवेति भावेन का तत्र तव सामग्री अभिमता। गन्धप्रागभावकाले ऽपि गन्धसाधनेच्छामात्रं वा गन्धप्रागभावस्य पक्षतावच्छेदकमात्रं वा यदा पृथिवीत्वं तदा गन्ध इति व्याप्तिर्वा स्वावच्छिन्नदेशकालीनसाध्यबोधकस्वभावो वा यदा पृथिवीत्वं तदा गन्धप्रागभावकालीनगन्धवानिति व्याप्तिर्वा। आद्यं तावन्निराह -- न तावदित्यादिना॥ व्याप्तिपक्षधर्मतामात्रपारतन्त्र्यादिति भावः। द्वितीयं निराह -- नापीति॥ स्वसमानदेशत्वाक्षेप एवेति॥ स तु प्रकृते न बाधित इति भावः। तृतीयं निराह -- 3 नापि यदेति॥ चतुर्थमाशङ्कते -- नन्विति॥
1.तथेत्यधिकम् -क.ग.ट.रा. 2.कालान्तरे च -क.ग.ट.रा. 3.नापीति नास्ति -ट.ठ.ड.
पते-वास्य-व्यचार,सङ्करः) अनुमादोषवादः पु - 337.
तथा च पृथिवीत्वमपि स्वावच्छिन्ने गन्धप्रागभावकाले गन्धं बोधयेदेव। बाधात्तु न बोधयतीति चेन्न। यत्र यदा यदवच्छेदेन धूमस्तत्र तदा तदवच्छेदेन वह्निरिति व्याप्तिरेव हि तत्रास्ति। प्रकृते तु 1 यत्र यदा यदवच्छेदेन पृथिवीत्वं तत्र 2 तदा तदवच्छेदेन गन्ध इति व्याप्तिर्नास्तीत्युक्तम्॥
अथ 3 प्रागभावावच्छिन्नत्वं न पक्षविशेषणम्। किं तु घटः गन्धप्रगभावकालीनगन्धवानिति साध्यविशेषणमिति चेन्न। यदा पृथिवीत्वं तदा
गन्धप्रागभावसमानकालीनगन्ध इति व्याप्तेरभावात्॥
एतेन धूमानुमाने दैवानुपनीतकाञ्चनपयत्वस्य वह्निविशेषणत्वेन भाने ऽनुमितेरप्रमात्वा 4 दप्रमात्वस्य च दोषाधीनत्वादन्यस्य च दोषस्याभावाद्बाध एव -
उक्तमिति॥ गन्धप्रागभावध्वंसदशायामिति पूर्वग्रन्थेनेति भावः। पञ्चममपि निरसितुमशङ्कते -- अथेति॥ व्याप्तेरभावादिति॥ यदा पृथिवीत्वं तदा घटीयगन्धप्रागभावसमानकालीनो गन्धः घटीय इति व्याप्तेः सत्वे ऽपि समानाधिकरणतादृशगन्धेन व्याप्तेरभिमतत्वात्। तस्याश्चाभावात्। अन्यथा छलवादापातादिति भावः। अन्यदपि
पराभिमतसङ्कीर्णोदाहरणमनूद्य निराह -- एतेनेति॥ दोषाधीनत्वादिति॥
1.यत्र इति न- क.ग.ट.रा. 2.तत्र इति न- क.ग.ट.रा. 3.गन्ध इत्यधिकम् -ट. 4.त्वात्तदप्र - रा.
पु - 338. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
दोषो वक्तव्य इति निरस्तम्। बोधो ऽस्ति चेद्व्यभिचारो ऽप्यस्तीत्यादिना दोषद्वयस्योक्तत्वात्॥
किं च व्याप्तिपक्षधर्मताज्ञानाविषयस्याप्युपनीतस्यानुमितौ भाने यथार्थानुमितिः, जयपराजयादिव्यवस्था, अनुमितौ व्याप्तिज्ञानापेक्षा चोच्छिद्येत। न च वह्न्युपनयार्थमेव व्याप्तिज्ञानापेक्षा। 1 प्रायिकसहचारदर्शनमात्रेणाप्युपनयसिद्धेः॥
नन्वथापि लिङ्गपरामर्शनिष्पत्त्यनन्तरं प्रत्यक्षादिबाधेनानुमितेरप्रमात्वं दृश्यते। तत्र च दोषान्तराभावाद्बाध एव दोष इति चेन्न।
अप्रामाण्यस्य परतस्त्वादिति भावः। अन्यस्य वाभावादित्यसिद्धमिति भावेनाह -- बाधो ऽस्ति चेदिति॥ बाधितसाध्यके हेतुरित्येव व्यभिचारत्वादित्यादिनोक्तत्वादित्यर्थः॥
ननु सत्यपि तत्र व्यभिचारे तदप्रतिसन्धानदशायां काञ्चनमयो न भवति वह्निरिति बाधप्रतिसन्धाने ऽपि तादृशानुमितेरप्रमात्वावगमात्सो ऽपि पृथग्दोष एवेति चेद्भासकसामग्र्यभावेन तथानुमितिरेतवायुक्तेत्येतद्विपक्षे बाधमुखेनाह -- किञ्चेति॥ ज्ञानविषयस्यापि तादृशज्ञानबलालभ्यस्यापीत्यर्थः। यथार्थेति॥ सर्वत्राप्यनुमितौ यत्किञ्चिदविद्यमानस्य साध्यविशेषणस्य भानसंभवादिति भावः। जयेति॥ सर्वत्रानुमितावयाथार्थप्राप्तावयमनुमानप्रयोक्ता सदनुमानवादीति जयी, अयं चासदनुमानप्रयोक्तृत्वादपजयीति न स्यादित्यर्थः। अनन्यगत्या बाधस्य दोषत्वं वाच्यमिति शङ्कते -- नन्विति॥
1. प्रापक - ग.ट.
पते-बास्य-व्यचारः-सङ्करः) अनुमादोषवादः पु - 339.
