तर्कताण्डव (टीका सहित) · अध्याय 13
यच्चेदमुच्यते वेदस्यापौरुषेयत्वे आप्तवाक्यत्वादिरूपस्य प्रमाणशब्दलक्षणस्याभावात् प्रामाण्यं न स्यादिति ।
न्यायदीपाख्या व्याख्या
अथाकाङ्क्षानिरूपणम्
यस्मिन्वेदस्य सर्वस्याप्याकाङ्क्षायोग्यतादयः ।
तं वन्दे परमानन्दमिन्दिरामन्दिरोरसम् ॥
ननु --- वेदापौरुषेयत्वसमर्थनं पूर्वपिरच्छेदे कृतमयुक्तम् । तथात्वे शब्दप्रमाणलक्षणाभावेन प्रमाणशब्दत्वानापत्तेः । एवं च"आदिवर्जितैः, आदरेणाख्यात 1 इत्युक्ते हरौ शक्तितात्पर्ये न युक्ते इति चोद्यमनूद्य निराह -- यच्चेति ॥ आदिपदेन आप्तिपूर्वकशब्दत्वयथार्थवाक्यार्थज्ञानजन्यत्ववाक्यत्वादिग्रहः ।
1. तानन्तकल्यागुणयुक्ते - उ.
न्यायदीपयुततर्कताण्डवम् (द्वितीयपरिच्छेदः पु - 2.
----------------------- ----------------- -----------
तन्न । पद्धतौ निर्देषशब्दत्वं निर्देषवाक्यत्वं वा आगमलक्षणमित्युक्तत्वात् ॥
अत्राद्यं निर्देषः शब्द आगम इति प्रमाणलक्षणानुसारि । निष्प्रयोजनत्वादिदोषनिरासार्थमावश्यकेन निर्देषत्वविशेषणेनैव निरभिधेये अनन्विते चाप्यतिव्याप्तिनिरासेन वाक्यग्रहणस्यानपेक्षितत्वात् ॥
प्रमाणभूतशब्दस्य यल्लक्षणं तस्येत्यर्थः । प्रामाण्यमिति ॥ प्रभाजनकत्वमित्यर्थः । पूर्वं 1 दूरे तस्य स्वतस्त्वसाधनमिति भावः ॥ पद्धताविति ॥"निर्देषः शब्द आगम, निर्देषं वाक्यमतिति वा 2"पद्धतावित्यर्थः । द्वयोरप्युक्तिः तद्द्यतात्पर्यव्यक्त्यार्था । तथा च लक्षणान्तरसम्भवात् प्रामाण्यं वेदस्य युक्तमिति भावः । एतेन एवमागमलक्षणोक्तेरभिप्रायः स्फुटीकृतो भवति । द्वयोक्तेर्मूलम्भावं च व्यनक्ति - अत्रेति ॥
ननु -- कथं तर्हि अबोधकविपरीतबोधकरूपवाक्याभासे ऽतिव्याप्तिनिरासः । पद्धतावेव"आकाङ्क्षायोग्यतासन्निधिमन्तिपदानि वाक्यं"इत्युक्त्वा"पदत्वेनानभिधेयत्वस्य आकाङ्क्षासन्निधिभ्यामन्वयाभावस्य निरास"इत्याद्युक्तेरित्यस्तद्द्वितीयलक्षणाभिप्रायमित्युपेत्य"निरभिधेयत्वेनान्वयाभावेन वा अबोधकत्व"मित्यादि निर्देषपदकृत्योक्तिपरपद्धत्युक्तिं हृदि कृत्वा तात्पर्यमाह -- निष्प्रयोजनत्वेति ॥
1.ऽदूरेऽ इति नास्ति - ऊ. 2. वेतिप - उ.
आकां-नि-पणम् ) आकाङ्क्षावादः पु - 3.
---------------- ----------- ------
द्वितीयं तु"आगमो ऽदुष्टवाक्यं च"इति ब्रह्मतर्कानुसारि । 1 अत्र वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थम् ॥
अत एव पद्धतौ"द्वितीयपक्षे विभक्त्यन्ता वर्णाः पदं, आकाङ्क्षायोग्ययासन्निधिमन्ति पदानि वा वाक्य"मित्यादिना पदादीनां लक्षणमुक्तम्।
ब्रह्मतर्केति ॥ तत्वनिर्णयोक्तब्रह्मतर्केत्यर्थः । नन्वेवमुक्तदिशा शब्द इत्येव पूर्तौ वाक्यमिति व्यर्थमत आह -- अत्र वाक्येति । अस्मिन्पक्षे निर्देषपदं पद्धत्युक्तवाक्यपदव्यावर्त्यान्यदोषव्यावृत्यर्थमिति भावः ॥
विभक्त्यन्ता इति ॥ सुप्तिङोपविभक्त्यन्ता इत्यर्थः ।"विभक्तश्च"इति सूत्रे सुप्तिङोरुभयोरपि विभक्तिसंज्ञोक्तेः ।"सुप्तिङन्तं पदं"इति पाणिनीय 2 सूत्रादिति भावः । अत्र बहुत्वं प्रायिकत्वाभुप्रायम् । विभक्त्यन्तो वर्णः तादृशौ वर्णौ वा तादृशा वर्णा वेत्यर्थः । विभक्त्यन्तवर्णत्वं पदत्वमिति यावत् । विभक्त्यन्तत्वस्य वर्णत्वाव्यभिचारे ऽपि 3 वर्णा इत्या 4 द्युक्तिः स्पष्टार्था । राजपुरुष इत्यादौ अनेकपदसमुदायस्य विभक्त्यन्तस्य पदत्वनिवृत्यर्थः वर्णा इत्युक्तिः । तदर्थस्तु विभक्तिः अन्त एव येषां ते विभक्त्यन्ता इति । राजपुरुष इत्यादौ तु मध्ये ऽपि विभक्तिर्लुप्तास्तीत्येके । अन्ये तु तस्यापि पदत्वलाभायैव मुक्तिः । पदद्वयावयवविभक्तिद्वयात् समुदाय उत्पन्नविभक्तेरन्यत्वेन पदद्वयस्थ वर्णसमुदायस्यापि विभक्त्यन्तवर्णत्वादित्याहुः । वर्णान्यस्फोटनिरासाय वर्णोक्तिरित्यपरे 5 ॥
आकाङ्क्षेति ॥ प्रयुज्यमानपदेष्वेवान्योन्याकाङ्क्षावन्ति पदानीत्यर्थः ।
1.तत्र - ज-क. 2.निसू -उ. 3.वर्णान्यपदस्फोटनिरासाय - उ. 4.त्युक्तिः । राज - उ. 5.वर्णा इत्यादि नास्ति -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 4.
------------------------ -------------- -------
अत एव प्रमाणलक्षणटीकायां"मूलस्थं शब्दपदं वाक्यपर"मित्युक्तम् ॥
ननु -- केयमाकाङ्क्षा ?
न तावदविनाभावः । घटमानयेत्यादावभावात् । न हि घट आनयनाविनाभूतः ।
तेन निराकाङ्क्षपदानि वाक्यमिति भाष्यटीका न विरोधः । स्वस्मिन्नेव पूर्णाकाङ्क्षावत्वेनान्यत्र निराकाङ्गक्षपदसंदर्भो वाक्यमिति चन्द्रिकायां तस्यार्थोक्तेः। पदानीति बहुत्वं प्रायिकाभिप्रायम् । अत्रापि पदशब्दप्रयोगकुत्यं पूर्वं 1 वर्णपदकृत्यवत् पदान्यवाक्यस्फोटनिरासायेति बोध्यम् । 2
प्रकृतिप्रत्ययसमभिव्याहारपदे ऽतिव्याप्तिनिरासाय पदानीत्युक्तिः । पदादीनामित्यादिपदेन वाक्यस्याकङ्क्षासन्निध्यादेर्ग्रहः। अत एवेति ॥ पदादिस्वरूपव्युत्पादनार्थत्वादेवेति 3 ब्रह्मतर्कसंवादार्थत्वादेवे 4 त्यर्थः । मूलेति ॥"निर्देषः शब्द आगमः"इति मूलस्थमित्यर्थः।
तत्र पद्धतौ 5 वाक्यलक्षणे प्रथमोद्दिष्टाकाङ्क्षास्वरूपं निरूपयितुं पूर्वपक्षमाह -- नन्विति ॥ पदानां या आकङ्क्षा सेयं केत्यर्थः । अभावादिति 6 ॥ कुतः परस्परव्यभिचारादिति भावेनाह -- न हीति ॥ आनयनं वा घटाविनाभूतमित्यप्युपलक्ष्यते । एतेन कारकस्य क्रियाविनाभावः क्रियायाः कारकाविनाभावोस्तीति निरस्तम् । क्रियाविशेषकारकविशेषयोः तदाभावेन घटमानयेत्यनयोः निराकाङ्क्षतापत्तेरिति । मणौ 7 नीलं सरोजमित्यादौ व्यभिचारोक्तिस्त्वयुक्ता । तत्र तात्पर्यविषयोः नीलसरोजयोरविनाभावसत्वादिति भावः ॥
र्1.वत्र -उ. 2.इयं-पङ्क्तिर्नास्ति-उ. 3.ऽवाऽ-उ. 4.ति वा-उ. 5.लक्षणवाक्ये-उ. 6. प्रतीकवन्नास्ति-ऊ. 7.सरोजं नीलं -उ.
आकां-नि-रूपणम्) आकाङ्क्षावादः पु - 5.
----------------- -------------- --------
अहो विमलं जलं नद्याः कच्छे महिषश्चरतीत्यत्र जले साकाङ्क्षस्य नदीपदस्य नद्यविनाभूते कच्छे साकाङ्क्षत्वप्रसङ्गाच्च ॥
नाप्युदयनाद्युक्तरीत्या श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभाव आकङ्क्षा । अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र पुत्रे 1 साकाङ्क्षस्य राजपदस्य तात्पर्यभ्रमेण पुरुषान्वयबोधे ततः प्राक्तदन्वयावगमप्रागभावस्य सत्वेनातिव्याप्तिः 2 ॥
ननु -- पदार्थतावच्छेदकरूपेण क्रियाकारकभावेन विवक्षितो ऽविनाभावः प्रकृतेप्यस्तीत्यत आह -- अहो विमलमिति ॥ पूर्वत्रोक्तातिव्याप्तेर्निरासकं पक्षमाशङ्क्य निराह-- नापीति ॥ श्रोतरि विद्यमान उक्तरूपप्रागभाव आकाङ्क्षेत्यर्थः । अत्र घटः कर्मत्वं आनयनं कृतिरिति वाक्याभासे
घटमानयेत्येतत्समानार्थके ऽतिव्याप्तिनीरासाय तदुच्चारणजन्येत्यवगमविशेषणम् । 3 वक्त्रपेक्षयासंभववारणाय श्रोतरीत्येके । स्वरूपकथनं तदित्यन्ये ॥
अहो विवलमिति पूर्वोक्तवाक्ये च तात्पर्यवशात् कदाचित् 4 कच्छनद्योः संसर्गावकमेन तत्प्रागभावसत्वे ऽपि तदुच्चारणे तात्पर्यवशात् जलान्वितनद्याः कच्छसंसर्गावगमो नेति न तत्प्रागभाव इति नातिव्याप्तिरिति भावः। इत्यत्रेत्युपलक्षणम् । पूर्ववाक्ये चेत्यपि ज्ञेयम् ।
1.ण सा -च. 2. प्रसङ्गादित्यधिकं -ग. 3.प्तेः -ज-क-घ. 3.ऽअन्यत्र साकाङ्क्षत्ववारणायऽ इत्यस्ति-उ. 4. जलान्वित नाद्याः सं-उ.
न्यायदीपयुततर्कताण्वम् ( द्वि. परिच्छेदः पु - 6.
---------------------- --------------- ------
नापि तात्पर्यविषयीभूतसंसर्गावगमप्रागभाव आकाङ्क्षा । प्रागभावस्य कार्यमात्रहेतुत्वेन 1 शाब्दासाधारण्यायोगात् । वक्ष्यते चैतत् ॥
यत्तु मणावुक्तम् --"2 अभिधानपर्यवसानमाकाङ्क्षा । यस्य येन विना 3 स्वार्थान्वयान 4 नुभावकत्वं तस्य तदेवापर्यवसानम् । अन्याननुभावकत्वं च अन्वयानुभवप्रागभावः । अत एव जनितान्वयबोधं पदम 5 नाकाङ्क्षं तदा प्रागभावाभावात् ।
कस्य चित् तात्पर्यवशात् जलान्वयावगमेन नद्याः कच्छान्वयानवगमे ऽपि प्रयोगान्तरे पुनरस्य कच्छान्वयतात्पर्यभ्रमेण तदन्वयानवगमसंभवात् ॥
तात्पर्यविषयेति ॥ पुरुषान्वयबोधस्तु न तात्पर्यविषय इति न पूर्वोक्तदोष इति भावः । शब्दासाधारण्यायोगादित्युपलक्षणम् । संसर्गावगमान्तरप्रागभावस्य सत्वात् । जनितान्वयबोधस्यापरि वाक्यस्य साकाङ्क्षात्वापत्तिरित्यपि बोध्यम् 6 । वक्ष्यत इति ॥ मण्युक्ताकाङ्क्षा 7 स्वरूपखण्डनप्रस्तावे"किञ्च प्रागभावस्य"इत्यादिग्रन्थे ॥ यत्तु मणाविति ॥ शब्दखण्डे आकाङ्क्षावादसिद्धान्त इत्यर्थः ॥
ननु -- अभिधानमन्वयानुभवः तस्यार्थवसाननिष्पत्तिः इत्यर्थश्चेत्, कर्मत्वमित्यादावस्त्येवेत्यतो ऽन्यमेवापर्यवसानशब्दार्थं मण्युक्तमाह -- यस्येति ॥
यस्य पदस्योपस्थितस्य यद्व्यतिरेकप्रयुक्तस्वार्थान्वयाननुभावकत्वं तस्य पदस्य तदननुभावकत्वमेवापर्यवसानं तेन च सह तदेवाकाङ्क्षेत्यर्थः ॥
1.शब्दा-ग-ज-घ. 2.अन्वयेत्यधिकम्-ग. 3.ऽनऽ इत्यधिकम्-ग-ज-क. 4.नुभा -ग-ज-क. 5.मसा-च. 6.ध्येयम्-उ. 7.स्वरूपेति नास्ति-ऊ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 7.
--------------- -------------- ------
अत एव स्वरूपयोग्यतात इयं भिन्ना । सा हि जनितफवेप्यस्ति । इयं तु फजननात् प्रागेव । न चाभावे तारतम्याभावेन आकाङ्क्षायामुत्कटत्वानुत्कत्कटत्वरूपतारतम्यायोगः । ससंबन्धिकासंबन्धिकपदत्वादिनैव तदुपपत्तेः । ज्ञाता चेयं हेतुः । अन्यथा निराकाङ्क्षे तद्भ्रमादन्वयधीर्न स्यात् । न तु समभिव्याहृतपदार्थजिज्ञासा आकाङ्क्षा ।
1.च. इति नास्ति-उ. 2.ससंबन्धिकेति । इत्यधिकम् -उ. 3.आकाङ्क्षा- भ्र-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 8.
----------------------- ------------ ---------
ज्ञाने इष्टसाधनत्वाज्ञानेन ज्ञानेच्छारहितस्यापि पुंसः शाब्दबोधदर्शनात् । किञ्च - अस्मिन् पक्षे आकाङ्क्षाज्ञानं हेतुर्न स्यात् । जिज्ञासाया अज्ञाने ऽपि शाब्दबोध दर्शनात्"इति ॥
तदपि न । गौणलाक्षणिकयोरव्याप्तेः । न हि त्वत्पक्षे तयोरितरविरहप्रयुक्तमननुभावकत्वम् । किन्तु स्वत एव । किञ्च घोषपदमेव गङ्गापदे 2 न साकाङ्क्षं, गङ्गा 3 पदं तु न घोषपदे 4 नेति संभवति ॥
न चाननुभावकपदस्थाने ऽज्ञापक 5 पदप्रक्षेपे ऽव्याप्तिर्नेति युक्तम् ।
ज्ञानेच्छा हि जिज्ञासा । सा च ज्ञानविषयिणी 6 जायमानज्ञानस्य इष्टसाधनत्वे 7 सति भवति नान्यथा । तथा
च कदाचिच्छब्दज्ञाने
तदिष्टसाधनतावबोधबहीनस्यापि शाब्दबोधदर्शनेन व्यतिरेकव्यभिचात् नेयमाकाङ्क्षा शाब्दबोधहेतुरित्यर्थः ॥
गौणेति ॥ सिंहश्चैत्रः गङ्गायां घोषः इत्यनयोरित्यर्थः । तत्र मणुकृन्मते सिंहगङ्गापदयोरननुभावकत्वं 8 व्यनक्ति -- नहि त्वत्पक्ष इति ॥ यस्य येनेत्यादिनोक्तार्थनिष्कर्षानुवाद इतरविरहेत्यादि । स्वत एवेति ॥ स्वरूपेणायोग्यत्वप्रयुक्तत्वादेवेत्यर्थः । घटः कर्मत्वमित्यादौ यथा स्वरूपायोग्यत्वप्रयुक्तमेवाननुभावकत्वं, न पदान्तरविरहप्रयुक्तं तथेति 9 भावः । अलक्ष्यत्वान्नाव्यात्पिर्देषायेत्याशङ्क्य निराह -- न चेति ॥ अनुभवविरोधादिति भावः । अज्ञापकपदेति विच्छेदः ॥
1.धत् - ग. 2.देसा-ग-ज. दसा-क. 3.दितु-ज. 4.दे इति-ग-ज-ग. 5.ऽपदऽ इति नास्ति-ग. 6.ज्ञा-ऊ. 7.त्वज्ञाने सति - उ. 8.त्वोपगमाद्येन विना यस्याननुभावकत्वमित्येतदस्त्येवेत्यतो व्यनक्ति इत्यस्ति - उ. 9. त्यर्थः - उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 9.
--------------- -------------- -------
इतरपदविरहे ऽपि पदस्य स्मारकत्वेनाज्ञापकत्वस्येतरपदविरहाप्रयुक्तत्वात् । किञ्च प्रागभावस्य सर्वकार्यहेतुत्वेन 1 शाब्दासाधारण्यं न स्यात् ।.
न च शाब्दनुभवे ऽन्वयानुभवप्रागभावस्योत्तरपदविरहप्रयुक्तत्वेन हेतुत्वादशाधारण्यं , अत एव येन विनेति विशेषितमिति वाच्यम् । इतरपदानां सहकारित्वेन शाब्दबोधप्रागभावस्य तद्विरहप्रयुक्तत्वे ऽपि घटादाविवि शाब्दानुभवे ऽपि प्रागभावत्वेनैव हेतुत्वात् । अन्यथा घटप्रागभावो ऽप घटे दण्डादिविरहप्रयुक्तत्वेन हेतुः स्यात् ।
न च पदस्य पदार्थस्मारकत्वे ऽप्यन्वयाज्ञापकत्वमस्त्येव । तस्यैव लक्षणे ऽभिमतत्वादिति युक्तम् । वक्ष्यमाणदिशान्विताभिधानवादे ऽन्वितस्वार्थस्मारकत्वस्यापि सत्वात् । परमते ऽपि 2 जात्याकृत्यन्वितव्यक्तेरेव पदार्थत्वेन जात्याद्यन्वयस्मारकत्वाच्चेति तात्पर्यात् ।
ननु - यदुपस्थापितस्यार्थस्य यत्पदव्यतिरेकेण नानुभवविषयत्वं तस्य
तत्साकाङ्क्षत्वमिति लक्षणार्थः । एवं च तीरादेरनुभविषयत्वं न घोषादिपदं विनेति लाक्षणिकदेरपि साकाङ्क्षत्वमिति पक्षधाद्युक्तेर्नाव्याप्तिरित्यतो दोषान्तरमाह -- किञ्चेति ॥ तट्टीकाकारैरुक्तमाशङ्क्य निराह -- न च 3 शब्देत्यादिना ॥ सहकारिकत्वेनेति ॥ शाब्दबोधसहकारित्वेनेत्यर्थः ॥
1.श-ग-ज. 2.अपि इति न -उ. 3.शा - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 10.
----------------------- ------------ -----
न च शाब्दज्ञाने प्रागभावज्ञानं कारणमित्य 1 साधारण्यम् । तज्ज्ञानस्य कारणत्वे
मानाभावात् । न हि शाब्दबोधात् प्राक् ममात्रान्वये ज्ञानं नेति ज्ञानमनुभवसिद्धम् । अन्यथा घटे ऽपि प्रागभावो ज्ञातो हेतुः स्यात् ॥
अथ प्रागभावः प्रागभावत्वेन नाकाङ्क्षा, किन्तु प्रागभावात्यन्ताभावसाधारण्येनेतरविरहप्रयुक्तान्वयानुभवाभावत्वेनेति असाधारण्यम् । घटादौ प्रागभावत्वेनैव हेतुत्वात् ।
प्रकारान्तरेण शब्दासाधारण्यं संसर्गावगमप्रागभावस्य शङ्कते -- अथेति ॥ प्रागभावात्यन्ताभावेत्युपलक्षणम् । ध्वंसेत्यपि ध्येयम् । अत एवेतरविरहप्रयुक्तान्वयानुभवत्वेनेति हेतुतावच्छेदोक्तिः ।
अन्यथान्वयानुभवानाद्यभावत्वेनेत्येव हेतुतावच्छेदकमुक्त्वा इतरविरहप्रयुक्तेत् न ब्रूयात् । तस्य ध्वंसदशायामतिव्याप्तिवारकत्वात् । अन्वयानुभवसंसर्गाभावत्वेन हेतुत्वविवक्षायामेवेतरविरहप्रयुक्तेति 2 सार्थक्यात् । ध्वंसस्याहेतुत्वान्न 3 तत्साधारण्यं 4 चेदत्यन्ताभावसाधारण्यमपि न स्यात् । अत एव नाप्यन्वयबोधध्वंसदशायामित्यादि वक्ष्यतीति ध्येयम् ।.
यद्वोक्तोभयसाधारण 5 मेवास्तु अन्वयानुभवाभावत्वेनैव हेतुता ध्वंसेतिप्रसक्तेति तद्वारणायैवेतरेत्यादिविशेषणोक्तिः । घटादौ तु नैवमित्याह -- घटादाविति ॥ तत्प्रागभावस्येति योज्यम् । अत एवेत्युक्तं व्यनक्ति-- तदेति ॥
1.स्यासा- ज. 2.ऽपदऽ इत्यधिकम् -उ. 3.त्वेन त - उ. 4.ऽनऽ इत्यधिकम्
-उ. 5.ण्य- उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 11.
---------------- --------------- ----------
अत एवान्ययबोधदशायां नातिव्याप्तिः । तदा प्रागभावात्यन्ताभावयोरभावात् । नाप्यन्वयबोधध्वंसदशायाम् । तदा ध्वंसस्य सत्वे ऽपि तस्येतरविरहाप्रयुक्तत्वादिति चेन्न ।
अत्यन्ताभावसाधारणेन रूपेम हेतुत्वे स्वात्यन्ताभावस्य स्वं प्रत्यहेतुत्वात् । शाब्दानुभवान्तराभावः शाब्दानुभावं प्रति, त्वन्मते ऽनुमित्यन्तराभावो ऽनुमितिं प्रतीव प्रतिबन्धकाभावतया हेतुः स्यात् । प्रतिबन्धकाभावश्चाज्ञान एव हेतुः कार्यमात्रसाधारणश्चेति त्वदङ्गीकृतमाकाङ्क्षाज्ञानस्य हेतुत्वमसाधारण्यं च न स्यात् ।
ध्वंसदशायामिति ॥ अतिव्याप्तिरित्यनुषङ्गः । अत्यन्ताभावसाधारण्येन हेतुत्वं किं स्वात्यन्ताभावसाधारण्येन विवक्षितं, उत शाब्दा 1 नुभवान्तरात्यन्ताभावसाधारण्येनेति । आद्ये आह -- स्वात्यन्ताभावस्येति ॥ अन्त्य आह -- शाब्दान्तरानुभवेति ॥
प्रतिबन्धकाभावतयेति ॥ सिद्धसाधनता अनुमाने दोष इति सिद्धेरनुमितिप्रतिबन्धकत्वात्सिद्ध्यन्तराभावो ऽनुमितौ यथा प्रतिबन्धकाभावतया हेतुः शाब्दानुभवस्यानपेक्षितत्वेनानुदयादनुभावान्तरमन्वयानुभवे प्रतिबन्धकमिति तदभावो ऽपि प्रतिबन्धकाभावत्वेनैव हेतुः स्यादित्यर्थः । ततश्च किमित्यत आह -- प्रतिबन्धकाभावश्चेति ॥ पूर्वमिति ॥ सङ्केतस्मरणपदार्थोपस्थितिदशायां पदानामुपस्थित्यन्तरमित्यर्थः ॥
1. अनुभवपदं न - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 12.
------------------------ ------------- -------
किञ्च सकलपदोपस्थितिदशायां शाब्दबोधात्पूर्वं प्रागभावस्येतरविरहाप्रयुक्तत्वादव्याप्तिः । तस्मादाकाङ्क्षा दुर्निरूपेति ।
उच्येते ---
यस्य पदस्य यदन्वयाननुभावकत्वं समभिव्याहृतयत्पदगतयद्रूपविरहप्रयुक्तं तस्य पदस्य तस्मिन्नन्वये तेन पदेन सह तद्रूपमाकाङ्क्षा ।
पद्धतौ"आकाङ्क्षा जिज्ञासा चेतनधर्मः । तद्विषयत्वात्पदार्थाः साकाङ्क्षाः 1 । तत्प्रतिपादकत्वात्पदान्यपि"इति ग्रन्थेन जिज्ञासाविषययीभूतपदार्थविषयप्रतिपत्तिजनकत्वं पदानां साकाङ्क्षत्वमिति यदुक्तं तत्र जनकत्वं न फलोपधानं, किन्तु स्वरूपयोग्यतैवाभिमतेति भावेन तत्रोक्तं निष्कृष्याग्रे स्वाभिमताकाङ्क्षालक्षणं विवक्षुरादौ तावत्पौढ्या पद्धत्युक्तलक्षणाविनाभूतं लक्षणान्तरमाह -- यस्य पदस्येत्यादिना ॥
पद्धतौ पदानीत्युक्तत्वात्पदस्येति बाहुल्याभिप्रायेणोक्तम् । यस्य शब्दस्येत्यर्थः । तेन प्रातिपदिकप्रत्ययोर्महावाक्यावान्तरवाक्यस्य च ग्रहः । तदपि तदुपस्थितिपरम् । यत्पदेत्यत्रापि यच्छब्देत्यर्थः । यद्रूपेत्यत्र यद्रूपोपस्थितीत्यग्रे व्यक्तम् । तथाच च यस्य शब्दस्योपस्थितस्य यदन्वयाननुभवाकत्वं यश्चासावन्वयश्चेति विग्रहः । तस्मिन्नन्वये इत्यग्रे कथनात् । तादृशान्वयानभावकत्वाभावः । स च प्रागभावः उच्चारणतो वा अभिप्रायतो वा सहस्थितयत्पदस्थितयद्रूपोपस्थितिविरहप्रयुक्तो वा भवति तद्रूपं क्रियापदत्वकारकपदत्वैकविभक्तिकत्वादि 2 कं तद्वत्वमित्यर्थः ।
1. क्षा इत्युच्यन्ते - उ. 2.आदिपदं न - उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 13.
--------------- --------------- ---------
उपस्थितरशब्दस्याभिमतान्वयाननुभावकत्वप्रयोजकविरहप्रतियोगि 1 ज्ञानविषयीभूतरूप 2 वत्पदान्तरसमभिव्याहृतत्वं साकाङ्क्षत्वमिति यावत् । उपस्थितिशब्दस्याभिमतान्वयानुभावकत्वप्रयोजकत्वप्रयोजकरूपव 3 दुपस्थितशाब्दान्तरसमभिव्याहृतत्वं तेन साकाङ्क्षमित्यन्वयार्थः । तद्यथा घटमानयेत्यत्र यस्य घटशब्दस्य यदन्वलयाननुभावकत्वं समभिव्याहृतानयेति पदगतक्रियापदत्वविरहप्रयुक्तं घट 4 मानयनमित्यादौ तथा दर्शनात्, तथा च तस्य घटपदस्य तस्मिन्नानयानान्वये तेनानयनपदेन सह तद्रूपं क्रियापदत्वरूपमाकाङ्क्षा । तथाऽनयेति पदस्य घटान्वयाननुभावकत्वं घटपदगतकर्मकारकत्वविरहप्रयुक्तम् । घटः आन 5 येत्यादौ दर्शनात् । एवं च तस्यानयनपदस्य घटान्वये तेन घटपदेन सह कर्मकारकपदत्वमेवाकाङ्क्षेति 6 ध्येयम् । अत्र यस्य शब्दस्य समभिव्याहृतयच्छब्दविरहप्रयुक्तमननुभावकत्वमित्येवोक्तौ 7 असंभवः स्यात् । घटमानयनमित्यादौ सत्यपि पदान्तरे त्वयाननुभावकत्वसत्वेन तस्य पदान्तरविरहाप्रयुक्तत्वत् । यत्पदगतयद्रूपेत्युक्तम् । घटो भवतीत्यत्रानुच्चारितेनापि समानविभक्तिकेन रक्त इति पदेन घटपदस्य निराकाङ्क्षतैवेति पक्षे घटे रागान्वयाननुभावकताप्रयोजकविरहप्रतियोगितावच्छेदकरूपस्य समानविभक्तिकत्वस्य सत्वादतिव्याप्तिनिरासाय समभिव्याहृतेत्युक्तिः । साकाङ्7ता तयोरप्यस्तीति मते तु यत्पदगतेत्याद्येव । समभिव्याहृतपदमनादेयमित्यग्रे व्यक्तम् । यदन्वय इत्युक्तिस्तु घटः कर्मत्वं आनयनं कृतिरिति वाक्ये क्रियाकर्मभावान्वये निराकाङ्क्षे भेदान्वये च साकाङ्क्षे ऽतिव्याप्त्यव्याप्त्योर्निरासायेत्यग्रे व्यक्तम् ॥
1.तावच्छेदकान्वयविषयीभूत (कान्वयविषयीभूत) रूप - उ. 2.दुपस्थित शब्दान्तर -उ. 3.उपस्थितेति नास्ति-उ. 4.टान-उ. 5.नेय-उ. 6.त्यादि -उ. 7.ऽकिञ्चेत्यादिना मण्यभिहितपक्षोक्तदोषप्रसरात्ऽ इति, ततः ऽयत्पदऽ इत्यादि चास्ति -उ-नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 14.
------------------------ ------------ --------
तच्च रूपं क्रियाकारभावान्वये क्रियापदत्वादिकम् । संबन्धरूपान्वये षष्ठ्यन्तत्वादिकम् । अभेदान्वये समानविभक्तिकत्वम् । प्रकृतिप्रत्ययार्थयोरन्वये प्रकृतित्वादिकम् ॥
अत एव घटसमानयेत्यत्रानयेति क्रियापदं विना घटमिति द्वितीयान्तं कारकपदं क्रियाकर्मभावान्वयाननुभावकमिति क्रतियाकारकभावान्वये तेन साकाङ्क्षम् ।
कुत्र किंरूपमित्यतः तद्दर्शयति -- तच्चेति ॥ आदिपदेन कारकपदत्वग्रहः । राज्ञः पुरुष इत्यादावाह --
संबन्धेति ॥ प्रथमान्तत्वमादिपदार्थः । रक्तो घट इत्यादावाह -- अभेदेति ॥ लक्षणवाक्ये तदग्रहणं शब्दपरमित्युपेत्याह - प्रकृतीति ॥ घटमित्यादौ घटरूपप्रातिपदिकार्थद्वितीयाविभक्त्यर्थयोरन्वय इत्यर्थः । आदिपदेन द्वितीयत्वादिग्रहः । क्रियापदत्वादिकं तद्रूपमित्युक्तं तत्क्थमित्यतः क्वचिद्व्यनक्ति -- अत एवेति ॥ क्रियापदत्वादेरितरपद 1 विरहप्रयुक्तान्वयाननुभावकताप्रयोजकत्वादेवेत्यर्थः । क्रियापदं विनेति ॥ क्रियापदत्वाश्रयशब्दं विना आनयनमित्यादिपदप्रयोगेपीत्यर्थः । क्रियाकारकपभावेति ॥ अभेदान्वये तु निराकाङ्क्षत्वात्तदनुभावकताप्रयोजकसमानविभक्तित्वाभावे ऽपि नाव्याप्तिशङ्का । अत एव लक्षणे यदन्वयेत्युक्तमिति भावः ॥
1. विरहेति नास्ति -- उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 15.
---------------- --------------- ---------
1 घटः कर्मत्वमानयनं कृतिरिष्टसाधनत्वमित्यादौ 2 घटसमानयेत्यनेन
सहैकार्थ्ये सत्यपि क्रियाकारकपदत्वाभावान्न तदन्वये घट इत्यादिपदं साकाङ्क्षम् । अभेदान्वये तु समानविभक्तिकत्वात्साकाङ्क्षम् । गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्र 3 भुक्तमित्यस्य क्रियापदस्यासन्नेनाप्यकारक 4 गिरिपदेन नाकाङ्क्षा । किन्त्वानासन्नेनापि कार 5 केण देवदत्तेनेति पदेनैवाकाङ्क्षा ॥
नन्वथाप्युक्तवाक्यसमानार्थकवाक्यान्तरे ऽव्याप्तिरेव । तत्रोक्तान्वयानुभवप्रयोजकक्रियापदत्वादेरभावादित्यत आह -- घट इति ॥ आनयेत्यत्र लुप्तविधिप्रत्ययस्याख्यातत्वेन वाच्यार्थोक्तिः कृतिरिति विधित्वेन वाच्यार्थोक्तिरि 6ष्टसाधनत्वमितीष्टसाधनत्वमेव विध्यर्थ इति विधिवादे लक्ष्यमाणत्वात् । न तदन्वय इति ॥ तथा च 7 लक्ष्यत्वान्न दोष इति भावः ॥
यद्वा क्रियापदत्वादिकमभिमतान्वया 8 नुभावकताप्रयोजकमित्यन्वययेनोपपाद्य व्यतिरेकमुखेनोपपादयति -- घट इति ॥ अन्वयान्तरे तु लक्ष्यत्वे ऽपि प्रयोजकमप्यस्तीति नाव्याप्तिरित्याह -- अभेदेति ॥ एतेन यदन्वय इत्युक्तेः कृत्यं विवृतं ध्येयम् । वाक्यान्तरेप्यतिव्याप्त्यव्याप्ती आशङ्क्य यत्रोक्तरूपप्रयोजकं तत्राकाङ्क्षासत्वेन लक्ष्यत्वम्, यत्र तन्नास्ति तत्राकाङ्क्षापि नेत्यलक्ष्यत्वमतो न दोष इत्याह -- गिरिरिति ॥ क्रियापदस्येति ॥ क्रियावाचिसुबन्तपदस्येत्यर्थः ।
1. अयं ग्रन्थो नास्ति - ग. 2.ऽतुऽ इत्यधिकम्-क. 3.ऽतुऽ इत्यधिकम्-ग-ज-क. 4.णेन गिरि-ग. केण -ज-क. 5.णेन-ग. 6. ऽइष्टसाधनत्वमितिऽ इति नास्ति -उ. 7.चा- उ. 8. ननु - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 16.
------------------------ ------------- -------
अत्र च पदशब्देन शब्दमात्रं विपक्षतम् । तेन प्रकृतिप्रत्ययोरन्योन्यं वाक्ययोश्चान्योन्यमाकाङ्क्षायां नाव्याप्तिः । एवं पदशब्देन तदुपस्थितिरेव
विवक्षिता । तेन पदमात्रस्य स्वत एवान्वयाननुभावकत्वे 1 नानुभावकत्वस्येतरविरहप्रयुक्तत्वादसंभव इति शङ्कानवाकाशः । द्वारमित्यत्र द्वारशब्दस्य पिधेहिशब्देन सह, विश्वजिता यजेतेत्यत्र यजेतेत्यस्य स्वर्गकामशब्देन सोच्चारणनिबन्धनसमभिव्याहाराभावे ऽपि मौनिश्लोकादाविवाभिप्रायिकः समभिव्याहारो ऽस्तीति नाव्याप्तिः । घटो भवतीत्यत्र तु घटपदेन सह रक्त इति पदस्य समान विभक्तिकत्वे ऽपि आभिप्रायको ऽपि समभिव्याहारो नास्तीति ना 2 तिव्याप्तिः ॥
अत्र चेति । लक्षणवाक्य इत्यर्थः । अन्योन्यं वाक्ययोरिति ॥ महावाक्यस्थयोरित्यर्थः । एतेन यत्पदेति पदशब्दो ऽपि शब्दपरः । यद्रूपेत्यपि यद्रूपोपास्थितिपरमिति सूचितम् ॥
लौकिकवैदिकवाक्यान्तरेषु पदान्तरसमभिव्याहाररहितेषु साकाङ्क्षेष्वव्यप्तिमाशङ्क्य निराह -- द्वारमित्यत्रेति ॥ स्वर्गकामेति ॥ सः स्वर्गः सर्वान्प्रत्यविशिष्टत्वादिति चतुर्थाध्यायतृतीयपादीयसप्तमाधिकरणे विश्वजितेत्यादौ स्वर्गकामपदाध्याहारस्य सिद्धत्वादिति भावः । एवं ह्यतिव्याप्तित्याशङ्क्य निराह -- घट इति ॥ समानेति ॥ अभेदान्वयानुभावकताप्रयोजकरूपवत्वे ऽपीत्यर्थः ।
1.त्वस्येतर -ग. 2.नाव्याप्तिः -- ग.
आकां-नु-पणम्) आकाङ्क्षावादः पु - 17.
--------------- -------------- ---------
यद्वा तत्र रक्तपदे 1 नाकाङ्क्षास्त्येव । नहि समभिव्याहारादाकाङ्क्षा । किं तु साकाङ्क्षाणां समभिव्याहारः । तत्रानाकाङ्क्षत्वव्यवहारस्तु रक्तान्वये तात्पर्याभावात् । भवनक्रियान्वयेन घटपद2 स्य रक्तपदे 3 इत्थिताकाङ्क्षा 4
ऽभावाच्च । घटस्य रक्ताभेदाप्रतीतिस्तु रक्तपदानुपस्थितेः । अस्मिंश्च पक्षे आकाङ्क्षालक्षणे समभिव्याहृतविशेषणमनपेक्षितमेव ॥
नन्वेवमितरपदविरहप्रयुक्ताननुभावकताप्रयोजकरूपवत्वात्मिका स्वरूपयोग्यता आकाङ्क्षेति पर्यवसितम् ।
एतेन समभिव्याहृतेति पदकृत्यं विवृतं ध्येयम् । समभिव्याहाराभावे कथमाकाङ्क्षेत्यत आह -- न हीति ॥ तथात्वे द्वारमित्यादावाकाङ्क्षाभावप्रसङ्गादिति भावः । साकाङ्क्षाणामिति ॥ अत एव द्वारमित्यादावध्याहार इति भावः । तत्रेति ॥ रक्तपद इत्यर्थः । अन्वयेन अन्वितत्वेन । उत्थितेति ॥ स्वारसिकेत्यर्थः । आकाङ्क्षारूपहेतौ सति कुतो नान्वयधीरत्यत आह -- पटस्येति ॥ अस्मिंश्च पक्ष इति ॥ रक्तपदे ऽस्त्याकाङ्क्षेति पक्ष इत्यर्थः । तस्यापि लक्ष्यत्वेनातिव्याप्तेरभावात् । एवं द्वारमित्यादावव्याप्तिशङ्का नास्तीति भावः ॥
इतरपदविरहप्रयुक्तानुभवप्रागभाव आकाङ्क्षेति मण्युक्तलक्षणाभिमानी शङ्कते ॥ नन्वेवमिति ॥ पदान्तरस्य पदान्तरविरहप्रयुक्ताननुभावकतायाः पदान्तरे क्रियापदत्वादिलक्षणप्रयोजकरूपं यत्तद्वत्वात्मिकेत्यर्थः ।
1.दे आ -ग. 2.देप्या-ज-क. 3.दस्य -ज. 4.या अभा - ग-ज-क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 18.
------------------------ ------------- -------
सा च जनितफले ऽप्यस्तीति तत्रातिव्याप्तिः स्यात् । प्रागभावपक्षे तु नायं दोष इति चेन्न । इष्टापत्तेः । जनितफले ऽनाकाङ्क्षत्वव्यवहारस्तु विरक्तं प्रति वाणिज्योपदेश इव श्रोतुरन्वयबोधान्तरस्यानपेक्षिकतत्वात् । न तु पदस्य निराकाङ्क्षत्वात् । न च लाक्षणिकादावव्याप्तिः । मन्मते लाक्षणिकगौणयोरप्यनुभावकत्वात् ॥
नन्वथापि स्वरूपयोग्यता कारणतैव, न तु कारणम् । तथाचाकाङ्क्षायाः शाब्दबोधहेतुत्वं न स्यादिति चेन्न । उक्ताकाङ्क्षाज्ञानस्यैव हेतुत्वेनेष्टापत्तेः । अत एवोक्तयोग्यताज्ञानस्य शाब्दबोध एव हेतुत्वादेवासाधरण्यम् । न हि घटादौ कारणताज्ञानं हेतुः ।
जनितान्वयानुभवे ऽपि वाक्ये ऽस्तिक्रियापदत्वादेस्तदाप्यनपायादिति भावः । अनपेक्षितत्वादिति ॥ एतेन जनितान्वयबोधेनापि द्वितीयान्वयबोधजननापत्तेरिति रुचिदत्ताद्युक्तं निरस्तम् । अनपेक्षाया एव प्रतिबन्धकत्वात्,
अपेक्षायां त्विष्टापत्तरिति ॥
मणिकृन्मते ऽभिहितदोषो नात्रास्तीत्याह -- नचेति ॥ मन्मत इति ॥ तत्रोक्तदोषस्तु गौणलक्षणवृत्तिविचारो निरसिष्यत इति भावः । नन्वथापीति ॥ जनितफलेतिव्याप्तेरदोषत्वेपीत्यर्थः । अत एवेत्येतव्द्यनक्ति-- उक्तयोग्यतेत्यादि ॥ नहीति ॥ येनासाधारण्यं न स्यादिति भावः ॥
यत्वाकाङ्क्षाज्ञानस्य हेतुत्वे जनितफले ऽपि वाक्ये परेणेतरविरहप्रयुक्ताननुभावकताप्रयोजकरूपवदिति शब्द उद्भाविते ऽन्वयबोधापत्तिरिति । तन्न । प्राचीनान्वयबोधस्यैव प्रतिबन्धकत्वाच्छ्रोतुरनपेक्षितत्वाच्चेति ॥
आकां-नि-पणम्) आकाङ्क्षावादः पु - 19.
--------------- -------------- --------
न च शाब्दबोधेपि 1 तज्ज्ञानस्य हेतुत्वे मानाभावः । पदशक्तिग्रहरूपपव्युत्पत्तौ सत्यामपि क्रियापदं विना कारकपदं नान्वयबोधकमिति सानान्यज्ञानरूपवाक्यव्युत्पत्तिं विना वाक्यार्थ 2 बोधाभावात् । अन्यथा वाक्यं वाक्यव्युत्पन्नस्याप्यन्वयबोधकं स्यात् ॥
नन्वेवं चेदयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र राजपदे पुत्रपुरुषपदगतरुपविरहप्रयुक्ततत्तन्वययाननुभावकत्वरूपाकाङ्क्षायाः सत्वादुभयान्वधीः स्यादिति चेन्न ।
मानाभाव इति ॥ शक्तिस्मरणे सति तज्ज्ञानाभावेनान्वयबोधविलम्बाभावादिति शङ्कितुर्भावः । तदभावे ऽस्यान्वयबोधविलम्ब इत्याह --- पदशक्तीति ॥ उक्तं च जयदेवेनापि"आकाङ्क्षाहेतुत्वेमानाभावेन तज्ज्ञानं कारण"मिति ॥ एतेन"न हि तस्यापि ज्ञानं हेतुरिति शक्यते वक्तुम् । तत्र मानाभावादिति"रुचिदत्तोक्तं निरस्तं ध्येयम् । वाक्याव्युत्पन्नस्येति ॥ उक्तरूपवाक्यव्युत्पत्तिहीनस्यापीत्यर्थः॥
उक्तवक्षणस्य वाक्यान्तरे ऽतिव्याप्तिमाशङ्क्यते -- नन्वेवमिति ॥ इतरपदविरहप्रयुक्ताननुभावकताप्रयोजकरूपवत्वमाकाङ्क्षा चेदित्यर्थः। पुत्रपुरुषपदगतेति ॥ प्रथमाविभक्त्यन्तत्वलक्षणधर्मेत्यर्थः । रूपशब्दो धर्मपर्यायः । उभयेति ॥ नास्ति च पुरुषपदेनाकाङ्क्षा । अतस्तत्रोक्तलक्षणमतिव्याप्तमनिति भावः ।
1. तस्य -ज. 2.ज्ञाना -ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 20.
------------------------- ------------- -----
उभयत्रकाङ्क्षायाः सत्वे ऽपि पुत्रान्वय एव तात्पर्यग्रहे 1 पुरुषान्वयबोधाभावसंभवात् । उभयत्र तात्पर्यग्रहे चेष्टापत्तेः ।
अत एव तत्रावृत्तिः कल्प्यते । अहो विमलं जलं नद्याः कच्छे महिषाश्चरन्तीत्यत्र येन पुंसा नद्या इत्यादिकमेव श्रुतं तं प्रति नदीपदं जलपदाश्रवणेन कच्छ एव साकाङ्क्षम् ॥
नन्वेवमुदयनादिमते त्वदुक्तरूपग्रहविरहप्रयुक्तः शाब्दानुभवप्रागभाव आकाङ्क्षा । 2 तन्मते तु प्रागभावप्रयोजकविरचहप्रतियोगिग्रहविषयीभूतं रूपमाकाङ्क्षा ।
लक्ष्यत्वमुपेत्य समाधिमाह -- उभयत्रेति ॥ तात्पर्यग्रहस्य शाब्दबोधे हेतुत्वादन्यत्र तदभावादेवान्वयबोधाभावो न त्वाकाङ्क्षाविरहात् । येनातिव्याप्तिः स्यादिति भावः । आवृत्तिरिति ॥ राजपदस्येत्यर्थः । कच्छ एवेति ॥ एवं च जलस्याश्रयणेनानुपस्थितेस्तत्र षष्ठ्यन्तान्वयप्रयोजकोपस्थितिविषयरूपवत्वाभावात् । प्रथमान्तेनापि जलपदेन निराकाङ्क्षतैवेति न तत्राव्याप्तिर्देषाय । उपस्थितौ तु तत्राकाङ्क्षासत्वे ऽपि तात्पर्याग्रहादन्वयबोधाभावः । तत्रापि तात्पर्यग्रहे तूभय 3 त्रान्वयबोधो नदीपदावृत्तिश्च पूर्ववदिष्टैवेति भावः ॥
एवं सर्वत्र लक्ष्ये ऽलक्ष्ये च स्वोक्ताकाङ्क्षालक्षणस्य भावाभावानुपपद्येदानीं परोक्तलक्षणात्स्वोक्तलक्षणस्यातिशयं शङ्कापूर्वं व्यनक्ति -- नन्विति ॥ प्रागभावेति ॥ अन्वयानुभवप्रागभावे प्रयोजकूभूतो यो विरहः तत्प्रतियोगी यो ग्रहः ज्ञानं तद्विषयीभूतं रूपमित्यर्थः ।
1.हेण -ग-ज-क. 2.त्व -ग-ज-क. 3.यान्व -उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 21.
--------------- ------------- --------
ततः कोत्र विशेष इति चेदियानेव विशेषः । त्वन्मते आकाङ्क्षा क्षोतृगता स्यात्, प्रागभावज्ञानं शाब्दबोधजनकमित्यस्योक्तरीत्यादुर्घचत्वाच्छाब्दबोधं प्रत्याकाङ्क्षाज्ञानस्य हेतुत्वं न स्यात्, जनितफलवाक्यस्थपदे विरक्तं वाणिज्योपदेश इव साकाङ्क्षत्वे सत्यपि पुरुषस्यानपेक्षामात्रेण शब्दस्याकाङ्क्षापलापश्च स्यादिति दोषत्रयम् । मन्मते तु आकाङ्क्षा आसत्तिवच्छब्दगतैव, इदं चाकाङ्क्षालक्षणं टीकोक्तजिज्ञासाविषयप्रतिपादकत्वरूपलक्षणाविनाभूतम् ॥
यद्रूपविरहेति लक्षणवाक्ये यद्रूपविरहशब्देन यद्रूपोपस्थितिविरहस्याभिमतत्वादिति
भावः । श्रोत्रगतेति ॥ अत एवोदयनलक्षणे श्रोत्ररीत्युक्तिरिति भावः । उक्तरीत्येति ॥ तज्ज्ञानस्य कारणत्वे मानाभावादित्यादिनोक्तरीत्येत्यर्थः । आकाङ्क्षेति ॥ शब्दगतैवेत्यन्वयः । सुघटमिति ॥ प्रागुक्तवाक्यव्युत्पत्तिरूपप्रमाणाभावादिति भावः ॥
नन्विदं मूलग्रन्थे नोपलभ्यत इत्यत आह -- इदं चेति ॥ टीकोक्तेति ॥ टीकाकृता पद्धतावुक्तेत्यर्थः । प्रमाणलक्षणटीकायामुक्तेति वार्थः । तदुक्तेरपि पद्धत्युक्त्यै 1 कार्थत्वात् ॥
1. क्तैकार्थ्यात् - नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 22.