निष्पन्नेप्यर्थनिश्चये तदप्रामाण्यनिश्चयेन पुनरप्यर्थनिश्चयविघटनवन्निष्पन्ने ऽपि परामर्शे बाधेन पुनरपि परामर्शविघटनस्यावश्यकत्वेनासिद्धि व्यभिचारयोनन्यतरस्य सत्वात्॥
ननु तथापि व्यभिचारशरीरप्रविष्टसाध्याभावनिश्चयः स्वप्रमात्वनिश्चयाधीन इत्युपजीव्यः। प्रमात्वनिश्चरूपो बाधः पृथगीति चेन्न। साध्याभावरूपार्थसत्वघटितप्रामाण्यनिश्चयस्य अर्थसत्व 1 नि-
दोषान्तरासत्वोपपादनायोक्तं परामर्शनिष्पत्त्यनन्तरमिति। तदनिष्पत्तावसिद्ध्यादिरेव दोषस्तत्र भविष्यतीति भावः। दोषान्तरसत्वान्न बाधस्य त्तर दोषत्वं कल्प्यमिति 1 परिहरति-- निष्पन्ने ऽपीति॥ बाधेन साध्याभावप्रमारूपबाधेनेत्यर्थः। परामर्शेति॥ साध्यव्याप्यहेतुमानयमिति परामर्शेत्यर्थः। असिद्धिव्यभिचारयोरिति 2 ॥ व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः। तदभावो ऽसिद्धिरित्युक्तेः। बाधितसाध्यके त्ववृत्तिरूपत्वाव्द्यभिचारस्येति भावः। पराभिमतं प्रकारान्तरेण बाधस्य दोषत्वमाशङ्कते -- नन्विति॥ तथापीति॥ दोषान्तरसाङ्कर्येपीत्यर्थः। प्रमात्वेति॥ साध्याभावज्ञानस्य प्रमात्वनिश्चयरूप इत्यर्थः। साध्याभावरूपार्थनिश्चयं प्रति तत्प्रमात्वनिश्चस्य
नोपजीव्यता। येन साध्याभावनिश्चयद्वारा निश्चितसाध्याभाववद्वृत्तित्वरूपव्यभिचारेप्युपजीव्यता स्यात्। किं तु अर्थनिश्चय्यैव स्वप्रमात्वनिश्चये उपजीव्यतेति वैपरीत्यमेवेति निराह -- साध्याभावेति॥ अर्थनिश्चकत्वस्य प्रमात्वनिश्च-
1.भावेनेत्यधिकम् -ट.ठ.ड. 2.इदंप्रतीकग्रहणं नास्ति -ट.ठ.ड.
पु - 340. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
श्चयाधीनत्वेनार्थनिश्चयस्यैवोपजीव्यत्वात्। त्वन्मते ऽप्रामाण्यशङ्कारहितज्ञानस्यैवार्थनिश्चयकत्वेनापसिद्धान्ताच्च। परतः पक्षे अनवस्थानाच्चः॥
तस्मात्परमते बाधस्य व्यभिचारासङ्करे न युक्तः। अस्मन्मते तु बाधस्य प्रतिज्ञादोषत्वेन व्यभिचार 1 शङ्कैव नास्तीति प्रागेवोक्तम्। व्याप्यत्वासिद्धेर्व्यभिचारासङ्कीर्णमुदाहरणं नीलधूमादित्यादिकमितित्वीश्वरवादे निरस्तम्। आश्रयासिद्धेः स्वर्णमयोद्रिरग्निमानित्यादिकमुदाहरण 2 मप्याश्रयासिद्धेरदोषत्वप्रस्तावे निरस्तम्॥

परमते बाधस्य व्यभिचारसङ्करः ॥ 3.4 ॥
यायत्तत्वे दोषान्तरमाह -- त्वन्मत इति॥ अर्थनिश्चयस्य प्रामाण्यनिश्चयायत्तत्व इत्यत्र दोषान्तरमाह -- परत इति॥ साध्याभावरूपार्थनिश्चयस्तत्प्रामाण्यनिश्चयाधीनः प्रामाण्यनिश्चयस्य प्रामाण्यग्राहकस्य प्रामाण्यनिश्चयाधीन इत्येवं रूपेणानवस्थेति भावः॥
परमते बाधस्य व्यभिचारसङ्करः ॥ 3.5 ॥
1. सङ्करेत्यधिकम् -क.ग.रा. 2.णमित्यस्य-ग.रा.
उनोक्त-हेसासं-रङ्गः) अनुमादोषवादः पु - 341.
उदयनोक्तहेत्वाभासासङ्करभङ्गः ॥ 3.5 ॥
उदयनेन तु निबन्धे सव्यभिचारस्य कोटिद्वयोपस्थापकतया साध्यतदभावसंशयः फलम्, विरुद्धे साध्याभावासिद्धिः, बाधे तु पक्षधर्महेतौ व्याप्तिबाधः, सत्प्रतिपक्षत्वे किमत्र तत्वमिति जिज्ञासा, असिद्धे तच्चतुष्टयान्याल्लिङ्गत्वज्ञानमिति फलमुख 1 लक्षणमुक्तम्। तदपिन । इदं हि लक्षणं किं स्वरूपसिदत्येतावन्मात्रेणोच्यते असाधकतालिङ्गत्वेन वा । नाद्यः। तस्य हेत्वाभासविभागो 2 पाधित्वं -
उदयनोक्तहेत्वाभासासङ्करभङ्गः ॥ 3.6 ॥
मण्याद्युक्तरीत्या पञ्चानां हेत्वाभासानामसाङ्कर्यं नेत्युपपाद्योदयनमते ऽप्यापाततोसाङ्कर्यप्रतीतावपि तदयुक्तमिति भावेन तदुक्तमनूद्य निराह -- उदयनेन त्विति॥ विबन्धे निबन्धाख्यग्रन्थे ॥ कोटिद्वयेति॥ साधारणानैकान्तिकस्य साध्यतदभावाभ्यां सहचारे असाधारणानुपसंहारिणोरुभाभ्यां सहचाराभावेनेति ध्येयम्। प्राचां मते ऽसाधारणानुपसंहारिणोरनध्यवसितप्रभेदत्वेन पृथगुक्तेः साधारणानैकान्तिक एव सव्यभिचारशब्देन ग्राह्यः। किमत्रेति ॥ 3. द्वयमध्ये किं तत्वं निर्देषत्वमित्यर्थः। तच्चतुष्टयेति॥ सव्यभिचारादिचतुष्टयान्यत्वे सत्य-
1.खंल-क.रा. 2.सोपा -ट. 3.यदद्वय-ट.ठ.ड.