------------------------- ------------ -------
वस्तुतस्तु यत्पदप्रयोज्यजिज्ञासाविषयत्वयोग्यज्ञानजनकत्वावच्छेदकरूपवत्वं यस्य सह तस्य तद्रूपमे 1 वाकाङ्क्षा । भवति हि घटमानयेत्यत्र घटमिति कारकपदप्रयोज्या या जिज्ञासा तस्य विषयत्वयोग्यं यत्क्रियाज्ञानं तज्जनकं यदानयेति 2 क्रियापदं तन्निष्ठजनकतावच्छेदकं क्रियापदत्वमाकाङ्क्षा 3 । इयं च जिज्ञानायोग्यताजिज्ञासितेप्यस्तीति नाव्याप्तिः ॥
ननु 4 लक्षणे यस्याननुभावकत्वं यद्रूपविरहप्रयुक्तमिति नञ्द्वयप्रवेशाद्गौरवम् । यस्यानुभावकत्वं यत्पदकयद्रूपप्रयुक्तमित्येवोक्तौ लाघवम् । किञ्चान्वयानुभवप्रागभावस्य विरहप्रयुक्तत्वं च दुर्वचम् । अनादेर्जन्यत्वायोगात् । तद्व्याप्यत्वस्यापि भिन्नाधिकरमतया दैशिकस्यायोगात् । कालिकस्य च संकेतास्मृतिदशायां सत्यपीतरपदे ऽनुभवप्रागभावसंभवेन व्यभिचारात् । किञ्चैवं सति टीकाकृदुक्तलक्षणमसमञ्जसमित्यपि धीर्मन्दानां प्राप्नोतीत्यत आह -- वस्तुतस्त्विति । यत्पदप्रयोज्येति ॥ यच्छब्दोपस्थितिजन्येत्यर्थः । पदेति शब्दपरं सत्तदुपस्थितिपरमिति प्रागेवोक्तत्वात् । अन्यथा 5 पूर्वोक्तदोषापत्तिः ।
जिज्ञासाज्ञानविषयकेच्छा । तद्विषयत्वयोग्यं ज्ञानं तज्जनकतावच्छेदं रूपं क्रियापदत्वादिकं पूर्वोक्तमेव ध्येयम् ॥
लक्षणार्थं विवृण्वन्नेव लक्ष्यनिष्ठतया दर्शयति -- भवति हीति ॥ इयं चेति ॥ इयं च जिज्ञासां प्रति योग्यता अजिज्ञासिते जनितफले जिज्ञासापूर्वभाविन्यपि वाक्य इत्यर्थः ।
1.एवकारो नास्ति-रा. 2.आदि इत्यधिकम् -रा. 3. प्रसङ्गात् इत्यधिकम् - ग. 4.उक्त इत्यधिकम् - उ. 5. प्रागुक्त - उ.
आकां-नि-पणम्) आकाङ्क्षावादः पु - 23.
---------------- ------------- --------
तस्मात्स्वरूपयोग्यतैवाकाङ्क्षा । अत एव पद्धता"वाकाङ्क्षा जिज्ञासा चेतनधर्मः । तद्विषयत्वात्पदार्थः साकाङ्क्षाः । तत्प्रतिपादकत्वात्पदानीत्यपीत्यत्र प्रतिपादकशब्देन जिज्ञानाविषय 1 ज्ञानजनकतावच्छेदकरूपवत्वात्मिका जिज्ञासितार्थप्रतिपादनयोग्यतैवाकाङ्क्षे"त्युक्तम् । न तु फलोपाधानम् । अन्वयबोधात्प्रागाकाङ्क्षाभावप्रसङ्गात् ॥
प्रमाणलक्षणटीकायामपि पूर्वपदजनिताकाङ्क्षापूरक 2 त्वमित्यत्र पूरकशब्देनास्मदुक्ता 3 जिज्ञासाविषयत्वयोग्यज्ञानजनकतावच्छेदकरूपवत्वात्मिका जिज्ञासा 4 पूरकतैवाकाङ्क्षेत्युक्तम् । भवति हि 5 जिज्ञासाविषय 6 ज्ञानजनको जिज्ञासापूरकः । इच्छाविषसाधकस्यैव लोके इच्छापूरकत्वेन व्यवहारात् ॥
यत्तु टीकायां विरक्तं प्रति वाणिज्योपदेशे नैराकाङ्क्ष्यमुक्तं,
तस्मा 7 दव्याप्तिशून्यत्वादित्यर्थः । न च स्वरूपयोग्यताया 8 आकाङ्क्षात्वे शाब्दबोधसाधारण्यं न स्यादिति शङ्क्यम् । उक्तरूपाकाङ्क्षाज्ञानस्यैव हेतुत्वादित्युपपादितत्वादिति भावः । अत एवेति ॥ उक्तरूपस्वरूपयोग्यताया
आकाङ्क्षात्वादेवेत्यर्थः -- जिज्ञासाविषयज्ञानेति ॥ इच्छाविषज्ञानेत्यर्थः । इच्छाविषयेति ॥ इच्छाविषयोत्पादकस्यैवेत्यर्थः । टीकायामिति ॥
1.त्वयोग्यज्ञा-रा. 2.कमि-नं. 3.क्तजि -रा.न. 4.पूरकपदं न -रा. 5.हि इति नास्ति -नं. 6.त्वज्ञा -रा. 7.तस्मादिति। व्याप्तिशू -नं. 8.याः नाकां - नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 24.
----------------------- ------------ -------
तदन्वयबोधोपयोगि 1 साकाङ्क्षत्वे सत्यपि श्रोतृरनपेक्षितत्वमात्रेण ॥
अत एव टीकायामन्वयबोधोपयोग्याकाङ्क्षाभावे गौरश्वः पुरुषो हस्तीत्यादिकमेवोदाहृतम् ॥
इत्याकाङ्क्षानि 2 रूपणम् ॥
प्रमाणलक्षणटीकायामित्यर्थः ॥
इत्याकाङ्क्षानिरूपणम् ॥
अथासत्तिनिरूपणम् ॥ 2. ॥
ननु -- सन्निधानापरपर्यायासत्तिर्न तावन्मण्युक्तरीत्याव्यवधानेन पदार्थस्मृतिः ।
अथासत्तिनिरूपणम् ॥ 2. ॥
प्रमाणपद्धता"वाकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्य"मित्युक्तेः
सन्निधिनिरूपणमं विनासत्तिनिरूपणमयुक्तमित्यत आह -- सन्निधानापरर्यायेति ॥ यद्यपि 3 साक्षादाकाङ्क्षायोग्यतेति निर्देशक्रमेण योग्यतैवाकाङ्क्षोक्त्यन्तरं निरूपणीया । तथाप्यासत्तिनिरूपणस्याल्पत्वात्सूचीकताहन्यायेनासत्तेः पूर्वमुक्तिरित्येके ॥
वस्तुतस्तु शाब्दप्रमाया 4 माकाङ्क्षासत्ती एव हेतू न पुनर्योग्यतापीति तयोरेव पूर्वमुक्तिर्युक्ता । अत एव पद्धतावासत्ति स्वरूपोक्त्यनन्तरमेव योग्यता 5 ।
1.गिनि सा -च.क. 2.निरूपणपदं न -नं-ज-ग. 3.साक्षादिति नास्ति -उ. 4.णं- नं. 5.तोक्तिः -उ.
आस-नि-पणम्) आसत्तिवादः पु - 25.
-------------- ----------- --------
वाक्ये पदार्थस्मृतिरेव नेति वक्ष्यमाणत्वात् । अनासन्ने आसत्तिभ्रमेणान्वयबोधस्थले त्वत्पक्षे पदार्थोपस्थितेर्विशेषणज्ञानत्वेन शाब्दबोधहेतुत्वात् हेतोश्चाव्यवहितत्वनियमेनासत्तेरेव सत्वेनासत्तिभ्रमानुपपत्तेश्च ।
अतस्तत्क्रममनुसृत्यात्र निरूपणमिति । क्वचिदा 2 काङ्क्षासन्निधियोग्यतावतां पदानां समूहो वाक्यमिति पद्धत्यनुरोधे पूर्वनिर्देशात्तथैवास्त्विति यथान्यस एव क्रमः॥
आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः । सा च स्मृतिर्नानुभव इति मण्युक्तं निष्कृष्यानुवदति -- अव्यवधानेन पदार्थस्मृतिरिति ॥ अन्वयविरोधिव्यवधानाभावेनेत्यर्थः । पदार्थेति ॥ संकेतस्मरणवाक्यार्थबोधयोर्मध्ये पदार्थस्मृतिरेव नास्ति, कुतो ऽव्यवाधानत्वं तस्या इत्यर्थः । वक्ष्यमाणत्वात् ॥ अन्विताभिधा 3 नोक्तिवाद इत्यर्थः ॥
पक्षधराद्यूहितदोषमाह -- अनासन्नेति ॥ सप्तम्यन्तानामासत्तेरेव सत्वेनेत्यन्वयः । आसत्तिभ्रमेणेति ॥ अन्वयविरोधिव्यवधानेपि तदभावभ्रममेणेत्यर्थः ।
गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादौ व्यवहितपदोपेततया आसत्तिहीनवाक्ये पदानामव्यवहितत्वभ्रान्त्या पदार्थानामुपस्थितौ गिरिरग्निमान्देवदत्तेन भुक्तमित्यन्ववयबोधदर्शनात्तत्र स्थले पदार्थे स्मृतेर्व्यवहितत्वस्यावश्यकत्वात्तत्रातिव्याप्तिरिति भावः ॥
विशेषणज्ञानत्वेनेत्युपलक्षणम् । पदार्थस्मृतित्वेन हेतुत्वेप्येष दोषः सम एव ।
1.तोक्तिः -उ. 2.त्तु आ -उ. 3.वादोक्तवाद - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 26.
------------------------- ------------- --------
पदार्थस्मृतौ सत्यां स्मृति 1 विषयकज्ञानविलम्बेन शाब्दबोधविलम्बादर्शनेनासत्तिज्ञानस्य हेतुत्वानुपपत्तेश्च । न चेयं स्वरूपसत्येव हेतुः । तद्भ्रमेण शाब्दभ्रमायोगात् ॥
किं च नानाविशेषणकैकविशेष्यकबोधस्थले विशेषणानामन्योन्यमन्वयायोग्यतया 2 न्वितान्वयासंभवेन समूहालम्बना एकैव पदार्थस्मृतिर्वक्तव्या । तथाच तत्र वाक्ये किञ्चित्केनचिदासन्नमनासन्नं च केनचिदिति कथं विभागः ॥
असंभवं चास्य (स्ति) 3 लक्षणस्याह -- पदार्थस्मृताविति ॥ न चे 4 यमिति ॥ आसत्तिरित्यर्थः । अपसिद्धान्ते सत्यपि दोषान्तरमाह -- तद्भ्रमेणेति ॥
यत्वन्वयप्रतियोग्युपस्थितिरासत्तिरन्वयबोधाङ्गं, सा च स्वरूपसर्ता 5 भानाभावात् । अनुमितौ
पक्षसाध्यप्रत्यवत्तद्भ्रमेण शाब्दभ्रमो ऽसिद्ध एव । तात्पर्यभ्रमेण योग्यताभ्रमेण वा तदुपपत्तेरिति तन्न । विशेषणज्ञानत्वेन हेतुत्वोक्तौ शाब्द 6 साधारण्याभावात्पदार्थस्मृतित्वेन हेतुत्वे च वाक्ये पदार्थस्मृतिरेव नेत्यसंभवदोषात् अतिव्याप्त्यसंभवावुक्त्वाव्याप्तिं चाह -- किञ्चेति ॥ नानाविशेषणकेति ॥ दण्डी कुण्डली चैत्र इत्यादौ चैत्रपदेन कुण्डली 7 पदमासन्न 8 दण्डीपदमनासन्नमिति विभागोस्ति । स न स्यात् ।
पदार्थस्मृतेरेवासत्तित्वे तावत्पदार्थगोचरैकस्मृतेरेव तत्र वाच्यत्वात्क्रमेणोपस्थितौ
हि पूर्वस्मृतिविशेषेणान्वयानन्तरं --
1.तेर्ज्ञा -रा. 2.अन्वितपदं न -रा. 3.सत्ति-उ. 4.चैव -उ. 5. न तु ज्ञाता -उ. 6.ब्दासा -उ. 7.लिप -उ. 8. न्नमिति विभागोस्ति -उ.
आस-नि-पणम्) आसत्तिवादः पु - 27.
-------------- ---------- --------
किञ्च पद्ये कुलकादौ चातिव्यवहितत्वात्कथमासत्तिः । नाप्यव्यवहितपदोपस्थितिरासत्तिः । व्यवहितपदोपस्थितिकपद्यादावव्याप्तेः । उक्तरीत्यासत्तिज्ञानस्य हेतुत्वानुपपत्तेश्च ॥
नापि पदाव्यवधानमासत्तिः । अव्यवधानं हि पदे लिप्युच्चारणादिनिबन्धनमेव वाच्यम् ।
-- चरमं 1 स्मृतिविशेषणान्वयः स्यात् । न चैवं युक्तम् । विशेषणविशिष्टे विशेषणान्तरान्वये विशेषणयोरप्यन्वयापत्या तदसंभवात् । विशेष्येणासन्नं स्वासन्नेन विशेषणेन स्वयमन्वितं सत्पश्चाद्विशेषे 2 णान्वेतीत्यस्यापि विशेषणयोर 3 प्यन्वयायोगेनासंभवादित्यर्थः ॥
स्थलान्तरेप्यव्याप्तिमाह -- किञ्च पद्य इति --
"श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि।
वसन्ददर्शा 4 वतरन्तमम्बरात्"................. ॥
इत्यादिश्लोके क्रियाकारकपदानामतिव्यवहितत्वात्तत्र त्वदुक्ताव्यवहितपदार्थस्मृतेरयोगात् ॥
"ततः सपत्नापनयस्मरणानुशय(नुदय)स्फरा ।"
इत्यादि माघस्थेष्वष्टसु श्लोकेष्वतिव्यावहितत्वात्तत्रा 5 व्याप्तिरिति भावः --
पक्षान्तराण्यपि निराह -- नाप्यव्यवहितेति ॥ अव्यवहितपदानामुपस्थितिरित्यर्थः । सा किं स्वरूपसती हेतुरुत ज्ञाता । आद्य आह -- व्यवहितेति ॥ अन्त्य आह -- उक्तरीत्येत ॥ पदार्थस्मृतावित्यादिनोक्तरीत्येत्यर्थः ।
1.मस्मृ- उ. 2.ष्येणान्वे -उ. 3.न्योन्यान्वय -उर्. 4.शेत्यादिश्लेके -उ. 5.त्रातिव्या - नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 28.
------------------------ ------------- -------
तथाच व्यवहितोच्चारिते लिखिते योजनयाप्यन्वयबोधो न स्यात् । व्यवधानस्य दृष्टत्वेन योजनयाप्यव्यवधानबोधानाभावाच्च ॥
नाप्यव्यवहितत्वेन पदतात्पर्यमासत्तिः । अतात्पर्यकशुकादिवाक्याव्याप्तेः । अव्यवहित 2 तात्पर्यकं व्यवहितमुच्चारयतो वादिनो ऽनासन्नाभिधानरूपार्थकनिग्रहानुपपत्तेच्च।
पदार्थस्मृतिपदस्थाने पदोपस्थितौ सत्यामिति ज्ञेयम् । लिप्युच्चारणादीत्यादिपदेन विरोधिपदानुच्चारणग्रहः । व्यवहितेति ॥ गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादिपदावत्यर्थः -- लिप्यनुमितेति ॥ यत्र लिपिगदृष्ट्या पदस्यानुमानं तादृशस्थल इत्यर्थः । तथाच तत्रा 3 व्याप्तिरिति भावः ॥
वस्तुतो ऽव्यवहितत्वेन पदतात्पर्यमासत्तिरिति पर्यवसितेति पक्षधरनिर्धानितपक्षं निराह -- नाप्यव्यवहितत्वेनेति ॥ व्यवहितपद्ये कुलकादौ च पदानां व्यवधानेनोच्चारणे लखनेपि चाव्यवहितत्वेन वक्तृतात्पर्यगोचरत्वात्तेषां तत्र नाति 4 व्याप्तिरिति भावः। शुकादीति ॥ न च तत्राप्यस्तीश्वरतात्पर्यमिति वाच्यम् । तथासत्यासत्तिभ्रमस्थले तदादायासत्तिसत्वसंभवे तद्भ्रमानुपपत्तेः । दोषान्तरं चाह -- अव्यवहितेति ॥ अपार्थक 5 मिति ॥
अनान्वितवाचकपदादिप्रयोगो ऽपार्थकमित्यपार्थकनिग्रहस्थानलक्षणादिति भावः ॥
1.तत्रेति नास्ति -रा. अग्रे अभावपदं न - ग. 2.पदेत्यधिकम् -रा. 3.त्रातिव्या -नं. 4.नाव्या -उ. 5. केति -उ.
आस-नि-पणम्) आसत्तिवादः पु- 29.
-------------- ----------- ------
गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यनासन्नोदाहरणे ऽतिव्याप्तेश्च । तत्राप्यव्यवहिततात्पर्यकत्वसंभवात् । तस्मादासत्तिर्दुर्निरूपेति ॥
उच्यते --
पदोपस्थित्यनुकूलवक्तृव्यापारे निष्फलस्यान्वयबोधविरोधिव्यवधानस्याभाव आसत्तिः ।
ननु - सर्वथैवानन्विता 1 वाचक 2 पदप्रयोगो ऽपार्थकम् । कुण्डमजाजिनं दशदाडिमानि षडपूपा इत्यादौ योजनयाप्यन्वयहिनस्थले एव तत् । न तु योजनयाप्यन्वयस्थलेपीति चेत् । तत्राप्यस्तीत्यादिपदान्तरतात्पर्यकत्वसंभवात् । दोषान्तरं चाह -- गिरिरिति ॥
यदप्यव्यवहितपदार्थोपस्थित्यनुकूलो व्यापार आसत्तिः, स चैकपदानन्तरमपर 3 पदे तात्पर्यमुच्चारणं वेति पक्षधनाभिमतं पक्षान्तरं तदप्यनेनैव निरस्तम् । शुकादिवाक्यादावव्यप्तेः । गिरिरित्यादिवाक्ये ऽतिव्याप्तेः । वाक्ये पदार्थोपस्थितेरेवाभावस्य वक्ष्यमाणत्वादिति भावेनोपसंहरति -- तस्मादिति ॥
सन्निधिरविलम्बेनोच्चारितमिति पद्धत्याद्युक्तं हृदि कृत्वाह -- पदेति ॥ पदग्रहणं शब्दमात्रपरम् । तेन प्रकृतिप्रत्यययोरवान्तरवाक्ययोश्चासत्तौ नाव्याप्तिः । पदयोः पदानां 4 चोपस्थितेरनुकूलो यो व्यापारः लिपिः उच्चारणं तात्पर्यं वा तस्मिन्नित्यर्थः । निष्फलान्वयबोधविरोधव्यावधानशून्यः शब्दोपस्थित्यनुकूलवक्तृव्यापारविषयतासत्तिरित्यर्थः। उच्चारणमात्रं
वक्तृव्यापारश्चेन्मौनिश्लोकादावव्याप्तिरित्यत आह - वक्तृति ॥
तवाक -उ. 2.पदेति नास्ति- उ. 3. अपरपदं न -नं. 4. वोप -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 30.
------------------------ ------------ -------
वक्तृव्यापारत्वं च लिप्युच्चारणाभिप्रायसाधारणमिति न मौनिश्लोकादाव्याप्तिः ॥
न च गिरिर्भुक्त 1 मित्यनयोर्मध्ये विरोध्युपस्थित्यभावादे 2 तयोरासत्तिः स्यादिति वाच्यम् । इष्टापत्तेः । अन्वयबोधस्त्वाकाङ्क्षाविरहात् ॥
नापि पद्यकुलकादावव्याप्तिः । तत्रापि मया छन्दोनुरोधायालङ्काररसविशेषयोराधानाय च व्यवधाने कृतेपि श्रोत्रैवं योजयिष्यतीत्यभिप्रायस्य सत्वात् । अपौरुषेयेपि वेदे ऽस्माकमुक्त 3 ईश्वराभिप्रायोस्त्येव ।
लिपिसने 4 विशिष्टस्यापि लक्षणस्यातिव्याप्तिमाशङ्क्य लक्ष्यत्वोपगमेन समाधिमाह -- न च गिरिरिति ॥ तथात्वे स्यादन्वयबोध इत्यत आह -- अन्वयाबोधस्त्विति ॥ निष्फलस्येति विशेषणमप्याप्तिनिरासायेति भावेनाह
-- नापि पद्येति ॥ छन्द इति ॥ वागर्थामिव संपृक्तौ पार्वतीपरमेश्वरौ वन्द इत्युक्ते 5 नुष्टप्ससंज्ञकछन्दोभ 6 ज्येतातो व्यवधानम् । एवमन्यत्रापि ॥ अलङ्कारेति ॥ कुलकालङ्कारेत्यर्थः । रसेति ॥ श्रुङ्गारविरकरुणादिरसेषु मध्ये श्रुङ्गारादिरसविशेषलाभायेत्यर्थः । तथाच तत्र निष्फलव्यवधानाभावा 7 न्नाव्याप्तिरिति भावः ॥
वेदवाक्ये ऽव्याप्तिस्तर्हि स्यादिति आह -- अपौरुषेयेति ॥ उक्त इति ॥ श्रोतैवं योजयिष्यतीत्येवंरूपाभिप्रायो ऽस्माकं मते अस्त्येवेत्यर्थः । सेश्वरवादित्वादिति भावः ॥
1.अग्निमनित्यधिकम् -रा. 2.वत- रा. 3.रीत्येत्यधिकम् -ज. 4.नवि -उ. 5.नपुंसकछं -नं. 6.ङ्गेना -नं. 7. वसत्वान्ना -उ.
आस-नि-पणम्) आसत्तिवादः पु - 31.
-------------------- ---------------- -----------
मीमांसकानामप्यनादौ संसारेर्ऽथाभिज्ञाध्यापकस्योक्ता 1 भिप्रायोस्त्वेव । व्यवधानस्य त्वदृष्टविशेषः फलम् ॥
नाप्यनासन्नोदाहरणे ऽतिव्याप्तिः । तत्र व्यवधानस्य निष्फलत्वात् । अत एवा 2 व्यवहिततात्पर्यके वादिवाक्ये नातिव्याप्तिः । श्रुतस्य व्यवहितत्वात् । आभिप्रायकस्य च वादिनो ऽनाप्तत्वेनाभिप्रायकल्पनाविरहादेवानुपस्थितेः ॥
केचित्तु -- श्लोककुलकादावासत्यभावान्न श्लोकादिकं बोधकम् । किन्तु तदुन्नीतं वाक्या 3 दिकमेवेत्याहुः ॥
ननु वेदे ऽलङ्कारविशेषसविशेषयोरा 4 धानाभावात् --
"सप्तार्घगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि"।
इत्यादौ निष्फलमेव व्यवधानमि 5 ति तत्राव्याप्तिरित्यत आह -- व्यवधानस्य त्विति ॥ अनादितो व्यवधानेनैव सन्निविशितपा 6 दावल्या तथैवाध्यापनजपाद्यनुष्ठाने ऽदृष्टमन्यथा नार्थ इति शुभाशुभप्राप्तिपरिहाररूपादृष्टमेव फलमित्यर्थः । निष्फलस्येत्युक्त्या गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादावतिव्याप्तिश्च निरस्तेत्यत आह -- नाप्यनासन्नेति ॥ अव्यवहिततात्पर्यकमित्यादिनोक्तदोषः स्वपक्षे नेत्याह -- अत एवेति ॥ तमेव हेतुं व्यनक्ति -- श्रुतस्येति ॥ केचित्विति ॥ कल्पनागौरवममस्मिन्पक्षे 7 अस्वारस्य बीजं ध्येयम् ।
1.क्तोभि -ग. 2.वव्य -रा-क. 3.न्तरमेवे -रा.ज-क. 4.राभा-नं. 5.
मस्ती-उ. 6. पदा -उ. 7. क्षे बीजं बोध्यम् -नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 32.
------------------------ ------------- -------
इयं चासत्तिर्ज्ञातैव शाब्दधीहेतुः । आसत्तिभ्रमेण शाब्द 1 भ्रमात् । नीलो घटोस्तीत्यादौ नीलघटपदयोर्मध्ये ऽनुषङ्गपदान्तरोच्चारणावृत्यध्याहारादिसंदेहे निश्चये वा वाक्यार्थाबोधाच्च ॥
पद्धतौ प्रमाणलक्षणटीकायां च सन्निधिरविलम्बेनोच्चारितत्वमित्यत्राविलम्बशब्देनास्मदुक्तव्यवधानाभावः उच्चारणशब्देन च वक्तृव्यापारमात्रं विवक्षितमिति ज्ञेयम् ॥
इत्यासत्ति 2 निरूपणम् .
आसत्तिभ्रमेण 3 शब्दभ्रमे विप्रतिपन्नं प्रत्याह -- नील इति ॥ अनुषङ्गश्च पदान्तरोच्चारणं
चावृत्तिश्चाध्याहारश्चेत्येवमादिसन्देहे नीलघटपदार्थान्वयबोधाभावेन स्वरूपसदासत्या न हेतुत्वं किन्तु ज्ञाताया एव । अन्यथा तादृशस्थलेप्यन्वयबोधः स्यादेव । स्वरूपसत्यास्तस्यास्तत्र सत्वादित्यर्थः॥
एतेनासत्तिः स्वरूपसती हेतुः । न तु ज्ञाता । मानाभावादिति रुचिदत्ते 4 नोक्तं निरस्तम् । आवृत्तिरस्तिपदस्य । नीलोस्ति घटोस्तीति नीलो भवति घटोस्ती 5 ति क्रियान्तराध्याहार इत्यादि ध्येयम् ॥
उक्तलक्षणं मूलरूढं दर्शयति -- पद्धताविति ॥ अस्मदुक्तेति ॥ निष्फलस्येत्यादिनास्मदुक्तेत्यर्थः -- वक्तृव्यापारमात्रमिति ॥ लिप्युच्चारणाभिप्रायसाधारणमित्यर्थः ॥
इति आसत्तिनिरूपणम्.
1. धी इत्यधिकम् -नं. 2.निरूपणमिति नास्ति - च.ज-का.रा. 3.शा -उ. 4.त्तोक्तम् -उ. 5.भवती -उ.
योग्य-नि-पणम् ) योग्यतावादः पु - 33.
---------------- ---------- -------
अथ योग्यतानिरूणम्
अथ का योग्यता --
न तावत्सजातीये ऽन्वयदर्शनं 1 योग्यता । पयसा सिञ्चतीत्यनाप्तवाक्ये ऽतिव्याप्तिः । किञ्च यथाकथञ्चित्साजात्यमयोग्यसाधारणम् । पदार्थतावच्छेदकधर्मेण वा तात्पर्यविषयीभूतान्वयप्रतियोगितावच्छेदकधर्मेण वा साजात्यं तु अद्य जातः पयः पिबतीत्यादावव्याप्तम् ॥
नापि समभिव्याहृतपदार्थसंसर्गाभावव्याप्यधर्मशून्यत्वं योग्यता ।
अथ योग्यतानिरूपणम्
"प्रतियोगान्वयस्य प्रमाणविरोधाभावो योग्यते"ति प्रमाणपद्धत्युक्तिं समर्थयमानः प्रसक्तपक्षान्पूर्ववादिमुखेन प्रत्याख्याति -- अथेत्यादिना ॥ सजातीय इति ॥ दृष्टान्वयसजातीयत्वं योग्यतेत्यर्थः । मण्युक्तमपि दोषमाह -- किञ्चेति ॥ अयोग्यतेति ॥ अग्निना सिञ्चेदित्यादावपि शब्दार्थत्वादिना साजात्य 2 स्य सत्वादिति भावः । मणिव्याख्यातृभिरुक्तमाह -- तात्पर्यविषयेति ॥ अद्य जात इति ॥ अद्य जातत्वेन रूपेण तदन्वयस्येतः पूर्वं क्वाप्यदर्शनादिति भावः । समभिव्याहृतेति ॥ समभिव्याहृतेति ॥ समभिव्याहृतं यत्पदं तदर्थनिरूपितसंसर्गस्य यो ऽभावस्तव्द्याप्यधर्मशून्यत्वम् । यथा जलेन सिञ्चतीत्यादौ समभिव्याहृसेकरूपपपदार्थसंसर्गाभावव्याप्यो धर्मो ऽग्नित्वादिः, --
-1.योग्यतापदं न -रा.ग. 2.त्यस - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 34.
------------------------ ----------- -----
प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्य न्याय 1 मते तत्राव्याप्तेः । समभिव्याहृतपदार्थसंसर्गो योग्यतेत्येतावतैव पूर्णत्वेन शेषवैयर्थ्याच्च । अनाप्तवाक्ये ऽतिव्याप्तेश्च ॥
एतेनैव समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्वं वा, अन्वयप्रतियोगितावच्छेदक 2 धर्मवत्वं वा योग्यतेति 3 निरस्तम् । उक्तरीत्या शेषवैयर्थ्यात् । अनाप्तवाक्ये ऽतिव्याप्तेश्च ॥
तथा समभिव्याहृतजलपदार्थसंसर्गाभावव्याप्यो दाहृत्वादिस्तादृशधर्मशून्यत्वमस्ति । अग्निना सिञ्चतीति जलेन दहतीत्यादौ तु तादृशधर्मवत्वादयोग्यतेत्यर्थः ॥
सिद्धान्ते धर्ममात्रस्य व्यतिरेकित्वाद्घटनिष्ठप्रमेयत्वादेः । पटे तन्निष्ठप्रमेयत्वादेर्घटे ऽसत्वेन प्रमेयत्वादिसंसर्गाभावस्यापि प्रसिद्धत्वा 4 दाह -- न्यायमत इति ॥ तन्मते तस्य केवलान्वययित्वादिति भावः । सिद्धान्ते तु कथमित्यतो दोषान्तरमाह -- समभिव्याहृतेति ॥ अनाप्तेति ॥ पयसा सिञ्चतीत्याद्यनाप्तवाक्य इत्यर्थः । क्रमेण पक्षद्वये दोषमाह -- उक्तरीत्येति ॥ समभिव्याहृतपदार्थसंसर्ग इत्येव पूर्तेरिति भावः ॥
एकेति पदस्य वा पदार्थस्य वा विशेषणम् । अपरेत्यप्येवं बोध्यम् । तन्निरूपितसंसर्गे ऽपरपदार्थनिष्ठात्यान्ताभावं प्रति यत्प्रतियोगित्वं तत्प्रकारिका या प्रमा तद्विशेष्यत्वाभाव इत्यर्थः । अग्निना सिञ्चतीत्यादावग्निकरणा 5 न्वयः सेके नास्तीति वा, अग्निकरणा 6 न्वयः सेकनिष्ठात्यान्ताभावप्रतियोगीति वानुभवेन तद्वाक्यं त्वयोग्यम् ।
1.नये -ज-क. 2. रूपवत्वं वा -रा-ग. 3. अपि इत्यधिकम् -रा. 4. दित्यत
-नं. 5 णका -उ. 6.णका -उ.
योग्य-नि-पणम्) योग्यतावादः पु - 35.
--------------- ------------ ---------
नापि मण्युक्तरीत्या एकपदार्थसंसर्गे ऽपरपदार्थनिष्ठात्यान्ताभावप्रतियोगित्वुप्रमाविशेष्यत्वाभावो वा, --
पयसा सिञ्चतीत्यादौ तु पयःकरणत्वं सेके नास्तीत्यादिप्रतीतेः कदाप्यभावेन तत्र पयःपदार्थसंसर्गे सेकनिष्ठाभावप्रतियोगि 1 त्वप्रकारप्रमाविशेष्यत्वं नेति तद्योग्यमित्युच्यते । अत्र शब्दत्ववदाकाशस्य शब्दनिष्ठात्यन्ताभावप्रतियोगित्वात्तत्राव्याप्तिनिरासाय संसर्गेति ॥ तादृशप्रमाविषयकत्वाभाव इत्येवोक्तौ घटसंसर्गत्वं गेहनिष्ठात्यन्ताभावप्रतियोगीति प्रमाविषयो घटसंसर्गोपि भवतीति तत्राव्याप्तिः स्यात् । तन्निरासाय तादृशप्रमाविशेष्यत्वाभाव इत्युक्तिरिति पक्षधरः ॥
रुचिदत्तस्तु यत्पदार्थसंसर्गो बोध्यः तदंशे तादृशप्रमावि 2 शेष्यत्वाभावो विवक्षितः । तेन सेकसंसर्ग आकाशश्च जलनिष्ठात्यान्ताभावप्रतियोगीति समूहालम्बनकृतप्रमविशेष्यत्वकृतदोषो ऽपास्तः । एवं चांशभेदप्रप्तये विशेष्यतोक्तिः 3 । विषयमात्रे तात्पर्यमित्यवोचत् ॥
यन्मते तादृशप्रमात्वपरिग्रहः प्रतिबन्धकस्तन्मतेनैतल्लक्षणकरणात्तादृशाभावप्रतियोगिताभाव इत्येवानुक्त्वा तादृशप्रमाविशेष्यत्वाभाव इत्युक्तमिति रुचिदत्तः ॥
नरहरिस्तु प्रमेत्याद्यनुक्त्वा तादृशप्रतियोगित्वाभावो योग्यतेत्येवोक्तौ योग्यताया वाक्यार्थमात्रपर्यवसन्नतया तद्वीर्वाक्यार्थबोधात्पूर्वं न 4 भवतीति शाब्दबोधे योग्यताज्ञानस्याहेतुत्वापत्तेः तादृशप्रमाविशेष्यत्वाभाव इत्युक्तमित्याह ॥
1.कत्व- उ. 2.षयत्वा -उ. 3.क्तेर्विष- उर्. 4.वं संभवतीति - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 36.
------------------------ ------------- ---------
एकपदार्थसंसर्गे ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वं वा योग्यता । एकत्वापरत्वयोः पदार्थविशेषणत्वे 1 प्रमेयत्वे प्रमेयत्वमित्यादावव्याप्तेः । तत्र पदार्थभेदाभावात् । पदविशेषणत्वे च प्रत्ययार्थान्वितस्वार्थबोधकं गामित्यादिकमयोग्यं स्यात् । तत्र पदर्यैकत्वात् । 2 पदशब्दस्य शब्दमात्रपरत्वेपि 3 स्वार्थीभूतवर्तमानत्वान्वितकृत्यादिबोधको --
यन्मते ऽप्रमाण्यशङ्काशून्यविपरीतनिश्चयस्य प्रतिबन्धकत्वं तन्मतेनोक्तं लक्षणान्तरं चानुवदति -- एकपदार्थेति ॥ तादृशं हि अग्निना सिञ्चतीत्यत्राग्निसंसर्गत्वमतस्तदयोग्यम् । जलेन सिञ्चतीत्यादौ जलसंसर्गा 4 दिकं तथा न भवतीति तद्योग्यमित्युच्यत इत्येतदपि नेत्यर्थः ॥
लक्षणद्वयेप्येकपदार्थापरपदार्थेत्यत्रैकत्वापरत्वे पदार्थविशेषणे ? 5 पदविशेषणे 6 वा ? इति विकल्पो हृदि कृत्वा क्रमेण पक्षधराद्युक्तदोषानेवाह -- एकत्वेति ॥ पदविशेषणपक्षोक्तदोषो नास्ति तस्य शब्दमात्रपरत्वादित्यत आह -- पदशब्दस्येति ॥ गच्छति चैत्र इत्यत्राख्यातस्य कृतिर्वर्तमानत्वं च द्वयमर्थः ।"वर्तमाने लट्"इत्युक्तेः ।"लः कर्मणि च भावे चाकर्मकेभ्य"इत्यत्र चकारेण कर्तरि लकारविधाने ऽपि न्यायमते लाघवेन कृतिरेव लकारार्थ इति स्वीकृत्य तयोरन्योन्यान्वयस्य च स्वीकारात् । तथाच लडर्थभूतवर्तमानत्वान्वितकृत्यादिबोधको लडादिप्रत्ययो योग्यो न स्यादित्यर्थः ।
1.प्रमेयत्वे इति नास्ति -रा-ग. 2.पदशब्दस्येति नास्ति -नं. 3.अपि इति नास्ति -रार्. 4.गत्वा -उ. 5.अथ इत्यधिकम् -उ. 6.वा इति नास्ति -उ.
योग्य-नि-पणम्) योग्यतावादः पु - 37.
---------------- ---------- --------
-- लडादिप्रत्ययो योग्यो न स्यात् । तत्र शब्द 1 भेदस्याप्यभावात् । तत्रापि 2 तिङ्गत्वलट्त्वादिना भेदकल्पने ऽपि द्रव्यं संयोगीति वाक्यमयोग्यं स्यात् । संयोगस्य द्रव्यनिष्ठात्यन्ताभावप्रतियोगित्वात् ॥
कृत्यादीत्यादिपदेन रतो गच्छतीत्यादि 3 जडसाधारणव्यापारग्रहः । चिरन्तनमते व्यापारमात्रस्याख्यातार्थत्वात् । तिङ्गत्वेति ॥ तिङ्गत्वेन कृतिरर्थो लट्त्वेन वर्तमानत्वमर्थ इत्याकारभेदाद्भेद इत्यर्थः । यद्यपि लकारत्वेनैव कृतिरर्थः । तथापि तिङ्गो लकारादेशत्वात्तिङ्गत्वेनेत्युक्तम् । संयोगस्येति ॥ द्रव्यं संयोगीति विशिष्टवैशिष्ट्यं हि वाक्यार्थः। तथाच संयोगरूपैकपदार्थनिरूपितसंसर्गे ऽपरपदार्थद्रव्यनिष्ठात्यान्ताभावप्रतियोगित्वस्यैव सत्वेन तत्प्रमाविशेष्यत्वस्य तत्प्रतियोगितावच्छेदकधर्मस्य च सत्वेनोक्तलक्षणाभावादव्याप्तिरिति भावः । संयोगसंसर्गश्च 4 निरूपितत्वविशिष्टसमवायो वा, विशेषमतारूपस्वरूपसबन्धो वा ध्येयः । तत्रोक्तलक्षण 5 सत्वेपि संयोगस्याव्याप्यवृत्तित्वमिति संयोगस्येत्येवोक्तम् ॥
यत्तूक्तं रुचिदत्तेन -- एकत्वापरत्वे पदार्थविशेषणे एव । न चैवं प्रमेयत्वे प्रमेयत्वमित्यत्राव्याप्तिः । एकपदार्थसंसर्गे स्वाश्रयनिष्ठात्यान्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावस्य तदर्थत्वदिति । तदेते 6 नैव निरस्तम् । द्रव्यं संयोगीत्यत्र तथाप्यव्याप्तेरपिरहारात् ।.
1.ब्देभे - ज. 2.ङ्लट्त्वा -ज. - ङ्लडा -ग-क. 3.जडपद न -उ. 4.संयोगेत्याधिकम् - उ. 5.णत्वं संयो-उ. 6.नेनै -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 38.
------------------------- ----------- -------
अत्यन्ताभावस्य प्रतियोगिविरोधित्वेन व्याप्यवृत्तित्वेन वा विशेषणे ऽपि गन्धप्रागभावसमानकालीनो घटो गन्धवानिति वाक्यमपि योग्यं स्यात् । गन्धवति गन्धप्रागभावस्य सत्वे ऽपि गन्धात्यन्ताभावस्यासत्वात् ॥
एकपदार्थसंसर्गे ऽपरपदार्थनिष्टसंसर्गान्योन्याभावप्रतियोगितावच्छेदकत्व 1 प्रमाविशेष्यत्वाभावरूपायामन्योन्याभावगर्भायां योग्यतायामव्याप्तेश्च ।
उक्ताव्याप्तिपरिहारविशेषणदाने ऽतिव्याप्तिरायातीत्याह -- अत्यन्ताभावस्येति॥ योग्यं स्यादित्येतव्द्यनक्ति -- गन्धवतीति ॥ घटो हि गन्धवान्गन्धप्रागभाववांश्च भवति । उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति तैरङ्गीकारात् । कालभेदेन गन्धतत्प्रागभावसत्वेपि तदत्यन्ताभावो नेति गन्धरूपैकपदार्थनिरूपितसंसर्गे घटरूपापरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावस्य सत्वेनोक्तप्रमाविशेष्यत्वाभावस्योक्तरूपप्रतियोगितावच्छदेकधर्मशून्यत्वास्यापि सत्वादतिव्याप्तिरित्यर्थः ॥
यत्वत्यन्ताभावपदं विरोध्यभावपरम् । एवं चोक्तस्थले गन्धवानिति निशिष्टवैशिष्ट्यसंसर्गे प्रागभावो ऽपि विरोधीति तत्प्रतियोगत्वस्यैव सत्वान्नाव्याप्तिरिति त्वग्रे नन्वित्यादिना शङ्कितपक्षधरमतनिरासेन निरसिष्यते॥
यद्वैतदनुशयादाह -- 2 पदार्थेति ॥ अपरेति ॥ अपरपदार्थनिष्ठो यः पदार्थान्तरनिरूपितसंसर्गवदन्योन्याभावस्ततत्प्रतियोगितावच्छेदको 3 वेत्यर्थः । जलेन सिञ्चतीत्यत्र सेको वह्निसंसर्गवान्नेति धीवत्, जलसंसर्गनान्नेति --
1.कप्र- रा. 2.ऽएकऽ इत्यधिकम् - उ. 3.कत्वेत्यर्थः - उ.
योग्य-नि-पणम्) योग्यतावादः पु - 39.
-------------- ----------- -------
न च सा न योग्यता । त्वयै 1 व लाघवेन व्याप्तेरिव योग्यताया अपि अन्योन्याभावगर्भाया एव ग्राह्यत्वात् ॥
न चै 2 वमन्योन्याभावगर्भैव योगतास्तु । न त्वत्यन्ताभागर्भेति वाच्यम् । एकपदार्थसंसर्गो 3 ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगी 4 त्यत्यन्ताभावगर्भायोग्यत्वज्ञाने ऽपि शाब्दप्रसङ्गात् ।.
-- बुद्धेरभावात्सेकनिष्ठान्योन्याभावप्रतियोगी वह्निसंसर्गाद्दा 5 हादिरेव न तु 6 संसर्गीति सह्निसंयोगस्यैव सेकनिष्ठान्योन्याभावगर्भप्रतियोगितावच्छेदकत्वं न तु जसंसर्गस्येति वह्निना सिञ्चतीति वाक्यमयोग्यं जलेनेति योग्यमित्येतादृशयोग्यतायामत्यन्ताभावगर्भयोग्यतालक्षमस्याभावादव्याप्तिरि 7 त्यर्थः ॥
रुचिदत्तस्तु एकपदार्थसंसर्गत्वे अपरपदार्थसंसर्गनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वप्रमाविशेष्यत्वाभाव इत्यवदत् ॥
व्याप्तेरिवेति 8 ॥ प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगि यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरित्यत्यान्ताभावगर्भव्याप्त्यपेक्षणा यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरिति त्वया व्याप्तिवादे ऽन्योन्याभावस्य व्याप्यवृत्तित्वेन प्रतियोग्यसमानाधिकरणेति विशेषणनैरपेक्ष्यात् लाघवेनान्योन्याभावगरभैव व्याप्तिरङ्गमिति 9 यथैवान्योन्याभावगर्भयोग्यतायां प्रतियोगिव्यधिकरणेति विशेषणनैरपेक्ष्येण लाघवात्तस्या एव शाब्दबोधाङ्गत्वादिति भावः ॥
1.एवकारा नास्ति -रा-ज. त्वयैवेति नास्ति -नं - ज. 2.ऽएवऽ मिति नास्ति -नर्ं. 3.गे -नं-ज. 4.गित्वात्यन्ता -नर्ं. 5.गीदा -उ. 6.जलेत्यधिकम् -उ. 7.प्तेरित्यर्थः - उ. 8. इवेति नास्ति -उ. 9. यथोच्यते तथैवा -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 40.
------------------------ ------------ ---------
ननु तर्ह्युभयधीर्न प्रत्येकं शाब्द 1 बोधहेतुः । न चाननुगमः । ग्राह्यसंसर्गविरोधिविषयकप्रमाविरहज्ञानत्वेनानुगमात् । तथाच न कोपि दोषः । संसर्ग्य 2 न्योन्याभावस्यापि संसर्गविरोधित्वात् । द्रव्ये संयोगात्यान्ताभावस्य संयोगाविरोधित्वात् ।
पक्षधरेणात्र ब्रूम इत्यादिना सिद्धान्तमाशङ्कते -- नन्विति ॥ द्विरूपयोग्यताज्ञानस्याप्यनुगतधर्मानाह -- ग्राह्येति ॥ ग्राह्यो यः संसर्गः जलसेकसंसर्गः, तद्विरोधि यदपरपदार्थनिष्ठात्यान्भावप्रतियोगित्वं, अपरपदार्थनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वम्, विरोधित्वस्य तज्ज्ञानप्रतिबन्धकज्ञानविषयकत्वरूपत्वस्यात्राभिमतत्वात्, तद्विषयकप्रमाविरहज्ञानत्वं द्विरूपस्यापि योग्यताज्ञानस्यास्तीत्यानुगामादित्यर्थः ॥
न कोपि दोष इत्युक्तं व्यञ्जयन्नत्यान्ताभावस्य संसर्गविरोधित्वं व्यक्तमिति तत्राव्यप्त्यभावमप्रदर्श्य अन्योन्याभावगर्भयोग्यतायामव्याप्तिदोषस्तावन्नेत्याह -- संसर्गेति 3 । वह्निसंसर्गान्योन्याभाववति वह्निसंसर्गस्यादर्शनादिति भावः । द्रव्यं संयोगीत्यत्राव्याप्तिदोषो नेत्याह -- द्रव्य इति ॥ संयोगाविरोधित्वादिति ॥ संयोगसंसर्गाविरोधित्वादित्यर्थः । एवं च तत्र संयोगस्याव्याप्यवृत्तितया स्वाधिकरणद्रव्यनिष्ठात्यान्ताभावप्रतियोगित्वे ऽपि तस्य ग्राह्यसंयोगसंसर्गाविरोधित्वेन विरोध्यभावप्रतियोगित्वप्रमाविशेष्यत्वाभावादेः सत्वान्नाव्याप्तिरित्यर्थः ॥
यदपि गन्धप्रागभावसमानकालीन इत्यादिनातिव्याप्तिकथनं तदपि नेत्याह -- गन्धेति ॥
1.धीहे - रा-नं-जर्. 2.गान्यो -नं-ग. संयोगेन -कर्. 3.गीति -उ.
योग्य-नि-पणम्) योग्यतावादः पु - 41.
-------------- ----------- -------
गन्धप्रागभावस्यापि भिन्नकालीनगन्धेन सहाविरोधेपि तात्पर्यविषयेण समानकाली 1 न गन्धेन विरोधादिति
चेन् मैवम् 2 ॥
अत्र ह्याद्यपक्षे तात्पर्यविषयीभूतान्वयविरोधिप्रमाविरहो योग्यता । द्वितीये तात्पर्यविषयभूतान्वयविरोधिधर्मशून्यत्वं योग्यतेति फलितोर्थः । तथाच समभिव्याहृतशब्दतात्पर्यविषस्यान्वयस्य सत्वं वा तदिनिनाभूत 3 प्रमाणविरोधो वा योग्यतेत्ये 4 वास्तु । किमनया कुसृष्ट्या । तावतैव 5 निश्चिताप्रामाण्यके ऽग्निना सि 6 ञ्चेदित्यादावनिश्चिताप्रमाण्यके जलेन सिञ्चतीत्यादौ चा---
विरोधित्वादिति ॥ तथाच तत्र गन्धस्य ग्राह्यसंसर्गविरोध्यभावप्रतियोगित्वमेवेति नातिव्याप्तिरित्यर्थः । अत्र हीति ॥ एकपदार्थोत्यादि मण्युक्तलक्षणद्वय इत्यर्थः । फलितार्थ इति ॥ त्वदुक्तविवक्षारीत्येति भावः ॥ तदिति ॥ उक्तरूपान्वयसत्वाविनाभूत इत्यर्थः । इत्येवास्त्विति ॥ अन्यथान्योन्याभावगर्भयोग्यतासत्वे ऽत्यन्ताभावगर्भायोग्यताज्ञानादन्वयबोधापत्तेः । कारणतावच्छेदकावच्छिन्न यत्किञ्चित्कारणसत्वे एव कार्योत्पत्तेः । न चेष्टापत्तिः । ग्राह्यसंसर्गविरोध्यवगाहित्वेनावश्यं तस्य तत्प्रतिबन्धकत्वादिति भावः । अनिश्चितेति ॥ तत्र वि 7 वादस्यानिश्चयादनिश्चितेत्युक्तम् ।
1.लेन -ग. अग्रेप्येवमस्ति. 2.चेन्न -रा. 3.तःप्र-रा-ग. 4.एवकारः नास्ति -रा. 5.एवकारो नास्ति -रा. 6.ञ्चये -नं. 7.विसंवा -उ.
न्यादीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 42.
----------------------- ------------- --------
--नाप्तवाक्ये 1 ऽनतिव्याप्तेः । त्वदीयलक्षणस्य जलेन सिञ्चतीत्यनाप्तवाक्ये ऽतिव्याप्तेश्च ।.
इयं हि विषयसत्वरूपा योग्यता स्वरूपसत्येवानाप्तवाक्ये लक्षणस्यानतिव्याप्त्यर्थमुक्ता । न तु सत्तया ज्ञाततया वा शाब्दप्रमाकारणत्वेनोक्ता । शाब्दप्रमायां तस्या वा 2 तद्विषयज्ञानस्य वा हेतुत्वायोगात् ॥
उक्तं चैतत्प्रमाण्यस्वतस्त्वे । भ्रमसाधारणे 3 ---
अनतिव्याप्तेरिति ॥ अनाप्तोक्तत्वादेव तद्वाक्ये ऽन्वयस्यास 4 त्यत्वादिति भावः । त्वदीयेति ॥ त्वदीयेत्यादिनोक्ते इत्यर्थः । जलेनेत्यादौ सेकान्वयविरोधिवह्नित्वरूपधर्मशून्यत्वसत्वादिति भावः ॥
नन्वेवं शाब्दप्रमाहेतोर्योग्यताया विषय 5 सत्वरूपत्वे शाब्दप्रमाया गुणजन्यत्वेन 6 प्रमायाः परतस्त्वापत्तिरित्यत आह -- इयं हीति ॥ स्वरूपसत्येवेत्युक्तैवकारव्यावर्त्य 7 व्यनक्ति -- न त्विति ॥ तस्या वेति ॥ योग्यताया वेत्यर्थः । कथं न हेतुत्वमित्यत आह -- उक्तं चैतदिति ॥ शाब्दप्रमायां 8 योग्यता तज्ज्ञानं वा न हेतुरित्येतत्प्रत्यक्षप्रमादावनुगदगुणभङ्गे शाब्दप्रमानुगगगुणखण्डनप्रस्तावे उपपादितं चेत्यर्थः ॥
नन्वेवं शाब्दज्ञानमात्रे ऽपि योग्यता न हेतुः स्यात् । तथाच निश्चितायोग्यताकवाक्यादपि धीप्रसङ्गः । न चायोग्यतानिश्चयविरहो हेतुः । गु 9 रुत्वेन योग्यतायां एव हेतुत्वौचित्यादित्यत आह -- भ्रमेत्यादि ॥
1.नातिव्याप्त्या -रा. प्यनति -ज. 2.ऽवाऽ इति नास्ति -रा. 3.णशा -रा-नं-क. 4.सत्वा-उ. 5.यत्वरू -उ. 6.प्रमायां इति नास्ति -उ. 7.वृत्यर्थं व्य -उ. 8.या यो -उ. 9. णत्वे -उ.