पु - 342. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
नास्तीत्युक्तत्वात्। द्वितीये हि 1 सव्यभिचारे इदमसाधकं संशयजनक्तवादिति, विरुद्धे साध्याभाव 2 साधकत्वादिति, बाधे तु बाधितव्याप्तिकत्वादिति, सत्प्रतिपक्षे 3 तु जिज्ञासाजनकत्वादिति, असिद्धे
चतुष्टयान्यालिङ्गत्वज्ञानजनकत्वादिति, प्रयोक्तव्यमा। तत्र च संशयजनकं साध्याभावबुद्धिजनकत्वं च किं फलोपाधानं विवक्षितं योग्यता वा। नाद्यः। 4 असाधारणत्वादिग्रहकाले कुतो ऽपि निमित्तात्संशयसाध्याभावबुद्ध्योरनुत्पत्तौ उत्पत्तदव्यप्रमितौ चासाधकताहेतोरसिद्धिः 5। बाधप्रतिरोधयोस्तु
प्रत्यक्षादाविवानुमितावपि साक्षाद्विषयापहारिणोः पुनः परावृत्या 6 द्रविडमण्डकन्याये करणसामर्थ्यविघटकहेत्वाभासान्तरसंपादनेनाव्याप्तिजिज्ञासाजननाभ्यामसाधकतानुमापकत्वकल्पनमत्यन्तायुक्तम्॥
लिङ्गत्वज्ञानमित्यर्थः। उक्तत्वादिति॥ यद्रूपेण हि ज्ञानमनुमितिप्रतिब्धकमित्यादिना पञ्चहेत्वाभास 7 तेत्येत्खण्डनप्रस्तावे उक्तत्वादित्यर्थः। असिद्धेरिति॥ आद्ये लिङ्गस्वरूपस्यैवाभावात्। द्वितीये लिङ्गसत्वे ऽपि तत्प्रमित्यभावेन 8 प्रमित्यसिद्धेरत्यर्थः। द्रविडमण्डकेति॥ विवृत 9 स्त्वयं न्या उदयनोक्तवक्त्रभिप्रायविध्यर्थभङ्गे। अत्यन्तायुक्तमिति॥
1.येस -क.ग.रा. 2.वबोध-का.ग.ट.रा. 3.तु इति न-क.ग.रा. 4.साधार -क.ग.रा. 5.द्धेः -क.ग.रा. 6.त्यद्र-ट.रा. 7.सा इ-ठ.ड. 8.तत्प्रमि- ट.ठ.ड. 9.तश्चायं -ट.ड.
उनोक्त-हेसासं-रङ्गः) अनुमादोषवादः पु - 343.
किञ्च सत्पतिपक्षे जिज्ञासाजनकस्येष्टसाधनत्वज्ञानस्याभावेन वा, अत्यन्ताभीष्टविषयकप्रबलजिज्ञासान्तरप्रतिबन्धेन वा, किं तत्वमिति जिज्ञसाया अनुत्पत्तौ असाधकत्वहेतोरसिद्धिः स्यात्। असिद्धेप्येतच्चतुष्टयान्यालिङ्गत्वं नसाधकतासाधकम्। तदज्ञाने ऽपि स्वरूपासिद्ध्या 1 दावेकैकज्ञानेनासाधकतानुमितिदर्शनात्। नान्त्यः। योग्यताया विपक्षवृत्तित्साध्याभावव्याप्यत्वादिरूपत्वात्। तस्य चाव्याप्तावान्तर्भावस्योक्तत्वात्। बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वस्यैव निरासाच्च॥
उदयनोक्तहेत्वाभासासङ्करभङ्गः ॥ 3.5 ॥
हेतुदोष 2 त्वमेवायुक्तं एवंरूपेण कल्पनं त्वत्यन्तायुक्तमित्यर्थः। तथा च द्वयोः प्रतिज्ञार्थप्रमाणविरुद्धत्वेनैकस् रूपेण प्रागुक्तदिशा प्रतिज्ञादोषत्वमेवेति भावः। अस्मिन् पक्षे ऽसाधकतानुमानानुत्थानं प्रतिपक्षे स्यादिति दोषान्तरं चाह -- किं
चेति॥ इष्टेति॥ जिज्ञासा हि ज्ञानेच्छा फलादन्यत्रेच्छा चेष्टसाधनत्वज्ञाने सति भवति। किमनयोस्तत्वमिति ज्ञानस्येष्टसाधनत्वज्ञानं तज्जनकमिति जिज्ञासाजनकस्येष्टसाधकत्वज्ञानस्येत्युक्तम्। असिद्धिः स्यादिति॥ जिज्ञासाजनन 3 रूपफलस्य तदानीमभावेन किं तत्वमिति जिज्ञासाजनकत्वादिति हेतोरभावादिति भावः। योग्यता वेति पक्षं निराह -- नान्त्य इति॥ हेत्वाभास-
1.द्ध्यैकैक -क.ग.ट. 2.षमेवा-ट.ठ.ड. 3.जननस्वरूपयोग्यत्वहेतुरभिमत इति युक्तम्. तस्योत्तीर्णतादशायामपि भावादिति भावः इत्यस्ति - ठ.ड.