योग्य-नि-पणम्) योग्यतावादः पु - 43.
---------------- ----------- ---------
शाब्दज्ञाने त्वाकाङ्क्षासत्तौ अयोग्यतानिश्चयविरहश्च हेतव 1 इत्यस्ति । न तु योग्यता । न वा तज्ज्ञानम् ॥
यद्यपि योग्यताज्ञानादयोग्यतानिश्चयविरहो गुरुः । तथाप्य 2 सावसंसर्गाग्रहरूपत्वात्प्रत्यक्षादिविशिष्टज्ञाने कॢप्त आवश्यकश्च ।.
किञ्च योग्यतायाः संसर्गात्मकत्वेन तज्ज्ञानस्य शाब्द 3 संसर्गज्ञानहेतुत्व आत्माश्रयः स्यात् ॥
वस्तुतस्तु अयोग्यतानिश्चयविरहो 4 पि न शाब्दधीहेतुः । किं त्वाकाङ्क्षासत्ती एव । तथात्वे हि --
असावति ॥ अयोग्यतानिश्चयविरह इत्यर्थः ॥ कॢप्त इति ॥ हेतुत्वेनेति योज्यम् । आवश्यक इति ॥ तदभावे शाब्दज्ञानानुदयादिति भावः ॥
योग्यताज्ञानहेतुत्वे विपक्षे बाधकं चाह -- किञ्चेति ॥ ननु असंसर्गाग्रहरूपतया यद्ययोग्यतानिश्चविरहः शाब्दधीहेतुः स्यात्तर्हि यत्सामान्यविशेषन्यायेनाविद्यमानासंसर्गाग्रहः, प्रमामात्रे ऽविद्यमानायोग्यता 5 निश्चयविरहश्च शाब्दप्रमायामनुगतो गुणो हेतुः प्राप्नोतीति प्रामाण्यस्य परपस्त्वापत्तिः । शाब्दसाधारण्या 6 नापत्तिः । प्रतिवाद्यादिवाक्यादितोर्ऽथज्ञानाभावापत्तिश्चेत्यत आह -- वस्तुतस्त्विति ॥
कुत इत्यतो विपक्षे बाधकमाह -- तथात्वे हीति ॥ अयोग्यतानिश्चयविरहस्य शाब्दधीहेतुत्व इत्यर्थः ।
1.ऽइत्यस्तुऽ इति नास्त -रा. नं-ग. 2.ऽअसौऽ इति नास्ति -रा.नं. 3.ब्दधीहे -नं. संसर्गधी -ज. 4.ऽअपिऽ इति नास्ति-रा. 5.निश्चयपदं न -उ. 6.ण्याप-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 44.
----------------------- ------------ -------
अयोग्यत्वेन निश्चतस्य प्रतिवादिवाक्यस्याबोधकतया कथाबधिरकलहः स्यात् । अग्निना सिञ्चतीत्यदि 1 वाक्यादपि सामग्रीसत्वादप्रमात्वेन निश्चितं प्रवृत्त्यजनकं ज्ञानं जायत एव । कथमन्यथा तन्निराकणम् । उक्तं च सुधायाम्"मेरुः सर्षप इत्या 2 दिवाक्यान्मेरो 3 रपि सर्षपत्वेन प्रतिभासा"दिति ॥
एतेन संशयसाधारणं योग्यताज्ञानं शाब्दधीहेतुरिति, योग्यताभ्रमः शाब्दभ्रमहेतुरिति च निरस्तम् ।
कथेत्यनुवादः । बधिरकलह इति विधिः । प्रतिवादिवाक्यात्पदार्थोपस्थितौ 3 मानसः संसर्गबोध इति तु शाब्दकरणतकत्वानुभवविरुद्धम् । अन्यथा आप्तवाक्यस्थलेप्येवं सुवचत्वेन शब्दप्रामाण्यं दत्तजलाञ्जलि स्यादिति भावः । तर्हि अग्निनेत्यादिवाक्यादप्यर्थधीः स्यात्ततश्च प्रवर्तेतापि पुरुष इत्यत आह -- अग्निनेति ॥ सामग्रीति ॥ आकाङ्क्षासत्तिरूपसामग्रीसत्वाज्ज्ञानं जायत इत्यन्वयः । अप्रामाण्या 4 निश्चयकबाधावताररूपसामग्रीसत्वान्निश्चिता । प्रामाण्यमिति नान्वयः । अत एव प्रवृत्यजनकमित्यर्थः । उक्तं चेति ॥ 5 जिज्ञासाधिरणे --
"विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ।"
इत्येतव्द्याख्यायामख्यातिपक्षखण्डनावसरे उक्तमित्यर्थः ।
योग्यताज्ञानस्य शाब्दज्ञानव्यतिरेकव्यभिचारमाह -- अयोग्यत्वेति ॥
1.दावपि -ज. 2.आदिपदं न - रा-ग. 3.तौ नसंस-उ. 4.ण्यनि -उ. 5.जिज्ञासाधिरकण इति नास्ति -उ.
योग्य -नि-पणम्) योग्यतावादः पु - 45.
---------------- ------------ --------
अयोग्यत्वनिश्चये ऽपि शाब्दधीदर्शनात् । दृश्यते च परोक्तयोग्यतासंदेराभावेपि गेहे घट इति वाक्याज्झडिति 1 संसर्गधीः । परोक्तयोग्यता वा तत्प्रमा वा शाब्दप्रमायां हेतुरिति तु प्रामाण्यस्वतस्त्वे निरस्तम् ॥
ननु -- प्रकृतप्रमाणविरोधरूपप्रतियोगिनो ऽप्रमाणिकत्वात्तदभावः कथं प्रामाणिकः स्यादिति चेत्कात्र 2 कथं ता। प्रतियोग्यप्रमाणिकत्वस्याभावप्रामाणिकत्वं प्रत्येव प्रयोजकतायाः शुक्तिरूप्यतादात्म्यादौ दर्शनात् ॥
योग्यतासंदेहस्यापि व्यतिरेकव्याभिचारमाह -- दृश्यते चेति ॥ परोक्तेति ॥ एकपदार्थसंसर्ग इत्यादिना परोक्तेत्यर्थः ॥
यद्वा भवदुक्तान्वयसत्वादिरूपयोग्यताज्ञानस्या 3 हेतुत्वे ऽपि परोक्तयोग्यताज्ञानस्य तत्प्रमायाश्च शाब्दभ्रमज्ञाने 4 तत्प्रमयोः स्यादित्यत आह -- दृश्यते चेत्यादिना ॥ प्रमाणस्वतस्त्व इति ॥ प्रत्यक्षादिप्रमा 5 स्वनुगतहेतुत्वभङ्ग इत्यर्थः ॥
नन्वस्त्वेवमन्वयसत्वं योग्यतेति पक्षः । प्रमाणाविरोधो योग्यतेति पक्षो न युक्तः । यत्किञ्चित्प्रमाणाविरोधस्यातिप्रसङ्गितया प्रकृतग्राह्यसंसर्गाभावावगाहितप्रमाणविरोध एव योग्यतेति वाच्यम् । स च न योक्त इत्याशङ्क्य समाधत्ते -- नन्वित्यादिना ॥ जलेन सिञ्चतीत्यादौ प्रकृतजलसंसर्गाभावावगाहि प्रमाणेत्यर्थः । तादात्म्यस्यासत एव सदुपरागेण भ्रान्तौ भानस्य स्वीकारात् शुक्तिरूप्यतादात्म्यादावित्युक्तम् ॥
1.ऽझडतिऽ इति नास्ति -नं-ज सहजेत्यधिकम् -क. 2.तत्र -नं. 3.स्यहे -उ. 4.नतत्प्रम -उ. 5.णस्या -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 46.
------------------------ ------------- -------
प्रपञ्चितं चैतन्न्यायामृते । एतदेवाभिप्रेत्योक्तं पद्धतौ"प्रतीतार्थस्य प्रमाणविरोधाभावो योग्यता । तत्प्रतिपादकत्वात्पदान्यपि योग्यतावन्ती"ति ॥
यत्तु -- प्रमाणलक्षणटीकायामन्योन्याभावययोग्यतावदर्थाभिधायकत्वं योग्यत्वमित्युक्तम् । तन्निश्चिताप्रामाण्यकादग्निना सिञ्चतीत्यादिवाक्याव्द्यावृत्तयोग्यतानिरूपणपरम् । न तु जलेन सिञ्चतीत्य 1 -
ननु कथमसयो निःस्वरूपस्यात्यन्ताभावप्रतियोगित्वं नाम धर्म उपपद्यतामित्यत आह -- प्रपञ्चितं चैतदिति । धर्मिसत्तानरपेक्षधर्मत्वादिना प्रपञ्चितमाद्यपरिच्छेदे ऽसतोत्यन्ताभावप्रतियोगित्वसमर्थनवाद इत्यर्थः ।
ग्रन्थान्तरोक्तयोग्यतालक्षणस्यासदर्थके जलेन सिञ्चतीत्याद्यनाप्तवाक्ये ऽतिव्याप्तिमाशङ्क्य तत्साधारण्यमेवाभिप्रेतमतो न दोष इत्याह -- यत्वित्यादिना ॥ एवं तर्हि तद्वाक्यस्यापि प्रमाणशब्दत्वापत्तिरित्यतो"निर्देषवाक्य 2 मागम"इति निर्देषत्वविशेषणेनैव तन्निवारणादन्यथा निर्देषेति व्यर्थमापद्यत इति भावः । एवं वेदस्यापोरुषेयत्वे आप्तवाक्यत्वरूपलक्षणाभावे 3 ऽप्रामाण्यमिति शङ्किते निर्देषवाक्यरूपलक्षणेनैव प्रामाण्यम् । वाक्यत्वं चाकाङ्क्षायोग्यताऽसत्तिमत्पदकदम्बत्वमित्यभिप्रेत्याकाङ्क्षादिस्वरूपं चोपपाद्योत्तरप्रसङ्गमुपक्षितन्नुसंहरति -- तस्मादिति ।.
1.त्याद्यनु -ग. 2.ऽक्यमाह आगमैतिऽ इत्यस्ति-उ. 3.वादप्रा - उ.
लीला-वक्त-शक्त्यप-भङ्गः) शक्तिवादः पु - 47.
-------------------------- --------- -------
नाप्तवाक्यवृत्तयोग्यतानिरूपणम् । तव्द्यावृत्तेर्निदोषत्वविशेषणेनैव सिद्धेरिति ज्ञेयम् ॥ तस्माद्वेदस्यापौरुषेयत्वेपि प्रामाण्यसंभवात्तस्य विष्णावेव शक्तितात्पर्ये युक्ते इति ॥
इति योग्यता 1
उक्तरीत्या निर्देषवाक्यत्वादिरूपलक्षणासंभवादित्यर्थः । शक्तीति ॥ पदानां शक्तिरेव तत्समुदायवेदस्यापि शक्तिरिति भावः । तात्पर्यं तत्प्रमितिशेषत्वं प्राग्वेदापौरुषेयत्ववादे व्यक्तम् ॥
एवं चादिवर्जितैराम्नायैरा 2 ख्यातेत्युक्तं युक्तमिति भावः ॥
इति योग्यतावादः 3
अथ शक्तिवादः
ननु -- स्वरूपसहकार्यातिरिक्तौ मानं नेति चेन्न ।
4 अथ शक्तिवादः
विष्णावेवि शक्तितात्पर्ये इत्यु 5 क्तम् । अतीन्द्रियशक्तावेव मानाभावादिति भावेन लिङ्गपादे"अत्ताचराचरग्रहणाऽ दित्यधिकरणसुधायां"स्वरूपसहकारिसमवधानातिरिक्तशक्तरेव नास्तीति केचिदि"त्यादिना"आस्तां प्रपञ्च"इत्यन्तेन संक्षेपेण शक्तिसमर्थनं कृतं, तस्पष्टं विवृण्वानः शक्तिमाक्षिप्य समाधत्ते -- स्वरूपेत्यादिना ॥ शब्दादिस्वरूपतत्सहकारिभ्यामन्यशक्तावित्यर्थः॥
1.निरूपणमित्यधिकम्-रा. ऽवादऽ इत्यधिकम् -नं 2.रादरेणाख्या -उ. 3. 35. इत्यस्ति -उ. 4.इदं नास्ति- उ. 5. इत्ययुक्तम् - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 48.
------------------------ ------------ --------
यादृशात्कारतलानलसंयोगाद्दहो जायते तादृशादेव मण्यादिसमवधाने न जायत
इति मण्यादिविघटनीयशक्तिसिद्धेः । तत्र दृष्टसामग्र्याः सत्वेन तद्विलम्बेन वा तत्संपादकादृष्टविलम्बेन वा दाहविपम्बायोगात् ॥
क्विचिदे 1 व शक्तिसिद्धौ शब्दे 2 सा सेत्स्यतीति भावेनोपपादनसौकर्याय प्रसिद्धवह्नौ तावत्साधयति -- यादृशेति ॥ दाहाभावस्य कारणवैकल्यनिमित्तकत्वशङ्काव्युदासायोक्तं यादृशात्तादृशादेवेति ॥ न जायत इति ॥ दाह इत्यनुषङ्गः । एतेन मण्यादेर्दाहादिप्रतिबन्धकत्वं प्राप्तं, ततः । किमित्यत आह -- इति मण्यादीति ॥ इतिशब्दो हेत्वर्थः । मण्यादेः प्रतिबन्धकत्वान्यथानुपपत्तिरेव वह्न्यादिगतातीन्द्रिय शक्तौ मानम् । कार्यानुकूलकिञ्चिद्धर्मविघटकत्वरूपत्वात्प्रतिबन्धकत्वस्य कार्यानुकूलकिञ्चिद्धर्मश्च शक्तेरन्यो न युक्त इति भावः। एतच्चोपलक्षणम् । वक्ष्यमाणार्थ 3 पञ्चतेनापीत्यपि ध्येयम् ॥
ननु -- मण्यादेः प्रतिबन्धकत्वमेवासिद्धम् । मण्यादिसन्निधिस्थले दाहाभावस्य दाहसामग्र्यभावेन वा दाह 4 सामग्रीसम्पादकादृष्टाभावेन वोपपत्तेरित्यातस्ततादृशादेवेत्युक्तिकृत्यं व्यञ्चयन्प्रतिबन्धककत्वं तावद्दृढयति -- तत्रेति ॥ मण्यादिसन्निधिस्थल इत्यर्थः ॥
नन्वस्त्वेवं मण्यादेः प्रतिबन्धकत्वं तथापि साक्षाद्दाहजनकादृष्टनाशकत्वेन वा दाहप्रतिकूलदुरद्दृष्टजनकत्वेन वा स्वाभावरूपदाहकारणविघटकत्वेन वा --
1.दतीन्द्रयशक्तिः - उ. 2.तत्से-उर्. 3.थापत्तिपं -उ. 4.सामग्रीपदं न -उ.
लीला-वक्त-शक्त्यप-भङ्गः) शक्तिवादः पु - 49.
--------------------------- ---------- -------
न च दृष्टसामग्र्याः सत्वेपि मणिरेव साक्षाद्दाहजनकमदृष्टं नाशयतीति वाच्यम् । तादृशादृष्टे मानाभावात् । अन्यथा 1 न्त्यतन्तुसंयोगादौ सत्यपि
कदाचित्पटानुत्पत्तिः स्यात् । वन्ध्यपुंसं 2 प्रयोगादावपि साक्षाज्जनकादृष्टविलम्बान्न विलम्बः । किं तु नापुत्रस्य लोकोस्तीति श्रुत्यापुत्रस्य नरकोक्त्या तज्जनकस्य दुरुतस्यावश्यकत्वेन दाहं प्रति मणेरिव दुरुतस्यैव पुत्रोत्पत्ति 3 प्रतिबन्धकत्वात् ॥
न चैवमदृष्टस्य कुत्रचिदपि साक्षाज्जनकत्वाभावे परंपरया जनकत्वमपि न स्यादिति वाच्यम् ।
-- मण्यादेः प्रतिबन्धकत्वोपपत्तौ न तदन्यथानुपपत्त्यास्तीन्द्रियशक्तिसिद्धिरित्यतः आद्यं तावदशङ्क्य निराह -- न च दृष्टेति ॥ तादृशेति ॥साक्षाज्जनक 4 प्रतिबन्धकनाश्यादृष्ट इत्यर्थः । पदादीति ॥
तत्रापि 5 कदाचित्वदुक्तादृष्टाभावसंभवादिति भावः । एतच्चोपलक्षणम् । मणिकृदुक्तदिशा मण्यपसरणानन्तरं दाहा 6 भावप्रसङ्गादन्वयव्यतिरेकाभ्यां कॢप्तत्वेन मण्याद्यभावरूपपदाहकारणाभावेनैव दाहाभावोपपत्तेश्चेत्यापि ध्येयम्॥
ननु बन्ध्यासंप्रयोगादौ दृष्टाव्यभिचाराददृष्ट 7 विलम्बो वाच्य इत्यत आह -- वन्ध्येति ॥ नन्वदृष्टं क्वचित्साक्षाज्जनकम् । अन्यथा दृष्टसामग्रीरहितस्थले साक्षादहेतुत्वे दृष्टसामग्र्यामप्यहेतुत्वापत्त्या परंपरया हेतुरपि न स्यादतः कथं तादृशादृष्टं नेत्युच्यत इत्यत आह -- न चैवमिति ॥
1.अन्त्यपदं न -नं.ज. 2.सं यो -रा.क. 3.त्तिं प्रति प्रतिबन्धकत्वात्- रा.नं.ग. 4.के-उ. 5.कदाचिदिति नास्ति -उ. 6.हप्रभ -उ. 7.विलम्बादेवेत्यधिकम्-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 50.
------------------------ ------------- -------
दृष्टसामग्ररहिते सर्गाद्यकालीने कार्ये ऽदृष्टस्य साक्षाज्जनकत्वस्वीकारात् ॥
अस्तु वा दाहादावपि साक्षाज्जनकमदृष्टं, तथापि न तन्मण्यादि 1 विनाश्यम् ।
अदृष्टश्टस्यादृष्टनाशकत्वेन विहितेतरफलमात्रनाश्यत्वात् । अन्यथा मण्यादिनादृष्टनाशशङ्क्या वैदिके कर्मणि निष्कम्पप्रवृत्तिर्न स्यात् ॥
नापि -- मणिना दाहप्रतिपक्षादृष्टजननाद्दाहविलम्बः, प्रतिपक्षादृष्टजनने शौचाद्यनपेक्षादिति वाच्यम् ।
न तन्मण्या 2 विनाश्यमिति । येन मण्यादेः प्रतिबन्धकत्वे शक्तिं विनाप्युपपन्नं स्यादिति दोषः कुतो नेत्यत आह -- अदृष्टस्येति ॥ प्रबलदुरितादृष्टस्य पुण्यादृष्टनाशकत्वेन प्रबलपुण्यादृष्टस्य दुरितादृष्टनाशकत्वेन मण्यादेरनाशकत्वादित्यर्थः । अदृष्टस्य विहितादिजन्यत्वाद्विहिते 3 तरनाश्यत्वेपि फलमात्रनाश्यत्वेन मण्यादिरूपेण विरितेतरेणानाश्यत्वादित्यर्थः । कीर्तनादेरप्युपलक्षणम् ।"धर्मः क्षरति कीर्तनात्"इत्यादेः । यद्वादृष्टस्य नाश्यत्वादित्यन्वयः । अदृष्टनाशकत्वेन यद्विहितं प्रायश्चित्तादि तदितरेण फलमात्रेण नाश्यत्वादित्यर्थः । मण्यादि त्वदृष्टनाशकतया विहितेतरदपि न फलरूपमिति न तन्नाशकमिति भावः ॥
द्वितीयं निराह -- नापीति ॥ प्रतिपक्षेति ॥ प्रतिकूलेत्यर्थः ॥ शौचाचमनादेरभावे कथमदृष्टजन्मेत्यत आह -- प्रतिपक्षेति ॥
1.दिना दृष्टिं विनाश्यं इत्यस्ति -रा. 2.ण्यादिवि -उ. 3.तैर -उ.
लाला-वक्त-शक्त्यप-भङ्गः) शक्तिवादः पु - 51.
------------------------- ---------- ---------
1 प्रतिपक्षादृष्टस्यापि मणितुल्यतया तद्विधटनीयत्वेनैव शक्तिसिद्धेः ॥
नापि -- मण्याद्यभावरूपदृष्टकारणाभावादेव दाहविलम्बः ; अभावस्यापि 2 भाववद्ग्राहकतौल्येन कारणत्वात् ; त्वयापि विशेषदर्शनेन भ्रमस्य, विहिताकरणेन प्रत्यवायस्य, निर्देषत्वादिना वेदप्रामाण्यादेश्च स्वीकृतत्वादिति वाच्यम् । उत्तेजकसमये मणिसत्वेपि दाहदर्शनेन मण्याद्यभावस्याहेतुत्वात् ॥
तस्मान्मण्यादिना प्रतिबनधदशायां दाहजनकादृष्टस्य --
ननु -- प्रतिकूवलादृष्टस्य मण्यादिजन्यस्य न शक्तिविघटकत्वेन दाहप्रतिबन्धकता, किं तु प्रतिकूलादृष्टान्तरजनकत्वेनेति चेत्तर्ह्यनवस्थापत्तिः । एवं तर्हि स्वाभावरूपदाहकारणविघटनरूपत्वेन प्रतिपक्षादृष्टस्य दाहप्रतिबन्धकतास्त्विति चेन्न । एवं हि मण्यादेरेव तथात्वोपपत्तौ किं प्रतिपक्षादृष्टजन्मकल्पनया ॥
नन्वस्तु तर्हि तथैवेत्यतस्तृतीयं पक्षं सयुक्तिकमाशङ्क्य निराह -- नापीति ॥ वाच्यमित्यन्वयः । भाववत् भावस्य कारणत्ववत् । अभावस्य हेतुता न केवलं युक्तिसिद्धा प्रतिवादिसिद्धा चेत्याह -- त्वयापीति ॥ अदर्शनाकरणनिर्देषपदैरभावस्यैव प्रतीतेरिति भावः ।
1.प्रतिपक्षेत्यारभ्य नास्ति -रा. 2.स्याभा - रा.
लीला-वक्त-शक्त्यप-भङ्गः) शक्तिवादः पु - 52.
-------------------------- ---------- --------
-- मण्यादिना नाशाद्वा मण्यादिना दाहप्रतिकूलादृष्टजननाद्वा मण्याद्यभावरूपदृष्टकारणविरहाद्वा दाहानुत्पत्तिरिति लीलावलत्याद्युक्तं वक्षत्रयमप्ययुक्तम् ॥
लीलावत्या 1 द्युक्तशक्त्यपलापप्रकारभङ्गः
आदिपदेन कुड्यसंयोगाभावस्य गतावनुपलब्धेश्चाभावज्ञाने हेतुत्वदृष्टेति गृह्यते । तस्मादित्युक्तमेव हेतुत्रयं
व्यनक्ति -- मण्यादिनेति ॥
लीलावत्यु 5 क्तशक्त्यपलापभङ्गः
अथ शक्तौ श्रुत्यादिनिरूपणम्
अत्र नैयायिकाः 2 --
उत्तेजकाभावविशिष्टमण्याद्य 3 भावरूपदृष्टकारण 4 विरहादेव दाहानुत्पत्युपपत्तेर्न शक्तिसिद्धिः ॥
अथ शक्तौ श्रुत्यादिनिरूपणम्
यत्वनुमानखण्डे मणावीश्वरवादानन्तरं लीलावत्याद्यभिमतशक्त्यपलापप्रकारं निरस्य स्वयं प्रकारान्तरेणापलापप्रदर्शनं कृतं तदप्युच्यत इत्यादिना न युक्तमिति वक्तुमनुवदति --"अत्र नैय्यायिका"इत्यादिना --"तस्मान्न शक्ति"रित्यन्तेन । उत्तेजकं प्रतिबन्धकप्रतिबन्धकं, --
1.आदिपदं न -नं. 2.कः -ज. 3.एतादृशस्थले आदिपदं न -रा. 4.णाभावादे -नं-ज-ग. 5.त्याद्यु -उ. 3 6 - उ.
शक्तौ-श्रुदि-निरूपणम्) शक्तिवादः पु - 53.
--------------------- ---------- -------
ननु मण्याद्यभावानां न तावन्मण्याद्यभावत्वेन कारणत्वम् । अननुगमात् । नापि प्रतिबन्धकत्वा 1 भावत्वेन अन्योन्याश्रयात् । कारणीभूताभावप्रतियोगिन एव प्रतिबन्धकत्वात् । मन्त्रसत्वेपि मण्य 2 भावमात्रेण दाहापत्तेश्च । तस्यापि प्रतिबन्धकाभावत्वात् । न हि यावत्कारण 3 समवधान एव कार्यम् । एकदण्डसमवधानेपि घटोत्पत्तेरिति चेन्मैवम् । दण्डचक्रादिकूटवत्सकलानां मण्यादी 4 नां संसर्गाभावकूटस्य दाहजनकत्वेनाननुगमान्योन्याश्रययोरभावात्॥
एतेन -- दाहकाले सकलानां मण्यादिसंसर्गाभावानां कूटो ऽसम्भ 5 वी, 6
मणिध्वंसकाले तत्प्रागभावस्यासम्भवादिति निरस्तम् ।
-- तदभावविशिष्टो यो मण्यादिस्तदभावेत्यर्थः । मण्याद्युक्तं मणिमन्त्रौषधाद्यभावानां कूटस्थ 7 कारणत्वं शङ्कोत्तराभ्यां व्यनक्ति -- नन्वित्यादिना ॥
अन्योन्याभावव्यावृत्यर्थं प्रागभावादिसाधारणाभावलाभं 8 चाह -- संसर्गाभावकूटस्येति ॥ सकलपदस्य मण्यादेर्विशेषणत्वेनोक्तौ कृत्यं व्यनक्ति -- एतेनेति ॥ एतच्छब्दार्थं स्फुटीकरोति -- साकल्यस्येति ॥ अभावविशिषेणत्वे हि स्यात् त्वदुक्तदोषः । न चैवमित्यर्थः । प्रतिबन्धकाभावेनोक्तौ कृत्यं व्यनक्ति -- एतेनेति ॥ 9 प्रतिबन्धकाभावत्वेन कारणत्वेपि न पागुक्तदोष इति भावेन"यद्वा प3तिबन्धकत्वावच्छिन्नप्रतियोगिको ऽभावः कारण"मित्यादिना मण्युक्तमेवाह--किञ्चेति ॥
1.काभा- नं-ज-ग-क. 2.ऽण्याद्यऽ रा-नं. 3.ऽजातीयऽ इत्यधिकम्- रा-नं-ज-ग. 4.दिना सं -रा. 5.भावी -नं. 6.मणिपदं न -रा. 7.टस्य -उ. 8.भायाह -- उ. 9.प्रतिबन्धकेत्यादि नास्ति - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 54.
------------------------ ------------ -------
साकल्यस्य प्रतियोगिविशेषणत्वेनोक्ततया सर्वेषां मण्यादीनामेकैकस्य संसर्गाभावस्य दाहकाले सत्वेन तादृशाभावेकूटस्यापि तत्काले सत्वात् ॥
किं च कार्यानुत्पत्तिव्याप्यत्वं प्रतिबन्धकत्वमिति पक्षे प्रतिबन्धकत्वावच्छिन्नाभावः कारणम् । स च यत्किञ्चित्प्रतिबन्धकत्वसत्वदशायां नास्तीति न तदा दाहप्रसङ्गः । नाप्यन्योन्याश्रयाननुगमौ । प्रहं मा दहेति सावधिमन्त्रपाठे
मन्त्रस्य झडिति नाशेपि मन्त्रप्रयोक्तृपुरुषाभिप्रायविषयः कालविशेष एव प्रतिबन्धक इति न कोपि दोषः ॥
कार्यानुत्पत्तिः काया 1 प्रागभावो व्याप्तिश्च कालिकीति भावः । प्रतिबन्धकत्वेपि ॥ मणिमन्त्राद्यनुगतप्रतिबन्धकत्वावच्छिन्नप्रतियोगिताकाभावत्वेन 2 न मण्याद्यभावस्य कारणत्वमित्यर्थः ॥
मन्त्रसत्वेपि मण्याद्यभावमात्रेण दाहापत्तिरूपप्रागुक्तदोषो नेत्याह -- न चेति ॥ मन्त्रसत्वस्थले मणित्वाद्यवच्छन्नाभावसत्वेपि एकप्रतिबन्धकसत्वे प्रतिबन्धकत्वावच्छिन्नाभावो नेति न दाहप्रसङ्गदोष इति भावः ॥ नाप्यन्योन्याश्रयेति ॥ कारणीभूताभावप्रतियोगित्वपक्ष एवास्य दोषस्योक्तेरिति भावः ॥
ननु -- व्यभिचारात्कथं मन्त्राद्यभावः कारणमित्यतो व्यभिचारं निराह -- प्रहरमिति ॥ निषेधाक्छतमाशब्दोयम् । न माङ् । तेन"माङि लुडिति"लुङा भाव्यमिति न शङ्क्यम् ।
र्1.यप्राग- उ. 2.ऽनऽ इति नास्ति -उ.
शक्तौ-श्रुदि-निपणम्) शक्तिवादः पु - 55.
------------------- --------- --------
तस्मान्न शक्ति 1 सिद्धिरिति । उच्यते --
"परास्य शक्तिर्विविधैव श्रूयते । स्वाभाविकी"2
"विचित्रशक्तिः पुरुषः पुराणो,"
"न चान्येषां शक्तयस्तादृशाः स्युः"
"सर्वैर्युक्ता शक्तिभिर्देवता सा"
मण्यादेः प्रतिबन्धकत्वान्यथानुपपत्तिरूपार्थापत्तेर्नैयायिकोक्तान्यथोपपत्तिमग्रे निरसिष्यन्, एकत्र शक्तिसिद्धौ 3 अन्यत्र शब्दादावपि तदनुमानमिति भावेन, परमेश्वरे शक्तिसत्वे तावत् --
"ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।
नित्यानन्दोव्ययः पूर्णो भगवान्विष्णुरुच्यते ॥
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु"
इत्य 4 त्राधिकरणानुव्याख्यानाद्युक्तदिशा श्रुत्यादिरूपमनोक्त्या शक्तौ मानं नेत्ये 5 तावत्तावन्निराकरोति -- परस्येति ॥ अस्य भगवत इत्यर्थः । ज्ञानबलाभ्यां सहिता क्रिया ज्ञानबलक्रिया चेति विग्रहः । विचित्रेति वाक्यान्तरम् । तादृशास्तादृश्यः । सर्वैर्युक्तेति वाक्यान्तरम् । सर्वैः सर्वाभिः । लिङ्गव्यत्ययात्॥
"परेति यां प्राहुरजस्रशक्तिम्"।
इति वाक्यदोषः ।"एता आत्मनि चैवं विचित्राश्च हि"इत्यादि सूत्रभाष्योक्ताः । तावता न सर्ववस्तुषु शक्तिलाभ इत्यतो रामानुजभाष्योक्तविष्णुपुराणस्मृतिमाह -- शक्तय इति ॥
1.सिद्धिपदं न -रा-नं. 2.ऽज्ञानबलक्रिया चऽ इत्यधिकम् -रा.नं-ज-ग-क. 3.द्वावपि तदनु-उ. 4.त्तृत्वाधिक
-उ. 5.तत्तावन्निराह --उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 56.
------------------------ ------------- -------
"परेति यां प्राहु"इत्यादि श्रुत्या
"शक्त्यः सर्वभावानामचिन्त्य 1 ज्ञानगोचराः ।
यतो ऽतौ ब्राह्मणस्तास्तु सर्गाद्या भावशक्तयः"॥
इत्यादिस्मृत्या च शक्तिसिद्धेः 2 ॥
न चेयं स्वरूपमात्रपरा । अस्येतिषष्ठ्या विचित्रशक्तिरिति बहुव्रीहिणा शक्तिभिर्युक्तेति युक्तशब्देन सम्बन्धत्वेन विविधैवेति विचित्रेति चबुहुविधत्वेन
शक्तिभिः शक्तय इति बहुत्वेन चोक्तेः ॥
नाप्यगन्तुकसहकारिपरा ।.
नापि प्रतिबन्धकाभावपरा । भावत्वोक्तेः ।"अतिन्त्य 4 ज्ञानगोचरा"इति बीजादिनिष्ठशक्तेरप्यतीन्द्रियत्वोक्तेश्च ॥
सर्गाद्याः सृष्ट्यादिविषया भावशक्तयः भावरूप 5 शक्तय इति वा स्वभावशक्तय इति वार्ऽथः । श्रुत्यादेरन्यथोपपत्तिं निराह -- न चेय 6 मित्यादिना ॥ वाक्यदोष इति ॥ परास्य शक्तिरित्यस्य पूर्ववाक्ये न तस्य कार्यं 7 कारणजन्यकारणं न विद्यत इत्युक्तेरित्यर्थः ।
1.न्त्या -रा. 2.द्विः -नं-ज-ग-क. 3.उभयत्र ऽत्वऽ इति नास्ति-रा. नं. आदो नास्ति -नं. अन्ते नास्ति - ग. 4.न्त्या - रा. 5. पाः श-उ. 6.चैव -उ. 7.कारणं च - उ.
शक्ता-यत्ति-पकम्) शक्तिवादः पु - 57.
----------------- --------- ---------
"अन्योन्यानन्तरबलाः क्रमादेव 1 प्रकीर्तिताः"॥
इत्यादस्मृत्या इदमह शक्तं, इदं शक्ततरं, इदं तु शक्ततममिति लोकव्यवहारेण गुरुत्वादाविव शक्तौ तारतम्यप्रतीतेश्च ॥
इति शक्तौ श्रुत्यादिनिरूपणम् 2
इत्यादि 5 स्मृत्येति ।.
"भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ॥
चतुर्थः कीचक 6 स्तस्मात्पञ्चमं नानुशुश्रुम"इति ॥
अन्योन्यानन्तरेति ॥ विराटपर्वगतस्मृत्येत्यर्थः । तारतम्यप्रतीतेश्चेयं नाभावपरेत्यन्वयः । अभावे तारतम्याभावादिति भावः ॥
इति शक्तौ श्रुत्यादिनिरूपणम्
अथ शक्तावर्थापत्तिपञ्चकम्
किञ्च दण्डादेरन्वयव्यातिरेकाभ्यां 3 घटादिकारणत्वं तावदनुमीयते । तत्र न तावत्पूर्व 4 वृत्तित्वमात्रं लिङ्गम् । रासभादावपि सत्वात् ॥
अथ शक्तावर्थापत्तिपञ्चकम्
श्रुत्याद्यनुग्राहकार्थापत्तिरपि शक्तौ मानत्वेन विवक्षुरादौ कारणत्वस्यान्वयव्यतिरेकगम्यत्वा 7 न्यथानुपपत्तिरूपार्थापत्तिं सुधोक्तां तावव्द्यनक्ति -- किञ्च दण्डादेरिति ॥ अनुमीयत इति ॥ तस्य प्रत्यक्षत्वे घटादिप्रत्यस्येवान्वयाद्यपेक्षा न स्यात् ।
1.वं-रा. 2.नात्र प्रकरणविभागः - नं.ज.क. 3.घटपदं न -रा. 4.वर्तित्व-नं-ज -ग. 5.श्रुत्ये-उ. 6.स्तेषां षं- उ. 3 7 -उ. 7.नुपपत्ति-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 58.
------------------------ ------------- --------
नापि नियमविशेषितम् । अन्यथासिद्धे ऽपि सत्वात् । तस्मात्प्रत्यक्षसिद्धं कारणता 1 त्वेन त्वदभिमतमनन्यथासिद्धनियतपूर्ववृत्तित्वमेव लिङ्गं वाच्यम् । न च तदेव 2 तेनानुमेयमिति तदनुमेयातीन्द्रियशक्तिसिद्धिः । न च तत्र स्वरूपयोग्यतारूपं दण्डत्वमनुमेयम् । तस्य प्रत्यक्षत्वात् ॥
कारणत्वमेव शक्तिपदार्थ इति कारणता 3 वादे मणि कृदुक्त्यातीन्द्रियत्वावगतेश्चेति भावः । अन्वयव्यतिरेकौ 4 नाम अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपो यस्मिन् सति यन्नियतं यदभावे च यदभावो नियत इत्येवंरूपत्वादन्वयव्यतिरेकयोः । एवं च तत्र कारणत्वानुमापकं किं विशेष्यमात्रं नियमिविशेषितं विशेष्यं वा कृत्स्रं विशिष्टं वा । आद्ययोः साध्याविशिष्टत्वदोषाभावेपि व्यभिचारान्न लिङ्गत्वमित्याह -- तत्र न तावदिति ॥ अन्यथासिद्धेपीति ॥ घटाकारणे तद्गतरूपकारणे मृत्पिण्डरूप इत्यर्थः । कारण 5 त्वेनेति ॥ कारणत्वरूपत्वेनेत्यर्थः ॥
कारणत्वस्योक्तरूपविङ्गानुमेयान्यथानुपपत्तिरूपार्थापत्तेरन्यथोपपत्तिं त्रेधाऽशङ्क्य निराह -- न चेत्यादिना ॥ कारणतावच्छेदकस्यैव स्वरूपयोग्यतारूपत्वाद्दण्डत्वमित्युक्तम् । तस्येति ॥ उक्तरूपावच्छदेकत्वस्येत्यर्थः ।---------------------------------------------------------------------------
1.णत्वेन-रा. नं.ज.क. 2.तत्रा-नं-क-ज. 3.णवा-उ. 4.कोना-उ. 5.तात्वे-उ.
शक्ता-वत्ति-पकम्) शक्तिवादः पु - 59.
----------------- --------- ----------
नापि -- सहकारिसमवधानरूपं फलोपधानमनुमेयम् । दण्डे सहकार्यसमवधाने ऽपि 1 तव्द्यवहारात् । शिलादौ तत्समवधाने ऽपि 2 कारणत्वाव्यवहाराच्च ॥
नापि -- दण्डत्वस्यानन्यथासिद्धिविशिष्टनियमाविच्छेदकत्वमनुमेयम् । तस्य हेतुशरीर एव प्रवेशात् । एतदेवाभिप्रेत्योक्तं सुधायाम् --"ततोन्वयव्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदातीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव च शक्ति"रिति ॥
व्याप्तिग्राहकप्रत्यक्षेण तु नियमरूपा रसरूपादिसाधारणी व्याप्तिरेव गृह्यते । न तु शक्तिरूपाकारणता । तस्या नित्यातीन्द्रियत्वात् ॥
अनन्यथासिद्धनियतपूर्ववृत्तित्वान्यूनानधिकवृत्तित्वस्य हेतुत्वेन वाच्यत्वात्तस्यैवोक्तरूपावच्छेदकत्वादिति भावः । सुधायामिति ॥"अत्ताचराचरग्रहणा"दित्यधिकरणे --
"इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु"।
इत्यादिश्लोकव्याख्यानावसर इति ध्येयम् ॥
ननु -- वह्न्यादौ सति दाहादिस्तदभावे तदभाव इति दाहादेर्वह्न्यादिना व्याप्तिग्राहकप्रत्यक्षेणाव दाहकारणत्वं वह्न्यादेर्गृह्यते । यद्वा यत्र धूमस्तत्राग्निरित्यादिव्याप्तिग्राहकप्रत्यक्षेण 3 कारणता गृह्यत इति कथमनुमेयतोक्तिः । 4 एतदन्यथानुपपत्या शक्तिसिद्धिरित्यत आह -- व्याप्तीति ॥--------------------------------------------------------------------------
1.कारणत्वव्य -रा. नं.ज.ग. 2.तदव्य -रा. - तदव्यवधानेपि तदव्य -ग. 3. ऽकारणत्वंऽ -इत्यारभ्य नास्ति- उ. 4.येन त -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 60.
------------------------- ---------- --------
न च 1 व्यभिचारितं सहचारदर्शनं नियमरूपव्याप्तेरपि कथं ग्राहकम्, ग्राहककोटौ नियमप्रवेशे चात्माश्रय इति वाच्यम् । तस्याञ्जनादिवद्व्याप्तिग्राहकप्रत्यक्षसहकारित्वेनाव्यभिचारानपेक्ष 2 णात् ॥
किञ्च जलस्य जलत्वेन पिपासोपशामकत्वं तावदनुमीयते । तत्र च न तावत्फलोपधानमनुमेयम् । बाधाद्व्यभिचाराच्च । किं तु पिपासोपशमनकाणत्वमात्रम् । तच्च न तावदन्यथासिद्धनियतपूर्ववृत्तित्वरूपम् । तस्य पूर्वमेवज्ञातत्वात् । कथमन्यथा जलत्वस्य व्याप्तिग्रहः ॥
ननु व्याप्तिरेव गृह्यत इत्ययुक्तम् । सहचारदर्शनस्य वा 3 नियतसहचारदर्शनस्य वा तदनिर्णायकत्वादित्याशङ्क्य समाधत्ते -- न चेति ॥ तस्य सहचारदर्शनस्येत्यर्थः ॥
जलस्य पिपासोपशाकत्वानुमित्यन्यथानुपपत्तिश्च शक्तौ मानमिति भावेनाह -- किञ्चेति ॥ अर्थापत्तेरन्यथोपपत्तिं निराह -- तत्र चेति ॥ किं त्वित्यादिना वक्ष्यमाणपक्षापेक्षया तावच्छब्दः । बाधादिति ॥ तत्रानुमित्यन्तरं प्रवृत्तस्य जलपानानान्तरमेवोदन्यानिवृत्तिरूपफलोपलम्भात्क्वचिदप्रवृत्तिपानाभावयोरपि संभवाच्चेति भावः । व्यभिचारादिति ॥ जलत्वोपेतस्य सर्वस्याप्युक्तफलोपधाने मानाभावात्प्रत्यग्रोत्पन्नविनष्टजले फलोपधानाभावाच्च व्यभिचार इति भावः॥
1.चाव्य -रा. 2.क्षत्वा-नं. 3.नियतेत्यादि वा इत्यन्तं नास्ति - उ.
शक्ता -वत्ति-पकम्) शक्तिवादः पु - 61.
------------------ ----------- ---------
नापि सहकारिविरहप्रयुक्तकार्याभाववत्वरूपम् । सहकारिशब्देन स्वेतरकारणस्यैव विवक्षणीयत्वेनात्माश्रयात् 1 । भाविसहकारिविरहशङ्क्या फलार्थिनो निष्कम्पप्रवृत्ययोगात् । तावता 2 त्वदुक्तनिर्वचनस्य सहकारिविरहः 3 कार्यप्रागभावस्योत्तरकालसंबन्ध 4 कारणमित्येतदर्थकतया कारणत्वमज्ञात्वा कार्याभावस्य सहकारिविरहप्रयुक्तत्वस्य ज्ञातुमशक्यतया 6 ल्यसमवधानदशायां दण्डादेरहेतुत्वापाताच्च 7 । तस्मादतीन्द्रियं शक्तिरूपं कारणत्व--
8 प्रकारान्तरेण पिपासोपशमकारणत्वस्यरूपमाशङ्क्य निराह -- नापीति ॥ सहकारिविरहप्रयुक्तः सहकारिविरहेणोत्तरसमयसंबन्धविशिष्टतया जन्यो यस्तृप्तिरूपकार्यस्य प्रागभावस्तद्वत्वं पिपासोपशमनकारणत्यमित्यर्थः । तावता त्वदुक्तनिर्वचन 9 । भूतप्रागभावस्य प्रागभावान्तरभावात्तत्र
सहकारिविरहप्रयुक्तघटप्रागभावरूपकार्याभाववत्वरूपत्वदुक्तकारणत्वाभावाद्घटादिप्रागभावे ऽतिव्याप्तिरित्यर्थः । दण्डादेरहेतुत्वेति ॥ तदा प्रागभावसत्वेपि तस्य सहकारिविरहप्रयुक्तत्वाभावात् । न चेष्टापत्तिः । सर्वदै तत्र
हेतुत्व 10 व्यवहारादिति भावः । तस्मादिति ॥ पिपासोपशमनकारणत्वस्य शक्तितो ऽन्यस्यायोगादित्यर्थः ॥
1.सहकारिशब्देनेत्यादि नास्ति-नं.ग. 2.ऽतावताऽ इति नास्ति-नं.ज.क. 3.हप्रयुक्तका -नं. 4.न्धःकारणमित्यज्ञात्वा -नं. न्धकारममित्यज्ञात्वा -ज.क. 5.कारणत्वमज्ञात्वेत्यादि नास्ति-ग. 6.ल्येतरस -रा. इतरसमव -ज. समवधानेति नास्ति-ग. 7.प्रागभावेत्यादि नास्ति- नं. 8.आका-उ. 9.ऽस्येतिऽ । इत्येतदर्थकतयेत्यन्वयः । आत्माश्रयेति । कारणत्वरूपनिर्वचने कारणपदप्रवेशादित्यर्थः । प्रागभाव इति । घटादिकारणीऽ इत्यधिकम्- उ. 10.तुल्य - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 62.
------------------------ ------------ -------
--मे 1 वानुमेयमिति शक्तिसिद्धिः॥
किञ्चानन्यथासिद्धनियतपूर्ववृत्तित्वमेव कारणत्वं चेद्रासभादौ तदभावो न तावदन्यथासिद्ध्या । नियतपदवैयर्थ्यात् ॥
नापि -- पूर्ववृत्तित्वस्यानियतत्वेन । व्यक्त्यपेक्षया नियमस्य दण्डादावप्यभावात् । जात्यपेक्षयानियमस्य च रासभे ऽपि प्रसङ्गात् । संभवति 2 ह्यनादौ संसारे घटाजातीयाद्रासभजातीयस्य 3 कदाचिदपि व्यवहितपूर्ववृत्तित्वानियमः ॥
नाप्यव्यवहितपूर्ववृत्तित्वस्यानियतत्वेन ।
रासभादेरकारणत्वान्यथानुपपत्या च शक्तिसिद्धिरिति भावेनाह -- किञ्चान 4 न्यथेति ॥ चेदित्यनन्तरं राशभादेर्घटादिकं प्रति कारणत्वाभावो न स्यादि 5 ति शेषः । कुतो न व्यादित्यत आह -- रासभादावित्यादि ॥
पूर्ववृत्तित्वस्यानियतत्वेनेति ॥ रासभादौ तदभाव इत्यनुषङ्गः । किं व्यावहितपूर्ववृत्तित्वस्यानैयत्येन रासभादौ कारणत्वाभावो ऽन 6 भिमत उताव्यवहितपूर्ववृत्तित्वस्यानैयत्वेनेति ॥ आद्ये रासभादावतिप्रसङ्गं व्यानक्ति -- संभवति हीति ॥ अन्त्यं निराह -- नापीति ॥ अनियतत्वेनेत्यनन्तरं पूर्ववदनुषङ्गः ।
1.ऽएवऽ इति नास्ति -रा. णत्वेनानु -ज. 2.ऽनह्यनौदौऽ इत्यस्ति -नं.ज. 3.कदाचिदपिऽ नास्ति- रा. 4.चान्यथा-उ. 5.त्यर्थः-उ. 6.वो ऽभि -उ.
शक्ता-वत्ति-पकम्) शक्तिवादः पु - 63.
---------------- -------- -------
व्यवहित 1 नियपूर्ववर्तिनो यागादेः स्वर्गाद्यहेतुत्वापातात् । सापूर्वस्य यागस्याव्यवहितत्वमस्तीति चेन्न । पूर्वं प्रतीतेन यागस्य स्वर्गहेतुत्वेन पश्चादपूर्वस्य कल्पनीयतया तदव्यवहितत्वस्य कारणत्वशरीते प्रवेशायोगात् । अन्यथापूर्वं वाच्यं स्यात् ॥
तस्यादतीन्द्रियशक्तिरेव कारणत्वम् । तां च प्रति स्वाश्रयजातीयस्य फलाव्यवधानं व्यापकम् । यागस्य च भोजनादेस्तृप्तिं प्रतीव स्वर्गं प्रति स्वरूपेणाव्यवधानं न सम्भवती 2 त्यनुभवस्य स्मृतिं प्रतीव व्यापार 3 द्वाराव्यवधानं वक्तव्यमित्यपूर्वकल्पना युक्ता ॥
सापूर्वस्येति ॥ अपूर्वसहितस्येत्यर्थः । तदिति ॥ अपूर्वव्यवहित 4 स्येत्यर्थः । वाच्यं 5 स्यादिति ॥ त्वन्मत इष्टसाधनत्वस्यैव लिङ्गादिवाच्यातया गुरुमत इवापूर्वस्य लिङ्गादिवाच्यत्वाभावात् । सापूर्वस्य स्वर्गाव्यावहितपूर्ववृत्तित्वरूपकारण 6 त्वस्य यागनिष्ठस्य विध्यर्थत्वे ऽपूर्वमपि लिङ्गादिवाच्यम् स्यात् न त्वर्थापत्तिकल्प्यमित्यपसिद्धान्त इति भावः । शक्तिरेवेति ॥ तथा च रासभादौ तदभावादेव कारणत्वाभाव इति
नातिप्रसङ्ग
इति भावः । नापि यागादावव्याप्तिप्रसङ्गादित्यत आह -- तां चेति ॥ शक्तिं चेत्यर्थः। स्वाश्रय--
1.नियतपदं न -नं. ज. 2.ति । अतो- रा. 3.द्वारपदं न -नं. 4.तत्वस्ये -उ. 5.च्यत्वं स्या -उ. 6.णस्य -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 64.