पु - 344. न्यायदीपयुततर्कताण्जवम् (तृ.परिच्चेदः
मणिकण्ठोक्तहेत्वाभासासङ्करभङ्गः ॥ 3.6 ॥
एतेन यदुक्तं मणिकण्ठे-- सूत्रोक्तरीत्या हेत्वाभासाः पञ्चैव। अनुपसंहारी तु व्याप्यत्वासिद्धावन्तर्भूतः । तत्र यद्यपि विरुद्ध 1 द्वये च व्याप्तिप्रमाव्यतिरेको ऽस्ति। तथाप्यनैकान्तिकयोः
संशयकारणसाधारणासाधारणधर्मज्ञाननिबन्धनः प्रमाव्यतिरेकः। विरुद्धे तु साध्यासमानाधिकरणधर्मग्रहनिबन्धनः।
त्वस्येति॥ हेतुदोषत्वस्येत्यर्थः। कुतोन्तर्भावबहिर्भावचिन्तत्येवाकारार्थः 2 ॥
उदयनोक्तहेत्वाभासासङ्कर 3 भङ्गः ॥ 3.6 ॥
मणिकण्ठोक्तहेत्वाभासासङ्करभङ्ग ॥ 3.7 ॥
हेत्वाभासपञ्चकस्यान्योन्यासाङ्कर्यं मणि 4 कण्ठोक्तमनूद्य निराह -- एतेनेति॥ सूत्रेति॥ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा इति गोतमसूत्रोक्तेरित्यर्थः। पञ्चत्वाक्षेपसमाधी मणिकण्ठोक्तावेवानुवदति -- तत्र यद्यपीति॥ पञ्चसु मध्य इत्यर्थः। अनैकान्तिकद्वये चेति॥ साधारणरूपे इत्यर्थः। साधारणासाधारणेति॥ साधारणधर्मासाधारणधर्मविप्रतिपत्तिभेदेन त्रीणि संशयकारणानि। तत्र साधारणानैकान्तिकेसाधारणधर्मज्ञाननिमित्तको व्यतिरेकः,
1.द्धे अनैकान्तिकद्वये -क.ग.ट. 2.रः -ट.ठ.ड. 3.सासाङ्कर्य-ट.ठ.ड. 4.कर्णोक्त -ट.
मकक्त-हेभासासं-ङ्गः) अनुमादोषवादः पु - 345.
तत्रोपजीव्यत्वात्तेषामेवोद्भावनम्। न तु प्रमाव्यतिरेकस्यासिद्धस्येति तदपि निरस्तम्। साधारणादेर्धर्मस्य हि साधारणत्वादिज्ञानं संशयहेतुः। साधारणत्वं च सपक्षविपक्षवृत्तित्वम्। तत्र च विपक्षवृत्तित्वमेवाव्याप्तिरिति सैवोद्भाव्या। न तु 1 सपक्षवृत्तित्वमपि। वैयर्थ्यादित्युक्तं साधारणप्रस्तावे॥
एवमसाधारणत्वमपि सपक्षविपक्षव्यावृत्तत्वम्। तत्र च वृत्तिमतः सपक्षव्यावृत्तव्वं सन्दिग्धाव्याप्तिरिति सैवोद्भाव्या। न तु विपक्षव्यावृत्तत्वमपि। वैयर्थ्यादित्युक्तमसाधारण 2 प्रस्तावे॥

एवं साध्यासामानाधिकरण्यमपि यत्र हेतुस्तत्र साध्यमिति सामानाधिकरण्याभावः। स च हेतुमति साध्याभावात्मकत्वादव्याप्तिरेवेत्युक्तमनुपसंहारिप्रस्तावे॥
असाधारणधर्मज्ञाननिबन्धनो ऽसाधारणानैकान्तिके व्याप्तिप्रमाव्यतिरेक इति तयोर्भेदः। तेषामेवेति॥ साधारणा 3 साधारणधर्मसाध्यसमानाधिकरणधर्माणामेवेत्यर्थः॥ साधारणत्वादिज्ञानमिति॥ अन्यथा पर्वतो ऽग्निमान् 4 पक्षत्वादित्यादौ प्रमेयत्वेनेव वृक्षत्वरूपेण वा जाते ऽपि ज्ञाने साध्यसंशयापत्तेरिति भावः। साधारणेति॥ साधारणस्याव्याप्त्यन्तर्भाप्रस्ताव इत्यर्थः॥
1.तुप -क. 2.सपक्षविपक्षेत्यारभ्य एतावान् ग्रन्थः नास्ति-ग.रा. 3.णधर्मसा -ट.ठ. 4.वृक्षवत्वादि -ट.ड.
पु - 346. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेद-
किं चैवं सति व्याप्तस्य पक्षधर्मत्वाप्रमितिरूपासिद्धिरप्याश्रयहेतुस्वरूपतद्विशेषणासत्वज्ञाननिबन्धनेत्याश्रयासत्वादीनामपि हेत्वाभासान्तरत्वं स्यात्॥
ननुचाभावज्ञानाद्भाप्रमाव्यतिरेकः सर्वत्रनैतावतासाधारण 1 त्वं सिध्यति 2 यच्चेह निरूप्यत इति चेन्न। व्यभिचारस्यापि व्याप्त्यभावरूपत्वेनाभावज्ञानाद्भावरूपव्याप्तिप्रमाविरह इति साम्यात्॥
एवमग्रे ऽपि। उपजीव्यत्वात्तेषामेवोद्भावनमित्यत्रातिप्रसङ्गान्तरं चाह -- किं चेति॥ विरुद्धे ऽनैकान्तिकद्वये च
प्रमाव्यतिरेकाविशेष्यवान्तरभेदाद्भोक्तौ यो ऽतिप्रसङ्ग उक्तः तदुद्धारमाशङ्क्य साम्येन निराह -- नन्वित्यादिना॥ सर्वत्रेति॥ आश्रयासत्वेस्वरूपासत्वहेतुविशेषणासत्वादिज्ञाननिबन्धनासिद्धिषु सर्वास्वप्याश्रयाद्यभावज्ञानाव्द्याप्तिपक्षधर्मतारूपभाप्रमाविरह इत्यर्थः॥ एतावतेति॥ भावप्रमाव्यतिरेकनिमित्तत्वमात्रे 3 च भावि 4 प्रमाव्यतिरेकं प्रत्यसाधारणकारणत्वमाश्रयाभावज्ञानानामस्तीत्यर्थः। तावता हेत्वाभासाधिक्यं कुतो नेत्यत आह -- तच्चेति॥ भावप्रमाव्यतिरेकं प्रति यदसाधारणं कारणं तदेवेह हेत्वाभासप्रकरणे विभज्चमानत्वेन निरूप्यत इत्यर्थः। इति साम्यादिति॥ तथा च साध्याभावव्याप्तरूपविरुद्धस्यानैकान्तिकद्वयस्य चाव्याप्तित्वेनैकदूषणत्वमेव न तु त्वदुक्तप्रकारेणानेकहेत्वाभासत्वमिति भावः॥
1.णत्वं -ग. 2.तच्चेह -क.ग.रा. 3.त्रेण-ट.ठ.ड. 4.भावप्र-ट.ठ.ड.
लीलात्युक्त-हेसचाध्यङ्गः) अनुमादोषवादः पु - 347.
किं च प्रतिरोधस्यापि सर्वकार्यसाधारणदोषत्वाद्धेत्वाभासत्वं न स्यात्॥
यदि च सत्प्रतिक्षस्य द्वेधा 1 प्रतिबन्धकतासाधारण्यसाधारणी च तत्रासाधारणमनुमितिप्रतिबन्धकत्वमादाय हेत्वाभासत्वं तर्ह्यभावज्ञानस्यापि भावप्रमाप्रतिबन्धकत्वं द्वेधेति समम्॥
मणिकण्ठोक्तहेत्वाभासासङ्करभङ्गः ॥ 3.6 ॥
नन्वभावज्ञानस्य भावप्रमाव्यतिरेकहेतुत्वे हेत्वाभासत्वरूपासाधारणदोषत्वं व्याप्त्यभावज्ञानस्य न स्यादित्यतः प्रतिबन्दीमुखेन समाधातुमाह-- किं चेति॥ सर्वकार्येति॥ अनुमितितदितरर्वकार्येत्यर्थः। हेत्वाभासत्वं हेत्वसाधारणदोषत्वमित्यर्थः। परमुखेनोत्तरं वाचयित्वा सममित्याह -- यदि चेति॥ सममिति॥ तथाचासाधारणमनुमितिप्रतिबन्धकत्वमादाय हेत्वाभासत्वं भविष्यतीति भावः॥
मणिकण्ठो 2 क्तहेत्वाभासासाङ्कर्यभङ्गः ॥ 3.7 ॥
लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः ॥ 3.7 ॥
लीलावत्यां तु --
असिद्धविरुद्धसव्यभिचारानध्यवसिताश्चत्वारो हेत्वाभासाः। बाधप्रतिरोधौ तु पूर्वोक्तरीत्या
लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः ॥ 3.8 ॥
लीलावत्यां त्विति॥ इत्युक्तमित्यन्वयः। पूर्वोक्तरीत्येति॥
1.द्वयीप्र-क.ग.रार्. 2.णोक्त-ट.
पु - 348. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
व्याप्तिपक्षधर्मताप 1 हारेणैव दोषौ। न स्वातन्त्रेण। तत्र व्याप्तिपक्षधर्मतावत्वेनानिश्चितो हेतुरसिद्धः। तेनासिद्धित्रयस्य संग्रहः। पक्षैकवृत्तिरनध्यवसितः॥
यद्यपि सव्यभिचारविरुद्धानध्यवसितेषु व्याप्त्यप्रमितिरूपा व्याप्यत्वासिद्धिरस्ति। तथापि व्यभिचारिणि परार्थानुमाने सर्वोपसंहारप्रवृत्तोदाहरणवाक्यादुपाध्यस्फुरणदशायां व्याप्तिग्रहण 2 सम्भवाव्द्याप्त्यग्रहो नोद्भावयितुं शक्य इति व्यभिचार एवोद्भाव्यः। विरुद्धे 3 तु विपरीतप्रतिबन्धे वाक्यस्थे ऽन्तरङ्गे स्फुरति सति बहिरङ्गव्याप्त्यज्ञानादिकं नोद्भाव्यम्।
बाधितस्थले हेतोः साध्याभाववद्वृत्तित्वेन व्याप्तेरपहारेण सन्दिग्धसाध्यवद्वृत्तित्वाभावेन पक्षधर्मताप 4 हारेणेत्यर्थः। दूषणसौकर्यायासिद्ध्यादेः लक्षणमाह -- तत्रेति॥ असिद्धत्रयस्येति॥ आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वासिद्धरूपसिद्धत्रयस्येत्यर्थः। साध्याभावव्यप्तो विरुद्धः। पक्षत्रयवृत्तिः सव्यभिचार इति व्यक्तत्वात्तयोर्लक्षणानुक्तिः। साङ्कर्यशङ्कामनूद्य निराह-- यद्यपीत्यादिना॥ व्यभिचारिणीति॥ अनित्यः शभ्दः 5 प्रमेयत्वात् यत्र 6 प्रमेयत्वं तत्रानित्यत्वं घटादाविति व्यभिचारिणीत्यर्थः। विपरीतप्रतिबन्ध इति॥ प्रतिबन्धो व्यप्तिः साध्याभावेन सह होतोर्व्याप्तिरूपविपरीतव्याप्तौ स्फुरन्त्यां नित्यः -
1.परिहा -ट. 2.हरं-क.ग.रा. 3.द्धेवि-क.ग.रा. 4.ताकारेण-ट. तापरिहारेणे-ठ. 5.ब्दः मे-ट.ठ.ड. 6.त्रमेय -ट.ठ.ड.
लीलात्युक्त-हेसचाध्यङ्गः) अनुमादोषवादः पु - 349.