------------------------ ------------ ---------
एतदप्युक्तं सूधायाम्-- अतीन्द्रियमेवेत्यादिना ॥
नन्वेवं शक्तिः कारणत्वं चेत्सा कारणं न स्यात् । तथाच शक्तिर्दाहानुकूला न स्यादिति चेन्न 1 । कारणत्वस्यापि कारणत्वस्येव कार्यप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपानुकूलत्वाश्रयत्वात् ॥
केचित्तु -- प्रतिबन्धकाभावत्वेन कारणत्वे ऽन्योन्याश्रयान्मण्याद्यभावकूटस्य कारणता त्वयोक्ता । तथाचाननुगतानां तावदभावानां कारणता --
--स्येत्येवोक्ता 2 वरण्यस्थदण्डे व्यभिचारः स्यादतः स्वाश्रयजातीयस्येत्युक्तुः । एतदपीति ॥ रासभादेश्चा 3 कारणत्वान्यथानुपपत्याप्यतीन्द्रियशक्ति 4 सिद्धिरित्येतदपीत्यर्थः ॥
शक्तेः कारणत्वरूपत्वे बाधकमाशङ्क्य निराह -- नन्वेवमपि ॥ व्याप्ये 5 ति ॥ व्याप्तिः कालिकी ध्येया । दण्डादेः कारणस्येव तच्छक्तेरपि तादृशप्रागभावप्रतियोगित्वादिति भावः । प्रकारान्तरेण शक्तिसिद्धिमन्यापदेशेनाह -- 6 केचित्विति ॥ अन्योन्येति ॥ मण्याद्यभावानां प्रतिबन्धकाभावत्वे 7 ज्ञाते तदभावानां कारणत्वज्ञानं कारणत्वज्ञाने च सति कारणीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वज्ञानं सति च तस्मिन् प्रतिबन्धकाभावत्वेन तदभावानां कारणत्वज्ञानमित्यन्योन्याश्रयाद्धेतोरभावकूटस्य कारणता त्वयोक्तेत्यर्थः ॥
ततश्च किमित्यतः स्वाभिमतसाध्यमाह -- तथाचेति ॥
1.ऽनऽ इति नास्ति-रा. 2.क्तौ वनस्थ -उ. 3.श्चका -उ. 4.क्तिरि -उ. 5.प्त्येति -उ. 6.ऽकेचित्त्वितिऽ इति नास्ति -उ. 7.त्वज्ञानं कार -उ.
शक्ता-वत्ति-पकम्) शक्तिवादः पु - 65.
----------------- -------- ----------
तत्तदनन्तनिष्ठान 1 न्तधर्माणां कारणतावच्छेदकत्वमिति कल्पनाद्वारं शक्तिकल्पनम् । अन्यथा तवापि समवायो न सिध्येति। कॢप्तैरनन्तैः स्वरूपसम्बन्थैरेव विशिष्टप्रतीत्युपपत्तेरित्याहुः ॥
किञ्चैवमुत्तेजकाभावविशिष्ट 2 मण्यभावस्य हेतुत्वं स्वीकृत्य शक्त्यपलापे प्रायश्चित्ताभावसहकृतसन्ध्यावन्दनाद्यकरणस्य नरकहेतुत्वसंभवात्त 3 न्निवत्येमपि दूरितापूर्वं न सिध्येत् ॥
एवं ज्योतिष्टोमादि 4 जन्यमपूर्वमपि न सिध्येत् । अन्वयव्यतिरेकाभ्यां साङ्गयागप्रगभाव 5 विशिष्टात्माभावस्यैव स्वर्गादिफलहेतुत्वोपपत्तेः ।
अभावकूटस्य कारणत्वे सतीत्यर्थः । अन्यथा कल्पनागौरवानादर इत्यर्थः । तवापीति ॥ जातिगुणक्रियाविशिष्टप्रतीयतयो विशेषण 6 संबन्धनिमित्तका इत्यादिरूपेण समवायमनुमिमानस्य तवेत्यर्थः । अत्र पक्षे ऽरुचिबीजं तु प्रतिबन्धकाभावानां वक्ष्यमाणदिशा विशिष्टविधित्वादिनानुगतिपक्षे ऽस्य दोषस्याभावात् अन्यथानुपपत्या शक्तिकल्पनानवकाश इति बोध्यम् । तथापि तत्पररीत्या परस्यापादनसंभवादेतत्पक्षावतार इत्यदोषः ॥
अपूर्वप्रतिबन्द्यापि शक्तिं साधयति -- किञ्चैवमिति ॥ पूर्वत्र श्रुत्यादिनिरूपणवादे अत्र नैयायिका इत्यादिनोक्तरीत्ये 7 वशब्दार्थः । अपूर्वमपीति ॥ यागजन्यापूर्वमपीत्यर्थः । कथं तर्हि चिर 8 ध्वस्तयागादेः स्वर्गादिहेतुतेत्यत आह -- अन्वयेति ॥ उपपत्तेरित्येतद्व्यनक्ति-- आत्मन
इति॥
1.नां तद्धर्म- रा. 2.प्रतिबन्धकाभावहे -रा. नं. वस्य हे-ज. ग. 3.त् प्रायश्चित्तेन निव -रा. प्रायश्चित्तनिवर्त्य -ज. ग. 4. साध्यम -ग. 5.इतः । संभवात्ऽ पर्यन्तं नास्ति -ग. 6.षण -उ. 7.त्येत्येवं -उ. 8. न्तनया -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 66.
----------------------- ------------ -------
आत्मनः स्थायित्वेन विशेष्याभावाभावेपि प्रागभावरूपविशेषणाभावेन विशिष्टाभावसंभवात् ॥
नचास्य 1 विशिष्टाभास्यानन्तत्वेन फलानन्त्यं 2 स्यादिति शङ्क्यम् । सावधिकफलबोधकश्रुतिबलादपूर्वस्येवोक्तस्य विशिष्टाभावस्यापि सावधिकफलजनकत्वस्वभावकल्पनात् ॥
अपि च यत्र देवदत्तादिशरीरं प्रत्यक्षेण गृहीतं प्रत्यक्षान्तरेणानुमानादिना वा पुनर्नानुभूतं तत्रापि तच्छरीरस्मृतिस्तावदुत्पद्यते ।
----------------------------------------------------------------------------इष्टापूर्तादिकारिणो यजमानात्मनः स्थायित्वे ऽपि तस्य कृतयागादित्वेन तत्र तत्प्रागभावाद्विशेषणाभावप्रयुक्तो विशिष्टभावः सुलभ एव, मण्यादिसत्वदशायामुत्तेजके सत्युत्तेजकाभावविशिष्टमण्याद्यभावसत्ववदिति भावः॥
ननु यागस्यैव प्रागभा 3 वविरोधितयाऽशुतरविनाशियागनाशे प्रागभावोन्मज्जनात्र विशेषणाभावसंभव इति चेन्न । यागस्येव तद्ध्वंसस्यापि तत्प्रागभावविरोधित्वात् ॥
प्रतिबन्धकाभाववैषम्यमाशङ्क्य निराह -- न चेति ॥ सावधिकेति ॥"अमृतो वा व सोमपो भवति यावदिन्द्रो यावन्मनुर्यावदादित्य"इत्यादिश्रुतीत्यर्थः । यथा फलानन्त्यशङ्का नास्ति तथा प्रतिबन्द्यन्तरमाह -- अपि चेति ॥ अनुभव 4 प्रसङ्गाभावरूपविशेषणस्याभावोपपादनायोक्तं प्रत्यक्षान्तरेणानुमानादिना वा
पुनर्नानुभूतमिति ।
1.स्यापि -नं. 2.ऽस्यादितिऽ इति नास्ति- रा. 3.वाभावताय - उ. 4.प्रागभा-उ.
शक्ता-वत्ति-पकम्) शक्तिवादः पु - 67.
---------------- ------- ---------
तां च स्मृतिं प्रत्यन्वयव्यतिरेकाभ्यां तदनुभवप्रागभावविशिष्टात्म 1 विरहः स्मृतिपर्यन्तस्थायी कारणमस्तु । कृतमनुभवस्य स्मृतिहेतुत्वमङ्गीकृत्य तन्निर्वाहाय संस्कारकल्पनया ॥
न चात्र स्मृतिरूपफलसा 2 तत्यशङ्कावकाशोप्यस्ति ॥ संस्कारकल्पनापक्ष इव सदृशादृष्टचिन्तासहकारिवैकल्प्यादेव फलोभावोपपत्तेः ॥
यदि च 3 तत्र स्वर्गस्मरणादो कल्पृप्तकारणभावस्य यागानुभवादेरेव लघवेन भावरूपापूर्वसंस्कार 4 द्वारा कारणत्वं व्यवस्थाप्य तदभावात्कार्याभावोपपादनं ; तर्हिहापि 5 दाहे कॢप्तकारणा 6 भावस्य वह्नेरेव लाघवाद्भावरूपशक्त्या कारणत्वं निर्वाह्य तदभावात्कार्याभाव उपपाद्यताम् । कुतमुत्त 7 म्भकाभावविशिष्टप्रतिबन्धकाभावस्य हेतुत्वकल्पनया ॥
तस्मात्प्रतिबन्धकाभावो न हेतुरिति प्रतिबन्धकसमये शक्त्यभावादेव दाहाभावो वक्तव्य इति शक्ति सिद्धिः ॥
कुतमिति ॥ अवमित्यर्थः । प्रागुक्तदोषो ऽत्र नेत्याह -- न चात्रेति ॥ प्रतिबन्दीद्वये परमुखेनैव समाधिं वाचयित्वात्रापि तथेत्याह -- यदि चेति ॥
1.त्माभावः- रा. 2.सांत -रा.ग. 3.तत्रेति नास्ति -रा. 4.रादि -रा.नं.ग. 5.दाह इति नास्ति -रा. 6.णभा -रा, णस्या भा -नं. 7. त्तेजका -रा.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 68.
------------------------ ------------- -------
ननु -- शक्तिपक्षे पूर्वस्याः शक्तेर्नाशात्प्रतिबन्धकापनये वोत्तेजकसमवधाने वा कथं पुनर्दाहः । यदि च ताभ्यां शक्त्यन्तरोत्पादस्तताननुगतस्यापि प्रतिबन्धकाभावस्य हेतुत्वं तवापिसमानमिति चेन्न ॥ सत्ये 2 व कुठारे 3 कदाचित्कुण्ठत्ववत्सामग्र्यां संशयोत्तरप्रत्यक्षस्थले ऽनुमित्यभाववत्ससत्येवापूर्वे कदाचितविपाकवच्च सत्यमेव शक्तौ तस्याः 4 कदाचित्कण्ठीभाववलक्षणावस्थाविशेषस्य कल्पनात् ॥
उक्तं हि सुधायां"व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वा"दिति ॥
किञ्चास्तु त्वया वक्ष्यमाणे 5 पक्षचतुष्टये त्वदनभिमते --
शक्तिपक्षे बाधकमाशङ्क्यानेकदृष्टान्तपूर्वं निराह -- नन्वित्यादिना ॥ उक्तं हीति ॥ अत्ता चराचरेत्याधिकरणसुधायाम् शक्तेरवस्था विशेष एव न तु शक्त्यन्तरित्येतदुक्तमित्यर्थः । शक्तिर्वव्यक्त्यात्मनास्तीत्युक्तौ कानामव्यक्तिरिति पृष्टस्योत्तरं वक्ति -- शब्देनेत्यादिना ॥
मण्यादेः प्रतिबन्धकत्वान्यथानुपपत्या च शक्तिसिद्धिरित्याह -- किञ्चेति ॥ वक्ष्यमाण इति ॥ विशेषणविशेष्यतत्संबन्धानामभावत्रयं वा --
1.क्षेपि -रा.न.ज.क. 2.त एव -रा. ज. 3.स्वत एव -नं. क. अत ए-ग. 3.रस्य -रा.न.ज.ग.क. 4.स्यां -ग. 5.णप -ज.
शक्ता-वत्ति-पकम्) शक्तिवादः पु - 69.
----------------- -------- --------
-विशिष्टं पदार्थान्तरमिति पक्षे च कथञ्चिद्विशिष्टाभावस्यानुगमः कारणता च । तथापि मण्यादेर् लोकसिद्धं कार्यानुकूलकिञ्चिद्धर्मविघटकत्वरूपं प्रतिबन्धकत्वं
न स्यादिति मण्यादेः प्रतिबन्धकत्वान्यथानुपपत्या शक्तिसिद्धिः ॥
न च मणिः कार्यानुकूलविघटनरूपः प्रतिबन्ध एव, न तु प्रतिबन्धकः, तत्प्रयोक्ता पुरुष एव तु प्रतिबन्धकः, मणौ प्रतिबन्धकव्यवहारस्तु उपचाराद्वा स्यार्थे कप्रत्ययाश्रयणाद्वेति वाच्यम् । मुख्ये बाधकाभावात् । मणिना प्रतिबद्ध इति व्यवहारानुसारेण प्रतिबन्धक इत्यत्रापि कर्तर्था 2 क प्रत्यस्यैवौचित्याच्च ।
विद्यमानस्यापि प्रतिबन्धकरूपविशेष्यस्यैव प्रतियोगितावच्छेदकभेदेनाभावो वा देशान्तरस्थानुमुत्तम्भकाभावविशिष्टानां मण्यादीनामत्रत्याभावो वा विशेषणविशेष्ययोर्यः संबन्धस्तदभावो वा कारणमित्युत्तरभङ्गेः वक्ष्यमाण इत्यर्थः । कर्त्रेर्थकप्रत्ययस्येति ॥"ण्वल्तृचाविति"कर्तरि विहितण्वुल्प्रत्ययस्येत्यर्थः ॥
ननु -- कारणीभूतस्वाभावप्रतियोगित्वरूपप्रतिबन्धकत्वमेव मण्यादेरिति मते शक्तिसिद्धिर्नेत्यतः शक्तिं विना तदेवायुक्तमित्याह --किञ्चेति ॥
1.पुनः ऽमण्यादेऽ रित्यन्तं नास्ति - रार्. 2.थक - नर्ं-थे ऽक -ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 70.
------------------------ ------------- -------
किञ्च मण्याद्यभावस्य कारणत्वे मणेः प्रतिबन्धकत्वमपि न स्यात् । लोके कारणाभावरूपे दण्डाभावादौ प्रत्यवायकारणीभूतविहितकारणस्याभावरूपे विहितकरणे च प्रतिबन्धकव्यवहाराभावात् ॥
तस्माद्दु 1 ष्टान्वयव्यतिरेकाभ्यां कारणत्वानुमित्यन्यथानुपपत्या रासभादेरकारणत्वान्यथानुपपत्यापूर्वादिप्रतिबन्द्या मण्यादेर्लोकसिद्धप्रतिबन्धकत्वान्यथानुपपत्या त्वदभिमतप्रतिबन्धकत्वान्यथानुपपत्या 2 च शक्तिसिद्धिः ॥
इति शक्तावर्थापत्तिपञ्चकम्
तथा च कारणीभूतशक्तिविघटनरूपत्वादिनैव प्रतिबन्धकत्वं त्वयापि वाच्य 3 म्। प्रागुक्तं सर्वं निष्कृष्यानुवदन्नुपसंहरति -- तस्मादिति ॥ अपूर्वादीत्यादिपदेन सं 4 ग्रहः । केचितित्यानोक्तकल्पनालाघवस्यारुचिग्रस्तत्वान्न तस्य संग्रहः कृतः॥
शक्तावर्थापत्तिपञ्चकम् ।
1.स्मादन्वय -रा.नं.ग. 2.त्वदभिमतेत्यादि नास्ति - ज. 3.ऽइति भावऽ इत्यधिकम् - उ. 4.स्कारग्र-उ.।ऽ3 8 ऽ -उ.
प्रभास्य-हेत्वे-प्रचङ्गः) शक्तिवादः पु - 71.
-------------------- ---------- --------
अथ प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गः
किञ्च -- त्वन्मते विशिष्टं विशेषणविशेष्यतत्सम्बन्धातिरिक्तं नास्तीत्युत्तम्भकाभावविशिष्टप्रतिबन्धकाभावो ऽपि क्वचिद्विशेषणाभावरूपः क्वचिद्विशेष्याभावरूपः 1 क्वचित्सम्बन्धाभावरूप इत्यननुगमान्न हेतुः । अभावत्रयस्यैकशक्तिमत्वेनानुगमे च शक्तिसिद्धिः ॥
अथ प्रतिबन्धकाभावस्य हेतुत्वभङ्गः
एवमुत्तेजकाभावविशिष्टमण्याद्यभावरूपदृष्टकारणाभावादेव दाहानुत्पत्युपपत्तेर्न शक्तिसिद्धिरित्यादिना कृतचोद्यस्य श्रुत्यादिविरोधार्थापत्तिपञ्चकविरोधाभ्यां दूषणमुक्त्वाधुना तादृशाभावस्य कारणत्वमेव न युक्तं येन शक्त्यपलापो धटेतेति भावेनाह -- किं चेति ॥ मणौ हि उत्तेजकाभावसहकृतस्याभावो हेतुरिति प्राञ्च इत्युक्त्वा विशिष्टं 2 नार्थान्तरं 3 एतदभावो ऽनुगतः स्यादित्यादिना तद्दूषयित्वा स्वयं तत्सर्वं निष्कृष्य वदन् दूषणमाह -- त्वन्मत इत्यादिना ॥ एकशक्तिमत्वेनेति ॥ एककार्यानुकूलशक्तिमत्वेनेत्यर्थः ॥
1. उभयत्र रूपपदं न -रा. 2. वार्था -उ. 3.येन तद - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 72.
------------------------ ------------- ---------
न च विशेषणविशेष्यतत्सबन्धाभावाः विशिष्टविरोधित्वेनानुगताः, तत्र विशेषणं वा विशेष्यं वा तत्ससम्बन्धो वा
नास्ति तत्र विशिष्टं नास्तीति प्रतीतेरिति वाच्यम् । विशिष्टविरोधित्वं हि विशिष्टविरहात्मकत्वं वा तव्द्याप्यत्वं वा वाच्यम् । तदुभयमपि प्रतियोगिनो विशिष्टस्याननुगमे तदभावस्याप्यननुगमादननुगतमेव । विशिष्टस्येवानुगमे तु तदभावो ऽपि स्वत एवानुगत इति किमनया कृसृष्ट्या ॥
ननु - तर्हि स्वरूपेण विद्यमानस्यैव मणेरुत्तेजकसमये उत्तेजकाभावावच्छिन्नत्वेनाभावो ऽस्ति । प्रतियोगिभेदेनेव प्रतियोगितावच्छेदकभेदेनाप्यभावभेदात् ।
शशधोक्तमेवानुगमकमाशङ्क्य निराह -- न चेति ॥ त्रयाणां विशिष्टविरोधित्वं व्यनक्ति -- यत्रेति ॥ अनुगत इति ॥ विशेषणविशेष्यतत्सम्बन्धरूपत्रितयात्मकत्वे तदभावस्यापि त्रित्वापत्याननुगमात् । तद्विरहात्मकत्वं वा तद्विरहव्या 1 प्यत्वं वाननुगतेत्यर्थः । अनुगमे त्विति ॥ विशेषणादित्रितयानुगतं विशिष्टं पदार्थान्तरमित्युपगमे त्वित्यर्थः । कृसृष्ट्येति ॥ विशिष्टविरोधित्वेनानुगमः विरोधित्वं विरहात्मत्वा 2 दिति कल्पनयेत्यर्थः ॥
एवं शशधराभिमतमभावत्रयपक्षं मण्याद्युक्तदिशा निरस्येदानीमुदयनाद्यभिमतमतिरिक्ताभावपक्षमाशङ्कते -- ननु तर्हिति ॥ प्रतियोगिभेदे 3 नैवेति ॥ यद्यपि प्रतियोगिभेदस्थले प्रतियोगितावच्छेदकभेदस्यावश्यकत्वात्तद्भेदादेव भेदस्तथापि यथा प्रतियोगिभेदो ऽभावभेदव्याप्तस्तथा प्रतियोगितावच्छेदकभेदो ऽपीत्यर्थः ।
1.प्तत्वं -उ. 2.त्वादिरि -उ. 3.न वे - उ.
प्रभास्य-हेत्वे-प्रचङ्गः) शक्तिवादः पु - 73.
--------------------- ------ --------
कथमन्यथा दण्डिनि पुरुषे सत्येव केवल 1 पुरुषो नास्तीति कैवल्यावच्छिन्नत्वेन पुरुषाभावप्रमा । तथाचोत्त 2 म्भके सत्यसति च मण्यभावकाले उत्तम्भकयुक्तमणिकाले चानुगतो मण्यभाव एव हेतुरिति चेन्न । मन्मते पदार्थान्तरस्य विशिष्टस्यैवावच्छिन्नाभावप्रतियोगित्वेन मणेस्तदप्रतियोगित्वात् । त्वन्मते च विशिष्ये सति विशिष्टाभावबुद्धेः सविशेषणे हीति न्यायेन विशेषणाभावविष 3 त्वेनाननुगतमतादवस्थ्यात् ।
स च प्रतियोगिनि सत्यपि वर्तमानो ऽभावः प्रागभावादित्रितयान्य एव ध्वंस एव वा कॢप्तात्यन्ताभाव एव वा मण्युक्तदिशा 4 ध्येय इति भावः ॥
अस्त्वेवं ततश्च किमत्यत आह -- तथा चेति ॥ उत्तम्भकदशायां मणिर्न चे 5 त्तदोत्तम्भकाभावरूपावच्छेदकस्य तदवच्छेद्यविशेष्यस्य चोभयस्याभावात्तत्प्रयुक्तो मण्यभावः, उत्तम्भके सति मणिर्न चेत्तदा तु विशेष्याभाव उत्तम्भकयुक्तमणिदशायां चोत्तम्भकाभावरूपावच्छेदकाभावप्रयुक्तो विशेष्याभावो ऽनुगत इत्यर्थः। मणेस्तदप्रतियोगित्वादिति ॥ तथा च त्वदभिमताभाव एवालीक इति कस्य कारणतया शक्त्यपलापः स्यादिति भावः। मण्युक्तमेव दोषमाह -- त्वन्मते 6 चेति ॥
1.लः-रा.ग. 2.त्तेजके - रा. 3.त्वेननु -रा. 4.ज्ञे -उ. 5.ऽनचेत्यन्तं नास्ति -उ. 6. वेति -- उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 74.
------------------------ ------------- ----------
कथमन्यथा 1 शिखैव नष्टा न 2 तु पुरुष इत्यवाधितधीः । कथं च विशेष्यसत्वाविरोधिनस्तदभावत्वम् । विशेषणसत्वमात्रविरोधिनस्तदभावत्वाभावश्च॥
किञ्चास्यैव मणेरुत्तेजकात्पूर्वमुत्तेजककाभावविशिष्टतया तदवच्छेदेनाप्यभावो ऽसम्भवी । न च मण्यादेः पूर्वमुत्तेजकाभावविशिष्टत्वेपीदानीमुत्तेजका 3 भावाभावेनेदानीमुत्तेजतकाभावविशिष्टत्वेनाभावोस्तीति वाच्यम् । एवं
ही 4 दानीन्तनोत्तम्भकाभाववैशिष्ट्यं प्रतियोगितावच्छेदकं वाच्यम् । तच्चायुक्तम् । तस्योत्तेजकसमवहितमणौ कदाचिदप्यभावेन --
उदयनमत इत्यर्थः । कथमन्यथेति ॥ विशिष्टाभाववबुद्धेर्विशेष्याभावपरत्व इत्यर्थः । विशेषणाभावविषयत्वं विशिष्टाभाववबुद्धेर्व्यनक्ति -- कथं चेति ॥ विशेषणसत्त्वेति ॥ कथं चेत्यनुषङ्गः ॥
एतादृशाभाववकल्पनं न्यायसिद्धान्तविरुद्धं चेत्याह -- किञ्चास्यैवेति ॥ यस्याभाव उच्यते तस्यैव मणेरित्यर्थः । कुमुत्तेजकात्पूर्वं तदभावः प्रतियोगितावच्छेदको ऽथोत्तेजकदशायाम् । आद्य आह -- उत्तेजकादिति ॥ द्वितीयमाशङ्क्य निराह -- न चेति ।. इदानीमिति ॥ उत्तेजकदशायामित्यर्थः । इदानीन्तनेति ॥ उत्तेजकालीनेत्यर्थः ।
1.था विशिष्टस्यैव नष्टा - क. 2.तु शब्दो नास्ति -नं 3.कभावेने -नं. काभावेनो -ग. 4.ह्युत्तेजकाभाव -नं.
प्रभास्य-हेत्वे-प्रचङ्गः) शक्तिवादः पु - 75.
--------------------- ---------- --------
--व्यधिकरणधर्मावच्छन्नाभावापत्यापसिद्धान्तात् । तस्य केवलान्वयितयोत्तेजकात्पूर्वमपि सत्वेन तदापि दाहापत्तेश्च ॥
किञ्च विद्यमानस्याप्यविद्यमानधर्मावच्छेदेनाभावे व्यासज्यप्रतियोगि 1 कोप्यभावः स्यात् । स च नेष्टः ॥
व्यधिकरणेति ॥ प्रतियोगिता 2 व्यधिकरणेत्यर्थः । अपसिद्धान्तादिति ॥ यथा श्रुङ्गे शशीयत्वस्य कदाप्यभावेन शशीयत्वावच्छिन्नश्रुङ्गाभावो नोपेयते तथात्वे पटत्वावच्छिन्ने भूतले घटो नेति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावस्यातिरिक्तस्याङ्गीकर्तव्यताप्रसङ्गभयात् व्यक्तमेतदनुमितिलक्षणे तट्टीकासु ; तथेहाप्युत्तेजकसहकृतमणावभावप्रतियोगितावतीदानीन्तनोत्तेज 3 काभावरूपावच्छेदकस्यान्यत्रैव सत्वेनेह तदा कदाप्यभावेन प्रतियोगिताव्यधिकरणत्वावच्छिन्नाभावाङ्गीकारे ऽप्रसिद्धान्तादित्यर्थः ॥
यदि कश्चित्ब्रूयादस्तु तादृशोप्यभाव इति तदापि दोषमाह -- तस्येति ॥ उत्तेजककलीनोत्तेजकाभावरूपव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावरूपे 4 त्यर्थः ॥
अतिप्रसङ्गं चाह -- किञ्चेति ॥ व्यावज्येति ।. घटसत्वस्थले घटपटौ न स्त इतिधीबलाद्द्वित्वावच्छिन्नप्रतियोगिताको विद्यमानघठपटोभयप्रतियोगिको 5 क्तातिरिक्ताभावो ऽपि स्यात् । अन्यतराभावस्यैव प्रतीत्युपपत्तावप्रामाणिको ऽभावो न तत्र नैयायिकैः स्वीकृत इत्यर्थः ॥
अस्तु तादृशो ऽप्यभाव इति वदन्तं प्रति दोषान्तरमाह --अपि चैवमिति ॥
1.ताको -क.ग.ज. 2.ना व्य-उ. 3.त्तम्भका-उ. 4.रूपपदं न-उ. 5.अतिरिक्तो ऽभावोपि -उ.
न्यायदीपयुततर्कताण्डवम् शक्तिवादः पु - 76.
----------------------- --------- -------
अपि चैवं रक्ततादशायां घटस्य श्यामरूपावच्छिन्नत्वेनाभावा 1 पत्या प्रत्यभिज्ञाविरोधः स्यात् ।.
न च घटस्य श्यामत्वेनास 2 त्वे ऽपि घटत्वेन सत्वान्न तद्विरोध इति वाच्यम् । तथात्वे 3 प्रत्यभिज्ञाया घटत्वावच्छिन्नाभेदविषत्वेनोपपत्या श्याम 4 त्वावच्छिन्नत्वेन भेदापत्या त्व 5 दनभिमतभेदाभेदप्रसङ्गात् ॥
एवं तत्तक्षणावच्छेदेनापि भेदापत्या क्षणभङ्गः 6 स्यात्। एवमेकस्मिन्नपि क्षणे संयोगतदभावावच्छेदेन भेदाभेदौ स्याताम् ॥
अपि चैवमिति ॥ विद्यमानस्यैव वस्तुनो ऽवच्छेदकाभा 7 वनिमित्ताभावस्वीकार इत्यर्थः ॥ प्रत्यभिज्ञेति ॥ यः श्यामः स एवायं रक्त इति प्रत्यभिज्ञेत्यर्थः । भेदाभेदेति ॥ घटत्वेनाभेदः श्यामत्वेन भेद इति भेदाभेदेत्यर्थः । तत्क्षणेति ॥ एतत्क्षणावच्छन्नो नेति प्रतीत्या प्रतिक्षणमविद्यमानपूर्वोत्तरक्षणावच्छेदे 8 न भेदसंभवात् क्षणिकता स्यादित्यर्थः । भेदाभेदाविति ॥ वृक्षे शाखायां 9 कपिसंयोगस्य मूले तु तदभावस्य सत्वेन वृक्षो मूले कपिसंयोगवान्न भवति अग्रे कपिसंयोगाभाववान्नेति वा प्रतीत्या संयोगवदभेदः संयोगाभाववद्भेदश्च वृक्षे संयोग 10 तदभावावच्छेदेन स्याताम् । तथा संयोगाभावस्थले संयोगाभाववदभेदः संयोगवद्भेदश्च स्यादित्यर्थः ॥
1.वत्वाप- नं.ग. 2.त्त्वाप तद्वि-नं. 3.प्रत्यभिज्ञा इति नास्ति -रा. 4.माव -नं.क.ज. 5.त्वन-रा. 6.ङ्ग प्रसङ्गात् -रा. 7.भावस्वी -उ. 8.दभेदसंभवेन -उ. 9.सर्वत्र ऽपिकऽ इत्यस्ति -उ. 10. गावच्छेदेन -उ.
प्रभास्य-हेत्वे-प्रचङ्गः) शक्तिवादः पु - 77.
--------------------- -------- --------
किञ्च प्रतियोगिसत्वकाले ऽ1 पि सन्नयमभावो न तावद्ध्वंसः प्रागभावो वा । तयोः
प्रतियोग्यसमानकालीनत्वात् । ध्वंसस्यानन्तत्वेनोत्तेजकापन 2 यनकाले ऽपि सत्वेन मणिसत्वेपि दाहापत्तेश्च । अत एव नात्यन्ताभावः । तस्यानाद्यनन्तत्वेन प्रतिबन्धककाले ऽपि सत्वेन तदापि दाहापत्तेः ॥
ननु - विशिष्टात्यन्ताभावं प्रति विशेषणस्य विशेष्यस्य वा प्रागभावो 3 ध्वंसो वा प्रत्यासत्तिः । तथाच विशेषणादिदशायामत्यन्ताभास्याप्रत्यसन्नत्वान्न दाहोत्पादकत्वं न वा प्रतीतिरित चेन्न । तेषु प्रत्यासत्तित्वावच्छेदकैकरूप 4 स्याभावात् । अननुगताना 5 मपि प्रत्यासत्तित्वे 6 वापश्यकानां तेषामेव दाहहेतुतास्तु । किं विशिष्टा 7 भावकल्पनया ॥
ननु विशेष्यसत्वस्थले ऽवच्छेदकभेदेनाङ्गीक्रियमाणो ऽभावः संसर्गाभाव एव न त्वन्योन्याभावः । येनोक्तदोषः स्यादित्यत आह -- किञ्चेति ॥ दाहापत्तेरित्युपक्षणम् । तदाप्यभावधीप्रसङ्गाच्चेत्यपि ध्येयम् ॥
अत्यन्ताभावपक्षमुपेत्य तत्रोक्तदोषोद्वारमाशङ्कते -- नन्विति ॥ तेष्विति ॥ यद्यपि ध्वंसप्रागभावौ द्वावेव शङ्कितौ । तथापि विशेषणविशेष्यरूपप्रतियोगिभेदाच्चतुष्ट्वमुपेत्य तेष्वित्युक्तम् ।
1.ऽअपिऽ इति नास्ति-नं.रा. 2.यनयन-नं. 3.प्रध्वं-रा.ग. 4.पाभा-नं.ग. 5.नां तेषां प्र- रा. नामपि तेषां -ग. 6.चाव -रा. त्वेनाव -क.ग. 7.ष्टात्यन्ताभा-नं.रा.ग.ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 78.
------------------------ ----------- --------
एतेन कालविशेष एव प्रत्यासत्तिरिति निरस्तम् । अननुगमात् । सर्वत्रापि तत्तत्कावलविशेषस्यैव हेतुत्वापत्या कारणान्तरापलापापत्तेश्च ॥
नाप्ययमुत्पादविनाशशीलस्तुरीयो ऽभावः । 3 उत्तम्भकोपनये उत्तम्भकाभावविशिष्टमण्यभावस्योत्पत्तेरपनये च विनाशादिति वाच्यम् । उक्तरीत्यावश्यकेन विशेषणाभावनैव तव्द्यवहारोपपत्तौ तुरीयाभावकल्पकाभावात्
॥ न चायं कालविशेषावच्छेदेनात्यन्ताभाव 2 एवेति वाच्यम् । तथात्वे प्रागभावादेरपि तथात्वापातात् । 3 इह 4 घटो नेत्यत्रापि घटभूतलसंबन्ध एव प्रतियोगी न तु घटः । वक्ष्यते चैतदभावप्रस्तावे ॥
यद्वा ध्वंसादिव्यक्तिबाहुल्यापेक्षया तेष्वित्युक्तिः । एवं चाननुगम एव क्वचित्कस्यचिदेव प्रत्यासत्तित्वस्वीकारादिति भावः। अननुगमादिति ॥ क्वचित्प्रागभावकालः क्वचित्प्रध्वंसकाल इत्यननुगमादित्यर्थः । तुरीय इति ॥ प्रागभावप्रध्वंसात्यन्ताभावरूपे 5 संसर्गाभावमध्ये सामयिकोपि 6 क्वचिदत्यन्ताभावोस्त्वित्यर्थः । कालविशेषेति ॥
उत्तम्भक7 कालविशेषेत्यर्थः॥
नन्वेवं -- विशेषणाभावादिना विशिष्टाभावापलापे घटा 8 द्यभावो ऽपि न सिध्येत् । इह भूतले घटो नेत्यत्रापि घटभूतलसंबन्धाभावानैव तव्द्यवहारोपपत्तेरित्यत इष्टापत्तिमाह -- इह घटेति ॥ व्यक्तमे 9 तन्न्यायमृते असतो ऽभावप्रतियोगित्ववादे प्रथमपरिच्छेदे ॥ वक्ष्यते इति॥ अभावस्य स्वरूपादन्यत्र प्रत्यासत्तिरित्येतदाश्रयासिद्धेर्देषत्वभङ्गे वक्ष्यत इत्यर्थः ॥
1.उभयत्र ऽउत्तेजकऽ इत्यस्ति-रा. आदावस्ति-ग. 2.वोस्त्विति -नं. 3.न चेत्यादि नास्ति -ज. 4.ऽभूतलऽ इत्यधिकम् -नं. 5.पसं-उ. 6.कश्चिद-उ. 7.ऽसत्वऽ इत्यधिकम् -उ. 8.टाभा-उ. 9.वन्या-उ.
प्रभास्य-हेत्वे-प्रचङ्गः) शक्तिवादः पु - 78.
--------------------- --------- -------
ननु-- तर्हि मण्युत्तम्भकोभयसत्वकाले तदानीमुत्तम्भकाभावविशिष्टानां देशान्तरस्थानामन्येषां मण्यादीनामत्रत्या 1 भावः कारणं ; न त्वत्र विद्यमानस्यैव मण्यादेरभावः । अत एवोदयनो"न 2 हि दण्डिनि सत्यदण्डानामन्येषां नाभाव"इत्याह । अन्यथान्येषामिति व्यर्थं स्यादिति चेन्न । एवं हि उत्तम्भककालीनं दाहं प्रति विद्यमान 3 मणेरभावः कारणं न स्यात् । तथा चोत्तेजकागमनात्
प्राक् मणिकाले ऽपि दाहः स्यात् । एतन्मण्यभावस्य तदानीमसत्वे ऽपि तस्याहेतुत्वेन तद्विलम्बेन दाहविलम्बानुपपत्तेः । हेतुभूतस्य च तत्राविद्यमानानामन्येषां मणीनामभावस्योत्तेजकागमनात्प्रागपि सत्वात् ॥
उदयनोक्तं पक्षान्तरमाशङ्क्य निराह -- ननु तर्हित्यादिना ॥ अभावस्य विद्यमानमण्यादिप्रतियोगिकत्वासंभव इत्यर्थः । अद 4 ण्डिनामपि न बहुव्रीहिः किन्तु दण्डिनामेवेति योज्यम् ॥
1.त्योभा -रा.ग. 2.तर्हि -ग. 3. नं म -क. 4.ण्डानामिति न ब -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 80.
------------------------ ------------- --------
अथं मतं -- विशेषणविशेष्ययोः सम्बन्ध एव विशिष्टं, तथाच मण्युत्तम्भकाभावरूपोभयसंबन्धाभावो विशेषणाद्यभावव्यापको ऽनुगतो 1 हेतुरिति चेत् । मैवम् । अयमप्यभावो हि मण्युत्तम्भकाभावारूबपसंबन्ध्या 2 त्मकविशेषणद्वयविशिष्ट 3 संबन्धरूपविशेष्यस्याभावः । न तु संबन्धमात्रस्याभावो ऽतिप्रसङ्गात् । तथा चायं विशिष्टाभावो ऽहि यदि संबन्धझिरूपिविशेषणद्वयेन सह संबन्धरूपविशेष्यस्य यत्संबन्धान्तरं तदभावात्मकः तदानवस्था । यदि तु तत्परिहाराय विशेषणाभावाद्यात्मकस्तदा पूर्ववदनगमतादवस्थ्यम् ॥
"अत्रोच्यते"इत्यादिना म 4 ण्युक्तं पक्षमाशङ्कते -- अथ मतमितित ॥ अतिप्रसङ्गादिति ॥ घठपटसम्बन्धाभावस्यापि दाहहेतुत्वप्रसङ्गादित्यर्थः । अयमिति ॥ विशेषणविशेष्ययोः संबन्धरूपविशिष्टस्याभावो ऽपीत्यर्थः । विशेषणद्वयेनेति ॥ विशेषणविशेष्यरूपविशेषणद्वयेनेत्यर्थः । दण्डीत्यत्र
दण्डचैत्रसंबन्धस्य विशिष्टशब्दार्थत्वे सति तुल्यन्यायतया संबन्धस्य तत्सं 5 बन्धीभूतविशेषणाभ्यां दण्डचैत्राभ्यां सह कश्चन सम्बन्ध एव विशिष्टशब्दार्थो वाच्यः । तत्रापि सम्बन्धस्य तत्संबन्धिभूतसंबन्धतत्संब्धिभ्यामन्य एव संबन्धो विशिष्टपदार्थ इति विशिष्टाभाववपक्षे 6 प्राचीनसंबन्धस्य संबन्धान्ताराभाव एव विशिष्टाभावो वाच्यः । 7 तत्राप्येवं तत्राप्येवमित्यनवस्थेत्यर्थः । तत्परिहारायेति॥ अनवस्थापरिहाराय विशेष्यतत्सम्बन्धाभावात्मक इत्यर्थः ॥
1.ऽअपिऽ इत्यधिकम् -रा. 2.न्धात्म-नं. 3.ष्टस्य सं- नं.ग.ज. 4.णिकृदु -उ. 5.बन्दिभ्यामन्य एव सम्बन्धो विशि-उ. 6.क्षेपि -उ. 7.एकं ऽतत्राप्येवऽ मिति नास्ति -उ.
प्रभास्य -हेत्व-प्रचङ्गः) शक्तिवादः पु - 81.
--------------------- ---------- --------
ननु - भवेदिदं यद्युत्तम्भकसहितमण्यादिकाले मण्यादिरूपविशेष्यस्य सत्वे ऽप्यनुत्तम्भकाभाव 1 विशेषणाभाववत्सम्बन्धरूपविशेष्यस्य सत्वे ऽपि कदाचित्सम्बन्धिरूपविशेणाभावः स्यात् । न चैवं प्रकृते। सम्बन्धिनोरभावे सम्बन्धाभावस्यावश्यकत्वात् । तथा च सम्बन्धरूविशेष्याभाव एवानुगत इति चेत् । मैवम् . अनुगमाय तदनपेक्षायामपि सम्बन्धाभावमात्रस्य हेतुत्वे ऽतिप्रसङ्गेनानतिप्रसक्तस्य कारणत्वाय तदपेक्षणात् । मण्युत्तम्भकाभावसम्बन्धस्य तदुभयमात्रवर्तित्वेन दाह्ये करतले दाहके वह्नौ च तत्सम्बन्धाभावस्य सदा सत्वेन केवलमणिकाले ऽपि दाहप्रसङ्गाच्च ॥
----------------------------------------------------------------------------उक्तानवस्थादिदोष 2 निरासाय वै 3 षम्यामाशङ्कते -- नन्विति ॥ इदमिति ॥ सम्बन्धान्तरमादायानवस्थोद्भवनमित्यर्थः । प्रकृत इति ॥ सम्बन्धसम्बन्धिनोः सम्बन्धी विषय इत्यर्थः । सम्बन्धाभावस्येति ॥ विशेष्यभूतसम्बन्धाभावस्येत्यर्थः ॥ तदनपेक्षायामिति ॥ सम्बन्धिभूतविशेषणानपेक्षायामित्यर्थः । तदुपेक्षणादिति ॥ तथा च
विशेष्यसम्बन्धाभावात्मकत्वे ऽननुगमता 4 स्यादेवेति भावः ॥
ननु तदपेक्षायामपि परिचायकत्वेनैव तदपेक्षास्तु तावतातिप्रसङ्गाभावादित्यतो दोषान्तरमाह -- मणीति ॥ मणेरुत्तम्भककाभावेन यः सम्बन्धस्तस्येत्यर्थः ॥
1.रूपेत्यधिकम् -क. रा.ग.ज. 2.परिहाराय -उ. 3.शेष्य -उ. 4.दवस्थ्य -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 82.
----------------------- ------------- --------
केचुत्तु -- संशयोत्तरप्रत्यक्षं विशेषदर्शनमिव प्रतिबन्धककालीनदाहं प्रत्युत्तेजकं हेतुरिति कल्पनेनैव सर्वसमामञ्जस्ये किं विशिष्टाभावस्य हेतुत्वकल्पने 1 नेत्याहुः ॥
तस्माच्छुशधररीत्या विशेषणविशेष्यतत्सम्बन्धाभावत्रयं वोदयनादिरीत्या विद्यमानस्यपि प्रतिबन्धकरूपविशेष्यस्यैव प्रतियोगितावच्छेदकभेदेनाभावो वा देशान्तरस्थानामुपत्तम्भकाभावविशिष्टानां मण्यादीनाम 2 त्यान्ताभावो वा मणिकृद्रीत्या विशेषणविशेष्ययोर्यः सम्बन्धस्तदभावो वा कारणमिति विद्यमानमणेः कारणीभूताभावप्रतियोगित्वरूपं प्रतिबन्धत्वमयुक्तमिति कार्यानुकूलविघटकत्वरूपं प्रतिबन्धत्वमेव वाच्यमिति मण्यादिविघटनीयशक्तिसिद्धिः ॥
इति प्रतिबन्धकाभावस्य हेतुत्वे 3 प्रकारचतुष्टयभङ्गः
केचि 4 त्विति ॥ अस्मिन् पक्षे शक्तिसिद्धेरभावो ऽरूचिबीजं ध्येयम् ॥ देशान्तरस्थानामिति ॥ उदयनादिरीत्येत्यनुकर्षः ॥
प्रतिबन्धकाभावस्य हेतुत्वभङ्गः ।
1.नयेत्या- रा.ग.ज. 2. त्रत्याभा - रा.ग. 3.त्वप्र-क.ग. 4.दिति -उ. 5.न्धाभ-उ. 3 9 -उ.
तृणिर्-णाना-मेश-त्वसा-नम्) शक्तिवादः पु - 83.
------------------------- --------- --------
अथ तृणारणिमणीनामेकशक्तिमत्वसाधनम्
किञ्च -शक्त्यभावे तृणारणिमणीनां वह्निजातीय रूपकार्ये ऽननुगमेन 1 हेतुत्वं न युक्तमिति तेषामेकशक्तिमत्वेनानुगमार् 2 थं शक्तिः स्वीकार्या ॥
अथ तृणारणिमणीनामेकशक्तिमत्वसाधनम्
यद्यप्यनुमानखण्डे मणौ तृणारणिमणीनां वह्नौ कारणत्वेनैकशक्तिमत्वमुपेयमित्यादिना शक्तिसिद्धिं पूर्वपक्षयित्वा तन्निराकरणं सिद्धान्तितम् । तदपि निराकृत्य शक्तिं साधयति -- किं चेति ॥ एवं 3 क्चिच्छक्तिसिद्धौ पदे ऽपि तदनुमानं भविष्यतीति पूर्ववदभिप्राय ऊह्यः ॥ एकशक्तिमत्वेनेति ॥ एकजातीयकार्यानुकूलशक्तिमत्वेनेत्यर्थः । अन्यस्याभावादनुकूलत्वं च कार्याभावप्रयोजकाभावप्रतियोगित्वं कारणतदवच्छेदकोभवसाधारण् । तेन शक्तेरवच्छेदकत्वे ऽपि नानुकूलत्वहानिः । एवं च शक्तीनां प्रतिव्यक्ति नानात्वेन तन्निष्ठानुगतजात्यैवैकजातीयशक्तिमत्वेनानुगतेतारवश्यकत्वाच्छक्तौ जातेश्च तव्द्यञ्चकसंस्थानविशोषादेरभावेनायोग इत्यादिदूषणानवकाशः। सिद्धान्ते जातेरभावाच्च ॥
यद्वा संसर्गानुगतैकैवैऽस्तु 4 । न चैवमेकतृणव्यक्तिनाशे 5 आश्रयनाशप्रयुक्तशक्तिनाशातृणान्तरादितः कार्याभावदोष इति वाच्यम् । आधेयशक्तिवादे वक्ष्यमाणदिशा समाधानसम्भवादित्याशयादित्याहुः ॥
1.ऽतृणारणिमणीणाऽ मित्यधिकम् -ग. 2.माय-नं.रा.ग. 3.ऽचऽ इत्यधिकम् -उ. 4.शक्तिरित्यधिकम् -उ. 5.प्याश्र.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 94.
------------------------ ------------ -----------
न चाचाक्षुषद्रव्यत्वमुपाधिः । तैजसे 1 त्र्यणके चाक्षुषे 2 दाहानुकू 3 लातीन्द्रियोष्णस्पर्शवति साध्याव्यापकत्वात् । पक्षमात्रव्यावर्तकविशेषमवत्वेन
साध्यव्यापकताग्राहकतर्काभावेन प्रतिबन्धकसत्वे ऐन्द्रियकस्यापि तादृशधर्मं विना कार्यजनकत्व---
न चाचाक्षुषेति ॥ आत्मनि तादृशादृष्टादिमत्वमादाय साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वादिति भावः । त्र्यणुकगतोष्णस्पर्शे ऽतीन्दियत्वविवादिनं प्रत्याह -- पक्षेति ॥ तृतीयान्तानामुपाधेरेवेत्यादिसाध्ये 4 नान्वयः । अनुकूलतर्कसध्रीचीनस्य तादृशस्याप्युपाधित्वे दोषाभावादाह-- साध्यव्यापकताग्राहकेति ॥ निरुपाधिसहचार एव तादृशतर्क इत्यतो निरूपाधित्वमसिद्धमिति भावेनाह -- प्रतिबन्धकेत्यादि ॥ प्रकृतहेतोरेवोक्ततर्कानुगृहीतत्वेन चेति 5 दाहस्यैतादृशधर्मान्यैन्द्रियिकत्वप्रयोज्यत्वं 6 प्रतिबन्धकाले ऽपि दाहः स्यात् । न चैवमतः प्रतन्धकदशायां तादृशातीन्द्रियधर्मवत्वशून्यत्ववाद्वह्नेर्दाहरूपकार्याजनकत्वं दृष्टम् । ऐन्द्रियकत्वे तु सत्यपि दाहजनकत्वं न दृष्टमित्यप्रतिबन्धदशायामपि तादृशधर्मवत्वाभावे चाक्षुषद्रव्यादपि वह्नितो दाहकार्यानुदयः स्यात् । तथा च हेतूच्छित्तिरूपविपक्षबाधकतर्कसहितत्वाद्धेतोः --
"अनुकूलेति तर्केण सनाथे सति बाधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंग्रहः। 7 ॥
1.सत्र्य -न.रा.ग. 2.तादृशादीन्द्रिययोष्णस्य साध्यव्यापकत्वात्. इत्यस्ति-- रा. तादृशातीन्द्रियोष्ण-गा. 3. लस्थू -नं. 4.ध्येन्व-उ. 5.पाठस्यै -उ. 6.त्वे प्र-उ. 7.भवः-उ.
तृणि-णीना-मेश-त्वसा-नम् ) शक्तिवादः पु - 95.
--------------------------- ---------- --------
लक्षणविपक्षबाधकेनोक्तश्रुत्यादिबाधकप्रसङ्गेन 1 2 प्रत्युत हेतोरे 3 वोक्ततर्कानुगृहीतत्वेन चोपाधेरेव साध्याव्यापकत्वात् । अव एव नाप्रयोजकत्वम्॥
न च तृतीये आत्मत्वं द्रव्यत्वं 4 चोपाधिः । अदृष्टादौ साध्याव्यापकत्वात् । न च घटादौ व्यभिचारः । पक्षसमत्वात् ॥
इति न्यायेनोपाधेरेव साध्याव्यापकत्वादित्यर्थः । 5 केचित्तु प्रत्युत हेतोरेवोक्ततर्कानुग्रहः॥ उक्तेति ।"परास्य शक्ति"रित्यादिश्रुतिस्मृतिबाधितत्वप्रसङ्गेनेत्यर्थः । अत एवेति ॥ विपक्षे बाधकाद्युपेतत्वादेवेत्यर्थः । तथा च मणिकृदुक्तमप्रयोजकत्वदूषणमज्ञानमूलमिति भावः । अदृष्टादावित्यादिपदेन तादृशदण्डत्वादिधर्मवद्दण्डादिपरिग्रहः । अदृष्टस्यापि पूर्वोक्तरीत्या कार्यानुलूलादृष्टधर्मवत्वादिति भावः ॥
घटादाविति ॥ तस्यापि स्वगतरूपादिकं 6 प्रति परमते कारणत्वाज्ज्ञेयत्वाच्च हेतोः सत्वे ऽपि साध्याभावादिति भावः । पक्षेति ॥ शक्तयः सर्वभावाना"मिति स्मृत्या सर्ववस्तुष्वपि शक्तेरङ्गीकारादिति भावः ॥
मण्युक्तमनवस्थारूपप्रतिकूलतर्कपराहतिलक्षणबाधकमाशङ्क्य निराह--नन्वित्यादिना ॥
1.ऽसाध्यव्यापकताग्राहऽ इत्यादेःस्थाने. ऽउपाधेरनुग्राहकतर्काभावेनऽ इत्यस्ति-नं.ज. 2.प्रत्युतेत्यपि नास्ति- ज.क. ऽउपाधेरनुग्राहकतर्काभावेऽ नेत्यधिकम् -क. इतः चोपाधेरित्यत्र ऽ उपाधेऽ रिति पर्यन्तं नास्ति - रा. 3.एवकारो नास्ति -ग. 4.वोपा -ग.ज. 5.क्वचि -उ. दिप्र -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 96.
------------------------ ----------- ---------
1 ननु - तथा।डपि बीजादावङ्कुरानुकूलशक्तिवच्छक्त्यनुकूला शक्तिरपि स्वीकार्या । बीजनिष्ठामङ्कुरजननशक्तिं प्रति बीजस्य समावायिकारणत्वात् । एवं तदनकूला तत्पूर्वकालीना बाजादावनादिशक्तिपरंपराङ्गीरकार्येति बीजादेरनादित्वं स्यादिति चेन्न । मन्मते ऽङ्कुरे शक्तियुक्तस्य 2 बीजस्य 3 बीजे शक्तात्स्वकारणादेवोपपत्या बीजगतशक्तिपरंपरानपेक्षणात् ।.
किञ्च -- यथा प्रतबन्धके सत्यङ्कुरानुत्पत्तिः प्रामाणिकी तथा प्रतिबन्धाभिमतकिञ्चित्सत्वे यदि शक्त्यनुत्पत्तिः प्रामाणिकी स्यात्तदा शक्त्यनुकूलापि शक्तिर्बी 4 जादौ स्वीकार्या स्यात् । न च तदस्ति।
स्वीकार्येति ॥ अन्यथा प्रागुक्तहेतोस्तत्र व्यभिचारापत्तेरिति भावेनाह -- बीजनिष्ठामिति ॥ तदनुकूलेति ॥ अङ्कुरजननशक्तिजननशक्त्यनुकूलेत्यर्थः॥
अनवस्थाऽपादनमेवायुक्तं वैषम्यमिति भावेनाह -- किञ्चेति ॥
नन्वेवमपि -- यथाकारणं बीजादिकं स्वकार्यजनने शक्तिमपेक्षते । तथा शक्तरपि स्वकार्यजनने शक्त्यन्तरमपेक्षेत । सापि तथेत्यनवस्थादि --
1. इतः ऽ निर्वाहकत्वादिति ऽ इत्यन्तोभागः, ऽतस्मात्ऽ इत्यादेः ऽप्रमाणानि इत्यन्तस्यानन्तरमस्ति -नं.रा.क.ज. 2. क्तबी -नं. 3.बीजशक्तेः स्व -नं.ज. 4.ऽबीजादौ इति नास्ति- रा.
आधेयशक्तिः) शक्तिवादः पु - 97.
------------ --------- ---------
नापि शक्तावपि 1 स्वाकार्यानुगुणशक्तिः स्वीकार्येत्यनवस्था । समवायविशेषादिवत्स्वनिर्वाहकत्वादिति ॥
2 तस्मादुक्तरीत्या 3 श्रुत्यिस्मृती अर्थापत्तिपञ्चकं परोक्तस्य विशिष्टाभावकारणत्वस्यानुपपत्तिस्तृणादेर्वाह्निजातीयकारणत्वानुपपत्तिरनुमानानानि च प्रमाणानि ॥
इति सहजशक्तिः4
स्यादित्यत आह-- 5 नापीति ॥ विशेषेति ॥ नित्यद्रव्येषु व्यावर्तकतया तार्किकाभ्युपगतविशेषस्येवेत्यर्थः ॥
सहजशक्तिवादः
।
अथाधेयशक्तिः
एवमाधेयशक्तरपि स्वीकार्या । अन्यथा --
अथाधेयशक्तिः
एवमाधेयेति ॥ सहजशक्तिवत्कारणविशेषो 6 त्पाद्याप्युपेयेत्यर्थः । यद्यपि सहजशक्तेरभावे विष्णावेव वेदस्य शक्तितात्पर्यरूपसमन्वयायोगवदाधेयशक्त्यभावे
काचिदपि हानिर्नास्ति;
1.स्व-नं.ग.ज. 2.ऽ तस्मात्ऽ इत्यादिग्रन्थो नास्ति - ग. 3.ऽशक्तौऽ इत्यधिकम् -नं. 4.वाद इत्यधिकम् -रा. 5.सापी -उ. 4 1 -उ. 6.क्त्याद्याप्यु -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 98.
------------------------ ----------- ---------
व्रीहीन् प्रोक्षतीत्यादौ प्रोक्षणजन्यस्य व्रीहीनिष्ठस्यातीन्द्रियस्ये 1 प्सितस्यातिशयस्याभावेन व्रीहिनितीप्सितकर्मणि द्वितीया न स्यात् ॥
-- पदानि पदान्तरसन्निधानाहितशक्त्यन्तराणि विशेषतो ऽप्यन्वितान् स्वार्थानभिदधतीति पद्धतिवाक्यस्यान्वताभिधानवादे ऽग्रे गतेर्वक्ष्यमाणत्वेन विशेषान्वयतो ऽप्याधेयशक्तेरनपेक्षितत्वात् । तथापि कारणानां प्रमाजननस्वभावानामपि दोषेणाहितशक्तिकानामप्रमाजनकत्वस्वीकारात्तथा प्रामाण्यग्रहणस्वभावस्यापि साक्षिणो विसंवादादिरूपपरीक्षा 2 हितशक्तिकस्याप्रामाण्यग्राहकत्वस्वाकारात्संस्काराहितशक्तिकस्य चक्षुरादेः प्रत्यभिज्ञा 3 जनकत्वस्वीकारात्तदुपयोगितया 4 तत्साधनमित्यवधेयम् ॥
व्रीहीनिति ॥ यदि हि"चतुरो मुष्टीर्निर्वपति"इति पुरोडाशार्थतया निरुप्तानां व्रीहीनां प्रोक्षणं विधीयते"व्रीहीन् प्रोक्षति"इति । आदिपदेन"अपः प्रणयति"इत्यादिग्रहः॥ ईप्सितस्येति ॥ आप्तुमिष्टस्येत्यर्थः । आपऌव्याप्तवित्यस्य(?) सन्प्रत्यये"आप्ज्ञप्यृधामीत्"इतीकारा 5 देशे सति निष्ठायामीप्सितमिति रूपसंपत्तेः ॥
ईप्सितकर्मणीति ॥ कर्मकारकं तावद्विविधम् । ईप्सितमनीप्सितं च ।"कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितम्"इति पाणिन्युक्तेः । तत्राद्यं ग्रामं गच्छति व्रीहीन् प्रोक्षतीत्यादि । द्वीतीयं तु विषं भूङ्क्त इत्यादि। अतस्तद्व्यावृत्यर्थमीप्सतकर्मणीत्युक्तम् । द्वितीयेति ॥"कर्मणि द्वितीया"इति सूत्रोक्ता द्वितीयाविभक्तिरित्यर्थः ॥
1.ईप्सितपदं नास्ति- ग. स्य तस्य- ज. 2.क्षासहि- उ. नादिज-उ. 4. या
एव -उ. 5. दीप्सितेति सं-उ.
आधोयशक्तिः) शक्तिवादः पु - 99.
------------- ------ -------
न च प्रोक्षणजन्यलसंयोग एव व्रीहिनिष्ठो ऽतिशयः। क्षणिकस्य तस्य भाविकारणोत्पा 1 द्यापूर्वानुपयोगित्वेनानीप्सितत्वात् । संयोगावच्छिन्नक्रियायाः प्रोक्षणपदार्थत्वेन स्वस्यैव 2 स्वजन्यत्वविरोधाच्च ॥
न च धात्वर्थे संयोगादिरूपलक्षणमात्रमिति वाच्यम् । त्यजातिगच्छत्योः पर्यायत्वापत्तेः । ग्रामसंयोगविभागयोर्धात्वर्थाप्रवेशात् । क्रिया 3 त्वमात्रस्य चोभयत्र साम्यात् ॥
शशधरे मणौ चोक्तमाशङ्क्य निराह -- न चेति ॥ भाविकरणेति॥ करणं यागः च तत्कारणोत्पत्यपूर्वं च तदनुपयोगित्वेनेत्यर्थः । प्रोक्षितव्रीहयोः हि अवघतादिद्वारा पुरोडाशं निर्वर्त्य तत्साधकयागक्रियाजन्योत्पत्यपूर्वे उपयुज्यन्ते । सन्निपात्यङ्गत्वात्तच्च व्यवहितो 4 तत्कालभवीति कथं तदुपयोगः। तदुपयोगाभावे ईप्सितं न स्यादिति भावः । धात्वर्थ इति ॥ प्रोक्षणादिरूपधात्वर्थ इत्यर्थः । संयोगादिरेवेति ॥ विभाग आदिपदार्थः । ग्रामं त्यजतीत्यत्र ग्रामविभागस्त्यजधात्वर्थे उपलक्षणमित्यर्थः । त्यजतीति॥ त्यज विसर्गे गंगताविति धात्वोरित्यर्थः । अवच्छेदकीभूतसंयोगविभागयोरुपलक्षणत्वे क्रिया 5 मात्रस्योभयत्र धात्वर्थे सत्वादिति भावेनाह -- ग्रामेति॥ एवमित्यस्य व्याख्या व्रीहीणामित्यादि। ग्रामस्य यथा तथेति भावः॥
1.त्पत्य -नं.रा.क.ग.ज. 2.स्वपदं न -ज. 3. यामा-नं.रा.क.ग.ज. 4.त्तरकाल-उ. 5.त्वमा-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 100.
------------------------- ------------- -----------
किञ्चैवं व्रीहिणामपि प्राप्यकर्मत्वे संस्कार्यकर्मत्वाभावेन--
"उत्पाद्यं च विकार्यं च प्राप्यं संस्कार्यमेव चे"
ति लोक 1 सिद्धं कर्मणश्चातुर्विध्यं न स्यात् ॥
यदि च स्थायी 2 संयोगध्वंसो ऽपूर्वोपयौगी तर्हि यागध्वंस एव स्वर्गोपयोगी स्यात्।
उत्पाद्यमिति ॥ कुलाला घटमुत्पादयतीत्यादावुत्पाद्यकर्म, काष्ठं 3 तक्ष्या करोति सुवर्णं कुण्डलं करोतीत्यादौ विकार्यकर्म, ग्रामं गच्छतीत्यादौ 4 व्रीहीन् प्रोक्षतीत्यादौ संस्कार्यं कर्मेति चातुर्विध्यं न स्यादित्यर्थः। यद्यपि प्रथमे कर्तुरीप्सिततमं कर्मेत्यत्र मञ्जार्याम् ---
"निवर्त्यं न विकार्यं न प्राप्यं चेति त्रिधा मतम् ।"
इत्युक्त्वा --
यदसंजायते यद्वा जन्मना यत्प्रकाश्यते।
तन्निवर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम् ।
प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादि भस्मवत्।
किञ्चिद्गुणान्तरोत्पत्या सुवर्णकटकादिवत्।
इत्यादिना तत्स्वरूपं चोक्तम् । तथापि 5 प्रभाकरैराघाराग्निहोत्राद्यधिकरणेषु तत्र चातुर्विध्यस्योक्तत्वात् । पिष्टं सं 6 यौति, आज्यं विलापयति गां गोग्धि, व्रीहीन् प्रोक्षतीत्यादेरुदाहृतत्वाच्चैवमुक्तमिति बोध्यम् ॥
ननु प्रोक्षिता व्रीहयो ऽवघताय कल्प्यत इति वाक्यबलेनोत्तरोपयोगित्वेनावगतप्रोक्षणस्योपक्षणतया संयोगध्वंसद्वारोत्तरोपयोगो ऽस्त्वित्यत आह -- यदि चेति ॥ अपूर्वेति ॥ योगोत्पत्यपूर्वेत्यर्थः॥
1. प्रसि-रा.ग. 2.ऽसन्ऽ इत्यधिकम्-नं. यिस -रा. 3.भस्मक -उ. 4.प्राप्यं व्रीहीन् -उ. 5.तथापि इति नास्ति -उ. 6.संयोजयति -उ.
आधेयशक्तिः) शक्तिवादः पु - 101.
------------ ---------- ----------
किञ्चैवं परमते ऽपि प्रोक्षणजन्यमात्मनिष्ठमपूर्वं 1 कल्प्यं स्यात् । न चात्मनिष्ठमेवादृष्टं व्रीहिसंयुक्तात्मद्वारा व्रीहिसंबद्ध 2 मतिशयः।
साक्षात्संबन्धस्यौत्सर्गिकत्वात् । प्रोक्षणजन्यादृष्टवदात्मसंयोगस्याप्रोक्षितव्रीहीष्वपि सत्वाच्च ॥
न चात्मनिष्ठदृष्टं स्वरूपसंन्धेन साक्षाद्व्रीहिसंबद्धमिति वाच्यम् । अदृष्टस्यात्मना समवायो व्रीहिभिः स्वरूपसंबन्ध इति संबन्धद्वय कल्पने गौरवात्॥
नन्वेवं यागध्वंसस्यानन्तत्वा 3 त्कालानन्त्यं स्यादित्यतो दोषान्तरमाह-- किञ्चैवमिति॥
नन्वस्त्वेवं व्रीहीणां द्वितीयान्तानामीप्सितकर्मत्वान्यथानुपपत्या विहितक्रियारूपप्रोक्षणजन्यातिशयवत्वं 4 परंपरैवान्यगतेन साक्षात्स्वरूपसंबन्धेन वोपपन्नमिति किमर्थमप्रामाणिकानेकापूर्वं व्रीहिषु कल्पनीयमित्याशङ्क्याह-- न चेति॥ 5 तच्चात्मनीति च स्वरूपसंबन्धेन । साक्षादिति॥ आत्मनिष्ठज्ञानादेर्बाह्यघटादिनेवेति भावः॥ गौरवादिति॥ ज्ञानादेस्त्वनन्यगता 6 त्मनिष्ठत्वानुभवबलेन च संबन्धद्वयकल्पनम् । न चैवं प्रकृते। व्रीहिगतत्वेनैव कल्पने बाधकाभावादिति भावः॥
र्1.वमक-नर्ं. वंस्या -रार्. वं क -ग. 2.द्धोति- नं.क.ज. 3.त्फला-उ. 4.तच्च इत्यधिकम् -उ. 5.नचात्मनी-उ. 6.त्या आत्म -उ. 7.ल्प्येत- उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 102.
------------------------ ------------- -----------
न च -- ग्रामं गच्छामि, घटं जानामि, अतीतं जानामीत्यादौ व्यभिचारः, ग्रामं संयोगादेरनीप्सितत्वात् अन्यस्ये 1 प्सितस्याभावात्, घटादौ 2 च त्वन्मते ज्ञानताया अभावादिति वाच्यम् । ग्रामादौ शयनासनादेर्घटादौ च व्यवसायजन्यानुव्यवसायस्मरणादिविषयत्वस्य व्यवहारयोग्य 3 त्वस्य च क्रियाजन्योप्सितस्य सत्वत्वात् ॥
न च शत्रुवधमुद्दिश्च विहिते श्योनादौ देवतोद्देशेन विहिते यागादौ च व्यभिचारः। तत्रापि शुत्रुनिष्ठस्य ज्वरस्फोटादेर्देवताप्रतीतेश्च सत्वात् ॥
तस्मात् प्रोक्षणादिकं व्रीहिनिष्ठेप्सितजनकं तदुद्देशेन विहितत्वात्। पित्राद्युद्देशेन
क्रियमाणगयाश्राद्धादिवत् ॥
एवं द्वितीयावगतेप्सितकर्मत्वान्यथानुपपत्या व्रीहिष्वेवातिशयः कल्प्यो 7 न त्वात्मनि परंपरासंबन्धादिना गौरवप्रसङ्गादित्युक्तम् । तदयुक्तम् । ग्रामं गच्छतीत्यादौ का गतिरित्यादिना मणावेव व्यभिचारोक्तेरित्यतस्तदाशङ्क्य निराह -- नचेत्यादिना । व्यभिचार इति ॥ द्वितीयावगतेप्सितकर्मत्वबलेन कर्मकारक एवातिशयः कल्प्य इत्यस्य व्यभिचार इत्यर्थः। सर्वत्राप्युक्तकर्मकारके ऽतिशयरूपसाध्य 4 सत्वात्तत्र व्यभिचारमुद्धरति-- ग्रामादाविति ॥ षङ्ग्वाद्यधिकारिभदापेक्षयोक्तं शयनासनादेरिति ॥
वक्ष्यमाणप्रयोगे व्यभिचारमुद्धरति -- न च शत्रुवधमिति ॥ तस्मादिति॥ अन्यथोपपत्तिव्यभिचारयोरभावादित्यर्थः। तदुद्देशेन व्रीह्याद्युद्देशेनेत्यर्थः
1.स्य ये -नं.रा.क.ज. 2.टे च -नं. 3.ग्यस्य -नं. 4.वत्वोक्त्या व्यभि-उ.
आधेयशक्तिः) शक्तिवादः पु - 103.
------------ -------- ---------
न च संस्काराणां प्रतिव्रीहि नानात्वे गौरवम्। प्रोक्षितसर्वव्रीहिष्वेकत्वे तदश्रयत्रिचतुरादि 1 व्रीहिनाशनामननुगतत्वेन संस्कारनाशं प्रत्य 2 नाश्यत्वेनैव प्रयोजकत्वे एकव्रीहिनाशे ऽपि संस्कारनाशाद्भाविकार्यं न स्यादिति वाच्यम्। उक्तरीत्या संस्कारस्य व्रीह्याश्रितत्वेन प्रमिते ऽनन्तरं प्रतिसन्धीयमानस्य नानात्वस्य फलमुखत्वेनादोषत्वात्। त्वन्मते ऽप्यनेकयजमानकसत्रयागादावपूर्वनानात्वस्यावश्यकत्वाच्च॥
विहितत्वमात्रस्य व्यभिचाराद्विशेषणोक्तिः। न च विशेषणासिद्धिः शङ्क्या। द्वितीयावगतकर्मत्वेनैव तत्सिद्धेरुक्तत्वादिति भावः॥
उक्तानुमानस्य मण्याद्युक्ततर्कपराहतिमाशङ्क्य निराह -- न च संस्काराणामिति॥ सर्वव्रीहिष्वेकत्वमित्यापादकस्यैकव्रीहिनाशे ऽपीत्यादिनाऽपाद्ये ऽन्वयः। नन्वेकव्रीहिनाशान्न सर्वव्रीह्यनुगतैकसंस्कारनाशः। किं तु द्वयोस्त्रयाणां चतुर्णां
पञ्चादीनां वा नाश एवेत्यत उक्तं तदाश्रयेत्यादि॥ प्रयोजक 3 इति ॥ वक्तव्ये सतीति शेषः॥
आत्मनिष्ठापूर्वकल्पने ऽपि क्वचिद्गौरवमस्त्येवेत्याह ----त्वन्मत इति॥ ये यजमानस्त ऋत्विज इति यजामानानामेव सत्रयागे ऋत्विक्त्वेन --
1. आदिपदं न -नं.ज. 2. त्याश्रयनाशकत्वे -नं.ग.ज. 3.त्व इ -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 104.
----------------------- ------------ ---------
यद्वा एकैव शक्तिरस्तु प्रतिव्यक्ति वृक्षाणां सिह्यनाश्रयत्वे ऽपि वनत्वावच्छिन्नस्य तदाश्रयत्ववत्प्रत्येकं व्रीहीणां तदनाश्रयत्वे ऽपि कार्योपयोगित्वरूपधर्मावच्छिन्नस्य तदाश्रयत्वोपपत्यैकव्रीहिनाशे तदवच्छिन्नानाशेन संस्कारानाशात् ॥
यद्वा यत्किञ्चिदाश्रायनाशे ऽपि क्षिप्यमाणवालुपिण्डादौ वेगाख्यसंस्कारानाशवादिहाप्यनाशो ऽस्तु ॥
यत्तु -- प्रोक्षणमपूर्वजनकं दृष्टद्वाराभावे सति --
-- सर्वेषामपि याग 1 भाक्त्वादिति भावः ॥
एक 2 पक्षे ऽप्यधिकरणतावच्छेदकद्वित्रनाशे ऽप्यधिकरणतावच्छेदकावच्छिन्नसत्वन 3 वाश्रितसंस्कारानाश इति भावेन दृष्टान्त पूर्वमाह -- प्रतिव्यक्तीति ॥
व्रीहित्वादेरधिकरणतावच्छेदकत्वे ऽपि न दोष इत्याह -- यद्वेति॥ ननु प्रोक्षितव्रीहिष्ववघातादिनैकैकावयवागमे सिति पीलुपाकप्रक्रियया द्रव्यान्तरोत्पत्या तत्र संस्काराभावस्याभावेनोत्तरकार्यानुपयोगापत्याऽत्मनिष्ठतैवापूर्वस्य वाच्येत्यतो वाह -- यद्वेति ॥
इदं च रीतित्रयं तृणारणिमणीनामेकशक्तिमत्वमित्यत्रा 4 नुसन्धेयमिति वदन्ति॥ अपूर्वजनकमिति ॥ धर्मजनकमित्यर्थः।
1.फलेत्यधिकम् -उ. 2.शक्तीत्यधिकम् -उ. 3.नाश्रि -उ. 4.ऽअपिऽ इत्यधिकम् -उ.
आधेयशक्तिः) शक्तिवादः पु - 105.
------------ --------- ---------
कालान्तरभाविफलजनकेत्वन विहितत्वात् यागवदिति मण्युक्तमनुमानं, तत्र साध्ये ऽपूर्वपदं मानान्तरा 1 गम्यातिशयमात्रपरं चेद्व्रीहिनिष्ठस्यापि तथात्वेन सिद्धसाधनम् । आत्मनिष्ठत्वेन विशेषित 2 परं चेदुक्तहेतोर्विशेष्यमात्रेणोपपत्या विशिष्टं प्रत्यप्रयोजकत्वम् 3 ॥
किञ्च त्वन्मते जीवन्मुक्तावनुष्ठितप्रोक्षणादिनादृष्टाजननात्कथं तस्य भाव्युपयोगः॥
अपि च --द्वितीयाश्रुत्या किञ्चित्कालगर्भिते 4 न शेषित्वेन श्रुते ह्यादौ न किञ्चित्कारः शेषित्वेनाश्रुते आत्मनि च किञ्चित्कार इति श्रुतहा 5 न्यश्रुतकल्पने स्याताम् ।
तथा च निषिद्धकर्मण्यव्यभिचाराय हेतौ विहितत्वादित्युक्तम्। प्रायश्चित्ते व्यभिचरानिरासाय कालान्तरेत्यादि॥
"कृषिवाणिज्यगोरक्षा वैश्यम्यैव विधीयते"॥
इत्यदिप्रत्येकं वर्णोपायविधिविहितकृष्यादावव्यभिचाराय दृष्टेत्यादिसत्यन्तम् ॥
हेतोर्व्यभिचार चाह -- किञ्चेति ॥ आत्मनिष्ठत्वेनापूर्वस्य विशेषितत्वपक्षे तर्कपराहतिं चाह -- अपि चेति ॥ द्वितीयश्रुत्येत्यस्य श्रुत इत्यनेनान्वयः।
1.रग-नं-रा. 2.मात्रेत्यधिकम्-नं. 3.हेतौ च द्वारपदं अदृष्टेतरद्वारपरम्। अलौकिकातिशयेतरद्वारपरं वा । आद्ये शक्तिवादिनं प्रत्यसिद्धिः। मन्मते शक्तेरेवादृष्टभिन्नत्वात् । नान्त्यः। अप्रयोजकत्वात् । अपूर्वाभावावे ऽपि शक्त्याख्यालौकिकव्यापारेणैव हेतोरुपपत्तेः-- ग. 4.तत्वेन-नं.क. 5.नाश्रु-रा.ग.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 106.
----------------------- ------------ ----------
अन्यथा सक्तून् जुहोतीत्यादाविव विभक्तिविपरिणामः स्यात् ॥
किञ्चैवं यागादिजन्यसंस्काराणामेव हरिराद्यारम्भकपरमाणुनिष्ठत्वं किं न स्यात्॥
किञ्च -- प्रोक्षणादेरपूर्वजनकत्वे दर्शादिवत्प्रधानकर्मत्वं वा
प्रयाजादिवदारादुपकारकत्वं वा स्यान्न तु सन्निपत्योपकारकत्वम् ॥
किञ्चित्कारो नामोपकार्यत्व 1 विशेषः। अन्यथेति ॥ व्रीहिषु कस्यचिदाशयस्याभावः किन्त्वात्मन्येवेति पक्षः इत्यर्थः। इत्यादाविवेत्युपलक्षणम् ।"व्रीहिभैर्यजेते"त्यादौ द्वितीया च स्यात् । प्रोक्षतीत्यादाविव तत्राप्यदृष्टवदात्मसंबन्धादेस्त्वदुक्तदितीयाविभक्तिहेतोः सुवचत्वादित्यपि ध्येयम्॥
साध्यविकलो दृष्टान्त इति भावेनाह -- किञ्चै 2 वमिति॥ द्वितीयावगतस्य व्रीहिगतकिञ्चित्कारस्यात्मगतत्वे सति यागदानहोमादिजन्यापूर्वशब्दितसंस्काराणामेव परमाणुगतत्वं स्यात्, आत्मनस्तज्जन्यसुखभोगश्चादृष्ट 8 वत्परजन्यसंस्कारस्यावगमादित्यपि सुवचत्वाच्च ॥
प्रागुक्तानुमानस्य तर्कपराहत्यन्तराण्याह -- किञ्च प्रोक्षणादेरिरित्यादिना ॥ फलापूर्वे व्याप्रियमाणमातारादुपकारकं यागस्वरूपनिष्पत्तावुपयुज्यमानं सन्निपत्योपकारकमिति ज्ञेयम्।
1.त्वेति -उ. 2.चेति--उ. 3.ष्टपर. 4.द्यताम्। ननु यजेतेत्यात्मानेपदबलात्संस्कारः कर्तृनिष्ठ उपगम्यत इति चेन्न। तज्जन्यसुखभोगरूपफलाभिप्रायेणात्मपदोपपत्तेः। शेषित्वबोधक -उ.
आधेयशक्तिः) शक्तिवादः पु - 107.
------------ -------- ---------
अपि चातिशयस्यात्मनिष्ठत्वे व्रीहीणां चण्डाला 1 दिस्पर्शेन तन्नाशे न स्यात् व्यधिकरणत्वात्। पुत्रानृतभाषणादिना पित्रादेर्नरकादिकं तु --
"स विष्ठायां कृमिमाम्ले 2 न शुध्यतीत्यादिस्मृतिविरोधः। तया 3 शुद्धिरूपस्य तन्निवर्त्या 4 शुद्धिरूपस्य चातीन्द्रियातिशयस्य ताम्रादिगतत्वोक्तेः। एवं देवताप्रतिमादावपि प्रतिष्ठादि 5 जन्याधेय 6 शक्तिः स्वीकार्या ॥
7 आधेयशक्तिः
पुत्रानृतवचनेन पितुः कथं दोष इत्यत आह -- पुत्रेति ॥ अतिशयस्य
वस्तुनिष्ठत्वानङ्गीकारे बाधकान्तरं चाह -- किञ्चेति --
रजसा शु 8न्धते नारी वेगेन शुध्यति।
भस्मना शध्यते कांस्यं ताम्रमाम्रेण शुध्यति॥
इति स्मृतिविरोधं स्पष्टयति 9 -- एवमिति ॥ एवं च मण्याद्युक्तदिशा प्रतिमागतप्रतिष्ठाध्वंसादिर्वा प्रतिष्ठाजन्यदृष्टवदात्मसंयोगादिर्वा पूज्यत्वप्रयोजकः प्रतिमागत इत्याद्यप्रामाणाकिं न कल्पनीयमिति भावः ॥
आधेयशक्तिः
1.आदिपदं न -नं. रा.क.ग. 2.म्रण-नं.रा. 3.तथाशु -ज. 4.स्यातीन्द्रियाति-रा. 5.आदिपदं न -नं.क.ज. 6.या श -नं. 7.इत्याधेयशक्तिवादः -रा. इत्याधेयशक्तिस्थानम् -क. 8.ध्यते -उ. 9.ऽतथेतिऽ इत्यधिकम् - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 107.
----------------------- ------------ ----------
अथ तमसो द्रव्यत्वसाधनम्
यथा शुक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम् । तमो द्रव्यं रूपि 1 त्वात् क्रियाऽश्रयत्वात् परिमाणा 2 दियुक्तत्वाच्च घटवदित्य 3 नुमानात्॥
अथ तमसो द्रव्यत्वसाधनम्
प्रसङ्गादाह -- यथेति ॥ पदार्थान्तरमिति ॥ 4 द्रव्यगुणकर्मसामान्यसमवायरूपपदार्थादन्यः पदार्थस्तथा 5 तदन्यो ऽपि पृथिव्यादिद्रव्यनवकादन्यद्दव्यमित्यर्थः॥
एतेन तमसो द्रव्यत्वे पृथिव्यादिनवकान्तर्भावो वाच्यः। न च न युक्तः। गन्धरसभास्वररूपस्पर्शशब्दहीनत्वेन भूतपञ्चकान्तर्भावायोगात् । अनित्यत्वेन नित्यवस्त्वन्तर्भावायोगादिति निरस्तम् । अतिरिक्तद्रव्यत्वोपपत्तेः॥
अन्तर्भावः शक्यश्चेदित्याद्यग्रेतनवाक्यं त्वनास्थेयमिति ध्येयम् । इत्यनुवादमहिम्नैव शक्तेरपि षट्पदा 6 न्तर्भावानुपपत्ति 7 बाधकं प्रत्युक्तं ध्येयम्। मणौ तमसो द्रव्यत्वाभावस्याचिन्त्यत्वे ऽपि शशधरादौ चिन्तित्वात् । तत्खण्डनेन
नविलश्रणत्वाधिकरणे 8 प्राकृतेन्द्रियमनोभेदादित्येतव्द्याख्यानसुधायां मनो नित्यं स्पर्शरहितद्रव्यत्वादित्यत्र तमसास्माकमनैकान्त्यादित्युक्तहेतुसमर्थनार्थोयं प्रयत्नः॥
1. पवत्वात् -रा.ग. 2.णवत्वाच्च-नं. 3.त्याद्य-नं.क.ज.ग. 4.यथा इति पूरितम् -उ. 5.तमोपि -उ. 6.दार्था-उ. 7.त्तिः बाधकं-च इत्यस्ति-उ. 8.पञ्चेन्द्रिय -उ.
तसो द्रत्व-सानम्) शक्तिवादः पु - 109.
----------------- ----------- ---------
न चासिद्धिः। नीलं तमः छाया गच्छतीत्य 1 बाधितप्रत्ययात्। रामायणे"हनूमच्छाया 2 यां वायुपुत्रानुगामिनी"त्यनेन क्रियायाः,"दशयोजनविस्तीर्णे"त्यादिना परिमाणस्य"छायायां संगृहीतायां"इत्यादिना ग्रहणस्य चोक्तेश्च॥
क्रियाश्रयत्वादि 8 त्ययं च हेतुद्रव्यत्वसाधकः पररीत्यैव बोध्यः। तेन मिथ्यात्वानुमानटीकाभावप्रकाशिकायां
"गुणाद्वा लोकवत्"इत्यत्र चन्द्रिकायां च गुणादावपि क्रियावत्वसाधनान्न व्यभिचारः शङ्क्यः। 4 पूत्यादीत्यादिपदेन गृह्यमाणत्वपङ्कभूतत्वपाठ्यमानत्वादिग्रहः॥
छायेति ॥ तस्यास्तमस्त्वस्य सर्वसंमतेः तत्र क्रिया प्रत्यक्षसिद्धा। छायाहस्तचतुष्टपरिमितेत्यादिपरिमाणप्रतीतिरादिपदार्थः -- अबाधितेति॥ कदापि न नीलं तम इत्यादिविपरीतप्रत्याभावाद्यौक्तिकबाधस्य 5 प्रत्यक्षप्रतीतितो दुर्बलत्वान्निरसिष्यमाणत्वाच्चेति भावः॥
वचनेनापि क्रियावत्वादिकं व्यनक्ति-- रामायण इति ॥ वायुपुत्रपदेन भीमभ्रान्तिनिरासायोक्तं हनुमच्छायामिति। सुन्दरकाण्डे प्रथमसर्गे --
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया विततालवणाम्भसि॥ इति ॥
तथा --
छायायां संगृहीतायां चिन्तयामास मारुतिः।
इति वाल्मीक्युक्तेश्चेत्यर्थः। संगृहीतायां छायाग्रहेणेति योज्यम् ।.
1.त्याद्य -रा.क.ज.ग. 2.यैषा -क. 3.प्रतीकवदिदं धृतम्-उ. 4.परिमाणादीत्यादि -उ. 5.ऽचाऽ इत्यधिकम् -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 110.
------------------------ --------------- ----------
त्वन्मते आलोकाभावत्वमेव तमस्त्वमिति तमस्त्वेन प्रतीते 1 नैल्या 2 रोपायोगाच्च। दोषाभावेनारोपायोगाच्च ॥
किञ्चान्धकारो नालोकाभावः। नात्रालोकः किन्तु तम 3 इति पृथग्व्यवरहारात्। आप्नोक्तेन तजो ऽभावेनान्धकारानुमानाच्च । प्रतियोगित्वेनाभिमतालोकाप्रतीतावपि प्रतीतेश्च। विरलनिबिडनिबिडतरत्वादिनोत्कर्षापाकर्षादिप्रतीते 4 रबाधाच्च॥
तमःसुघोरं गगनच्छदे महद्विदारयद्भरितरेण रोचिषा ।
न केवलं नैल्यादिधियो 5 ऽबाधादेव प्रमात्वं विशेषदर्शनेन कारणाभावेन च भ्रमत्वायोगाच्चेत्याशयेनाह -- त्वन्मत इति ॥ न हि शुक्तित्वेन ज्ञाने रजतारोपो युक्त इति भावः॥
ननु तमस आलोकाभावा 6 न्यथानुपपत्या भ्रमत्वादिकं कथं चित्कल्पनीयमित्यतस्तदेवासिद्धमित्याह -- किञ्चेति ॥ अनुमानाच्चेति ॥ लिङ्गलिङ्गिभावस्य 7 भेदाभावे ऽसम्भवादिति भावः॥
प्रतियोगित्वेति ॥ न च दोषवशात् प्रतियोगिनो 8 भानाभावे ऽपि तमसो भानं युक्तमिति वाच्यम् । तादृशकॢप्तदोषस्य कस्यचिदाभावात् । तमसः स्वरूपमेव दोष इति कल्पनं 9 तस्याभावत्वसिध्युत्तरकालीनत्वेनान्योश्रयादिति भावः-- विरलेति ॥ अभावे च नोत्कर्षादिधीरित भावः।
1.तेर्नै-नं. तौनै-क.ज. 2.ल्याद्या-रा.क.ग. 3.ऽएवऽ इत्यधिकम्-रा. 4.तेश्च-नं. 5.धिया-उ. 6.वत्वान्य-उ. 7.वासम्भ-उ. 8.नोभानेपि-उ. 9.ऽतुऽ इत्यधिकम्-उ.
तसो-द्रत्व-सानम्)शक्तिवादःपु - 111.
मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथाचमूम् ॥
इति भागवते,
ततः कदाचिद्दुःखेन रथमूहुस्तरङ्गमाः।
पङ्कभूतं हि तिमिर 1 मश्वानां जायते ऽनध॥
अथ पर्वतभूतं 2 तत्तिमिरं समाजायत।
तदासाद्य 3 हया राजन् निष्प्रयत्नास्ततः तत्तमः॥
ततश्चक्रेण गोविन्दः पाटयामास तत्तमः ॥
इति हरिवंशे च तमसश्चक्रविदार्यत्वपङ्कत्वपर्वतत्वाद्युक्त्या काठिण्यादिप्रतीतेश्च। तजो ऽभाव 4 बहुत्वादिनोत्कर्षादिधीश्चेत्सुखादावपि दुःखाभावादिबाहुल्यादिनोत्कर्षादिधीः स्यादिति दुःखाभाव 5 एव सुखं 6 संयोगाभाव एव विभागो ऽन्धकाराभाव एव चा 7 लोक इति स्यात् ॥
निर्विविशे प्रविवेश-- भागवत इति ॥ दशमस्कन्धे ऽश्वमेधप्रकरणे -- काठिण्या 8
दिप्रतीतेश्चेति ॥ अन्धकारो नालोकाभाव इत्यन्वयः ॥
प्रागुक्तोत्कर्षादिप्रतीतिरूपहेतोरन्यथा 9 ऽनुपपत्याप्रयोजकत्वमाशङ्क्य निराह -- तेज इति ॥ एतेनेत्युक्तं व्यनक्ति -- आलोक इति ॥
1.संस्पर्शेन ज्ञाय -ज. 2.तु तिमिरं समपद्यत -ज. 3.माहाराच निष्प्रयत्ना हयाः स्थिताः - ज. 4.बाहुल्यादिनो -नं.रा.क.ज.ग. 5.एव इति नास्ति-- नं. एवालो -क. 6 स्यात् इत्यधिकम् -रा. 7. च सति नास्ति -रा. नं. 8.ण्यप्र - उ. 9. थोपपत्या -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 112.
------------------------ ----------- ---------
एतेन तमो द्रव्यान्तरमिति मते ऽप्यालोकाभावस्यावश्यकत्वात्स एव तम इति निरस्तम् । आलोको द्रव्यान्तरमिति मते ऽप्यन्धकाराभावस्यावश्यकत्वात्॥
ननु -- तमसो 1 रूपित्वे आलोकनिरपेक्षचक्षुर्गाह्यत्वं न स्यात् । तस्मात् प्रौढप्रकाशकयावत्तेजःसंसर्गाभावो वा, उद्भूतरूपयोग्ययावत्तेजः संसर्गाभावो वा,
न चावलोकस्य द्रव्यत्वमनन्यथासिद्ध 2 त्वरूपवत्वादिप्रमाणसिद्धमिति वाच्यम्। तमोद्रव्यत्वस्यापि प्रागुक्तरूपवत्वादिप्रमाणसिद्धत्वादिति भावः॥
ननु तानि प्रमाणानि तर्कपराहतानि न द्रव्यत्वसाधकानीति भावेन शशधराद्युक्तं तर्कविरोधरूपवत्वं हेतौ तावदाशङ्क्य निराह -- नन्वित्यादिना नवच्छायायां गतेरित्येतत्पर्यन्तेन ग्रन्थेन ॥
तस्मादिति ॥ आलोकनिरपेक्षचक्षुर्ग्राह्यत्वेन द्रव्यत्वायोगादित्यर्थः। तारादितेजसि सत्यपि तमो व्यवहराद्यु 4 क्तं प्रौढेति । रूपित्वादिना विविच्य प्रकाशनसामर्थ्यं प्रौढत्वम् । विद्यमाने ऽपि प्रौढतेजसि तेजोन्यतराभावमादाय तमोव्यवहारापत्तेरुक्तं संसर्गेति । संसर्गारोपपूर्वको ऽभाव इत्यर्थः। तेन संसर्गान्योन्याभाववति न तमोव्यवहारापत्तस्तत्र संसर्गतादात्म्यस्यैवायोगात् । उद्भूतेति 5 ॥ उद्भूत 6 रूपयोग्यं यावत्तेजः तत्ससर्ङ्गाभाव इत्यर्थः।
1.सो निरू -क. 2.द्वरू- उ. 3.चच्छा -उ. 4. दुक्तं-उ. 5.अत्र प्रतीको न धृतः - उ. 6.ऽतं रूपं यावद्यत्तेजःऽ इत्याद्यस्ति-उ.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 113.
----------------- -------- -----------
तमस्तेजोविरोधि द्रव्यमिति मते यत्तेजःसंसर्गा 1 विरोधि 2 तदभवो वा, तम इति चेन्न 3 । रात्रिञ्चराणामुलूकादीनां ज्ञातृणामिवान्धकारस्य ज्ञेयस्याप्यालोकनिरपेक्षचाक्षुसाक्षात्कारसंभवात्। आलोके
व्यभिचाराच्च।
यावदादिपदकृत्यं पूर्ववत्। परमाण्वादितेजसि सत्यपि तमोव्यावहारा 4 द्योग्यमित्युक्तम् । ग्रीष्मोष्मादौ सत्यपि तमो व्यावहरादुद्भूतेत्युक्तम् ॥ विरोधीति॥ तमो विरोधीत्यर्थः॥
ज्ञातृणामिति ॥ रात्रौ रूपवत्पदार्थद्रष्टृभिरालोकनिरपेक्षयैव घटादिपदार्था उपलम्भन्त वा चक्षू 6 रहिता 7 इति कल्प्यते । किन्तूलूकागिप्राणिचक्षुषामेव तादृशस्वभाव इत्युच्यते । एवं केंषाचिद्रूपवद्वस्तूनामालोकसमापक्षचक्षुर्ग्राह्यत्वे ऽपि तमोरूपवस्तुनो ऽपि तन्निरपेक्षचर्ग्राह्यत्वमस्त्वित्यर्थः॥
यत्तु रात्रिञ्चरादीनामपि 8 बाह्यालोकनिरपेक्ष 9 चक्षुर्ग्राहकमित्यसिद्धमेव। तत्रापि
तेजोन्तरस्य सत्वादिति शशधरोक्तम् । तन्न। तादृशतेजोन्तरसत्वे मानाभावात् । तथैव तमसो ऽपि तादृशतेजःसापेक्षर्ग्राह्यत्वसंभवाच्चेति भावः॥
प्रागुक्ततर्कस्याप्रयोजकत्वमुक्त्वा व्यभिचारं चाह - आलोक इति ॥ आलोकान्यत्वे सतीत्यापादकविशेषणे च तमोन्यत्वे सतीत्यपि विशेष्यताम्। अद्याप्यालोक एव द्रव्यं तमस्तु नेत्यस्यासिद्धेरिति भावः। आपाद्याभिप्रायव्यक्तीकरणेन व्यभिचारं व्यनक्ति--तत्रेति ॥ आलोकसाक्षात्कार इत्यर्थः ॥
र्1.गवि-नर्ं. गोवि-वा.क.ग.ज. 2.धी- रा.ग.ज. 3.न इति नास्ति-नं. 4.उद्भूतरूपेत्युक्तम् -उ. 5.ते -उ. 6.रादिर -उ. 7.ऽनऽ इत्यधिकम्-उ. 8.पेचकादीनामपि -- उ. 9.क्षं च -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 114.
------------------------ ------------- ---------
तत्र विषयीभूतस्यालोकस्य सत्वे ऽ 1 पि विषसंस्कारकस्यालोकान्तरस्याभावात्॥
ननु तत्राभ्यां 2 लोकावयवग्रहे महत आलोकावयविनस्तद्ग्रहे तु सौरालोक एवास्तीति चेत् 4 । न तावदालोकसंबन्धस्य साक्षात्परम्परासाधारणसंबन्धत्वेन हेतुत्वम् । अतिप्रसङ्गात् ॥
नापि संयोगसमवायसाधारणसाक्षात्संब्धत्वेना । तदपेक्षया संयोगत्वजातेर्लघुत्वात्। अवयवावयविनोश्च संयोगाभावात् ॥
किं महालोके व्यभिचारस्त्र्यणुकरूपालोके वा। आद्येप्यवयविन्युत अवयव इति विकल्प 5 क्रमेण व्यभिचारोद्धारमाशङ्क्य निराह -- नन्वित्यादिना। त्र्यसरेण्ववयवस्याप्रत्यक्षादाह -- सौरालोक एवेति ॥
आलोकस्य विषयसंस्कारकत्वं संयोगसंबन्धेनैव वाच्यम् । एवं च रूपित्वे संयोगसंबन्धेन विषयसंस्कारकालोकनिरपेक्षचक्षुर्ग्राह्यत्वं न स्यादित्यापाद्यार्थः स्यात्। तथा च त्र्यसरेणौ व्यभिचाराभावे ऽपि महालोके व्यभाचारस्तदवस्थ एवेति भावेन प्रसक्तपक्षप्रतिषेधपूर्वमाह -- न तावदित्यादिना ॥ अतिप्रसङ्गादिति॥ आलोकसंबन्धकुड्यसंबन्ध 6 न्धकारस्य
साक्षात्कारोदयप्रसङ्गादित्यर्थः॥
संयोगाभावादिति ॥ तथा च तत्राव्यभिचारालोकान्यत्वे सति --
1.ऽअपिऽ इति नास्ति-नं. 2.आलोकपदं न- रा. 3.तैजसत्र्यसरे -इत्यस्ति-नं.क. जालस्य तेजस्त्र्यस-रा.ग. जलस्थपदं न -ज. 4.न्न न -ज.. 5.प्ल्य क्रमेण व्यभिचा - उ. 6.द्वे अन्धकारस्थे -उ.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 115.
---------------- ---------- --------
किञ्च - तमस आलोकाभावत्वे ऽपि नीलं तम इति धीर्न स्यादिति बाधकं सममेव । रूपसाक्षात्कारस्यालोक 1
सापेक्षचक्षुर्नजन्यत्वनियमात् । न च प्रमारूपविशेष एवायं नियमः। सामान्ये बाधकाभावात् । शुक्ल 2 पटादौ चाक्षुषस्य नील इति भ्रमस्याप्यालोकं विनानुत्पत्तेश्च॥
यत्तु -- 3 वर्धमानोक्तं वस्तुतो रूपवतो विशेष्यस्य चाक्षुषत्वे आलोकापेक्षा, --
-- रूपित्वमेव तादृशालोकसापेक्षचक्षुर्ग्राह्यत्वे प्रयोजकमित्येत्योक्तापादकस्यालोके ऽभावान्नोक्तकर्कस्तत्र व्यभिचारीति वाच्यम् । एवं सति तमोन्यत्वे सति रूपित्वमेवालोकापेक्षचक्षुर्ग्राह्यत्वे प्रयोजकमित्युपेयताम्। एवं 4 तमसो रूपित्वे ऽपि नोक्ततर्काभावः। आलोकस्येव तमसोप्यन्यनन्यथासिद्धोक्तप्रमाणसिद्धद्रव्यत्ववत्वादिति भावः॥
अस्त्वेवं कथं चिदुक्तन्यायेनालोके व्यभिचाराभावस्तथापि तमोन्यरूपित्वमेवालोकसापेक्षचुक्षुर्ग्राह्यत्वप्रयोजकमिति त्वयापि वाच्यम् । अन्यथा तव मते तमसि रूपधीर्न स्यादिति भावेन परपक्षे ऽपि बाधखमुपपादयति -- किञ्चेत्यादिनैवं न त्वयापीत्यन्तेन ग्रन्थेन ॥ नियमादिति ॥ आलोकरूपसाक्षात्कारे 5 त्वदुक्तदिशा व्यभिचारा 6 दितिभावः॥
रूपभ्रमे ऽपि रूपप्रमायामिव न सर्वत्रालोकापेक्षा, येन शुक्लपटादौ नीलरूपभ्रमे तदपेक्षायां तमसि रूपभ्रमे ऽपि तदपेक्षा स्यात् । धर्मिणो रूपित्वारूपित्वाभ्यां तन्नियमोपपत्तेरिति भावेनोक्तमनूद्य निराचष्टे -- यत्वित्यादिना ॥
1.कापेक्षेत शोधितम् -नं. 2.क्लेप -न.क.ज. 2.क्लेघ-रा.ग. 3.बद्धमा नो-रा. धर्ममानो-ग. 4.ऽचऽ इत्यधिकम्-उ. 5.र इव-उ. 6.राभावादिति -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 116.
------------------------ ------------- ---------
भ्रमाधिष्ठानभूतः पटादिश्च वस्तुतो रूपीति त 1 त्र विशेष्य 2 स्य ग्रहार्थमेवालोकापेक्षा न तु रूपग्रहणार्थं, मन्मते चालोकाभावरूपं तमो वस्तुतो 3 नीरूपमिति नीलं तम इति साक्षात्कारे नालोकापेक्षा, त्वन्मते 4 तु तमो वस्तुतो रूपीति तत्रालोकापेक्षा स्यादेवेति। तन्न । दधि धवलमाकाशं नील 5 माकाशमित्यादौ नी 6 रूपाकाशविशेष्यकभ्रमे, आकाशे 7 धवलिमा आकाशे नीलिमेत्यादौ रूपविशेष्यकभ्रमे चालोकापेक्षादर्शनात् ॥
नन्वाकाशे धावल्यादि 8 धीर्गृह्यमाणारोपरूपा, ग्रहणात्मकं चारोप्यज्ञानं रूपवद्दव्यविषयकमित्यरोपकारणस्य रूपवद्द्रव्यज्ञानस्यैवालोकापेक्षा,
नीरूपे वस्तुनि रूपभ्रमे आलोकापेक्षा नेति किं 9 निरूपवस्तुविशेष्यकरूपविषेषणकभ्रमे वा रूपविशेष्यवस्तुविशेषणकभ्रमे वा । 10 उभयमप्ययुक्तम् व्यभिचारादित्याह -- दधि धवलमिति ॥ शुभ्राभावदशापन्नो ऽयं भ्रमः। दर्शनादिति ॥ तथा च तमस्यापि रूपभ्रमे तदपेक्षा स्यादेवेति भावः॥
आकाशरूपभ्रम 11 तमोरूपभ्रमस्य गृह्यमाणत्वस्मर्यमाणत्वकृतवैषम्यमाशङ्क्य निराह -- नन्विति ॥
1.तद्वि-रा. 2.ष्यग्र-न. 3.न रूपीति -नं.रा.ग.क.ज. 4.ऽतु तमोऽ इति नास्ति-न. 5.आकाशपदं न -ज. 6.नील -- रा. 7.धावल्य-रा. 8.आदि इति नास्ति-रा. 9.नी-उ. 10. नोभयमपि युक्तम् -उ. 11.मात्तमो-उ.