अनध्यवसिते तु विपक्षव्यावृत्तिमुखेन व्यतिरेकणव्याप्तेर्दर्शितत्वान्न व्याप्त्यसिद्धिरुद्भावयितुं शक्या। न चानध्यवसिते सन्दिग्धसाध्यवत्पक्षमात्रवृत्तित्वेन साध्याभावसम्बन्धाद्व्यभिचार एवास्त्विति वाच्यम्। सपक्षविपक्षयोर्लिङ्गज्ञानस्यैवानध्यवसाय 1 रूपज्ञानहेतुत्वेन सरलदूषणतयोद्भावत्वात्। तत्फलतो व्यभिचारस्तु विलम्बितप्रतीतिक इत्युक्तमा॥
तन्न। व्यभिचारिणि त्वया समर्थितेन व्यभिचारस्योद्भाव्य्तवेनैव मदुक्ताव्याप्तेरेवोद्भाव्यत्वसिद्धेः। उक्तं हि -- साध्याभावसम्बन्धरूपो -
शब्दः कृतकत्वादिति वाक्यादवगम्यमानायामित्यर्तः। अनध्यवसितेत्विति॥ भूर्नित्या गन्धवत्वात् यत्र नित्यत्वाभावः तत्र गन्धवत्वाभावो 2 जलादाविति साध्याभावहेत्वभावयोर्विपक्षवृत्तित्मुखेन व्यतिरेकव्याप्तेरनध्यवसित 3 प्रयोक्त्रा दर्शितत्वादित्यर्थः॥ व्यभिचार एवेति॥ सन्धिग्धव्यभिचार एवास्त्वित्यर्थः॥
सरलेति। अक्लेशदूषणतयेत्यर्थः। तत्फलभूतो ऽनध्यवसायज्ञानभफलभूतः। कथं सिद्धिरित्यत आह -- उक्तं हीति॥ साधारणस्याव्याप्तावन्तर्भावप्रस्तावे प्रागुक्तमित्यर्थः॥
1.यरूपत्वेन -इति यज्ञानरूपत्वेन, इति चद्वेधा शोधितमस्ति - ट. 2.यथेत्यधैकम्-ट. 3.हेतुपदमधिकमस्ति -ट.ड.
पु - 350. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः

व्यभिचार एवाव्याप्तिरिति। न चानित्यत्वसाधकस्य मेयत्वादेर्गगनादौ व्याप्तिभङ्गे स्वेन प्रमिते ऽप्यनाप्तवादि 1 वाक्यादुदाहरणादेव व्याप्तिसिद्धिः। शब्दो ऽनित्यश्चाक्षुषत्वादित्यादावसिद्धेरप्यनुद्भाव्यतापातात्। तत्रापि वादिवाक्येनेवोपनयेनैव पक्षधर्मताया ज्ञातत्वात्॥
किञ्च यदि व्यभिचारिणि शक्योद्भावनत्वाद्व्यभिचारमादाय व्यप्त्यप्रमितेस्त्यागस्तर्हि तत एवासिद्धेरपि पक्षे हेत्व 2 सत्वमादाय पक्षे हेतुसत्वाप्रमितिरूपासिद्धिरपि त्यागः स्यात्। ततश्च पक्षे हेतुसत्वं हेत्वाभासान्तरं स्यात्।
ननूक्तम 3 त्रोदाहरणवाक्याद्व्याप्तिग्रहसंभवादव्याप्त्युद्भावनमशक्यमिति चेत्, सत्यमुक्तम्। दुरुक्तं तदित्याह -- न चेति॥ व्याप्तिसिद्धिरित्यनेनान्वयः। प्रमित इति॥ अनाप्तेति च॥ हेतुगर्भ 4
विपरीतप्रमासद्भावे ऽप्यनाप्तवाक्याद्भावनमप्यशक्यं स्यात्। स्वस्य हेतु 5 त्वाभावनिश्चये सत्यपि वादिवाक्याद्धेतुसत्वनिश्चयस्य संभवादिति भावेनाह -- शब्द इति॥ प्रतिबन्दीरूपेणातिप्रसङ्गं चाह -- किञ्च यदिति॥ त्याग इति॥ अनुद्भावनं तत एव शक्योद्भावनत्वादेवास्तु को दोष इत्यत आह -- ततश्चेति॥ हेत्वाभासान्तरमिति॥ त्वया व्याप्तिपक्षधर्मतावत्वेनानिश्चितो हेतुरसिद्ध इति त्वयोक्तत्वेन तदपेक्षया हेत्वसत्वमात्रं हेत्वाभासान्तरं स्यात्। तथा च त्वदुक्तचतुष्ट्वभङ्ग इति भावः। परमुखेनैवोत्तरं वाचयित्वा सममित्याह -- तत्र पक्ष इति॥
1.वादिपदं न-क.रा. 2.त्वसिद्धत्व-ग.रा. 3.मातो-ट.डर्. 4.भम्। विप -क.ग. 5.तुत्वाभाव -ट.ड.
लीलात्युक्त-हेसचाध्यङ्गः) अनुमादोषवादः पु - 351.
हेत्वसत्वं हेतुसत्वानुपलम्भनिर्वाह्यं चेत् व्याप्त्यभावरूपो व्यभिचारो ऽपि व्याप्त्यनुपलम्भनिर्वाह्य इति समम्। विरुद्धे ऽपि नियतसाध्याभावसंबन्धरूपायां विपरीतव्याप्तौ मदुक्ता व्याप्तिरन्तर्गतैव। न तु बहिरङ्गा। अनध्यवसितेपि सपक्षविपक्षयोयर्लिङ्गा 1 ज्ञानमसाधारणप्रस्तावोक्तरीत्या न स्वतो ऽनुमितिप्रतिबन्धकम्। किं तूपाध्यादिवदव्याप्त्युन्नायकमेव। अन्यथोपाधिः सिद्धसाधनं च सरलतया हेत्वाभासान्तरं स्यात्॥
अपि च दूषणत्वादुद्भावनम्। न तूद्भावनाद्दूषणत्वम्। कॢप्तं चाव्याप्तेर्देषत्वम्। न तु सपक्षविपक्षयो 2 र्लिङ्गज्ञानस्य॥
तथा चानुपलम्भ एव दोषो 3 तु हेत्वसत्वमित्यर्थः। अस्मिन्नपि मते विरुद्धोप्यव्याप्त्यन्तर्भूत इत्याह -- विरुद्धे ऽपीति॥ साध्याभावव्याप्तरूपे विरुद्धेपीत्यर्थः। मदुक्तेति॥ साध्याभावसंबन्धरूपा। न तु बहिरङ्गेति॥ साध्याभावव्याप्तरित्यर्थघः। दूषणमिति योज्यमा। पराभिमतानध्यवसितपक्षे हेत्वाभावसत्वमेव दुर्घचं कुतोन्तर्भावचिन्तेति भावेनाह -- अनध्यवसितेपीति॥ असाधारणेति॥ असाधारणस्याव्याप्त्यन्तर्भावोक्तिप्रस्तावे व्याप्त्यभावव्याप्यतया दूषकस्य इत्यादिग्रन्थेनोक्तरीत्येर्थः॥ यदप्यनध्यवसिते विपक्षव्यावृत्तिमुखेन व्यतिरेकव्याप्तेर्दर्शितत्वान्न व्याप्त्यसिद्धिरुद्भावयितुं शक्येति तत्राह -- अपि चेति॥ ततश्चाव्याप्तिरेव दोषत्वेन कॢप्तत्वादुद्भाव्येति भावेनाह -- कॢप्तं चेति॥
1.ङ्गज्ञा-क.ग. 2.ङ्गज्ञा-ग.रा. 3.तु इतिन -ट.ठ.ड.
पु - 352. न्यायदीपुयततर्कताण्डवम् (तृ.परिच्छेदः
किं चानध्यवसिते हेतोः पक्षवृत्तित्वाज्ञाने ऽसिद्धिप्रसङ्गेन पक्षवृत्तित्वज्ञानस्यावश्यकत्वादति सरलतयासाधारणन्यायेन सन्दिग्धसाध्यवन्मात्रवृत्तित्वरूपाव्याप्तिरेव दोषोस्त्विति दिक्॥
लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः ॥ 3.7 ॥
अतिसरलयेति॥ 1 अतिव्याप्तिरेव दोष इत्यन्वयः॥
नन्वेवं चेत्केवलव्यतिरेकिविषयापत्तिरित्यत उक्तं -- असाधारणन्यायेनेति॥ तत्रैच्चोद्यसमाधानादिति भावः॥
ननूक्तरूपानध्यवसितस्याव्याप्तिज्ञानं प्रत्युपजीव्यत्वादयमेव तत्र दोष इति चेन्न। उपजीव्यत्वे ऽपि व्याप्त्याद्यभावरूपत्वाभावेन स्वतो 2 दूषणत्वाभावात्। अन्यथोपाध्यादिरपि दोषः स्यादित्युक्तत्वात्। किं च सपक्षविपक्षयोर्लिङ्गज्ञानस्य स्वयमज्ञायमानत्वेन ज्ञायमानतया प्रतिबन्धकीभूताव्याप्तेरेव हेत्वाभासत्वेन
वक्तव्यत्वात्। अपि चानुकूलतर्कावतारदशायामपि सपक्षविपक्षयोर्लिङ्ग 3 ज्ञानस्य सत्वेन तदाप्यनुमितिप्रतिबन्धकतया दोषत्वापातादित्यभिप्रेत्याह -- इति दिगिति॥
लीलावत्युक्त 4 हेत्वाभासचातुर्विध्यभङ्गः ॥ 3.8 ॥
1.अव्याप्तिरेव -ट.ठ.ड. 2.षकत्वा-ट.ठ.ड. 3.ङ्गाज्ञान-ड. 4.त्याद्युक्त-ड.
भाज्ञोक्त-हससाध्यङ्गः) अनुमादोषवादः पु - 353.
भासर्वज्ञोक्तहित्वाभाससाप्तविध्यभङ्गः ॥ 3.7 ॥
एतेन यदुक्तं - भासर्वज्ञेन -- असिद्धविरुद्धानैकान्तिकानध्यवसितकालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमा इति 1 हेत्वाभासाः। तत्रा 2 सिद्धविरुद्धौ असिद्धप्रभेदश्च पूर्वोक्तरीत्यैव। पक्षत्रयवृत्तिनैकान्तिकः। साध्यासाधकः पक्ष एव वर्तमानो ऽनध्यवसितः। असाधारणानुपसंहारिणावनध्यवसतितान्तर्भूतौ। एकत्र तुल्यबलहेतुद्वयोपनिपातः सप्रतिपक्षः। स एव विरुद्धव्यभिचारीत्युच्यते। स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः
प्रकरणसम -
भासर्वज्ञोक्तहेत्वाभाससाप्तविध्यभङ्गः

24.40

पूर्वोक्तरीत्यैवेति॥ आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वासिद्धव्यधिकरणासिद्धादिरूपेण प्रभेद इत्यर्थः। पक्षत्रयेति॥ पक्षसपक्षविपक्षवृत्तिरित्यर्थः। व्यतिरेकिणि सद्धेतावतिव्याप्तिनिरासाय साध्यासाधक इत्युक्तिः। एकत्रेति॥ पक्ष इत्यर्थः। ननु विरुद्ध 3 व्यभिचारीत्यपि कश्चि 4 द्धेत्वाभास इत्याह -- स एवेति॥ त्रिरूप इति॥ पक्षवृत्तित्वं सपक्षे सत्वं विपक्षाद्व्यावृत्तत्वमित्येवं रूपेण त्रिरूप इत्यर्थः। यथा विमतं मिथ्या दृश्यत्वात् शक्तिरूप्यवत्- विमतं -
1.नियमेन व्याप्तेः इत्यधिकम्-रा. 2.सिद्धप्रभेद -क.ग.ट.रा. 3.द्भाव्य -ट.ठ.ड. 4.दस्ति हेत्वाभा- ठ.ड.