तसो-द्रत्व-सानम् ) शक्तिवादः पु -- 117.
------------------ --------- ------------
न तु साक्षा 1 दारोपस्येति चेन्न । तत्रानुभूयमानारोपो ऽन्धकारे तु स्मर्यमाणारोप इत्यत्र नियामकाभावात् ॥
किञ्च गृह्यमाणरूपस्य संसर्गापार्थमेव रूपग्रहस्यापेक्षितत्वात् रूपग्रहे आलोकापेक्षेति मदिष्टसिद्धिः। न च तत्र रूपवदभेदस्यैवारोपः न तु रूपसंसर्गस्येत्यत्र मानमस्ति ॥
न च रूपग्रहो तदाश्रयग्रहं विनेत्याश्रयग्रहार्थमेवालोकापेक्षेति ।
यद्वा नीरूपे रूपभ्रमे नालोकापेक्षेत्यत्राकाशरूपारोपे व्यभिचारोक्तिरयुक्ता, तत्राप्यालोकापेक्षायां रूपारोपकारणं यद्रूपवद्द्रव्यान्तरज्ञानं तत्रोपयोगादिति भावेनाशङ्क्य तमोरूपारोपोषऽपि तथैव तदपेक्षा दुर्वारेत्याह -- नन्वित्यादिना॥ न तु साक्षादिति ॥ द्रव्यं विना कृतकेवकरूपारोपलक्षणे स्मर्यमाणारोपेत्यर्थः। तमो रूपारोपश्च स्मर्यमाणारोप इति भावः॥
अङ्गीकृत्यापि स्मर्यमाणारोपत्वमालोकसापेक्षत्वमावश्यकमित्याह -- किञ्चेति॥ मदिष्टेति ॥ तमोरूपारोपेप्यालोकापेक्षया स्यादित्यापादनसिद्धिरित्यर्थः। इष्टासिद्धिमाशङ्क्य 2 परिहरति -- न च तत्रे 8 ति ॥ गृह्यमाणारोपस्थल इत्यर्थः। अभ्युपेत्यापि रूपसर्ङ्गारोपमालोकापेक्षया अन्यथासिद्धिमाशङ्क्य निराह -- न च रूपेति ॥
1. द्रूपेस्येति -रा. 2.निराह -उ. 3.इतः ऽनिराहऽ इति पर्यन्तं नास्ति -उ.
न्यायदीपुयतर्कताण्डवम् (द्वि.परिच्छेदः पु - 118.
---------------------- ------------- -----------
त्वन्मते नयनगतपित्तपीतिमादाश्रयग्रहं विनापि ग्रहात् । तस्माद्द्रूपज्ञानस्य रूवद्विशेष्यकत्वे 1 रूपविशेष्यकत्वे भ्रमत्वे प्रमात्वे 2 च रूप 3 भानप्रयुक्तैवालोकापेक्षेति तमसो ऽभावत्वे ऽपि नीलं तम इति तमसि नैल्यमिति वा ज्ञाने आलोकापेक्षा दुष्परिहरा ॥
एवं च त्वयापि तमोनिष्ठत्वेन रूपसाक्षात्कारभिन्नरूपसाक्षाकत्कारे तेजोपेक्षेति वाच्यम् । ततो वरं तमोभिन्नरूपवत्साक्षात्कारे तदपेक्षेति तमो द्रव्यमेवास्तु ॥
किञ्च रूपिणो घटादेरिव रूपिघटाद्यभावस्य ग्रहो ऽप्यालोकसापेक्षो द्रष्ट इत्यभाववत्पक्षे ऽ 4 पि तदपेक्षाऽवश्यकी ॥
ननु -- तजो ऽभावग्रहे न तेजो ऽपेक्षा । अन्यथा घटाभावग्रहे ऽपि घटापेक्षा
स्यादिति चेत् ।
तमो ऽन्यरूपित्वमेवालोकसापेक्षचक्षुर्ग्राह्यत्वप्रयोजकमित्युपपाद्य तमसो द्रव्यत्वे प्रागुक्ततर्कबाधो 5 निरस्तः। अधुना तेजोविरोधिप्रत्यक्षत्वमेवालोकनिरपेक्षत्वे प्रयोजकं, तच्चास्ति तमःप्रत्यक्षत्वेपीत्युपपादयंस्तर्कबाधं प्रकारन्तरेणोद्धरति--किञ्चेत्यादिना ॥ एतेनेत्यन्तेन ॥ अभावत्वे 6 ति ॥ तम 7 स्तेजोभाववत्वपक्षे ऽपीत्यर्थः॥
1.रूपविशेष्यकत्वे इति नास्ति -- रा. 2.त्वेवा-नं 3.पभ्रम -क. पाभाव-ग. 4.ऽअपिऽ इति नास्ति -रा. 5.धे निरस्ते-उ. 6.पीति -उ. 7.सस्ते-उ.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 119.
---------------- ---------- ----------
तेजो ऽनपेक्षा हि न तेजो ऽभावप्रत्यक्षत्वेन । तजो ऽभावव्यापकभास्वररूपविरहप्रत्यक्षस्यापि तेजो ऽनपेक्षत्वदर्शनात् । नापि तेजोविरोध्यभावप्रत्यक्षत्वेन । गौरवात् । किं तु तेजोविरोधिप्रत्यक्षत्वेनैव। तथा च तमस्तेजोविरोधि द्रव्यमेवास्तु । तेजो ऽ 1 पेक्षाप्रसङ्गस्य विरोधेनैव सामाधानात् । एवं च रूपित्वादिप्रतीतिरप्यनुकूलिता भवति॥
एतेन -- तमोग्राहकं तेजो ऽनपेक्षं चक्षुर्भिन्नमिन्द्रियान्तरमेवास्तु, अधिष्ठानं तु तस्यापि नयनगोलकमेव, सर्पाणां चक्षुःश्रोत्रयोरिवैकाधिष्ठानत्वसंभवादिति निरस्तम् । उक्तरीत्या चक्षुर्ग्राह्यत्वेनैवोपपत्ताविन्द्रियान्तरल्पकाभावात् । धर्मिग्राहकमानेन चक्षुष एव रूपग्राहकत्वेन सिद्धेश्च॥
एतेनेति ॥ तमोभिन्नरूपवत्साक्षात्कार एवालोकापेक्षेति कथनेन। तथा तेजोविरोधिप्रत्यक्षत्वेनैव तेजोनपेक्षेति कथनेनेत्यर्थः। तदेव व्यनक्ति -- उक्तरीत्येति॥ रूपग्रहणान्यथानुपपत्तिरेव कल्पिकेत्यत आह-- धर्मीति ॥ रूपज्ञानं करणसाध्यं कार्यत्वादिति मानेनेत्यर्थः॥
एवं तर्कपराहत्यादिदोषनिरासेन रूपवत्वादित्युक्तहेतुं समर्थ्येदानीं क्रियाश्रयत्वादित्युक्तहेतुमपि शशधराद्युक्तबाधकोक्तिमुखेनासिद्धिमाशङ्क्य
साधयति --- न च छायामिति ॥
1.नपे - नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 120.
------------------------ --------------- ----------
न च छाया 1 यां गतेः स्वभावावकत्वे आवरकछत्रादिद्रव्यानुविधानानुपपत्तिः। स्थाणावचले ऽपि 2 तच्छायायां गतिदर्शनात् । मण्याद्यनुविधायिमण्यादिप्रभावदुपपत्तेश्च। रूपादिधीस्ति प्रभायामिव तमस्यप्यबाधिता ॥
न च तमसः क्रियावत्वे क्रियावतः प्रत्यक्षस्य स्पर्शवत्वनियमात्स्पर्शवत्वं स्यादिति वाच्यम् । विपक्षे बाधकाभावेन स्पर्शवतो ऽपि वायोर्नीरूपत्ववत्क्रियावतो ऽ 4 प्यस्य निःस्पर्शत्वोपपत्तेः । आलोकादाविव स्पर्शस्यानुद्भूतत्वेनानुपलम्भसम्भवेनेष्टापत्तेश्च॥
गतिदर्शनादिति ॥ सूर्यादिगत्यनुरोधेनेति भावः। 5 प्रामाण्यादिभावादिति ॥ प्रभाव 6 त्तन्मते द्रव्यमेवेति भावः॥
ननु शशधरादौ कुड्याद्यपसरणावशादन्यत्रापि प्रभाचलनोपलम्भात्तदनुविधायित्वं तत्रासिद्धमुत्युक्तमिति चेन्न । छायायामपि तदनुविधानाभावस्योक्तत्वादिति भावः॥
ननु -- प्रभायामन्यानुविधायिगतित्वे ऽपि तत्र रूपत्वाद्यन्यथासिद्धमानावगगतं द्रव्यत्वमित्यत आह -- रूपादिति ॥ अबाधितेति ॥ न नीलं 7 तम इति कदाप्यप्रतीतेर्यौक्तिबाधकस्य च निरस्य 8 त्वादिति भावः। बाधकान्तरगमाशङ्क्य द्वेधा निराह -- न च तम 9 इत्यादिना॥
1.याग -- नं. वाया ग -क. 2.तत् इति नास्ति-नं. 3.क्षस्पर्श-नं.क.ज. 4.प्यस्पर्शवत्वो क. प्यस्यास्पर्श-ज. 5.ऽमण्यादिप्रभावदितिऽ इत्यस्ति -उ. 6.च त्वन्म -उ. 7.ऽननुऽ इत्यारभ्य एतावन्नास्ति-उ. 8.स्तत्वा-उ. 9.मस-इ-उ.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 121.
----------------- ------------ -----------
न च स्पर्शसमानाधिकरणद्रव्यत्वसाक्षाद्वय्याप्यजातेरुद्भूदस्पर्शसामानाधिकरण्यनियमान्नैवम् इति वाच्यम् । विपक्षे बाधकाभावात् ॥
भोगविशेषसंपादनार्थं हि स्पर्शोद्भवः, न चास्मदादिभिः प्रकृते भोगाविशेषसंपादन 1 प्रयोजनकत्वं निर्णीतुं शक्ययम् । पुराणेषु तमसः काठिन्योक्त्योद्भूतस्पर्शस्यापीष्टत्वाच्च॥
यत्तु छायायाः तेजोविरोधिद्रव्यत्वे प्रभाऽश्रये रत्नविशेषे 2 छाया नोपलभ्येतेति चोद्यं, तदालोकाभावत्वे ऽपि समम् । तत्रालोक 3 स्य विरलत्वाद्वाऽवरणीयतेजो ऽन्यतराभावस्य छायात्वाद्वा छाया 4 त्वोपपत्तिरिति समाधानं च भाववत्वे ऽपि समम्॥
इष्टापत्तेश्चेत्ययुक्तमित्याशङ्क्य द्वेधा समाधिमाह -- न च स्पर्शेत्यादिना ॥ नियमादिति ॥
पृथिवीत्वजलत्वादिजातेस्तथादर्शनात्तमसो द्रव्यत्वपक्षे तमस्त्वस्य पृथिवीत्वादेरिव द्रव्यत्वसाक्षाव्द्याप्यजातित्वापत्योद्भूतस्पर्शसामानाधिकरण्यं स्यादेवेत्यर्थः। प्रभादावव्यभिचाराय साक्षाव्द्याप्याप्यजातेरित्युक्तम् । प्रभात्वादेर्द्रत्वव्याप्यतेजस्त्वव्याप्यत्वात् । विपक्ष इति ॥ उक्तरूपजातेरपि तादृशस्पर्शसामानाधिकरण्याभाव इत्यर्थः॥
तमेव व्यनक्ति -- भोगेति ॥ स्पर्शोद्भवः स्पर्शस्योद्भूतत्वमित्यर्थः। प्रयोजकत्वमिति ॥ तमःस्पर्शस्येत्यर्थः। पुराषेष्विति ॥ तमस्सुघोरमित्यादिप्रागुक्तवचनेष्वित्यर्थः॥
तमः तेजोविरोधिद्रव्यमेवास्तु इति पक्षे बाधकमाशङ्क्य निराह-- यत्विति ॥
1. नेन प्रयोजनवत्वं -रा. 2.षच्छाया-नं. 3.स्यावि-नं. 4.योप-रा.क.ग.ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 122.
------------------------ ------------ ----------
यत्तु - 1 वर्धमानादिभिरुक्तं प्रौढालोकमध्ये सर्वतो घनतरावरणे छाया न स्यात्,
तेजोविरोधेन तत्र तमो ऽवयवानां पूर्वमनवस्थानात् । सर्वत 2 स्तेजःसंकुले ऽन्यतो ऽपि तदागमना 3 संभवादिति । तन्न। पिहित 4 प्रदीपपागमनान्तरं प्रासादव्याप्यालोकमण्डलदारणानन्तरं छाया दीपनाशानन्तरमन्धकारस्य चारम्भसंभवात् ॥
ननु -- तम आलोकाभावो न चेदालोकाभावाविषयबुद्ध्यविषयो न स्यादिति चेन्न। आलोकाभावग्रहे प्रतियोगिस्मरणादेरधिकस्यापेक्षितित्वेनेष्टापत्तेः॥
एतेन -- तमो द्रव्यं चेत्तदवयवानां तमो ऽवयव्यारम्भकत्वं वाच्यम् । न च तद्युक्तम्। आरम्भकत्वे स्पर्शवत्वस्य प्रयोजकत्वेन निःस्पर्शस्य तमसो ऽनारम्भकत्वात्। न च मूर्तत्वमेवारम्भकत्वेतन्त्रम्। मनसो ऽप्यारम्भकत्वा 5 पातादिति शशधराद्युक्तं निरस्तम् । निःस्पर्शत्वमसिद्धमित्युक्तत्वात् ॥
यत्विति॥ तमसस्तेजोविरोधिद्रव्यत्वे बाधकान्तरमनूद्य निराह-- यत्तु वर्धमानादिभिरिति॥
शशधराद्युक्तबाधकमाशङ्क्य निराह -- नन्वित्यादिना ॥ अपेक्षितत्वेनेति ॥ तमसो ग्रहे तदनपेक्षितत्वेनेत्यपि ज्ञेयम् ॥
बाधकान्तरं च निराह -- एतेनेति ॥ स्पर्शकथनेनेत्यर्थः।
1.बद्धमान-रा. वर्धमान--ग. इत्यस्तिर् 2.वतेजः-नं. 3.भावादिति -नं. 4.ऽप्रऽ इति नास्ति-नं. 5.त्वप्रसङ्गात् -- रा.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 123.
---------------- -------- ---------
तम आरम्भकं अन्त्यावयविभिन्नत्वे सति रूपवत्वादित्यनेन सत्प्रतिपक्षत्वाच्च। अस्पर्शत्वरूपसाधनावच्छिन्नसाध्यव्यापकस्य नीरूप 1 त्वस्योपाधित्वाच्च । अस्पर्शस्यापि पुरुषार्थसाध 2 कत्वे नारम्भकत्वसंभवेनाप्रयोजकत्वाच्च ॥
मानस्तु नारम्भकं प्रयोजनाभावात् । अनारम्भ 3 एव च प्रयोजनाभावे प्रमाणम्। अन्यथाऽरम्भकत्वे रूपवत्वमेव तन्त्रम्,
तदेव व्यनक्ति-- निःस्पर्शत्वमिति ॥ सत्प्रतिपक्षत्वाच्चेति ॥ अवयवाख्यं
तमो ऽवयवरूपतमोनारम्भकं निःस्पर्शत्वादिति परोक्तस्यानुमानस्येति भावः। अन्त्यावयविनि घटादावव्यभिचाराय
हेतौ सत्यन्तम् ॥
न च तस्यापि स्वगतगुणकर्मारम्भकत्वान्न व्यभिचार इति शङ्क्यम् । आरम्भका 4 नानेकपदाभ्यां द्रव्योपादानत्वतदभावयोरभिमतत्वात् । अत एव पटादावन्त्यावयविनि साध्य 5 व्यापकत्ववारणाया साधनावच्छिन्ने साध्यव्यापकस्य नीरूपत्वस्योपाधित्वाच्चेत्युज्यते । अस्पर्शत्वात् तमोरूपद्रव्यान्तरानारम्भकं तम इत्यस्य दोषान्तरमाह -- अस्पर्शस्यापीति ॥ पुरुषार्थेति ॥ छायायाः सुखहेतुत्वेन पुरुषार्थसाधनत्वं ध्येयम् ॥
मनसो द्रव्यारम्भकत्वम स्यादित्यत आह -- मनस्त्विति ॥ हेतोरसिद्धिमाशङ्क्याह -- अनारम्भ इति ॥ कुत एषा कल्पनेत्यत आह -- अन्यथेति ॥ 6 स्पर्शवत्वादिमानसिद्धा 7 न्ततो रूपवत्वमात्रं न ----
1.परस्यो-रा. 2.नत्वेनारम्भकत्वासंभवेन -न. 3.म्भक-न. 4.नारम्भक-उ. 5.ध्याव्या -उ. 6.ऽस्पर्शवत्वस्यैवारम्भकत्वे प्रयोजकत्वमुपेत्य तमसो ऽनारम्भकत्वस्य द्रव्यत्वाभावस्य वा आपादान इत्यर्थः। वायोः पृथिग्द्रव्यत्वादिकम् इत्यधिकम् -उ. 7.द्धम् ततो-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 124.
------------------------ ------------- ------------
वायुस्त्वनुद्भूत 1 रूपा पृथिवी वा स्यादनारम्भको वा स्यात्, अद्रव्यं वा स्यात्॥
एतेनालोक 2 ज्ञानाभाव एव तमः। तत्काले तद्देशे आलोकसाक्षात्काराभावस्य सर्वसम्मतत्वात् । आलोकवद्गर्भगृहं प्रविशतः प्रथममालोकाज्ञाने तमःप्रत्ययाच्च। आलोकविरोधिद्रव्यान्तरस्यालोकभावस्य वा तमस्त्वे 3 तदानीं द्वयोरप्यभावात्तमः प्रत्ययो भ्रमः स्यादित्यपास्तम् । नीलं 4 तम इत्यबाधितप्रतीतिविरोधात् । तमः 5 साक्षात्कारस्य चक्षुरन्वयव्यतिरेकानुविधान 6 विरोधाच्च । न हि ज्ञानाभावो नीलः । न वा चाक्षुषः । प्रदीपादिमत्यपि गर्भगृहे तमोधीर्भ्रान्तिर्बाधितत्वात् ॥
किञ्च -- रूपाज्ञाना 7 द्गौणं व्यवहारमात्रं वा।
-- प्रयोजकं चेत्तमसो ऽपि तथात्वं सिद्धमिति न स्पर्शवत्वमारम्भकत्वे प्रयोजकं किन्तु प्रयोजनवत्वमेवेति सममिति भावः॥
कस्य चिन्मतमपाकरोति -- एतेनेति ॥ आलोकस्मृतिमतः तमः प्रत्ययदर्शनात्कथमेतदित्यतो ज्ञानं साक्षात्कार इति भावेनाह -- तत्काल इति ॥ असिद्धं निरस्य युक्तिं चाह -- आलोकवदिति ॥ सूक्ष्मप्रदीपालोकयुक्तेत्यर्थः। पक्षान्तरे बाधकं चाह-- आलोकेति ॥ विरोधद्वयं व्यनक्ति-- न हीति ॥ परोक्तयुक्तिं निराह -- प्रदीपेति॥
1.रूपपदं न-नं. 2.काज्ञा-नं. 3.इदा-रा. 4.लीनं-रा. 5.सासा-रा. 6.पुनः ऽविधानेऽ त्यधिकम् -रा. 7.नवद्गौ -नं.रा.ज.
तसो-द्रत्व-सानम्) शक्तिवादः पु - 125.
----------------- ------- ---------
एतेनैवारोपितं नीलरूपमेव तम इति निरस्तम् । नीलं 1 रूपं तम इत्यननुभवात्। 2 नीलरूपवदित्येवानुभवाच्च । आलोकमध्यस्थे श्रुक्ले वस्तुनि नैल्यारोपे तमोव्यवहारापाताच्च ॥
किञ्चारोपस्योपलक्षणत्वे ऽनारोपदशायामपि तमोव्यवहारःस्यात् । विशेष 3 णत्वे आरोपस्यापि तमःशरीरप्रविष्टाना 4 चाक्षुषत्वं 5 स्यात् ॥
तस्मात्तम आलोकाभाव इति, 6 आलोकाज्ञानमात्रमिति, आरोपितं नीलरूपमेवेति च पक्षत्रयमप्ययुक्तम् ॥
एवं च तमसो द्रव्यत्वे सिद्धे प्रसिद्धद्रव्यान्तर्भावश्शक्यश्चेत्तथैवास्तु न चेद्द्रव्यान्तरमस्तु । न तत्रास्माकमाग्रह इति ॥
इति तमसो द्रव्यत्व 7 साधनम्
एतेनैवेत्येतव्द्यनक्ति -- नीलरूपमिति॥ अनुभवविवादिनं प्रत्याह-- आलोकेति॥
तादृशभ्रमे ऽपि विप्रतिपन्नं प्रत्याह -- किञ्चेति॥ एवं तर्हि नवैव द्रव्याणीति नियमात् क्कान्तर्भाव इत्यत आह-- एवं चेति ॥ न तत्रेति ॥ 8 न चैवं भानाभावादिति भावः॥
इति तमसो द्रव्यत्वसमर्थनम्
1.लरू-रा.क.ज. 2.अयं हेतुर्नास्ति-ग. 3.षत्वे-रा. 4.न-रा. 5.ऽनऽ इत्यधिकम्-रा. 6.ऽरूपज्ञानऽ इत्यस्ति-नं. ऽरूपाज्ञाऽ -रा.क.ग.ज. 7.समर्थनम्-रा.ग.ज. 8.ऽइतिऽ इत्यधिकमपि -क. 8.नवैवेत्यत्र मानाभा-उ.
न्यायदीपयुतर्कताण्डवम् (द्वि.परिच्छेदः पु - 126.
----------------------- ------------- -----------
अत परमते सुवर्णस्य योग्यानुपलब्धिबाधः
सुवर्णस्य तु न द्रव्यान्तरं, नापि तैजसं, किन्तु पार्थिवमेव । पीतत्वात्। अजलत्वे 1 सति गुरुत्वात् । नैमित्तिकद्रवत्वाधिकरणत्वाच्च। 2 घृतादिवदित्या 3 द्युनुमानात्। ऽदिव्यं पार्थिवं वस्त्वि 4ऽ इत्यादि 5 श्रुतेश्च॥
जम्बूनदीरोधसो 6 मृत्तिका जम्बूफरसानु--
अथ परमते सुवर्णस्य योग्यानुपलब्धिबाधः
तमोवत्सुवर्णमपि नवभ्यो द्रव्यान्तरं किमित्यत आह -- सुवर्णं त्विति॥ न्यायमत इव तेजस्यन्तर्भावः किन्नेत्याह -- नापीति॥ 7 तैजसमिति॥ पयस्यव्यभिचारायैव जलान्यत्वे सतीति नैमित्तिकेति चोक्तिः। अनुमानानुग्राहकश्रुत्याद्याह -- दिव्यमिति॥
यत्सोमचित्रमुक्थ्यं दिव्यं पार्थिवं वसु।
तन्नः पुनान आभरेति--
बहुशाखायां श्रवणादित्यर्थः ॥
पञ्जमस्कन्धवाक्यान्याह -- जाम्बूनदीति ॥ मेरुसमीपस्था काचिन्नदी 8 तीरयोर्मृतिकेत्यर्थः। पूर्ववाक्योक्तस्या 6 नुवादो जाम्बूनदीति।
1.जलान्यत्वे-रा.ग. 2.घटादि-न.रा.क. 3.त्यनु-नं.ग. 4.वस्वि-नं.क.ग.ज. 5.देश्च-नं. 6.सोर्या-नं. सोर्म्य-ग. 7.तैजसमिति इति नास्ति-उ. 8.तत्ती -उ. 9.स्थानु-उ.
पते-सु-योनुब्घि-बाधः) शक्तिवादः पु - 127.
--------------------- --------- ------------
1 विध्यमाना वाय्वर्कसंयोगविपाकेन जाम्बूनदं नाम सुवर्णं भवतीति, तावती भूमिः काञ्चन्यादर्शनलोपमेत्यादिभागवतादिवचनाच्च ॥
"अग्नेः 2 प्रजातं प्रथमं 3 हिरण्यं"मिति श्रुतिस्त्वग्नेराप इत्यादिश्रुतिवदग्नेर्हिरण्यमित्तत्वमाह। न तु हिरण्यस्याग्न्यात्मकताम्॥
ननु -- पीतरूपगुरुत्वाश्रया 4 विनिर्भागवर्ति तैजसं 5 भागान्तरमेव सुवर्णम्। तत्रच पीतत्वादिकमसिद्धमि 6 ति चेन्न । तादृशभागान्तरस्याननुभवात्। तत्कल्पकस्य चाभावात् ।
अन्य7 समं द्यावन्मानसोत्तरमेवेर्वोरन्तरं तावतीति षण्णवतिलक्षयोजनपरिमिता काञ्चनी सुवर्णमयी दर्पणतलवदतिश्लक्ष्णतमेति स्वादूदकसमुद्रात्परतो लोकालोकपर्वतादर्वाग्भागभूमिरित्यर्थः। परोक्तश्रुतिगतिमाह -- अग्नेरिति॥
सुवर्ण 9 द्विभागम्। तत्र पार्थिवभागपक्षूकारे सिद्धसाधनम् । भागान्तरपक्षीकारे हेतूनामसिद्धिरिति भावेन शङ्क्यते --नन्विति॥नैमित्तिकद्रव्यत्वाश्रयेत्यपि ज्ञेयम्। अवनि 10 भागवर्तीति ॥ संश्लिष्टतया वर्तमानेत्यर्थः॥
शुक्लभास्वरेष्णस्पर्शवद्द्रव्याननुभवे ऽप्यनुमीयत इत्यत आह-- तत्कल्प 11 कस्येति ॥ तथाचैक एव भाग इति तस्यैव च पक्षत्वान्नासिद्धिः। अन्यथा घटादावपि भागान्तरकल्पनेन तैजसत्वादिकल्पनं तत्रापि स्यादिति भावः॥
1.षिच्यमाना-नं. 2.रपत्यञ्जातं -ग. 3.ऽपरियत्ऽ इत्यधिकम्-ज. 4.वनिभाग-नं.ग. वनिभावगर्भित -रा. 5.सभा-रा. 6.इत्थंऽ इत्यधिकम्-रा. 7.न्यत्स -उ. 8.या-उर्. णं द्वि-उ. र्10.भागवतीति-उ. 11.नस्य-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 128.
------------------------ ------------- --------
न चानुद्भूत 1 स्पर्श 2 वत्वान्नानुभवः। त्वन्मते सुवर्णरूपस्योद्भूतत्वेनापसिद्धान्तात् ॥
न च -- सोपि भागश्रुषा सुवर्णत्वेनानुभूयते, तस्य शुक्लभास्वरूपं
तूपष्टम्भकपीतरूपाभिभूतत्वान्नानुभूयत इति वाच्यम् । पार्थिवरूपेण तेजोरूपाभिवे घटादिरूपेण तत्प्रकाशकालोकरूपाभिभवापातात्॥
न च -- पार्थिवं रूपं स्वाश्रया 3 विनिर्भागवर्तिन एव तेजसो रूपाभिभावकमिति वाच्यम् । मण्यादिमध्यवृत्तितेजोरूपस्य मणिरूपेणाभिभवात् । तथा च सुवर्णमुपष्टम्भकपीतद्रव्यसंयुक्तमप्यनाभि--
अननुभवस्यान्यथासिद्धिमाशङ्क्य निराह-- नचेति ॥ किं रूपानुभवो नेत्युच्यते अथ द्रव्यानुभवः। आद्य आह-- त्वन्मत इति॥ रूपं 4 सुवर्णस्योद्भूतमेवेति मण्युक्ततेरिति भावः। द्वितीयमाशङ्क्यते -- न चेति ॥
मण्यादिमध्य इति ॥ तत्रापि तेजोभागस्य तव संमतत्वात्तत्राप्यभिभवे 5 परप्र काशकत्वाभावप्रसङ्गादिति भावः। संयुक्तमपीत्यपिपदेनाभ्युगमं सूचयति॥
1.ऽरूपऽ इत्यधिकम्-रा.ग. अपिच ऽस्पर्शऽ इति नास्ति-क.रूप-स्पर्श-जर्. 2.शत्वा-रा.नं. 3.वनिभाग-नं. याविभाग-रा. वनिर्भा- ग. 4.तुतस्येद्भू -उ. 5.ऽस्वऽ इत्यधिकम् -उ.
पत-सु-योनुब्धि-बाधः) शक्तिवादः पु - 129.
--------------------- ---------- -----------
--भूतोद्भूतरूपवत्तेजस्त्वादङ्गारवह्निरिवान्धकारे स्वपरप्रकाशकं स्यात्। न चाङ्गारादावनभिभूतरूपं प्रभान्तरमनुभूयते येन तदेव प्रकाशकं न त्वङ्गारवह्निरवह्निरिति स्यात्॥
अत्रोक्तं मणौ-- मणिप्रभायामङ्गारवह्नौ च रूपगत 1 शुक्लत्वमेवाभिभूतं, न तु रूपं, न वा तद्गतं भास्वरत्वं, अत एवाङ्गारवह्न्यादिकं नीलारुणादिरूपव 2 त्वेनैव भासते, एवं च स्वपरप्रकाश 3 कत्वोपयुक्तभास्वरत्वस्यानभिभवादङ्गारवह्निः स्वपरप्रकाशकः, सुवर्णे तु रूपमुद्भूतं, तद्गते शुक्लभास्वरत्वे चाभूभूते इति न तत्स्वपरप्रकाशकमिति ।तन्न । रत्नात्प्रभाया इव काष्ठाद्वह्नेरिवि सुवर्णस्य कदाप्यननुभवेन कल्पकाभावात् । अन्यथा -- अभिभवकल्पनेनानुपलब्धिविरोधे परिहृते तेजोभागासिद्धिः ---
सर्वस्यापि पार्थिवत्वस्यैवाभिमतत्वादत्रोक्तमिति च तथाचेत्यादिनोक्तप्रमेये समाधानं प्रत्यक्षखण्डे सुवर्णतैजसत्व 5 वादे उक्तमित्यर्थः। अन्यथेति॥ कल्पकाभावेप्येवं कल्पन इत्यर्थः।
1.तं शु-नं.रा.क.ज. 2.पत्वे-नं.ग. 3.ऽशयुक्तभास्वरस्यानभिऽ इत्यस्ति-नं. 4.न्नत्वस्य-नं. 5.स वा -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 130.
------------------------ ------------- ---------
- सिद्धे च तस्मिन् फलबलादभिभवकल्पनमित्यन्योन्याश्रयः स्यात् ॥
किं चास्तु सुवर्णरूपमभिभूतं तथापि महत्वे सत्युद्भूतरूप 1 वत्तेजस्त्वस्यैव व्यञ्जकत्वे तन्त्रत्वेन सुवर्णमपि व्यञ्जकं स्यात्। यदि ह्युद्भूतरूपमप्यभिभूतरूपत्वेनानभिव्यञ्जकं किञ्चित्तेज उभयसिद्धं स्यात् । तदा तत्रानतिप्रसङ्गायानभिभूतत्वविशेषणमर्थवद्भवेत्। न च तदस्ति। अनभिव्यञ्जकानां ग्रीष्मोष्मादीनामनुद्भूतरूपवत्वात्॥
किञ्चैव सुवर्ण(अनु)उष्णस्पर्शोप्युद्भूत एवाभिभूतः कल्प्यताम्।
तस्मिन्निति॥ तेजौभाग इत्यर्थः। फलेति॥ अनुपलब्धिरूपकार्य बलेनेत्यर्थः॥
अस्तु वा रूपमभि 2 मतं तथापि दीपादिवत्परप्रकाशकं स्यादेव प्रयोजकस्य 3 समत्वादिति भावेनाह -- किञ्चेति॥ ननु महत्वे सत्यनभिभूतोद्भूतरूपवत्तेजस्त्वमेव प्रयोजकमतः सुवर्णे तादृशतेजस्त्वाभावान्न दोष इत्यत आह-- यदि हीति॥ ग्रीष्म ऊष्माद्येव तादृशं तेज इत्यत आह-- अनभिव्यञ्जकानामिति॥
अस्तु वानभिभूतोद्भूतरूपवत्तेजस्त्वमेव व्यञ्जकत्वे प्रयोजकं, अथापि सुवर्णं तेजश्चेदुपेयते तर्हि स्यादेव तत्परप्रकाशकं तद्रूपाभिभभ्यायुक्तादित भावेन स्पर्शप्रतिबन्दीमाह- किञ्चेति॥ यद्वा तेजः स्पर्शवत्तेजोरूपस्याप्यभिभवायोगात्प्रागुक्तप्रयोजकेनाभिभूतत्वा 4 विशेषणमसंभवदुक्तिकम्।
1.पते-नं.रा.ग.ज. 2.भूत--उ. 3.सत्वादि-उ. 4.त्ववि-उ.
पत-सु-योनुलब्धि-बाधः) शक्तिवादः पु - 131.
--------------------- -------- ---------
न चैवं स्पर्शोद्भवे सुवर्णमन्धकारे त्वचा गृह्येत, तथा च सुवर्णं न वेति संशयो न स्यादिति वाच्यम् । तव 1 सुवर्णत्वजातेरुपष्टम्भका 2 भिमतरूपविशेषग्रहव्यङ्ग्यत्वेन ब्राह्मणव्यक्तिग्रहे ऽपि ब्राह्मणत्वजातिसंदेहवदुपपत्तेरिति 3 सुवचत्वात् । तेजःस्पर्शोनभिभाव्य इति तु रूपे ऽपि तुल्यम्। तस्मात्वचा चक्षुषा वा पीतगुरुद्रव्यादिरिक्तस्य 4 भागान्तरस्याग्रहे 5 ण धर्मिण एव बुद्ध्यनारोहान्न तद्रूपे ऽभिभवादिकल्पनं युक्तम्॥
पराभि 6 सुवर्णस्य योग्यानुपलब्धिबाधः
संभवव्यभिचाराभ्यामेव विशेषणस्यार्थवत्वादिति भावेनाह-- किञ्चेति॥ नैव कल्पना युक्तेत्याशङ्क्य निराह-- नचैवमिति॥ तवेति॥ उपष्टम्भकमस्तीति वदत इत्यर्थः। तेजःस्पर्श एव सर्वाभिभावको न स्वयमन्येनाभिभवितुं शक्य इत्यत आह -- तेज इति॥ तस्मादित्यस्य विवरणं त्वचेत्यादिपञ्चम्यन्तपर्यन्तम्॥
पराभिप्रेतसुवर्णस्यानुपलब्धिबाधः
1.नवेति नास्ति-नं.रा.ग.ज. 2.कत्वाभि-रा.ग. 3.ऽतवऽ इत्यधिकम्-ग. 4.भागन्तरस्येति नास्ति-रा. 5.हृणे-नं.क.ज. हणात्-रा. 6.प्रेतसुवर्णस्यानुपलब्धि -रा.ग.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 132.
------------------------- ---------- ---------
अथ सुवर्णस्योदयनाद्युक्तार्थापत्तेः पञ्चधान्यथोपपत्तिसमर्थनम्
अत्र मणावुदयनोक्तं तममुक्तं--
अवश्यं भागान्तरं स्वीकार्यम् । अत्यन्तानलसंयोगि 1 रूपाधिकरणं पार्थिवं
पूर्वरूपविजातीयरूपप्रतिबन्धक 2 द्रवद्रव्यसंयुक्तं अत्यन्तानलसंयुक्तत्वे सति पूर्वरूविजातीयरूपानधिकरणपार्थिवत्वात्।
अथ सुवर्णस्योदयनाद्युक्तार्थापत्तेः पञ्चधान्यथोपपत्तिसमर्थनम्
एवं सुवर्णस्य पार्थिवत्वे प्रयुक्तहेतूनामसिद्धिसिद्धसाधनतयोर्निरासाय तत्र पराभिमतभागान्तरे ऽनुपलब्धिबाधमुक्त्वा तत्साधकतया पराभिमतानुमानमप्यनूद्य निराह-- अत्रेत्यादिना॥ मणावुदयनोक्तमतमुक्तमिति॥ प्रत्यक्षखण्डे सुवर्णतैजसवादे एतत्प्रयोगोक्त्यनन्तरमित्याचार्यो 3 क्तेरिति मणावुक्तेरिति भावः। भागान्तरमिति॥ सुवर्णं 4 पार्थिवभागसंपृक्तं भागान्तरमित्यर्थः। तथा च तत्र प्रागुक्तहेतवो ऽसिद्धा इति भावः। अत्यन्तेति॥ पार्थिवमित्यन्तं 5 पक्षः। पार्थिवमित्येवोक्ते घटादौ बाधः। तन्निरासायात्यन्तेत्यादिविशेषणम्। तादृशा 6 घटादौ बाधासिद्ध्योर्निरासाय पीतरूपाधिकरणमिति।
1.गे पी-रा.सु. गिपार्थिवं-ग. 2.द्रवपदं नास्ति-का.ग.ज.नर्ं. 3.या इति माणा-उर्. 4.णेपा -उ. 5.न्तः प-उ. 6. शस्या- उ.
सुस्यो-दद्यु-क्तातेः-पधा-थोत्ति-सनम्) शक्तिवादः पु - 133.
--------------------------------- ------- -------
1 क्वाथ्यमानजलमध्य 2 स्थपटवदित्यनुमानात् । न चाप्रयोजकम्। द्रवद्रव्यसंबन्धं विना पार्थिवे ऽत्यन्तानलसंयोगस्य पूर्वरूपविजातीयरूपजनकत्वनियमात्। तच्च द्रवद्रव्यं न जलम् नैमित्तिकद्रवत्ववत्वात् स्नेहशून्यत्वाच्च, स्नेहवत्वे तदधीनसङ्ग्रहप्रसङ्गात्, नापि पार्थिवम् दाहविरोधित्वात्,
आपादकदशायामबाधायात्यन्तालसंयोगीति। पार्थिवमिति स्वरूपोक्तिः। जलपरमाण्वादिसंयुक्तत्वेनार्थान्तरनिरासाय साध्ये प्रतिबन्धकान्तरोक्तिः। स्वावयवावयव एव पूर्वरूपपरावृत्तिप्रतिबन्धकोस्तु । तथा च तत्संयुक्तत्वेनार्थान्तरवारणाय द्रवद्रव्येत्युक्तिः। स्वावयवावयव्सतु न द्रवद्रव्यमित्याहुः। स्तंभादावव्यभिचाराय हेतौ सत्यन्तम् ।
पच्यमानघटादावव्यभिचाराय पूर्वरूपविजातीयरूपानधिकरणेति विशेषणम्। जले व्यभिचारवारणाय पार्थिवत्वादित्युक्तिः। दृष्टान्ते ऽत्यन्तनलेत्यादिहेत्वंशोपपादनाय कथ्यमानेत्युक्तिः। साध्योपपादनाय जलमध्यस्थेत्युक्तिः। जलमध्यस्थेत्युक्त्यैव पूर्वरूपविजातीयरूपानधिकरणस्य स्फटत्वात्पार्थिवत्वलाभाया घटवदित्युक्तिः। अप्रयोजकमिति ॥ अनुमानमित्यन्वयः॥
नन्वेतावता 3 द्रवद्रव्यं तैजसमिति कुत इत्यतः परिशेषादिति भावेनाह- तच्चेति॥ सङ्ग्रहेति॥ यथा जलं पार्थिवरजांसि पिण्डीभूततया सङ्ग्रह्णाति, एवं द्रवीभूतं सुवर्णं न संगृह्णाति किञ्चिदिति 4 न स्नेहरूपचिक्कणतालक्षणजलासाधारणधर्माभावान्न जलमित्यर्थः। नापीति॥ तच्च द्रव 5 द्रव्यं पार्थिवं न भवति।
1.क्वस्य-रा.क.ग.ज.नं.सु. 2.ऽस्थऽ इति नास्ति-सु. 3.तद्द्रव-उ. 4.न इति नास्ति-उ. 5.प्रायः ऽवद्दृऽ इत्येवास्ति- उ.
न्यायदीपयुततर्कताण्डवम् (शक्तिवादः पु - 134.
------------------------- ----------- -----------
तद्द्रव्यं रूपवच्च द्रवत्ववत्वादेव, तैजसं च पृथिवीजनान्यत्वे सति रूपवत्वादिति धर्मिग्रहकमानसिद्धं 1
तेजस्त्वमिति ॥
तन्न । त्वदुक्तं रूपापरावृत्तिरूपं लिङ्गं हि 2 रूपपारवृत्ति प्रतिबन्धककिञ्चिद्वत्वेनैवोपपन्नं 3 सन्न प्रतिबन्धकस्य द्रवत्वपर्यन्तं धावति। येन द्रवत्ववतोरूपित्वमित्यादित्वदुक्तरीत्या देजस्त्वं सिध्येत्। संभवति चेह कॢप्तं प्रतिबन्धकान्तरम् ।
पार्थिवस्य स्वसंयुक्तोपष्टम्भकभागे यो भस्मीभावलक्षणो दाहस्तदविरोधित्वादस्य च द्रवद्रव्यस्य तद्विरोधित्वादित्यर्थः॥
तर्हि तद्द्रव्यं वाय्वादिरूपं कुतो नेत्यत आह -- रूपवच्चेति॥ तत्र हेतुमाह-- द्रवत्ववत्वादिति॥ जलवदिति भावः। तैजसं चेति॥ द्रव्यमित्यनुषङ्गः॥
ननु -- तेजोन्तरे नैमित्तिकद्रवत्वविजातीयरूपे 4 प्रतिबन्धकत्वयोरदृष्टेरत्र कथं तदधिकरणस्य तैजसत्वकल्पनमित्यत आह-- इति धर्मिग्राहकेति॥
दाहविरोधित्वनैमित्तिकद्रवत्वरूपत्वहेतुभिः सहकृतप्राचीनेन द्रवद्रव्यसंयुक्तत्वसाधकेनानुमानेन सिद्धमित्यर्थः॥
आद्यानुमाने हेतोरुक्तसाध्येन विनान्यथोपपत्याप्रयोजकत्वेन धर्मिग्राहकमानं निराह-- त्वदुक्तमित्यादिना ॥ ननु-- द्रवत्वहीनमन्यत्तादृशप्रतिबन्धकं वस्तु नास्त्येवेत्यत आह-- संभवति चेति॥ किं तददृष्टं चेतक्थं च प्रतिबन्धकता क्वाप्यदृष्टेरित्यतो दृष्टान्तपूर्वं व्यनक्ति-- करकेति॥
1.तस्येत्यधिकम् -रा.ग.नं.सु. तत्ते-क.ज. 2.हि शब्दो नास्ति-रा.सु. 3.न्नप्रति-रा.सु. 4.पप्र -उ.
सुस्य-दद्यु-क्तात्तेः-पधा-थोत्ति-सनम् ) शक्तिवादः पु - 135.
---------------------------------- ---------- --------
करकादौ सांसिद्धिकद्रवत्वस्येवात्यन्तानलसंयुक्ते पार्थिवे वज्रे पूर्वरूपविजातीयरूपस्येव 1 सुवर्णे ऽपि विजातीयरूपस्य भोजकादृष्टविशेषादेव प्रतिबन्धोपपत्तेः॥
अन्यथा करकादौ द्रवत्वप्रतिबन्धकं कठिनं भागान्तरं वज्रे ऽपि रूपपपरावृत्तिप्रतिबन्धकं द्रुतं भागान्तरं कल्प्यं स्यात्। तत्र वज्राद्यतिरिक्तं भागन्तरमनुपलब्धिबाधितं चेदिहापि पीतिमाश्रयातिरिक्तं द्रुतमनुपलब्धिबाधितं चेदिहापि पीतिमाश्रयातिरिक्तं द्रुतमनुपलब्धिबाधितमिति समम्। स्वीकृतं च त्वयापि तेजो ऽन्तरे ऽदृष्टमप्यग्निसंयोगाद्द्रवत्वमदृष्टविशेषोपबन्धात्तेजोरूपे सुवर्णे॥
किं चास्तु द्रवत्वमेव प्रतिबन्धकम्। तत्तु द्रवत्वं पीतपार्थिवद्रवास्तु। कॢप्तत्वात्। समानाधिकरणत्वाच्च।
नन्वदृष्टं दृष्टसामग्रीसंपत्तावेवोपयुक्तमुपलब्धम् न तु किञ्चित्करमित्यत आह-- स्वीकृतं चेति॥ द्रवत्वद्वारैव 3 दृष्टस्य रूपपरावृत्तिप्रतिबन्धकता 4 न साक्षात्क्कथ्यमानजलान्तरस्थघटादौ तथैव दृष्टेः। अन्यथादृष्टकल्पनाऽपत्तेः। करकादावनन्यगत्यैव तथाऽश्रयाणमित्यत आह-- किं चास्त्विति 5 ॥ पीतपार्थिवेति॥ त्वयोपष्टम्भकत्वेनोपात्तपार्थिवेत्यर्थः। कॢप्तत्वादिति॥ धर्मिणो
धर्मस्य चोभयोरपि प्रमितत्वात्प्रतिबद्ध्यरूपेण सह प्रतिबन्धकत्वाभिमद्रवत्वस्यैकाधिकणत्वाच्चेत्यर्थः।
1.च इत्यधिकम्-क.ज.नं. 2.व्यगतमेवास्तु-रा.ग.सु. वभागान्तरमेवास्तु-क.ज. 3.वादृ-उ. 4.न स्यात् क्कथ्य-उ. 5.स्त्वपाति-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 136.
----------------------- ------------- ----------
न तूपष्ट 1 भ्यगतं धर्मिणा सह कल्प्यत्वाव्द्यधिकरणत्वाच्च । अन्यथा क्वा 2 थ्यमानजले 3 रूपा 4 परावृत्यर्थं
द्रवद्रव्यान्तरसंयोगः कप्ल्यः स्यात् ॥
ननु -- पार्थिवद्रवत्वस्य स्वसमानाधिकरणरूपपरावृत्तिप्रतिबन्धकत्वे ला 5 क्षादिद्रवत्वमपि तथा स्यादिति चेन्न 6 । त्वदभिमतद्रुततेजसः स्वसंयुक्ते पीतद्रव्ये रूपपरावृत्तिप्रतिबन्धकत्वे स्वसंयुक्ते पटादावपि तथा स्यादिति 7 साम्यात् । स्वभावविशेषकल्पनेन समाधानं तु प्रकृते ऽपि समम् ॥
न तूपष्टभ्येति ॥ त्वदभिमततेजो 8 मतमित्यर्थः। धर्मिणेति॥ तदनुपलम्भस्य प्रागुपपादितत्वादिति भावः। व्यधिकरणत्वाच्चेति॥ प्रतिबन्धेन पार्थिवरूपेण 9 भिन्नाधिकरणमेव द्रवत्वं द्रव्यान्तरगतरूपपरावृत्तिप्रतिबन्धिकश्चेदिहापि तथैवानुपलब्धेरुक्तत्वात् । कॢप्तेनैवोपपत्तौ नाकॢप्तकल्पनेत्यस्यापि साम्यादिति भावः। कुसुमाञ्जल्याद्यभिमतमाशङ्कते-- नन्विति ॥ क्वचिव्द्यभैचारदृष्टमात्रेणाप्रतिबन्धकत्वे त्वदभिमतोपष्ट 10 म्भकस्यापि तथात्वमस्त्विति भावेनाह -- त्वदिति॥
ननु तस्योपष्टम्भक एव प्रतिबन्धकत्वं स्वभाव इत्यत आह-- स्वभावेति॥ एवं द्रवद्रव्यसंयुक्तमिति साध्ये द्रवत्वं वा तादृशद्रव्यसंयुक्तत्वं --
1.ष्टम्भ-रा. म्भक-क.ज.नं.सु. 2.क्वथ्य-रा.ग.ज.नं.सु. 3.पटेत्यधिकम्-क. 4.पप-रा.सु. 5.लाला-क. 6.न इति नास्ति-रा. सु. 7.स्यात्-क.ज.नं. 8.गत-उ. 9.ऽभिन्नाधिकरणवृत्तित्वाच्चेत्यर्थः। ननु--ऽइत्यधिकम्-उ. 10ष्टम्भस्या-उ.
सुस्य-दद्यु-क्तात्तेः-पदा-थोत्ति-सनम्) शक्तिवादः पु - 137.
--------------------------------- ----------- ----------
किं चास्तु द्रुतं द्रव्यान्तरमेव प्रतिबन्धकम् । तथापि कथं तस्य तेजस्त्वम् । पृथिव्यन्यत्वसाधकेन दाहविरोधित्वेनैव तेजोन्यत्वस्य सुतरां सिद्धेः। न हि द्रवद्रव्यसाधकं धर्मिग्राहकं मानं तस्य 1 द्रवत्वसमानाधिकरणं पार्थिवत्वं विहाय नियमेव 2 द्रवत्वव्यधिकरणं तेजस्त्वं स्पृशति। येन दाहविरोधित्वेन तेजोन्यत्वसाधनं धर्मिसिद्ध्यसिद्धिभ्यां व्याहतं स्यात्। द्रुततेजसोप्रसिद्ध्या व्याप्त्यग्रहात् ।
-- 3 विना वा हेतुरुपपन्न इत्या 4 दिना हेतुरप्रयोजक इत्युक्तमिदानीं तदुपेत्यपि परिशेषतस्तेजस्त्वोक्तिरयुक्तेत्याह-- किञ्चेति॥ प्रतिबन्धकमिति॥ पूर्वरूपविजातीयरूपप्रतिबन्धकमित्यर्थः। तेजोन्यत्वस्येति ॥ उपष्टम्भतया त्वदभिमतं द्रव 5 द्रव्यान्तरं न तेजो भवितुमर्हति दाहविरोधित्वात् जलवदिति प्रयोगसंभवात्तेजसश्च दाहानुकूलत्वेन तद्विरोधित्वाभावादिति भावः॥
नन्वेवं प्रागुक्तद्रवद्रव्यसंयुक्त 6 साधकधर्मिग्राहकमानबाध इत्यत आह-- न हीति॥ स्पृशति-- अनुमापयतीत्यर्थः। सिद्ध्यसिद्धिभ्यां 7 तादृशद्रव्यसिद्धौ तेजस्त्वेनैव सिद्ध्या तदभावसाधनं व्याहतम्। तदसिद्धौ चाश्रयस्यैवासिद्ध्या तस्य तेजोन्यत्वसाधनं व्याहतमित्यर्थः। कुतो न स्पृशतीत्यत आह-- द्रुतेति॥ दारविरोधित्वेनैवोपष्टम्भद्रुतभागस्य --
1.द्रवद्रव्यत्व-क.ज. 2.द्रवेत्यधिकं-क. 3.वा विना-उ. 4.इति। अत्यन्तेत्यादिना इत्याद्यस्ति -उ. 6.क्तत्वसा-उ. 7.भ्यामिति। इत्यस्ति-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 138.
------------------------ -------------- ----------
अन्यथा पृथिव्यात्मक एव स भागोस्तु । धर्मिग्राहमान 1 मादाय विरोधशङ्कासमाधानस्योभयत्र साम्यात् ॥
-- तेजोन्यत्वानङ्गीकारे बाधः 2 । अन्यथेति ॥ विरोधेति ॥ द्रुतभागस्य दाहविरोधित्वात्कथं पृथिवीत्वमिति शङ्कायां तत्समाधानस्य यथा तेजस्त्वं कथमिति शङ्का धर्मिग्राहकमानेन तथैव सिद्धेरिति 3 तथैव समाधीयते तथैव धर्मग्राहकमादायैवैवनित्वं सिद्धमित्यपि कर्तुं शक्यत्वादित्यर्थः। उभयत्रेति ॥ अवनित्वे तेजस्त्वे चेत्यर्थः॥
अयं भावः। दाहविरोधित्वेन कल्पितद्रुतभागस्य धर्मिग्राहकमानसिद्धत्वेन तेजस्त्वा 4 वगमश्चेत्तर्हि स भागः पृथिव्यात्मक एवास्तु । न च पृथिव्याः दाहाविरोधित्वादस्य च उपष्टम्भकद्रव्यविरोधत्वात्कथं पृथिवीत्वं तस्येति वाच्यम् । एवं सति तेजसोपि दाहप्रतिबन्धकत्वादस्य च भागस्य दाहप्रतिबन्धकत्वात्कथं तेजस्त्वमिति साम्यात् ॥
ननु -- अत्यन्तानलेत्यादिप्रागुक्तानुमानरूपधर्मिग्राहकभानेनैव द्रुतभागस्य तेजस्त्वं सिद्धमिति तेजोन्तरेनुपलब्धमपि दाहविरोधि 5 त्वमत्रैवोपेयत इति चेत्। तर्हि तेनैव धर्मिमानेनावनित्वं सिद्धमिति पृथिव्यन्तरे ऽदृष्टमपि दाहविरोधित्वमत्रैवोपेयत इति साम्यात् । तेनै 6 वावनित्वं न सिद्धं चेत्तेजस्त्वं न सिद्धमिति॥
द्रुतभागस्य पृथिवीत्वसाधनं तेजोन्यत्वसाधनं वा धर्मिग्राहकमानबाधितमिति भावेनाशङ्कते -- नन्विति॥
1.मानमिति द्विरस्ति-रा.सु. 2.कमाह-- उ. 3.तथैव इति नास्ति- उ. 4.स्त्वोप -उ. 5.धि अ-उ. 6.एवकारोनास्ति -उ.
सुस्यो-दद्यु-क्तात्तेः-पधा-थोत्ति-सनम्) शक्तिवादः पु - 139.
---------------------------------- ----------- -------
ननु-- धर्मिग्राहकमाने 1 नैव तैजसत्वसिद्धिः। उक्तरीत्या द्रुतभागे सिद्धे स भागः पृथिवी तेजोवेति सन्देहे पृथिवीद्रवत्वत्वस्य लाक्षाद्रवत्वादावतिप्रसक्तत्वेन सुवर्णरजतताम्राद्युपष्टम्भकावनि 2 भागवर्ति तत्तत्पृथिवीद्रवत्व 3 त्वं दाहप्रतिबन्धकतावच्छेदकं कल्प्यमिति गौरवम् । तेजोद्रवत्व 4 त्वमात्रं तु लघ्विति लाघवतर्कसहकारेण धर्मिग्राहकस्यैव तैजसत्वपर्यन्तं व्यापारादिति चेन्न। तेजोद्रवत्वस्य प्रकृतप्रमाणप्रवृत्तेः प्रागसिद्धत्वेन लाघवानुपस्थितेः॥
किं च सुवर्णस्य तैजसत्वे स्मृतिषु --
1.नेन न तेजसत्व-रा.सु. 2.विनिर्भाग-रा.क.ग.ज.सु. 3.वत्वं-रा.क.सु. 4.वत्वमा- क. 5.हाप्र-उ. 6.त्वस्यानु-उ. 7.न्तव्या-उ. 8.णेने-उ. 9.त्वसहस्रपलपरिमित -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 140.
----------------------- ------------ ---------
"कृष्णलंस्रपये"दि 1 ति, श्रुतिषु च तुलापुरुषादिदानेषु शरीरपरिमितत्वसहस्रपलपरिमितत्वाद्युक्तिः श्रवणाद्युक्तिश्च न स्यात् ।
श्रवणाद्युक्तिरित्यन्वयः ॥
सुवर्णं रजतं वाथ वस्त्रं वान्यदभीप्सितम् ।
यावत्साम्यं भवेद्राजन्नात्मनोभ्यधिकं तु वा॥
तावत्तुलायामारोप्य सर्वं तद्याद्विजातये॥
इति स्कान्दे ॥
तत्रैकत्र तुलाभागे सुस्त्राते धौतवाससि।
ततोपरं 3 तुलाभागे न्यसेयुर्द्विजपुङ्गवाः।
सममभ्यधिकं यावत्काञ्चनं चाभिनिर्मलम् ॥
इति मात्स्ये स्मरणात् ॥
तथा मात्स्य एव स्वर्णकामधेन्वादिदानप्रस्तावे --
काञ्जनस्यापि 4 शुद्धस्य धेनुं वत्सं च कारयेत् ।
उत्तमा पलसाहस्रैस्तदर्धेन तु मध्यमा ॥
कनीयसी तदर्धेन कामधेनुः प्रकीर्तिता ॥
इति स्मरणादिति भावः। कृष्णलमिति ॥ स्वर्णमासिः। प्रजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्काम इति श्रुतेरर्थात्प्राप्तस्य वा चोदनकप्राप्तश्रवणस्य वानुवादः।"कृष्णलंश्रये"दिति शाखान्तरवाक्यं वा। अत एव दशमे द्वितीये पादे"कृष्णलेष्वर्थलोपादपाक"--
1.त्यादिश्रु-रा.ग.ज.नं.सु. त्यादषुचक-क. 2.खड्गखेटधरे भूपे -उ. 3.रे-उ. 4.तिशु - उ.
सुस्यो-दद्यु-क्तात्तेः-पधा-थोत्तिः-सनम् ) शक्तिवादः पु - 141.
------------------------------------- --------- ---------
न च तत्रोपष्टम्भकपरमेव सुवर्णपदम् । अशक्यपरत्वे लक्षणाऽपत्तेः। तस्यापि शक्यत्वे नानार्थकत्वात् ॥
एतेन --
पीतिमा च गुरुत्वं च दाहे यत्र च रक्तता ।
तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन वार्यते ॥
अविच्छिन्नद्रवत्वं च वस्तु 1 यत्विह भासते ।
सुवर्णव्यवहारो ऽयं 2 यत्र शास्त्रे प्रवर्तते ॥
-- इत्यधिकरणे कृष्णलेष्ववयवनिकॢप्तादिकार्याभावादपाक इति प्राप्ते श्रवणवचना 4 पथानुपपत्या ऊष्मीकरणमात्ररूपः पाको ऽवश्यं कर्तत्व इति सिद्धान्तितमिति भावः। तत्रेति ॥ शरीरपरिमितत्वाद्युक्तिस्थल इत्यर्थः। उपष्टम्भके ऽपि सुवर्णपदस्य शक्तिर्नास्ति उतास्ति । आद्य आह- अशक्यपरत्व इति ॥ अन्त्य आह -- तस्यापि शक्यत्वेति ॥ नानार्थत्वेति ॥ तस्य 5 न्यायश्यानेकार्थत्वमितिन्यायेनान्याय्यत्वादिति भावः। एतेनेति ॥ सुवर्णे द्रव्यान्तराभावत्वकथनेनेत्यर्थः। निरस्तमित्यन्वयः। अत्र वस्तुनि पीतिमा गुरुत्वं च दाहनिमित्तरक्तता चोपलभ्यते तस्येत्यर्थः। तस्मिन् पीतिमाद्यधिकरणे कस्य सुवर्णत्वव्यवहारो मुख्यः कस्यामुख्य इत्यत आह-- अविच्छिन्नेति ॥ अवच्छिन्नद्रवत्वमिति बहुव्रीहिः। वस्तुविशेषणं दाह इत्यनुषङ्गः। शब्दसाम्यं सुवर्णशब्दसाम्यमुष्टम्भके ऽपि प्रवर्तते। मधुरशब्दः रसे मुख्यो ऽपि वीणाध्वनिर्मधुरः वेणुध्वनिर्मधुर इति यथा तथेत्यर्थः॥ दर्शितत्वादिति॥
1.वत्विह-रा.सु. 2.त-ज.नं.सु. 3.त्याद्य-उ. 4.न्यथा-उ. 5.वा न्यायैश्चा-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 142.
------------------------ ------------- ---------
वस्तुभेदे प्रसिद्धे ऽपि शब्दसाम्यं प्रवर्तते ।
रसस्वभावो मधुरो ध्वनिश्च मधुरो यथा ॥
इति लीलावत्युक्तं निरस्तम् । वस्तुभेदस्यैवासिद्धेः। पार्थिव एव शास्त्रीयव्यवहारस्य दर्शितत्वाच्च । संभवत्येकार्थत्वे नानार्थत्वायोगाच्च॥
किं च सिध्यतु दाहप्रतिबन्धकस्य द्रुतभागस्य तैजसत्वम् । तथापि स भाग आवश्यकवह्निगत एवास्तु । न तु 1 स्वर्णरजतताम्रादिरूपोपष्टम्भकभागगतः। गौरवात् ॥
यद्यपि द्रुततेजो ऽधिकरणीभूतव्यक्तिबहुत्वमधिकरणतावच्छेदकधर्मैक्यं चोभयत्र समम् ।
शरीरपरिमितत्वादितकथनेनेत्यर्थः। नानार्थत्वेति ॥ उपष्टम्भकस्याशक्यत्वेन लक्षणापत्य 2 शक्यत्वे ऽवश्यम्भाविनि नानार्थत्वापात इति भावः। आवश्यकेति॥ द्रवत्वार्थं वह्निसंयोगस्यापेक्षितत्वादित भावः। वह्निगत इति ॥ उपष्टम्भकपार्थिवसंबद्धो यो वह्निस्तद्गत इत्यर्थः। व्यक्तिमादाय गौरव 3 दवच्छेदकैक्येन लाघवस्यापि साम्यात् को ऽत्र पक्षे विशेष इत्याक्षिपति-- यत्यपीत्यादिना ॥ द्रुततेजोलक्षणभागस्याधिकरणीभूतव्यक्तयो यास्तासां बहुत्वमित्यर्थः। अधिकरणतेति ॥ द्रुततेजोभागाधिकरणेत्यर्थः। उभयत्रेति॥ द्रुतभागः वह्निगत इत पक्षे उपष्टम्भकगतपक्षे चेत्यर्थः। सममित्युक्तं व्यनक्ति-- उपष्टम्भकेति ॥ उपष्टम्भकसुवर्णरजतताम्रादिव्यक्तीनामिवेत्यर्थः।
1. स्वर्णपदं नास्ति- ज. 2. त्याश- उ. 3.ववद -उ.
सुस्यो-दद्यु-क्तात्तेः-पधा-थोत्तिः- सनम् ) शक्तिवादः पु - 143.
------------------------------------- --------- --------
उपष्टम्भकसुवर्णादिव्यक्तीनामिव वह्निव्यक्तीनामपि बहुत्वात् । बहुषु 1 वह्निषु वह्नत्वस्यैवोपष्टम्भकेषु सुवर्णादिष्वप्यधथिकरणतावच्छेदकस्य पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वस्यैकत्वात् । तथाप्युपष्टम्भके 2
ष्वधिकरणतावच्छेदक 3 मौपाधिकधर्मत्वाद्गुरु वह्नत्वं तु जातित्वाल्लघु। वह्निगतस्यापि तस्योपष्टम्भकसंयुक्तत्वात्तत्र रूप 4 परावृत्ति 5 प्रतिबन्धकता च युक्ता । न चाविनि 6 र्भागवर्तिन 7 एव संयोग प्रतिबन्धकः।
तज्जन्यतया 8 रजतादावपि रजतादिपदवाच्यतया द्रुतभागस्य तेजस्त्वोपकगमात् रजतादोरप्युपादानम् । अन्यथा तत्रेवात्राप्युपष्टभ्यभागान्तरं विनोपष्टम्भकद्रवत्वादिनैव पूर्वोक्तदिशोपपत्तौ तत्संयुक्तद्रव्यान्तरकल्पनाभावप्रसङ्गादिति भावः॥ वह्नीति ॥ उपष्टम्भकसंबद्धसुवर्णादिपदवाच्यवह्निव्यक्तीनामित्यर्थः॥ वह्निष्विति ॥ उपष्टम्भकसंबद्धद्रुततेजोधिकरणवह्निव्यक्तिष्वित्यर्थः। अवच्छेदकलाघवेविशेष इतिसमाधत्ते-- तथापीति ॥ उपष्टम्भकेष्विति ॥ उपष्टम्भकत्वेनत्वदङ्गीकृतेषु सुवर्णादिपतवाच्यद्रुततेजोभागाधिकरणेष्वित्यर्थः॥
1.बहुष्विति नास्ति-रा.क.ग.ज.नं.सु. 2. षु सुवर्णादिष्वपि अधि-रा.सु. 3.कं सोपा-नं. 4.पाप- क.ग.नं. 5.हेतुता च युक्ता- रा.ग.नं.सु. 6.निभाग -ग.नं. 7.नैव- सु. 8.तुल्यन्यायतया -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 144.
----------------------- ----------- ---------
जलसं 1 बन्धेन जलमध्यस्थपटादौ रूप 2 परावृत्तिप्रतिबन्धकदर्शनात् । वह्नौ तादृशभागस्यानुपलब्धिबाधस्तूपष्टम्भके ऽपि समः। वह्निगतत्वे तत्संब 3 द्धपटादिरूपस्यापि प्रतिबन्धः स्यादिति चोद्यं स्वभावादुपष्टम्भकस्यैव रूपं प्रतिबध्नातीति समाधानं चोपष्टम्भकगतत्वे च समम् ॥
किञ्चास्तूपष्टम्भकाविनिर् 4 भावगवर्त्येव स भागः। तथापि तस्य सुवर्णत्वादिजातिमत्वे न मानम् । लोकसिद्धझसुवर्णरजतादौ विजातीयरूप 5 प्रतिबन्धकत्वेन लिध्यतस्तस्य नानाजातीयत्वे गौरवादेकजातीयत्वेनैव सिद्धेः।
तत्र हेतूनाह-- जलेति ॥ 6 उपष्टम्भकेति॥ उपष्टम्भकगत एव तादृशो द्रुतभाग इत्यत्रापि
पूर्वोक्तदिशानुपलम्भबाध एवेत्यर्थः ॥
नन्वस्त्वे 7 तावता न सुवर्णस्य पार्थिवत्वं भवदजभिमतं प्राप्तमिति चेन्न। परमतासिद्धेरेवेभालषितत्वादिति भावः ॥
ननु द्रुतत्वमुपष्टम्भकस्थमेवोपलभ्यत इति तद्द्रुत एव कश्चिद्भागः कल्प्यत इत्यत आह -- किं चास्त्विति॥ न मानमिति पदविभागः। नानेति ॥ सुवर्णरजतताम्रादिजीतीयत्व इत्यर्थः॥
प्रागुक्तं सर्वं बुद्ध्यारोहायोपसंहारव्याजेन दर्शयति -- तस्मादिति ॥
1.योगेन-ग. 2. परावृत्तीतिनास्ति-रा.क.ग.ज.नं.सु. 3.न्धघटा-रा. द्वध-सु. 4.निभाग-ग.नं. 5.तस्येत्यारभ्य एतदन्तंनास्ति-रा.सु. 6.तर्हि प्रागुक्तानुपलब्धिबाधः कुतो नेत्यत आह-- वह्नाविति॥ तादृशेति ॥ पूर्वरूपपरावृत्तिहेतुभूतभागस्येत्यर्थः। इत्यधिकम् -उ. 7. वं ता -उ.
सुस्य-दद्यु-क्तात्तेः-पधा-थोत्ति-सनम्) शक्तिवादः पु - 145.
--------------------------------- ----------- --------
तस्माल्लोकसिद्धसुवर्ण 1 रूपपरावृत्तिप्रतिबन्धस्य कॢप्तेनावश्यकेन भोजकादृष्टेनैव वा द्रवत्वस्य प्रतिबन्धकत्वे ऽपि कॢप्तेन समानाधिकरणद्रवत्वेनैव वा व्यधिकरणस्य 2 द्रवत्वस्य प्रतिबन्धकत्वेपि द्रवत्वाधिकरणान्तरस्य कॢप्तेन पार्थिवत्वेनैव वा तैजसत्वे ऽपि लाघवात्तस्य दाहकवह्निगतत्वेनैव वोपष्टम्भकसुवर्णाद्यवि 3 निर्भागवर्तित्वे ऽपि तस्यासुवर्णत्वेनैव वोपपत्तेर्न सुवर्णस्य तैजसत्वसिद्धिः ॥
सुवर्णस्योदयनाद्युक्तार्थापत्तेः पञ्चधान्यथो 1 पपत्तिसमर्थनम्
---------------------------------------------------------------------------तस्य विवरणं लोकेत्यादिनोपपत्तेरित्यन्तेन । किं चास्तु 5 द्रवद्रव्यत्वमित्यादिनोक्त 6 माह-- द्रवत्वस्येति ॥ किञ्चास्तु द्रुतमित्यादिनोक्तमाह-- व्यधिकरणस्येति ॥ 7 किं चास्त्वित्यादिनोक्तमाह-- उपष्टम्भकेति॥ सुवर्णस्योदयनाद्युक्तार्थपत्तेः पञ्चधा 8 न्यथोपपत्तिसमर्थनम्
1.नवेति नास्ति--नं.रा.ग.ज. 2.कत्वाभि-रा.ग. 3.ऽतवऽ इत्यधिकम्-ग.
4.भागन्तरस्येति नास्ति--रा. 5.हणे--नं.क.ज. हणात्-रा. 6.प्रेतसुवर्णस्यानुपलब्धि -रा.ग.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 132.
------------------------ -------------- ----------
अथ सुवर्णस्योदयनाद्युक्तार्थापत्तेः पञ्चधान्यथोपपत्तिसमर्थनम्
यदपि मणौ लीलावत्यु 1 क्तं 2 मतमुक्तमत्यन्ताग्निसंयोगे 3 नानुविच्छमानद्रवत्वाधिकरणं रूपवत् बहिरिन्द्रियप्रत्यक्षद्रव्यत्वात्, पृथिव्यादित्रयान्तर्गतं च रूपत्वात्, तत्रापि न जलम् पूर्वोक्तहेतुद्वयात्, नापि पार्थिवम् असति द्रवद्रव्यसंबन्धे ऽत्यन्ताग्निसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात्,
अथ सुवर्णस्य तैजसत्वे मण्याद्युक्तप्रकारद्वयभङ्गः
मतमुक्तमिति॥ नवीनास्त्वित्यादिनोक्तमित्यर्थः। तदर्थं निष्कृष्यानुवदति -- अत्यन्तेति॥ अधिकरणमित्यन्तं पक्षः । सुवर्णरजतताम्रादिकं विशेष्यं ध्येयम्। रूपवदिति साध्यम्। आश्रयासिद्धिनिरासाय सत्यन्तम् । जीवात्मनि गगने रूपादौ चाव्यभिचाराय --बहिरिन्द्रेयति प्रत्येक्षेति द्रव्यत्वादिति च हेतावुक्तिः॥ अस्मिन्नेव पक्षनिर्देशे साध्यहेत्वन्तरे आह-- पृथिव्यादीति ॥ रूपित्वहेतोरसिद्धिनिरासाय पूर्वप्रयोगः। तत्रापीति॥ पृथिव्यादित्रयान्तर्गतत्वेपीत्यर्थः। पूर्वोक्तेति॥ नैमित्तिकद्रवत्ववत्वात्, स्नेहशून्यत्वाच्च, स्नेहवत्वे तदधीनसंग्रहप्रसङ्गादिति पूर्वभङ्गोक्तहेतुद्वयादित्यर्थः। लाक्षावदिति भावः। नापि पार्थिवमिति॥
उक्तरूपद्रवत्वाधिकरणं वस्त्वित्यनुषङ्गः। अत्रा 4 सति द्रवद्रव्यसंबन्ध इति पक्षो
विशेषणीयः। तेन 5 कथ्यमानजलमध्य--
1.त्याद्युक्तं-रा. 2.मतमुक्तमिति नास्ति-क.ज. 3.गे सत्य-ग. 4.त्रसति-नं. 5.क्वथ्यमाजनजलमध्यस्थघृतादौ न बाधः इत्यधिकम् -मु.
सुस्य-तैत्वे-मक्त-प्रद्व-यङ्गः)शक्तिवादःपु - 147.
जलवदिति परिशेषात्तेजस्त्वसिद्धिरिति॥ तन्न। सुवर्णे द्रुतद्रुततरत्वादेः क्रमशः प्रतीत्या द्रवत्वानुच्छेदस्यासिद्धेः॥
न च द्रवत्वप्रागभावासमानाधिकरणध्वंसाप्रतियोगिद्रवत्वाधिकरणत्वं हेतुः, स च नासिद्ध इति वाच्यम् । प्रबलान 1 लसंयोगेन द्रव्यस्य नष्टतया द्रवत्वध्वंसस्य द्रवत्वप्रागभावसमानाधिकरणत्वेन 2 हेत्वसिद्धेः॥
अथ सुवर्णद्रवत्वमाश्रयनाशान्नश्यति न त्वग्निसंयोगात् ।
-स्थ 3 घटादावव्यभिचाराय हेतावसति द्रवद्रव्यसम्बन्ध इत्युक्तिः। असिद्धिनिरासायात्यन्ताग्निसंयोगे ऽपीत्युक्तिः। अप्रयोजकत्वनिरासायानुच्छिद्यमानेति। यद्वा लाक्षा 4 घृतादावव्यभिचारायानुच्छिद्यमानेत्युक्तिः॥
असिद्ध्युद्धारं मण्युक्तमाशङ्क्य निराह -- न च द्रवत्वेति ॥ एकस्य द्रवत्वस्य नाशे पूर्वपूर्वस्मादुत्कृष्टोत्कृष्टतरोत्कृष्टतमद्रवत्वप्रागभावसमानाधिकरणत्वेन तदसमानाधिकरण 5 ध्वंसप्रतियोगित्वाद्द्रवत्वानां तादृशद्रवत्वाधिकरणत्वं नासिद्धमित्यर्थः। नष्टतयेति ॥ पीलुपाकप्रक्रियावयवक्रियया तत्संयोगनाशेन परमाणुद्रव्यनाशे सति पुनर्भोजकादृष्टेन परमाणुक्रियया तत्संयोगद्वारा द्रव्यान्तराणामुत्पत्तेस्तत्रोपगमादिति भावः॥
मण्युक्तमेवासिद्धिशून्यहेत्वन्तरमाशङ्कते -- अथेत्यादिना ॥
1.लाग्निसं-सु. 2.त्वासिद्ध्या हे-रा.सु. 3.घृता-मु. 4.क्षाद्य-जादौ -उ. 5.घटादि इत्यधिकम् -मु.
तथात्वे घृत 1 इव द्रवत्वान्तरं नोत्पद्येत । एवं चाग्निसंयोगे सत्यपि तद्धेतुकनाशाप्रतियोगिद्रवत्वाधिकरणत्वं हेतुः स च नासिद्ध इति चेन्न 2 । तथाप्युपष्टम्भके पीते पार्थिवे उक्तरूपस्य द्रवत्वानुच्छेदस्य दर्शनेन 3 व्यभिचारात्॥
ननु -- पार्थिवद्र 4 वत्व 5 त्वमेवा 6 ग्निसंयोगनाश्यत्वे तन्त्रम् । न तु जन्यद्रवत्व 7 त्वम् । सुवर्णादिद्रवत्वेतिप्रसक्तेः। नापि घृतलाक्षादिद्रवत्व 8 म्। अननुगमात् । एवं च पीते पार्थिवे द्रवत्वाङ्गीकारे तस्योच्छदापत्या पीतं 9
द्रुतमिति प्रतीतिर्भ्रान्तिरिति चेन्न।
अग्निसंयोग इति ॥ आश्रयानाशाद्यत्र घृते द्रवत्वा 10 नाशस्तत्राव्यभिचाराय सत्यन्तम् । तथापीति॥ असिद्ध्यभावे ऽपीत्यर्थः। पार्थिवत्वोपपादनाय 11 पीतेत्युक्तिः। साध्याभावोपपादनाय पार्थिव इत्युक्तिः। तत्रोक्तरूपहेतोरेवाभावान्न व्यभिचार इति भावेन बाधोक्तिपूर्वं पीतं द्रुतमिति बुद्धेर्भ्रमत्वमाशङ्कते-- नन्विति॥ द्रवत्वस्याग्निसंयोगसाश्यत्वेन द्रवत्वमात्रं तन्त्रम् । जलगतद्रवत्वे व्यभिचारात् । किं तु पार्थिवद्रव 12 वा लाक्षाद्रवत्वं घृतद्रवत्वमित्यादिकं वाच्यम् । तत्राद्यमेव युक्तं न त्वन्यदिति निराह-- पार्थिवेति॥ अस्तु किं तत इत्यत आह-- एवं चेति ॥
1.घट इव-क.ज.नं. 2.न इति नास्ति-रा.सु. 3.तत्रेत्यधिकम्-रा.ग.नं.सु. 4.वत्वमवाग्नि-क. 5.त्वमे-रा.ज.नं.सु. 6.त्यन्ता-रा.सु. 7.वत्वं-रा.क.ज.सु. जन्यपदमपि नास्ति-नं. 8.त्ववम्-ग. 9.वद्द्रुत-नं.
10 घृतत्वाना-उ. 11.ऽपार्थिवेत्युक्तिःऽ इत्यन्तं नास्ति- उ. 12. वत्ववत्वं वा - उ.
सुस्य-तौत्वे-मक्त-प्रद्व-यङ्गः) शक्तिवादः पु - 149.
--------------------------- --------- ----------
अनुभवसिद्धं 1 पीते द्रवत्वमपलप्य तदसिद्ध 2 स्य त्वदभिमततेजसि द्रवत्वस्य स्वीकारे दृष्टहान्यदृष्टकल्पनाप्रसङ्गात् ॥
अन्यथा -- पार्थिवद्रवत्वस्याग्निसंयोगनाश्यतायां तन्त्रत्वे सिद्धे पीते पार्थिवे ऽनुच्छिद्यमानद्रवत्वा 3 भावसिद्धिः तत्सिद्धौ चातिव्याप्त्यभावेन पार्थिवद्रवत्व 4 त्वस्याग्निसंयोगनाश्यत्वे तन्त्रत्वसिद्धिरित्यन्योन्याश्रयः स्यात् । दृष्टानुसारिणी हि कल्पना ॥
किञ्च पीतभागो न द्रुतेश्चेत्तत्र काठिन्यधीः स्यात् ॥
त्वदभिमत इति॥ उपष्टम्भत्वेनाङ्गीकृत इत्यर्थः। अन्यथेति॥ अनुभवसिद्धस्यापि पार्थिवद्रवत्वस्य बाधकेनापलाप पाधकेनापलाप इत्यर्थः॥
ननु लाक्षादिद्रवत्वं तन्त्रमित्युक्तावननुगमः प्राप्नोतीत्यतः प्रामाणिकत्वान्न दोष इति
भावेनाह-- दृष्टेति॥ पीतपार्थिवभागे द्रुतत्वस्य दृष्टत्वेन तदनुसारेण पार्थिवद्रव 5 त्वादन्यदेव किं चिदग्निसंयोगनाश्यतायां प्रयोजकं कल्प्यमित्यर्थः॥
ननु दृष्टिर्भ्रान्तिरित्युक्तमिति चेन्न। तस्या भ्रमत्वे तद्विपरीत प्रत्ययरूपबाधावतारः स्यादिति भावेनाह-- किं चेति॥ यदा 6 द्रवत्वा 7 नुच्छेदरूपहेतोरभावान्नोपष्टम्भकपार्थिवभागे व्यभिचारस्तदा न केवलं दृष्टहान्याद्यापात 8 इति भावेनाह-- किं चेति॥ काठिण्यबुद्ध्यभावो ऽन्यनिमित्तक एव न तु तदभावहेतुक इति भावेन मण्युक्तमेवाङ्क्य निराह -- न चेति।
1.द्धे-नं. 2.द्धे-नं. 3.त्वाधिकरणत्वासि-रा.सु. 4.त्वाधिकरणत्वाभाव-नं. 4.त्वस्या-रा.क.ज.नं.सु. 5.वत्वात्वाद-उ. 6.यद्वाद्र-नं. 7.द्रवत्वेति नास्ति-उ. 8.किन्त्वनिष्टान्तरञ्चापद्यत इति भा -- मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 150.
------------------------ ------------- --------
न च जलस्थमषीक्षोदादाविव प्रशिथिलावयवसंयोग 1 वत्वान्न तद्धीरिति वाच्यम् । एवं हि घृतादावपि द्रवत्वं न सिध्येत् । त्व 2 न्मते घृते स्नेहप्रतीत्यर्थघ 3 मावश्यकाप्यद्रव्यसंयोगकृतावयवसमयोगाशैथिल्येनैव काठिण्याप्रतीतिरिति सुवचत्वात्। एवं जले ऽपि सांसिद्धिकद्रवत्वं न सिध्येत्। आवश्यकेनावयवसंयोगशैथिल्यवशेषणैव द्रवत्वधीरिति सुवचत्वात्॥
अन्यथा पार्थिवान्तरे द्रवत्वानुच्छेदादर्शनात् सुवर्णमपार्थिवं चेत्तेजोन्तरे द्रवत्वादर्शनात्सुवर्णं 4 तैजसं न स्यात्। तेजो विशेषस्वभावात् तदुपपत्तौ च पार्थिवविशेषस्वभावादिदमप्युपपद्यताम्। कृतं पीतिमगुरुत्वाश्रयातिरिक्तभागान्तरं कल्पयित्वा तत्र स्वभावविशेषकल्पनेन पीतत्वप्रतीतेर्भ्रमत्वकल्पनेन च॥
5 अपां नेत्राञ्जनन्यायमते घृतस्य पार्थिवत्वेन स्वतः स्नेहाभावादाह -- 6 त्वन्मत इति॥
ननु काठिण्यबुद्धेरभावे ऽपि लाक्षादौ पार्थिवान्तरे ऽत्यन्ताग्निसंयोगे द्रवत्वानुच्छेदादर्शनादिह च तद्दर्शनात्स्वर्णादौ प्रतीतद्रवत्वं नोपष्टम्भकपार्थिवगतं
किं तु तदुपष्टभ्यभागान्तरगतमिति कल्पनीयः। अव एव मणौ घृतादौ द्रवत्वे बाधकाभावादित्युक्तमित्यत आह-- अन्यथेति॥ तस्यैव विवरणं चेदित्यन्तम्॥ इदमपीति॥ द्रवत्वानुच्छेददर्शनमपीत्यर्थः।
1.गत्वा-रा.ग.सु. गवत्वनैव-नं. 2.तन्म -रा.सुर्. 3.थे आ-रा.सु. 4.अतैजसं किं न स्यात् -रा.ग.सु. 5.मषीनेत्राञ्जनम्। न्या-उ. 6.तन्म -नं.उ.
सुस्व-तैत्वे-मक्त-प्रद्व-यङ्गः) शक्तिवादः पु - 151.
-------------------------- ------------ -----------
अन्ये तु-- अत्यन्ताग्निसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणं पीतं पार्थिवं द्रवत्वोच्छेदप्रतिबन्धकद्रवद्रव्यसंयुक्तं अत्यन्तानलसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणपार्थिवत्वात्क्वा 1 थ्यमानजलमध्यस्थ 2 घृतवदित्यनुमानेन 3 द्रवद्रव्यं सिध्यज्जलत्वे पृथिवीत्वे चोक्ततर्कबाधात्तैजसं सिध्यति॥
कृतं अलमित्यर्थः। कल्पनेन कल्पनेन चेत्याभ्यामन्वयः। कल्पनाद्वयं व्यर्थमिति फलितोर्ऽथः॥
एवं मणावुक्तं लीलावत्यभिमतमुपष्टम्भकभागे द्रवत्वं नास्त्येवेत्युपेत्य प्रवृत्तं सुवर्णस्यापार्थिवत्वसाधकहेतुमसिद्धिव्यभिचराभ्यां निरस्योपष्टम्भके द्रवत्वमुपेत्य प्रवृत्तमन्येत्वित्यादिना मण्युक्तमेवान्यदपि मतत्रयं तावदनूद्य निराह-- अन्यत्वित्यादिना ॥ एतदपि 4 निरस्तमित्यनेन॥ अन्येत्वित्यस्याहुरित्यनेनान्वयः। एतन्मतं 5 पार्थिवगतं भवत्येव पीत 6 द्रुतमिति प्रतीतेर्दुरपह्ववत्वात्, प्रागुक्तबाधस्य चोक्ततदिशाप्रयोजकत्वेन काठिण्यप्रतीत्यापातेन च द्रवत्वप्रतीतेर्भ्रमत्वायोगाच्चानुच्छिद्यमानद्रवत्वाधिकरणं पीतं पार्थिवमिति पक्षनिर्देशः। उपष्टम्भकत्वेनोपगतमित्यरथः। जले बाधनिरासाय पार्थिमित्युक्तिः। तावत्युक्ते 7 बाधः। अतः पीतमिति॥ घटादावबाधाय द्रवत्वाधिकरणमिति॥ लाक्षादावबाधायानुच्छिद्यमानेति।
1.क्वथ-क. क्कथ्य-ग.ज.नं.सु. 2.घटवत्-क.ज. 3.द्रुतेत्यधिकम्-रा.क.सु.
द्रुतद्रव्यं-ग.ज. 4.प्रागेवेत्यधिकम्-मु, 5.ते द्रवत्वं -उ.मु. 6.तं-उ. 7.घृतादावित्यधिकम् - उ.मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 152.
------------------------ ------------ --------
यद्वा प्रतिबन्धकतया सिद्धं द्रुतद्रव्यं तैजसं असति द्रवद्रव्यसंबन्धे ऽत्यन्ताग्निसंयोगेनानुच्छिद्यमानानित्यद्रवत्वाधिकरणत्वात् यन्नैवं यथा घृतमिति व्यतिरेक्यन्तरात्तैजसत्वसिद्धिः॥
न चा 1 त्रासाधारण्यम् । तस्य विपक्षे बाधकादर्शनदशायामेव दोषत्वात्। प्रकते च पृथिवीत्वादौ बाधकस्योक्तत्वात् ॥
आश्रयसिद्धनिरासायात्यन्ताग्निसंयो 2 गेति। अप्रतिबं 3 न्धाग्नीत्यर्थः। जलपरमाणुसंयोगेनार्थान्तर वारणाय साध्ये प्रतिबन्धकान्तं विशेषणम् । 4 स्वावयवावयवसंयोगेनार्थान्तरवारणाय प्रतिबन्धकान्तम् । हेता 5 वव्यभिचाराय पार्थिवत्वादित्युक्तिः। घटादावव्यभिचाराय द्रवत्वाधिकरणेति। लाक्षादावव्यभिचारायानुच्छिद्यमानेति। असिद्धिनिरासायात्यन्तेत्यादि। 6 उक्ततर्केति॥ जलत्वे नैमित्तकद्रवत्वं न स्यात्। स्नेहवत्वं न स्यात्। पृथिवीत्वे च लाक्षादाविव द्रवत्वोच्छेदः स्यात् इति तर्केत्यर्थः॥
पर्यवसानगत्या तैजसत्वं प्रसाध्य साक्षादेव तैजसत्वपथवेत्यादिना मण्युक्तप्रकारेणान्वाह-- यद्वेति॥ जलपरमाण्वादावव्यभिचाराय हेतावनित्येति द्रवत्वविशेषणम्। लाक्षादावव्यभिचारायानुच्छिद्यमानेति। असिद्धिनिरासायात्यन्तेत्याति। क्कथ्यमानजलस्थघृतादावव्यभिचाराय 7 सतीत्यादि ॥ असाधारण्यमिति॥ तेजोन्तरे सत्यपि तैजसत्वे हेतोरभावादिति भावः। असाधारण्यस्य दोषत्वे संशय सत्प्रतिपक्षो 8 वा द्वारम्। स च विशेषादर्शनस्थले संभवति न त्विहेत्याह-- तस्येति॥
1.अत्रेति नास्ति-क.नं. च तत्रा-ग. 2.गे पीति-उ.मु. 3.द्धा-उ. 4.ऽयद्वाऽ इत्यधिकं-उ.मु. 5.तौ पयस्यव्य-उ. 6.स्वरूपोक्तिर् वा । इत्यधिकम्- मु. 7.ऽयासऽ इति शोधितं-उ.मु. 8.क्षवद्वाच्यः - उ.
सुस्य-तैत्वे-मक्त-प्रद्व-यङ्गः) शक्तिवादः पु - 153.
-------------------------- ----------- ---------
यद्वा द्रुततेजस्त्वमेव साध्यम् । इदं च साध्यं विशिष्टं 1 क्वापि न प्रसिद्धमिति नासाधारण्यम् । न चैवमप्रसिद्धविशेषणत्वम्। तेजस्त्वं नाद्रवरूपवन्मात्रवृत्ति द्रव्यत्वसाक्षाव्द्याप्यजातित्वात् द्रुतवृत्ति वा रूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात् जलत्ववदिति सामान्यतो द्रुततेजस्मिद्धिरित्याहुः॥
बाधकस्येति॥ साक्षादाविव द्रवत्वोच्छेदः स्यादिकत्यादिबाधकस्येत्यर्थः॥
ननु द्रुततेजस्त्वमेव साध्यम्। तथा च 2 पक्षाभावान्न 3 साधारण्यमपि। किं तद्दोषतानिरासाय विपक्षे बाधकतर्कानुसारणायासेनेत्यतो ऽन्यत्वेतिमण्युक्तमेव प्रकारान्तरमाह-- यद्वेति॥ प्रतिबन्धकतया सिद्धद्रुतद्रव्यस्येत्यनुषङ्गः। नाद्रवेति॥ अद्रवं यद्रूपवत्तन्मात्रावृत्ति रूपवद्दृतवृत्तीति फलितोर्थः। घटत्वादावव्यभिचाराय हेतौ साक्षाव्द्याप्येत्युक्तिः। तस्य द्रव्य 4 त्वव्याप्यपृथिवीत्वव्याप्यत्वात्। अत्म 5 नो ऽन्यतरत्वादावव्यभिचाराय जातिपदम् । मणौ रूप 6 वृत्तिद्रव्यत्वसाक्षाद्व्याप्याप्येत्युक्तावप्येति 7 हेत्वनुबादस्यु रूपवद्दृतवृत्तीतिपर्यवसितसाध्ये मनस्त्वे व्यभिचारेण तन्निरासाय रूपवत्पदसार्थक्ये ऽपि यथाश्रुतसाध्ये व्यभिचाराभावेन व्यर्थत्वमभिप्रेत्येति॥ ध्येयम्। रूपवदित्यंशस्य साध्ये गुरुत्वादाह -- द्रुतवृत्तित्वेति॥ मनस्त्वादावव्यभिचाराय हेतौ 8 रूपवृत्तीति द्रव्यविशेषणम् । घट 9 सोरालोकान्यतरत्वादावव्यभिचाराय जातिपदम्। प्रागेव पूर्वभङ्गः एवेत्यर्थः।
1ष्यक्वा-रा.नं.सु. 2.सप-उ. 3.नासा-उ. 4.वत्व-उ. 5.त्म मनो-उ. 6.वद्दृ-उ. 7.प्येहं हे-उ. 8.ऽवद्दृत्तीति द्रव्यत्वविशे इत्यस्ति-मु. 9.तेजोन्य-मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 154.
------------------------ ------------ -----------
एतदपि प्रागेव निरस्तम् । करकादाविवादृष्टविशेषस्यैव प्रतिबन्धकत्वोपपत्तेरनुपलब्धिबाधितभागान्तरकल्पनायोगात्।
तैजसत्वसाधकव्यतिरेकिणि तु पक्ष एवासिद्धः। अव एव तर्को ऽपि निरालम्बनः। यच्चाप्रसिद्धविशेषणत्वनिरासायानुमानद्वयमुक्तम् । तदपि 1 न । तेजस्त्वं नागुरुरूपवन्मात्रवृत्ति द्रव्यत्वसाक्षाव्द्याप्यजातित्वात् गुरुवृत्ति वा रूपवद्दृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात् जलत्ववदित्यादिना तेजस्त्वस्य गुरुवृत्तित्वस्या 2 प्यापत्याप्रयोजकत्वात्॥
तद्व्यनक्ति-- 3 कारणादाविति॥ एतदपि यग्यानुपलब्धिबाधेनान्यथैवोपपत्तिपञ्चकेन च प्रागेव निरस्तमिति क्वचित्पाठः। एक्ष एवासिद्ध इति॥सुवर्णे द्रुतद्रुततरत्वादेः क्रमशः प्रतीत्या द्रवत्वानुच्छदस्यासिद्धेरित्युक्तदिशानुच्छिद्यमान 4 द्रवत्वाधिकरणस्यासिद्ध्या पक्ष एवासिद्धः। किं दोषान्तरेणेत्यर्थःष। अत एवा5 नुच्छिद्यमानद्रवत्वाधिकरणत्वासिद्ध्या पक्षासिद्धेरेव। द्रुतद्रव्यसंयुक्तत्वरूपसाध्यस्यासिद्धत्वात् यदि तादृशद्रुतद्रव्यं पार्थिवं स्याद्दृतत्वोच्छेदः स्यात् इति तर्को निरालम्बन इत्यर्थः। नागुरुरूपवन्मात्रवृत्तीति॥ गुरुत्वहीनरूपवन्मात्रवृत्ति नेत्यर्थः॥
अथ वा घटे 6 द्रुतत्वोच्छदसमय 7 समानाधिकरणद्रवत्व 8 सामग्रीसमवधानं नास्ति --
1.न इति नास्ति-क.रा.ज.नं.सु. 2.प्युपपत्या-रा.सु. 3.करकादा-उ. 4.ऽसुवर्णेऽ इत्यादि नास्ति-मु. 5.अनुच्छिद्यमानेति नास्ति-मु. 6.टद्रु-उ. घृते-मु. 7.ये स -उ. 8.त्वे सा-उ.
सुस्य-तैत्व-मक्त-प्रद्व-यङ्गः) शक्तिवादः पु - 155.
-------------------------- --------- --------
एतेन सुवर्णं तैजसं समानाधिकरमद्रवत्वसामग्र्यसमवहिताग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तिद्रव 1 त्वत्वव्याप्यजातिमद्द्रवत्ववत्वात् व्यतिरेकेण घृतवत्। सवुर्णारम्भकाः परमाणवो न पार्थिवाः अत्यन्ताग्नि संयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात्। जलपरमाणुवत्। तैजसा वा उक्तहेतोः। व्यतिरेणेण घृतपरमाणुवदित्यादीन्यपि
निरस्तानि ।
-- सुवर्णं 2 त्वमस्तीत्यादिना मण्युक्तान्येव प्रयोगान्तराण्यनूद्य निराह-- एतेनेति॥ सुवर्णमित्या 3 दिनोपष्टम्भद्रुत भागो गृह्यते --समानेति॥ समानाधिकरणं यद्द्रवत्वं तत्सामग्र्यसमवहितो तदवृत्तिर्जातिः सुवर्णद्रवत्व एवेति नासिद्धिः। अत्र नञ्द्वयाप्रवेशेन तादृशसमामग्रीसमवहिताग्निसंयोगजन्यध्वंसप्रतियोगिवृत्तीत्युक्तावग्निसंयोगप्रयोज्यनैमित्तिकद्रवत्वमात्रनिष्ठजातिविशेषमादाय घृते व्यभिचारापातात्। इत्यादीनीत्यादिपदेन सुवर्णमपार्थिवारब्धं तैजसारब्धं वा अपार्थिवं तैसजं वा अत्यन्ताग्नसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणपरमाण्वारब्धत्वादित्यादिसंग्रहः। पीत इति॥ उपष्टम्भकपार्थिवभाग इत्यर्थः। तत्रापि द्रवत्वस्योपपादितत्वादिति भावः। तेजस्त्वेन विनापि हेतूनामुपपत्तेः प्रागुक्तरीत्यासंभवादाह-- अप्रयोजकत्वाच्चेति॥
1.व्यत्वव्या-क.ज.सु. वत्वव्या--ग.नर्ं. 2.णे त्वस्ती-उ. 3.त्यने-नो-उ. 4.यो ध्वंसः तत्प्रतियोग्यवृत्तिर्या द्रव्यत्वव्याप्यजातिस्तद्युक्तद्रवत्ववत्वादित्यर्थः। सुवर्णे अग्निसंयोगेन द्रवत्वव्यक्तिपरंपराया जायमानत्वेन तत्राग्निसंयोगस्य समानाधिकरणद्रवत्वसामग्रीसमवहितत्वात्तादृशसामग्र्यसमवहिताग्निसंयोगजन्य -इत्यधिकम् -मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 156.
------------------------ ------------- -------
पीते व्यभिचारादप्रयोजकत्वाच्च 1 ॥
सुवर्णस्य तैजसत्वे मण्या 2 द्युक्तप्रकारद्वयभङ्गः
प्रकारद्वयेति॥ उपष्टम्भके 6 द्रवत्ववनास्तित्वास्तित्वप्रकारद्वयभङ्ग इत्यर्थः॥
सुवर्णस्य मण्याद्युक्तप्रकारद्वयभङ्गः
अथ सुवर्णस्य पार्थिवत्वसमर्थनम्
अन्यस्त्वाह--
सुवर्णं 3 द्रव्यान्तरमेव । तथा हि द्रवत्वाधिकरणं न तेजः पीतत्वात्। न च पीतत्वात्पार्थिवमेवास्त्विति वाच्यम्। पृथिव्यां 4 शुक्लरूपवत्वे ऽपि शुक्लरूपस्य जलस्य 5 सांसिद्धिकद्रवत्वादिनेव सुवर्णस्य पीतत्वे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पृथिवी--
अथ सुवर्णस्य पार्थिवत्वसमर्थनम्
द्रव्यान्तरमेवेति॥ नवद्रव्यातिरिक्तमित्यर्थः। पृथिव्या इत्यादेरयमर्थः। 7 यथा पृथिवीजलयोर्द्वयोः शुक्लरूपत्वे 8 नाविशेषेपि --
1.ऽसुवर्णस्य द्रव्यान्तरत्वमेव निराकरणम्ऽ इत्यधिकम्-रा.सु. 2.ण्युक्त-क. 3.तु इत्यधिकम् -मु.रा.नं.ग. 5.संसि-सुरा. 6.प्रकराद्वयं नास्तीत्येतत्प्रकार -उ. 7.यथा इति नास्ति-उ.नं. 8.त्वे यथा नैमि-उ.नं.
सुस्ये-पात्व-सनम्) शक्तवादः पु - 157.
------------------- ------ -----------
तो 1 वैलक्षण्यसंभावत् । न च पृथिवीजलान्यत्वे सति रूपवत्वात्तेजः। अप्रयोजकत्वात् । अन्यथा जलतेजोन्यत्वे सति स्पर्शवत्वेन वायुरिति पृथिवी स्यात्। न च पृथिव्येवास्तु धर्मिकल्पनातो धर्मकल्पना 2 या लघुत्वादिति वाच्यम् । द्रव्यान्तरत्वपक्षे ऽपि धर्मिणः सुवर्णस्य सिद्धत्वेनातिरिक्तत्वमात्रस्य कल्पनादिति॥
एतदपि प्रागेव निरस्तम् । द्रवत्वोच्छेदप्रतिबन्ध 3 कस्य करकादाविवादृष्टविशेषा 4 देवोपपत्यापीतस्य पृथिवीभेदायोगात् । अन्यथा करको 5 ऽपि द्रव्यान्तरं स्यात्॥
यदि च जलत्वव्याप्यधर्मदर्शनात्करको 6 जलं, तर्हि स्वर्णमपि पृथिवी 7 त्वव्याप्यपीतत्वदर्शनात्पृथिव्येवास्तु ।
-- नैमित्तिकसांसिद्धिकद्रवत्ववत्वभेदेन वैलक्षण्यं यथा पीतत्वाविशेषो ऽपि द्रवत्वोच्छित्यनुच्छित्तिभेदाद्वैलक्षण्यमिति प्रागुक्तमण्यादिमतं निराह-- नचेति॥
तेज इति ॥ सुवर्णमित्यनुकर्षः। एवं पृथिव्येवास्तु इत्यत्रापि । धर्मीति॥ द्रव्यान्तररूपधर्मिकल्पनापेक्षया कॢप्तपृथिवीत्वमेवोपादाया तस्यैव द्रवत्वानुच्छेदरूपधर्मकल्पनाया लघुत्वादित्यर्थः। इतिपदस्याहेति पूर्वेणान्वयः॥ प्रागेवेति॥ उदयनाद्युक्तभङ्गः एवेत्यर्थः॥ पृथिवीभेदेति॥ पृथिवीतो भेदेत्यर्थः। जलत्वव्याप्येति॥ शुक्लरूपवद्वृवत्वादिकमित्यर्थः।
1.वीवै-सु.रा.ग. 2.नाल-सु.रा. 3.न्धस्य-सु.रा.ग.ज. 4.षोपपत्या-सु.रा. 5.काद्यपि-सु.रा.ग.ग.ज. 6.का ज-ग.ज.क. 7.वी व्या-सु.रा.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 158.
------------------------- ----------- ----------
अन्यथा पीतत्वान्न तेज इत्यपि न युक्तम् । पीतत्वस्य तेजोत्वस्य तेजोन्यत्वेनेव पृथिवीत्वेनापि व्याप्तिग्रहात्॥
तस्मादुपष्टम्भकद्रव्यगतपीतरूपपरावृत्तिप्रतिबन्धकत्वेन द्रुततेजः सिद्धिरिति वा, उपष्टम्भके द्रवत्वानङ्गीकारेणानुच्छिद्यमानद्र 1 वत्वाधिकरणस्य द्रव्यान्तरस्यानुच्छिद्यमानद्रवत्वाधिकरणत्वादेव तै2 जसत्वसिद्धिरित वा, उपष्टम्भके द्रवत्वाङ्गीकारेण तदुच्छेदप्रतिबन्धकत्वेन द्रुततेजस्सिद्धरिति वेति सुवर्णस्य तेजसत्वे पक्षत्रयं सुवर्णं द्रव्यान्तरमिति 3 चतुर्थपक्षश्चायुक्त 4 इति सुवर्णं पार्थिवमेव ॥
अन्यथेति॥ पीतत्वस्य पृथिवीत्वाप्याप्यत्व इत्यर्थः 6 ॥
अत्र मणावुदयनोक्तं मतमित्यादिनोक्तभङ्गत्रयार्थं संक्षेपेण 7 दर्शयन्नुपसंहरति-- तस्मादिति॥ सर्वेष्वप्यपार्थिवत्वपक्षेषु दोषसद्भावात्साधकाभावाच्चेत्यर्थः। उदयनादिमतमाह-- उपष्टम्भक इति ॥ अन्ये त्वित्यादिनोक्तमतान्तरमाह-- उपष्टम्भके द्रवत्वेति॥ अन्यस्त्वाहेत्यादिनोक्तमाह-- सुवर्णमिति॥
प्रासङ्गिकमुपसंहृत्य पूर्वप्रकृतप्रमेयमुत्तरप्रसङ्गो 8 पक्षेपायोपसंहरति-- तस्माच्छक्तेरिति॥
1.ऽवत्वादेव तेजसत्वसिद्धिरितिवाऽ इत्यस्ति-सु. 2.तेजसत्वसि-नं.ज.
3.चतुर्थपदं नास्ति-सु.रा. 4.क्तम्-सु.रा. एतावान्प्रन्थः। प्रलुपः प्रतीयते-नं. मित्यर्थः। प्रागु-उ. 6.ऽअन्यथेतिऽ इत्यादि नास्ति-उ. 7.णानुवदन्नु-नं. 8.ङ्गाक्षेपा-नं. ङ्गापेक्षयो- उ.
अन्वि-सा-षट्कम्) शक्तिवादः पु - 159.
----------------- ---------- --------
तस्माच्छक्तिः पदार्थान्तरं चेत्सुवर्णमपि द्रव्यान्तरं स्यादिति प्रतिबन्द्या 1 असंभवादनन्तगुणान्विते विष्णौ वेदानां शक्तितात्पर्ये युक्ते इति॥
सुवर्णस्य पार्थिवत्वसमर्थनम्
वैदिकपदानां विष्णौ शक्तत्वाद्वेदानां शक्तितात्पर्येत्युक्तम् । यद्यपि तमोद्रव्यं सुवर्णं पार्थिवमिति च न मूलग्रन्थादौ कण्ठतः क्वाप्युक्तमथापि वास्तवनिरूपणमेतदितिध्येयम् ॥
सुवर्णपार्थिवत्व 2 समर्थनम्
अथ अन्विताभिधाने साधनषट्कम्
ननु कथमन्विते शक्तिः। पौनरूक्त्यादिदौषात्।
अथ अन्विताभिधाने साधनषट्कम्
एवं ननु स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेत्युपक्रम्य प्रकरणसप्तकेन शक्तिरस्तीति समर्थ्य प्रसङ्गातं तमसो द्रव्यत्वं सुवर्णस्य पार्थिवत्वं च प्रकरणपञ्चकेन समर्थ्येदानीमन्वये शक्तिरित्यर्थः प्रकरणसप्तकेन साधयितुकाम आक्षिपति-- नन्विति॥ शक्तिरिति॥ पदानामिति शेषः। पौनरुक्त्येति॥ गामानायेत्यादौ गोपदेन बोधितस्य गवानयनान्वय 3 यस्यानयपदेनापि बोधनात् पुनरुक्तत्वम्। आदिपेदनोत्तरभङ्गे शङ्किष्यमाणदशविधबाधकानां ग्रहः। सामान्यान्वये शक्तिर्न तु विशेष्यान्वय इति सिद्धान्त्याभिमतत्वात्तद्दृष्टान्तेनालभ्यत्वाच्छक्तकल्पनामयुक्तं चेति भावेन ---------------------------------------------------------------------------
1.न्द्याद्य -ज. न्धाद्य -क. 2.वादः-नं. वत्ववादः-उ. 3. न्वितस्या-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 160.
------------------------ ------------- ---------
पदार्थेषु शक्तैरेव पदैः पदार्थस्मृत्यवान्तरव्यापारैराकाङ्क्षादिसहकारिवशादन्वयविशेषवदन्वसामान्यस्यापि लाभेन तत्र शक्तिकल्पनायोगाच्च । अत एव न प्रमाणान्तरापत्तिः। शब्दस्यैवान्वये प्रमाणत्वात्। एतेन 1 तदन्वबोधजनकं 2 तत्राशक्तं चेति व्या 3 हतमिति निरस्तम्। न ह्यत्राशक्ततशब्देनाजनकत्वं विवक्षितम्। किन्त्वभिधारूपवृत्तिराहित्य 4 मात्रमिति चेत्॥
उच्यते। न तावदन्ये शक्तिवरेव नास्तीति युक्तम् । प्राथमिकव्युत्पत्तिहेतुनान्वितविषयके 5 ण --
- पदं करणं पदार्थस्मरणं व्यापारः आकाङ्क्षादिसहकारिवशात् स्मारितार्थान्वयानुभवः फलं इति मण्युक्तमाह-- पदार्थेष्विति॥ नन्वन्यत्र शक्तानां कथमशक्यान्वयबोधकत्वमित्यत उक्तं पदार्थे 6 त्यादि। बहुव्रीहिः। अन्वयविशेषवदन्वयविशेषस्यैव। लाभेन बोधसम्भवेत्यर्थः। तत्र सामान्यान्वये। अन्यथान्वयविशेषे ऽपि शक्तिकल्पनाप्रसङ्ग 7 इति भावः॥
नन्वयस्य पदशक्त्यविषयत्वे तद्बोधकं शब्दादन्यत्प्रमाणं स्यादित्यत आह-- अत एवेति॥ पदार्थमात्रशक्तपदप्रमाणकत्वादेवान्वयस्येत्यर्थः। तदेवाब-- शब्दस्यैवेति॥ दोषोस्तीत्येतन्निरसिष्यत इति भावेनाह-
न तावदिति ॥ प्राथमिकेति॥ प्रथमं तावद्दृद्धव्यवहार एव शक्तिग्रहहेतुः।
1.यद-सु.रा.नं. पदमन्व-ग. 2.तत्तत्रा-सु.रा. 3.घात इ-नं. 4.भान्नमिति नास्ति-सु.रा.ग. 5.कव्य-सु.रा. 6.ति बहुव्रीहिः-नं. 7.ऽइति भाव इति नास्ति-उ.
अ-न्वि-सा-षट्कम् ) शक्तिवादः पु - 161.
------------------- -------- ----------
व्यवहारेण सामान्यतो योग्येतरान्वित एव शक्तिग्रहात्। अनन्तरभाविनश्च
व्याकरणोपमानकोशाप्तवाक्यवाक्यशेषविवरणप्रसिद्धपदसमभिव्याहाररूप 1 -
स च व्यावहारो न पदार्थमात्रे, किन्त्वन्वित एवेति तेनान्वित एव शक्तिग्रहादित्यर्थः। आनयनाद्यन्वयानां व्यभिचारात्कथमन्वये शक्तिरित्यत उक्तं सामान्यतो योग्येतरान्वित इति । आनयनबन्धनादिविशेषमपहाय क्रियान्वितं कारकं कारकान्विता क्रियेत्वेव रूपेण गवादिपदानां शक्तिवग्रह इत्यर्थः॥ व्याकरणेति॥"श्रोत्रियं श्छन्दो ऽधीत"इत्यादिसूत्रैः श्रोत्रियादिशब्दानां छन्दोघाययनकर्त्राद्यर्थे शक्तिग्राहकं व्याकरणम् अतिदेशवाक्यार्थस्मरणसहकृत 2 गोसादृश्यादिविशिष्टपिण्डज्ञान 3 मुपमानं गवयादिपदशक्तिग्राहकम् । कोशो ऽमरादिनिघण्टुः प्रसिद्धः। इयं गौरित्याद्याप्तवाक्यं गवादिपदशक्तिग्राहकम्॥
"यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्॥"
इति वाक्यशेषः स्वर्गपदस्य सु 4 खविशेषे शक्तिग्राहकः। तथा यवमयश्चरुर्भवतीत्यादौ यवशब्दस्य --
"वसन्ते सर्वसस्यानां जायते पत्र 5 शातनम्।
मोदमानाश्च दृश्यन्ते यवाः कणिशशालिनः॥"
इति वाक्यशेषो दीर्घशूके शक्तिग्राहकः।"उक्तं वचो ऽपावधीं स्वाहेति"---
1.पाव्यु-सु.रा.नं.ग.ज.क. 2.गोपदं नास्ति-उ. 3.रूपमित्यधिकं-उ. 4.दुःख -उ. 5.त्रिशा-उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 162.
----------------------- ------------- ----------
- प्युत्पत्तिहेतवस्तदनुसारितया कॢप्ते ऽन्वित एव शक्तिग्राहकाः। अन्यथाकल्पने गौरवात्। तदुक्तं भगवत्पादैः --
शक्तिश्चैवान्विते स्वार्थे
शब्दानामनुभूयते ।
अतो ऽन्विताभिधायित्वं
गौरवं कल्पने ऽन्यथे"इति॥
श्रुतस्योग्रं वच इति शब्दस्या"शनाया पिपासे ह वा उग्रं वच"इत्यादिविवरणमशनापिपासयोः शक्तिग्राहकम्।"सहकारतरौ मधुरं रौतिपिक"इत्यादौ पिकपदस्य कोकिले सहकारादिप्रसिद्धपदसमभिव्याहारः शक्तिग्राहकः॥
यद्यप्यसाधारणधर्मरूपलक्षणज्ञानमपि शक्तिग्राहकम्। तथापि तस्यापि तस्य धर्ममात्रोपमानरूपमानरूपत्वादुपमानपदेनैव तस्य ग्रहणं प्राप्तमिति न पृथग्लक्षणस्य ग्रहः॥
"शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥"
इति प्राचीनोक्तिरिति भावः॥ व्युत्पत्तीति॥ वाच्यवाचकभावसम्बन्धज्ञानहेतव इत्यर्थः। अन्यथेति॥
कॢप्तत्यागोनाकॢप्तस्य पदार्थमात्रशक्तिग्राहकत्व 1 स्य कल्पन इत्यर्थः। तदुक्तमिति॥ जिज्ञानासाधिकरणानुव्याख्याने इत्यर्थः। शक्तिश्चेति॥ उपलक्षणमेतत्। तच्च नाभिहितान्वय इत्यादि शब्दा 2 अन्वितवाचकाः इत्यन्तः भक्तिपादीयानुव्याख्यानसुधयोरुक्तम्।
1.त्वक-नं.उ. 2.ह्यन्वि-नं.द्यन्वि-उ.
अन्वि-सा-षट्कम्) शक्तिवादः पु - 163.
------------------ --------- ------------
किं चेश्वरसङ्केतरूपायाः 1 स्वाभाविकसम्बन्धरूपाया वा शक्तेरभावेन वृत्यन्तराविषय 2 स्यान्वयस्य शाब्दधीविषयत्वं न स्यात् ॥
तद्विवरणमग्रे यथायोगं ध्येयम्। व्यवहारादिना शब्दशक्तिमवधारयता पुरुषेण शब्दानां शक्तिश्चान्वित एव स्यार्थे ऽनुभूयते । अतो ऽनुभवबलाच्छब्दानामन्वितस्वार्थाभिधायित्वमभ्युपेयम्। शक्तिग्रहानुसारित्वादभिधान्सयानुभवानादरेण स्वार्थमात्रशक्तिकल्पने गौरवमित्यर्थः। न केवलं पदानां किन्तु प्रकृतिप्रत्ययानामपीति द्योतनाय शब्दानामित्युक्तिः॥
नन्वन्यलभ्येप्यन्वयशक्तिकल्पन एव गौरवमित्यतो"न चाशक्याभिधायित्व"मित्यनुव्याख्यानांशस्य शब्दानामशक्यान्वयबोधजनकत्वं न चेत्यर्थमुपेत्याह -- किञ्चेत्यादिना । परमतेनाह-- ईश्वरसङ्केतेति॥ स्वमतेनाह-- स्वाभाविकेति॥ शक्तेरभाव इति॥ वाक्यार्थरूपान्वय इति योज्यम्। वृत्तिमात्रमन्वये नास्तीति म 3 तेनोक्तं वृत्यन्तरीविषयस्यतेति । लक्षणावृत्तिरन्वये ऽस्तीति पक्षस्याग्रे ऽन्वय 4 लक्ष्यत्वभङ्गे निरसिष्यमाणत्वाच्च । तथा च ना 5 न्यलभ्यत्वमिति भावः॥
यद्वान्विते शक्तिरित्यत्र प्राथमिकव्युत्पत्तिरूपमेकं मानमुक्त्वान्वयः शब्दशक्तिविषयः वृत्यन्तराविषयत्वे सति शाब्दधीवषयत्वात् शक्तिविषयपदार्थवत् इत्यनुमानं च मानमुपेत्य तस्याप्रयोजकत्वनिरासाय विपक्षे हेतूच्छित्तिरूपबाधकतर्कमाह -- किं चेश्वरेत्यादिना॥ अर्थस्तु प्राग्वत्। एतेन पदं करणं, पदार्थस्मरणं व्यापारः, अन्वयानुभवः फलं, इति मण्युक्तं निरस्तं ध्येयम्। वृत्तेरभावे पदजन्यानुभव 6 विषयत्वादिति ॥
1.या वा -सु.रा. 2.स्य शाब्द-सु.रा. 3.तोक्तं-उ. 4.स्य ल -नं. 5.नानन्य-उ. 6.वविषयत्वायोग -नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 164.
------------------------- ------ --------
किं तु शब्दस्यापि करणत्वेन चक्षुरादेरिव विषयप्रत्यासन्नस्यैव क्रियाजनकत्वेन पदार्थेनेवान्वयेनापि शक्तिरूपप्रत्यासत्ति 1 रङ्गीकार्या। अन्यथाकल्पने गौरवात्॥
न च चक्षुषो रूपेण संयुक्तसमवाय इव शब्दस्या 2 न्वयेन शक्यपदार्थसंबन्ध एव प्रत्यासत्तिरिति वाच्यम्।
शब्दोर्ऽथप्रत्यासन्नो भवितुमर्हति बोधरूपक्रियाजनकत्वात्, जनकत्वं च करणत्वाच्चक्षुरादिवदिति सामान्यतोर्ऽ 3 थेन शब्दस्य संबन्धस्य सिद्धावन्यस्यायोगाच्छक्तिरेव प्रत्यासत्तिः सामान्यपरिशेषाभ्यां सिध्यतीति भावेन--
"प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य"
4 चेत्यत्र"स्वत एव स्वाभाविकसंबन्धेनैव"इत्यादिसुधोक्तदिशाऽह-- किं च
शब्दस्येति॥ हेतोरप्रयोजकत्वं निराह-- अन्यथेति॥ संबद्धस्यैव क्रियाजनकत्वमिति कॢप्तत्याग इत्यर्थः। यद्वा शब्दार्थयोः संयोगसमवायतादात्म्यरूप संबन्धान्तरकल्पन इत्यर्थः। द्रव्यत्वायुतसिद्धत्वादेरपि शब्दार्थयोरङ्गीकारप्रसङ्गाद्गरवमिति भावः। क्रियाजनकत्वहेतो 5 रशक्यान्वयस्य स्वरूपसतो
नियामकत्वादित्यादिमण्युक्तान्यथोपपत्तिमाशङ्क्य निराह-- न चेत्यादिना॥ शक्येति॥ शक्तिविषयेत्यर्थः।
1.रिति वाच्यम्-इत्यस्ति मध्ये लोपः-ग. रिति वाच्यम्-च.क. 3.ऽअपिऽ इत्यधिकम् -सु.रा. 3.तोन्वयेन-नं. 4.स्येत्यत्र-नं.उ. 5.तोः शक्या-उ.नं.
अन्वि-सा-षट्कम्) शक्तिवादः पु - 165.
------------------ --------- --------
साक्षात्संबन्धसंभवे ऽपि 1 परम्परया सबन्धाश्रयणे गौरवात्। अन्यथा चक्षुःसंयुक्तकपालसमवेते घटे संयोगः पत्यासत्तिर्न स्यात्॥
किञ्चैवं शक्य 2 घटसम्बन्धिगुरुत्वादेरपि घटपदात्प्रतीतिप्रसङ्गः। न च गुरुत्वादिकं प्रत्यक्षस्येव शब्दस्याप्ययोगात्। नापि शक्यसंबन्ध्यन्वयत्वं प्रत्यासत्तिः। अन्वयत्वविशेषणस्यान्वयाशक्यत्वनिश्चयोत्तरकालं कल्प्यत्वेन 3 तत्कल्पने गौरवात्। शक्यसंबन्धेन 4 च प्रतीतावन्वयस्य लाक्षणिकत्वप्रसङ्गाच्च। व्यक्तेरपि शक्यजातिसंबन्धेनैव प्रतीत्युपपत्या जातिविशिष्टव्यक्तावपि शक्त्यसिद्धिप्रसङ्गाच्च ॥
पादर्थसंबन्धः पदार्थकर्मत्वादिरित्यर्थः। अन्यथेति॥ परम्परासंबन्धेन साक्षात्संबन्धापला इत्यर्थः ॥ संयोग इति॥ चक्षुष इति शेषः। तत्रापि घटोपलम्भरूपकार्यस्यैव परम्परासंबन्धेनोपपत्तेः सुवचत्वादिति भावः। शक्यसंबन्धस्य शाब्दबोधहेतुत्वे ऽतिप्रसङ्गं चाह--किञ्चैवमिति॥ अयोग्यमिति॥ तथा 5 त्वे शब्दादतीन्द्रियधीर्नस्यादिति भावः। शक्यसंबन्ध्यन्वयत्वमिति॥ तथा च गुरुत्वे प्रागुक्तदोषो नेति भावः। न चाक्षुष इत्यादिनोक्तर्थे दोषान्तर 6 माह -- शक्येति॥ व्यक्तेरपीति च॥ लाक्षणिकत्वेति॥ ग 7 ङ्गापदशक्यप्रवाहसंबन्धेन पदात्प्रतीतिरस्त्येवेति भावः।
1.अपि पदं नास्ति-सु.रा. 2.घटपदं नास्ति-सु.रा. 3.त्वेन गोर-सु.रा. तत्पदं नास्ति-ग.क. 4.न्धात्प्रती-सु.रा. 5.थासति-नं. 6.रं चाह-नं. 7.ङ्गापदात्प्रती-नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 166.
------------------------ ------------ --------
एतेन प्रथमं गृहीताप्य 1 न्वये शक्तिः कार्यान्विते शक्तिरिव 2 पश्चाद्बाधकात्यज्यताम् । बाधकं चात्रान्यलभ्यमेवेति निरस्तम्। अन्यलभ्यत्वेन्वयस्य शाब्दत्वं न स्यादित्युक्तत्वात् ॥
न च वृत्यविषयस्याप्यन्वयस्याकाङ्क्षादिसहकारिशाच्छब्दजन्यधीविषय 3 त्वेन शाब्दत्वमिति वाच्यम् । इन्द्रियासन्निकृष्टस्यापि वह्नेर्धूमज्ञानादि सहकारिवशादिन्द्रियजन्यधीविषयत्वेनैन्द्रियकत्वापातात् । तत्रेन्द्रियसन्निकर्ष एवैन्द्रियकत्वमर्यादाहेतुरित्यसन्निकृष्टो वह्निर्नैन्द्रियक इति चेत्तर्हि शब्दवृत्तिरेव शाब्दत्वमर्यादाहेतुरितिवृत्यविषयोन्वयो न शाब्द इति समम् ॥
कार्यान्वते शक्तिरित्येत्परमतेन ध्येयम्। स्वमते च सिद्धार्थ एव प्रथमं व्युत्पत्तेरुपगमात् । अन्यलभ्यत्वमेवेति॥ पदार्थेष्वित्यादिना प्रागुक्तदिशेति भावः। उक्तत्वादिति ॥ किं चेश्वरेत्यादिनेत्यर्थः। प्रागुक्तमयुक्तमित्याशाङ्क्य प्रतिबन्द्या 4 निराह-- न च वृत्तीति॥ परमुखेन समाधिं वाचयति--- तत्रेन्दियेति॥
"गौरवं कल्पने ऽन्यथे"त्येतदन्वयमुखेनानुवदन्मूलारूढमेवैतदिति दर्शयति-- अन्यथा कल्पन इति॥ मर्यादामुल्लङ्घ्य कप्लन इत्यर्थः।
1.न्विते-नं. 2.क्तिरिति बाध-ग. 3.यत्वमिति वाच्यम्-ग. 4.न्द्याह -नं.
अन्वि-सा-षट्कम्) शक्तिवादः पु - 167.
----------------- --------- ---------
अन्यथाकल्पने गौरवात् ॥
किं चैवं जातावेव शक्तिः व्यक्तेस्त्त्वकाङ्क्षादिवशाद्धीरिति स्यात् ॥
किं च घटमित्यनेन क्रियासामान्यान्वितस्वार्थानभिधाने सामान्यज्ञानसाध्या क्रियाविशेष 1 जिज्ञासा न स्यात् ॥
न च जम्बीरादौ रूपविशेषाक्षिप्ते 2 रससामान्ये 3 रसविशेषस्येव घट 4 निष्ठकर्मत्वाक्षिप्ते क्रियासामान्ये तद्विशेषे 5 स्य जिज्ञसा युक्तेति 6 वाच्यम्। व्यभिचारादर्शनसहचारदर्शना 7 दिरूपभिन्नसामग्रीवेद्याया व्याप्तेर्घटमिति पदोच्चारणकाले उपस्थितिनियमाभावेनाक्षेपसम्भवात् ॥
अन्वयस्यान्वयलभ्यत्वे व्यक्तेरपि तथात्ववापत्या शब्दशक्यता न स्यादित्याह-- किं चेति॥ विवहिष्यते चैतत् षट्का 8 न्तर्गतव्यक्तिप्रतिबन्दी न युक्तेत्यादिना। क्रियाविशेषजिज्ञासान्यथानुपपत्तिं चान्विते शक्तौ मान 9 मित्याह-- किञ्चेति॥ क्रियाविशेषेति॥ दर्शनस्पर्शना 10 दिक्रियाविशेषेत्यर्थः । सामान्यान्वयस्य शब्दशक्त्यविषयत्वे ऽपि तज्ज्ञानसंभवाद्विशेषजिज्ञासा युक्तेति भावेन दृष्टफलादौ रसविशेष 11 जिज्ञासावदित्यादिना मण्युक्तमाशङ्क्याह -- न चेत्यादिना ॥ तेजोव्यावृत्ततादिरूपस्य रसव्याप्तत्वाद्रूपविशेषाक्षिप्तेत्युक्तम्॥
1.षेजि-सु.रा.नं.ज.क. 2.प्तर-सु.रा. 3.न्येन-सु.रा. 4.टादि- सु.रा. 5.षजि -ज.क. 6.वाच्यमिति नास्ति-सु.रा. 7.आदिपदं नास्ति-सु.रा. 8.ष्ठ-उ.नं. 9.न माह-नं. 10. आदिपदं न -उ.नं. 11.षे. जि -नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 168.
------------------------ ------------ -----------
अननुभूतस्या 1 प्युपस्थितिनियमस्य कल्पने गौरवात्॥
किं च त्वायापि घटमिति द्वितीया 2 विभक्त्यर्थकर्मत्वान्वितस्यैव प्रातिपदिकार्थस्य क्रियान्वये प्रतियोगिता खण्डवाक्यार्थभूतस्यान्वितस्य च महावाक्यार् 3 थभूतान्वये प्रतियोगिता वाच्या। वृत्यविषयश्च नान्वयप्रतियोगी 4 कर्मत्वान्विते प्रातिपदिकार्थे --
एतदपि मूलारूढं दर्शयति --अन 5 भूतस्यापीति ॥ एकत्ररान्विते शक्तेः कॢप्तत्वात्सर्वत्रापि तथेत्यह -- किं चेति॥ द्वितीयेति॥"कर्मणि द्वितीयेति"
पाणिन्युक्तेर्द्वितीयाविभक्त्यर्थकर्मत्वेत्युक्तम्। प्रतियोगितेति॥ घटमानयेत्यादाविति योज्यम्। वाच्येत्यन्वयः। अन्यथाऽनयनादिक्रियानन्वयापातादिति भावः। क्रियान्वय इति॥ पदार्थान्तरेणान्वितपदार्थस्यैव वाक्यार्थत्वादिति भावः। 6 खण्डेति॥ पर्वतो ऽग्निमानित्यादिहेत्वादिरूपावान्वरवान्तरवाक्यार्थभूतस्यान्योन्यपदार्थेनान्वितस्येत्यर्थः। 7 माहावाक्यार्थेति॥ वह्न्यादिनिरूपितव्याप्तिपक्षधर्मतयोर्लिङ्गनिष्ठतारूपमहावाक्यार्थभूतान्वय इत्यर्थः। तावता शब्दवृत्तिविषयत्वमन्व 8 यस्य कुतः, तथात्वे वा शक्तिविषयत्वं कुत इत्यत आह-- वृत्तीति॥ कुमार्यादिप्रदर्शितकलमबीजातरेन्व 9 याप्रतियोगित्वादिति भावः।
1.अपिपदं नास्ति-सु.रा. 2.यवि-सु.रा. 3.भूत इत्यारभ्य एतत्पर्यन्तं नास्ति-सु.रा. 4.गि- सु.रा. 5.अनुभूत-नं. 6.क्रियान्वय इति इत्यारभ्य नास्ति -उ.नं. 7.पदार्थान्तरेणेत्यादि, दिति भावः इत्यन्तं अत्रास्ति -नं. भाव इति नास्ति -उ. 8.न्यस्य -उ.नं. 9.य -उ.नं.
अन्वि-सा-षट्कम्) शक्तिवादः पु - 169.
----------------- --------- -----------
खण्डवाक्यार्थरूपे ऽन्विते च न लक्षणेत्यन्विते शक्तिः कॢप्तेत्यन्यत्रा 1 न्विते शक्तिसिद्धिः। अन्यथा कल्पने गौरवात्॥
न च खण्डवाक्यार्थस्य न महावाक्यार्थे ऽन्वयः, किं तु महावाक्यस्थसर्वपदगोचरसमूहालम्बनस्मृतिरूपं करणं शुद्धतावत्प्रदार्थगोचरसमूहालम्बनस्मृतिरूपान्तरव्यापारसहितमे 2 कदैव महावाक्यस्थान् सर्वान् पदार्थान्विततया बोधयतीति वाच्यम् । अनुभवविरुद्धस्या 3 प्रकारस्य कल्पने गौरवात्। तथात्वे हि दिनेदिने श्रुतेन शास्त्ररूपमहावाक्यैकदेशरूपखण्डवाक्येन तत्तदर्थबोधोदयो न स्यात् । कुलकादावित्युवाचेत्यादौ खण्डवाक्यार्थकर्म 4 क्रियान्वयबोधश्च न स्यात्।
न लक्षणेति॥ तत्पक्षस्याग्रे निरसिष्यमाणत्वादिति भावः। अन्यत्रेति॥
क्रियाकारकभावादिस्थले ऽपीत्यर्थः। अन्वये शक्तिं विनैव महावाक्यार्थबोधप्रकारमाशङ्क्य निराह-- न चेति॥ शुद्धेति॥ अन्वय 5 विनाकृतेत्यर्थः। दिने दिन इति॥ एकस्मिन्नेव दिने सर्वशास्त्तश्रवणायोगेन प्रत्यहं यावदवधारणं 6 शक्यं तावत एव शिष्यैः श्रूयमाणत्वात्तावन्मात्रश्रवणस्यार्थाबोधकत्वे शास्त्रमेव व्यर्थमापद्येतेति भावः। इत्युवाचेत्यादाविति। माघे चतुर्थे सर्गे --"उत्कारं दारुक इत्युवाचे"त्यत्रत्यस्य"इत्युवाचे"त्यस्य आसर्गसमाप्ति प्रतिश्लोकमन्वयेन तत्तच्छलोकार्थविषक्रियान्वयबोधश्च न स्यादित्यर्थः॥
1.अपि इत्यधिकम्-सु.रा.नं.ग. 2.मेकमेक-सु.रा. 3.प्यस्य- सु.रा. 4.क शाब्दबो-सु.रा. कक्रिया-नं.ग.ज. 5.यं वि-उ.नं. 6.णश-उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 170.
------------------------ -------------- --------
प्रतिज्ञावाक्येन विशिष्टस्वार्थबोधने कुत इत्याकाङ्क्षानुदयेन हेतुवाक्यस्यान्वयश्च 1 न स्यात्॥
तस्मादन्विते प्राथमिकी व्युत्पत्तिः, अन्वयस्यानभिधाने तस्य शाब्दत्वानुपपत्तिः, अन्वयांश शक्त्यभावे ऽन्वयस्य शब्देन सह प्रत्यासत्यनुपपत्तिः, व्यक्तिप्रतिबन्दी, अन्वयसामान्ये शक्त्यभावे विशेषे जिज्ञासानुपपत्तिः, अन्यत्रान्विते शक्तेः कॢप्तत्वमिति युक्तिषट्केनान्विताभिधानं सिद्धम् ॥
अन्विताभिधाने साधनषट्कम्
2 विशिष्टेति॥ धर्मविशिष्टा धर्मिरूपस्वार्थेत्यर्थः॥
प्रागुक्तं सर्वं बुद्ध्यारोहाय संग्रहेणानुवदन्नुपसंहरति -- तस्मादिति॥ तस्यार्थोन्वित इत्यादिना युक्तिषट्केनेत्यन्तेन 3 विवृतः। प्राथमिक इत्यादिनोक्तार्थोक्तिरन्वित इत्यादि । किं चेश्वरेत्यादिनोक्तार्थोक्तिः अन्वयस्येत्यादि। किं च शब्दस्योत्यादिनोक्तार्थोक्तिः व्यक्तीति। किं च घटमित्यादिनोक्तार्थोक्तिरन्वयेति। किं च त्वयापीत्यादिनोक्तर्थोक्तिरन्यत्रेति । अन्वताभिधानं पदानामिति शेषः॥
अन्विताभिधाने साधक 4 षट्कम्
1.न इति नास्ति-सु.रा. 2.माघे इत्यारभ्य नास्ति-नं.उ. 3.विवृत इति नास्ति- नं. उ. 4. न -उ.नं.
अन्वि-धाने-उनाक्त-बा-दकोरः) शक्तिवादः पु - 171.
----------------------------- --------- ----------
अथ अन्विताभिधाने उदयनाद्युक्तबाधक दशकोद्धारः
नन्वन्विताभिधाने घटमानयतीत्यादौ कारकपदे 1 नान्वयप्रतियोगितया क्रियायाः क्रियापदेनापि तत्प्रतियोगिता
कारकस्याभिधानात्पर्यायता स्यादिति चेन्न 2 । कारकपदे क्रियान्वितकारकत्वस्य क्रियापदे च 3 कारकान्वितक्रियात्वस्य प्रवृत्तिनिमित्तस्य भेदेन पुत्रपितृशब्दयोरिवापर्यायत्वात्।
अथ अन्विताभिधाने उदयनाद्युक्तबाधकदशकोद्धारः
एवं साधखान्युक्त्वान्विताभिधानं बाधका 4 न्याप्याशङ्क्य निराह-- नन्वित्यादिना ॥ विशिष्यान्विताभिधानं भ्रा 5 न्त्याह-- कारकपदेनापीति॥ पर्यायता क्रियाकारकपदयोरिति शेषः। स्यादयं दोषो 6 यदि घटः करीर इत्यादाविवि पदप्रवृत्तिनिमित्तैक्यं 7 भवेत्। न चैवमस्तीत्याह -- कारकपद इति॥ पुत्रेति॥ पुत्रादिशब्दस्य संबन्धिशब्दत्वेन पित्राद्युपस्थापकत्वे ऽपि पुत्रत्वादिनिमित्तभेदाद्यथा न पर्यायत्वं तथेत्यर्थः॥
ननु क्रियात्वकारकत्वादेः परस्पराविनाभावात्तद्वाचिनोरपि पर्यायत्वमित्याह आह-- न हीति ॥
1.नाप्यन्वय-रा.सु.ग. 3.ऽनऽ इति नास्ति -सु.रा.नं. 3.ऽचऽ इति नास्ति-सु.रा. 4.न्याश-नं.उ. 5.न्त्या-नं.उ. धानमाह-ए. 6.यदि इति नास्ति-नं.उ.ए. 7.क्येभ-ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 172.
------------------------ --------------- --------
न हि प्रवृत्तिनिमित्तयोर्भेदे ऽपि तयोस्सम् 1 नियततामात्रेण पर्ययत्वम् ॥
नन्वेवमपि पदान्तरवैयर्थ्यात् । एकेनैवेतरान्वितस्वार्थोपस्थापनाद्विशेषणविशेषणविशेष्यविपरिवृत्तिमात्रेणावैयर्थ्ये दण्डी पुरुषः पुरुषस्य दण्ड इत्यत्राप्येकस्य वैयर्थ्यं न स्यादिति चेन्न 2 । मीमांसकमते धवखदिराविति द्वन्द्वे धवशब्दलक्षितसाहित्यनिरूपकद्वितीयस्य 3 विशेषसमर्पणेन खदिरशब्दस्येवेहापि -
पुत्रादिशब्दे ऽपि तथात्वापत्तेरिति भावः। एवमपीति॥ अपर्यायत्वे ऽपीत्यर्थः। कारकान्विता 4 क्रिया क्रियान्वितं कारकमिति क्रियाकारकयोर् 5 भानार्थं पदद्वयमर्थवदित्यत आह-- विशेषणेति॥ विपरिवृत्तिर्व्यत्यासः । एकस्येति ॥ वा 6 स्येत्यर्थः। विशेषान्वयप्रतिपत्य 7 ङ्गतयोपयोगाच्चेति दृष्टान्तोक्तिपूर्वक 8 माह -- मीमांसकमत इति॥ तन्मते हि धवखदिरावितिद्वन्द्वे धवादा वैवैककस्मिन्विभक्त्यर्थद्वित्वस्यान 10 न्वयेन हि सहितयोर्द्वयोरेव तदन्वयेन द्वित्वान्वयार्थं धवपदमेव सहितो 11 भयलक्षकमित्यभ्युपगमात्तदा खदिरपदावैयर्थ्याय धवपदलक्षितधवसाहित्याश्रयसामान्यस्य खदिरत्वरूपविशेषसमर्पकत्वस्वीकारादित्यस्याग्रे द्वन्द्वसमानप्रस्तावे वक्ष्यमाणत्वादिति भावः। सुधोक्तमाह-- तत्तद्विशेषेति॥
1.यममात्रे-सु.रा.ग.क. 2.न इतिनास्ति-सु.रा. 3.य वि-सु.रा. यावि-क. 4.तमानयनमानयनान्वितकारमिति. इत्यस्ति-नं.उ. 5.त्तिर्नानार्थपद -नं.उ. 6.तस्येत्य -नर्ं. 7.थं पदान्तरसमभिव्याहारोपयोग इति इष्टा-ए. र्8.वमा-नं. 9.एवकारो नास्ति-नं.उ.ए. 10. स्यानन्वये सहितयो-नं.ए. ये सति तयो-उ. 11. तोपल -नं.उ.
अन्वि-धाने-उनाक्त-बा-दकोरः) शक्तिवादः पु - 173.
----------------------------- -------- ---
पदापे 1 क्ष्यत 2 त्तद्विशेषोपस्थापनेन सार्थक्यात्। जनान्तरेण सार्थके ऽपि 3 पदे सामग्रीव 4 शागतार्थिकपुनुरुक्तेरदोषत्वात्॥
न चैवमपि क्रियापदेनानयनरूपे क्रियावेशेषे ऽभिहिते घटपदेन
तदन्वितघटाभिधानं, एवं घटपदेन घटरूपे कारकविशेषे ऽभिहिते क्रियापदेन तदन्वितक्रियाभिधानमित्यन्योन्याश्रय इति वाच्यम् ।
नन्वेवमपि पुनरुक्तिरूपवाधकमपरिहार्यमित्यतः"आर्थिकी तु पुनरुक्तिरदूषणम्। यश्चार्थादर्थो न स चोदनार्थ"इति न्यायादिति सुधोक्तमेव व्यञ्जयन्नाह -- प्रयोजनेति॥ 5 समभिव्याहाररूपसामग्रीवशादित्यर्थः। बाधकान्तरमाशङ्कते-- नचैवमिति॥ अन्योन्येति॥ यावत्पूर्वपदं स्वार्थं नाभिधत्ते तावदुत्तरपदस्य पूर्वपदार्थान्वितस्यार्थाभिधानं नास्ति। यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत्पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न भवतीति स्वस्वार्थाभिधाने ऽन्योन्या 6 भिधानापेक्षावश्यंभावेनान्योन्याश्रयान्न किमपि पदं कमप्यर्थमभिदध्यादित्यर्थः।"वयं तु ब्रूमः स्यादिदं विशेषान्विताभिधानवादिनां, दूषण"मित्यादिना--
1.न्तरोपि तत्त-सु.रा. न्तरे च -क. 2.मीमांसकेत्यारभ्य नास्ति-नं.ज. 3.के च -सु.रा.नं. क्येपि-क. 4.शादार्थि-सु.रा. 5.सामग्रीति इत्यधिकम्-ए. 6.न्यापे-नं. न्यार्थाभिधाना-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 174.
------------------------ ------------- ---------
विशेषान्विताभिधानमते 1 ऽस्यान्योन्याश्रयस्य 2 संभवे ऽपि सामान्य 3 तो ऽन्विताभिधानमिति मन्मते पदानां प्रत्येकमेव योग्येतरसामान्यान्वितस्वार्थाभिधाने सामर्थ्येन पदा 4 न्तरनिरपेक्षतयान्योन्याश्रयाभावात्॥
अन्योन्याश्रयार्थमननभूय 5 मानविशेषान्विताभिधानकल्पने गौरवात्॥
न चैवमपि कारकपदजन्या क्रियासामान्यान्वितरूपविशिष्टधीः क्रियासामान्यान्वयरूपविशेषणधीसाध्या इह 6 तद्धीहेतुरन्यो नास्तीति -
सुधोक्त 7 माह-- विशेषेति॥ 8 योग्यं यदितरत्सामान्यं तदन्वितेत्यर्थः। पदान्तरेति॥ तस्य विशेषोपस्थितावेवोपयोगोक्तेरिति भावः ॥
"गौरवं कल्पने ऽन्यथा"इति प्रागुक्तमूलारूढमेतदिति दर्शयितुमाह-- अन्योन्येति॥ अन्योन्याश्रयमस्मान्प्रतिवक्तुमभिहितान्वयवादिना नैयायिकेन विशेषान्विताभिधानकल्पन इत्यर्थः। गौरवादित्युपलक्षणम् । छलोत्तरत्वापातादित्यपि ध्येयम्। सामान्यान्वितस्वार्थाभिधानपक्षे ऽप्युदयनाद्युक्तमन्योन्याक्षयमाशङ्कते-- न चैवमपीति॥ कारकपदजन्येति धीरित्यस्य विशेषणम्। विशिष्टेति॥ अन्वयविशेषणक 9 कारकविशेष्य 10 कधीरित्यर्थः। ततः किमित्यत आह-- इह चेति॥ क्रियाकारकादिप्रयोगस्थल इत्यर्थः। तद्धीति॥ विशेषणधीहेतुरित्यर्थः।
1.अस्येति नास्ति-सु.रा.ग. 2.यस-सु.रा. 3.न्यन्विता-सु.रा.नं.ग. 4.दार्थान्त- रा. 5.य विशे-सु.रा. 6.च इत्यधिकम्-ग. 7.क्तमेवा-ए. 8.योग्येतरसामान्येति - इत्यधिकम्-ए. 9.ण कार-नं. 10. ष्यधी-नं.
अन्वि-धाने-उनाक्त-बा-दकोरः) शक्तिवादः पु - 175.
---------------------------- --------- -----------
पदेन 1 तद्धीः, एवं क्रियापदजन्या कारकसामान्यान्वितरूपविशिष्टधीरपि कारकसामान्यान्वयरूपविशेषणधीसाध्या तद्धीश्च कारकपदेनैवेति पुनरप्यन्योन्याश्रय इति वाच्यम्। मन्मते 2 प्रत्यक्षाया अपि विशिष्टधियो विशेषणज्ञानासाध्यत्वात्। त्वन्मते ऽपि॥
त्रिशुक्लः कृशवृत्तिश्च घृणालुस्सकलेन्द्रियः ॥
वियुक्तो योनिदोषेभ्यो 3 ब्राह्मणः पात्रमुच्यते ॥
इत्यादिवचनैर्विशिष्टाभिधायक 4 पात्रश्रोत्रियस्वर्गकारणादिपदैरिव जात्याकृतिविशिष्टाभिधायि--
अन्योन्याश्रयेति॥ क्रियाकारकपदयोः स्वस्वार्थबोधने ऽन्योन्यार्थाभिधानसापेक्षत्वादन्योन्याश्रय इत्यर्थः। प्रत्यक्षाया अपीति॥ किमुत 5 शाब्दादिस्थले इत्यपेरर्थः। यथा चैतत्तथोक्तं निर्विकल्पकभङ्ग इति भावः। त्रिशुक्ल इति॥ याज 6 नाध्यापनाविशिष्टप्रतिग्रहरूपशुक्लत्रयवानित्यर्थः। सकलेन्द्रिय इति॥ न
त्वन्धपङ्ग्वादिरित्यर्थः। योनिदोषेभ्यो विमुक्त इत्यनेन बीजक्षेत्रशुद्धिरुच्यते । इत्यादीत्यादिपदेन"श्रोत्रियं छन्दो ऽधी(य)"इति,
यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्"7 ।
इति, अनन्यथासिद्धनियतपूर्ववृत्तिकारणामित्यादिवचनग्रहः। विशिष्टेति॥ त्रिशुक्लत्वादिविशिष्टाभिधायि पात्रपदं , छन्दोध्ययनकर्तृत्वविशिष्टाभिधायि श्रोत्रियपदं,
1.एवेत्यधिकम्-ग. 2.अपि इत्यधिकम्-नं. 3.भ्यां -नं. 4.यिपा-नं.ग.क. यिभिः- ज. 5.श-नं. 6.काध्ययनवि-नं.उ. 7.न चेत्यारभ्यनास्ति-नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 176.
----------------------- ------------- --------
घटादिपदैरिव च विशेषणोपस्थितिं विनै कारकादिपदैः क्रियासामान्याद्यन्विताभिधानानुभवात्॥
अनुभवविरिद्धस्य 1 कल्पने गौरवात्। 2 अन्वयविशेषसिद्धिस्तु पदान्तरसमभिव्याहारात्॥
नन्वेवं चेत्किमनया सामान्यान्विते शक्त्या, स्वार्थमात्रे 3 शक्तैः पदैराकाङ्क्षादिमत्पदान्तरसमभिव्याहारादेव विशेषान्वयसिद्धेरिति चेन्न 4 ।
दुःखासंभिन्नत्वादिविशिष्टसुखाभिधायि स्वर्गपदमन्यथासिद्धत्वादिविशिष्टाभिधायि कारणपदमित्यावं ध्येयम्। तत्र हि विशेषणोपस्थापक 5 पदान्तरस्याभावात्पदस्मारितस्यैव पदार्थैऽन्वयप्रतियोगित्वात्तत्र विशेषोपस्थितेरभावे ऽपि यथा विशिष्ट 6 बोधस्तथेहापीत्यर्थः। व्यक्त्याकृतिजातयः पदार्थ 7 इत न्यायमतत्वाज्जात्याकृतिविशिष्टेत्युक्तिः॥
"गौरवं कल्पने ऽन्यथे"ति मूलारूढतां दर्शयति-- अनुभवेति॥"सामान्यान्विते शक्तावुपेतायां विशेषान्वयबोधायोग 8 इत्यतो विशेषान्वयप्रतिपत्यर्थं च पदान्तरसमभिव्याहारोपयोग"इति सुधोक्तमाह-- अन्वयविशेषेति॥ एतेन विशेषप्रतिपत्तिरिति शशिधराद्युक्तं प्रत्युक्तम्।.
मण्याद्युक्तमाशङ्कते -- नन्विति॥
1.ऽचऽ इत्यधिकम्-नं.ग. 2.ऽन चैवमपि इत्यारभ्य इत्यत्पर्यन्तं नास्ति-सु.रा. 3.मात्रपदं नास्ति-सु.रा. 4.न इति नास्ति-सु.रा. 5.क पदार्थान्तराभावा-नं. पदार्थान्तरस्या-उ. 6.ष्टस्त-नं. 7.ऽइतिऽ इति नास्ति-नं. 8.गादित्यतो-नं.
अन्वि-धाने-उनाक्त-या-दकोरः) शक्तिवादः पु - 177.
----------------------------- ------- ---------
सङ्गतिग्रहणकाले सामान्यान्विते श 1 क्तेर्गृहीतत्वेन गोव्यक्ति 2 वत्वन्मते जात्याकृतिविशिष्टगोव्यक्तिवच्च सामान्यान्वित 3 स्यापि पदान्तरसमभिव्याहराकाङ्क्षादिनिरपेक्षेणैव गोप्रातिपदिकेनोक्त्तया सामान्यान्विते शक्तेरस्त्यागायोगात्। अन्यथा जातावेव शक्तिर्व्यक्ते 4 स्त्वाकाङ्क्षा 5 दिवशाद्धीरिति स्यात्। प्रत्युत पदान्तरार्थे क्रियाविशेषे आकाङ्क्षार्थमेव कारकपदस्य क्रियासामान्यान्विते शक्तिरावश्यकी। अत एव विशेषान्वये शक्त्यभावात्तस्य शाब्दत्वं न स्यादिति निरस्तम्। या शक्तिः पदान्तरसमभिव्याहाराकाङ्क्षादिनिरपेक्षा--
अन्वयन्यान्वयतः प्राप्तेरन्यथानुपपत्तितः।
अनन्यलभ्यमात्रार्थे शक्तान्येव पदानि नः॥
इति प्राचीनोक्तेरिति भावः। अन्विते शक्तेर्गृहीतत्वेनेति॥ एतच्च पूर्वर्त्रैवोपपादितमिति भावः। व्यक्तौ शक्तिरित मतेनाह-- 6 शक्तिवदिति॥ व्यक्तेरित्यर्थः। जात्यादिविशिष्टव्यक्तौ 7 सेति मतेनाह-- जात्याकृतीति॥ समभिव्याहारश्चाकाङ्क्षादि च तन्निरपेक्षेणेत्यर्थः। तत्सापेक्षत्वे सत्येवान्वयस्या 8 स्यान्नचैवमित्यर्थः। न केवलं 9 प्रतिबन्दीमात्रमित्याह-- प्रत्युतेति॥ एतदपि पूर्वभङ्ग एव"किञ्च घटमित्यनेने"इत्यादिनोपपादितमिति भावः। अत एवेति॥
1.क्ते गृही-सु.रा. 2.क्तित्वव-क. 3.न्वयस्या-सु.रा. 4.क्त्यादे-सु.रा.नं.ग. 5. आदिपदं न -सु.रा. 6.व्यक्तिवदिति--उ.ए. 7.शक्तिरितिमते-ए. 8.स्याल-नं. 9.व्यक्तरित्यधिकम् -उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 178.
------------------------ ------------ ----------
--न्यान्वयबो 1 धिका तस्या एवान्य 2 सापेक्षाया विशेषान्वयबोधकत्वात्॥
एतदेवाभिप्रेत्योक्तं पद्धतौ"प्रत्येकं सामान्यतो योग्येतरान्वितस्वार्थाभिधानशक्ती 3 नि पदानि पदान्तरसन्निधानाहितशक्त्यन्तराणि विशेषतो ऽप्यन्वितान् स्वार्थानभिदधती"ति। पदान्तरसन्निधानमेवाहितशक्त्यन्तरं लब्धसहकार्यन्तरं येषामित्यर्थः। न तु पदान्तरसन्निधानेनाहितशक्त्यन्तरमाधेय 4 शक्तिर्येषामित्यर्थः। शक्तिद्वयाङ्गीकारे गौरवात्। पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसान एव हेतुः। न पुनरविद्यमानशक्त्या 5 धान इति सुधाविरोधाच्च॥
सामान्यान्वये शक्तिस्वीकारादेवेत्यर्थः। एतदेवेति॥ सामान्यान्वयशक्तिरेवान्वयवशेषबोधकेत्येतदेवेत