पु - 354. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
इति । तदपि निरस्तम्। असिद्धभेदस्य व्याप्यत्वासिद्धे, 1 विरुद्धादि त्रितयस्य चाव्याप्तौ, कालातीतादित्रितयस्य च प्रतिज्ञाविरोधेन्तर्भावस्यो 2 क्तत्वात्। व्यधिकरणासिद्ध्यादेरदोषत्व 3 स्ययोक्तत्वात्॥
भासर्व 4 ज्ञोक्तहेत्वाभासमाप्तविध्यभङ्गः ॥ 3.8 ॥
सत्य दृश्यत्वात् ब्रह्मवदिति॥ पक्षद्वये त्रिरूपत्वं च प्रतिपक्षे 5 तुल्यत्वमिवाभिमानिकम्। अतो नासंभव इत्युक्तं प्राक्॥
भासर्वज्ञोक्तत्वाभाससाप्तविध्यभङ्गः ॥ 3.9 ॥
सामान्येन परोक्तहेत्वाभासनियमभङ्गः ॥ 3.9 ॥
अयमत्र निष्कृष्टोर्ऽथः। मदुक्तासिद्ध्व्याप्तिव्यतिरिक्ता हेत्वाभासाः बहुभिर्बहुसङ्ख्याकाः कल्प्यन्ताम्। बहुधा च निरुच्यान्ताम्। तथापि ते सर्वे न तावत्पक्षधर्मताविघटनरूपाः। असिद्ध्यन्तर्भावापत्तेः।
सामान्येन परोक्तहेत्वाभासनियमभङ्गः

24.40

श्रोत्रृबुद्धिसौकर्यायोक्तस्य सर्वस्य निष्कृष्टमर्थमाह -- अयमत्रेति॥ चतुर्विधा हि वादिभिरुच्यमानाः सम्भवन्ति
हेत्वाभासाः। पक्षधर्मताविरहरूपा वा, तद्वि 6 रुद्धहेतुभूता वा, व्याप्तिविरहरूपा वा, व्याप्तिविरहहेतुभूता वेति हृदि निधाय क्रमेणाह -- न तावदित्यादिना॥
1.द्धर्वि-रा. 2.उक्तत्वादिति न -क.ग.ट.रा. 3.स्योक्तत्वा-क.ग.रा. 4.सर्वोक्त -ट.रा. 5.ल्यबलत्व-ट.ठ.ड. 6.द्विरहरूपा वा-ट. 7.द्विरहहेतुभूत वा-ठ.ड.
सान्येन-पक्तहेस-निमङ्गः) अनुमादोषवादः पु - 355.
नापि 1 तद्विघटकाः। त्वत्पक्षे सिद्धसाधनवदसिद्ध्युन्नायकत्वेन स्वतो दोषत्वायोगात्। नापि व्याप्तिविघटनरूपाः। अव्याप्त्यन्तर्भावापत्तेः। नापि व्याप्त्यभावव्याप्तत्वेन व्यप्तिविघटकाः। उपाधिप्रतिकूलतर्कानुकूलतर्काभाववदव्याप्त्युन्नायकत्वेन स्वतो दोषत्वाभावात्। न च हेत्वाभासत्वे पञ्चमप्रकारो ऽस्ति। व्याप्तिपक्षधर्मतायुक्तहेतोराभासत्वायोगात्॥
किं च सव्यभिचारविरुद्धानध्यवसितेषु न तावदव्याप्तिर्नास्तीति युक्तम्। तेषु पक्षधर्मतायाः सत्वेन हेतोराभासत्वायोगात्। नाप्यव्याप्तेः सत्वे ऽपि तदज्ञा 2 ने ऽपि अन्यज्ञानादेवानुमानं दुष्टमिति वाच्यम्। अन्यस्यानुमानाविरोधित्वे दोषत्वायागात्। विरोधित्वमपि न तावत्साक्षात्फलविघट 3 नेन। बाधप्रतिरोधान्तर्भावापत्तेः। नापि करणविघट 4 नेन। तथात्वे व्याप्तिपक्षधर्मतान्यतर-
नन्वस्त्वितो ऽन्य 5 त्रैव कश्चन प्रकार इत्यत आह -- न च हेत्वाभास 6 त्व इति॥ व्याप्तिपक्षधर्मतातद्विघटनकरूपप्रकारचतुष्टयान्यः पञ्चमः प्रकार इत्यर्थः। व्याप्तिपक्षधर्मतायुक्तत्वमेव प्रकार इत्यत आह -- व्याप्तीति॥ प्रकारान्तरेण सव्यभिचारादिहेत्वाभासनियमं पराभिमतं निराह -- किञ्चेति॥ फलेति॥ अनुमितिरूपफलेत्यर्थः॥ बाधेति॥
1.पक्षधर्मत्वाभावव्याप्यतया - इति पूरितमस्ति-ट. 2.नकाले भिन्नज्ञा-ग.ट.रा. 3.टकत्वेन -ग.ट.रा. 4.टकत्वेन -ग.ट.रा. 5.न्य एवक-ट.ठ.ड. 6.स इति-ड.
पु - 356. न्यायदीपयुततर्कताण्डवम् (तृ.परिच्छेदः
विघटनस्यावश्यकत्वेनाव्याप्त्यसिद्ध्यन्यतरान्तर्भावस्य दुर्वारत्वात्॥
एतदेवाभिप्रेत्योक्तं प्रमाणलक्षणे -- असिद्धिरव्याप्ति 1 श्च हेतुविरोध इति॥
समान्येन परोक्तहेत्वाभासनियमभङ्गः ॥ 3.9 ॥
ओं इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्ब्रह्मण्यतीर्तथपूज्यपादानां शिष्येण श्रीमव्द्यासयतिना विरचिते श्रीमत्तर्कताण्डवे अनुमानप्रपञ्चनं समाप्तम्॥
अनुमानपरिच्छेदः
श्रीकृष्णार्पणस्तु.
तयोर्ग्राह्याभावावगाहित्वेन साक्षादेवानुमितिप्रतिबन्धकत्वादिति भावः। एतदेवेति॥ उक्तनिष्कृष्टं प्रमेयमेवाभिप्रेत्येत्यर्थः॥
सामान्येन परोक्तहेत्वाभासनियमभङ्गः

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc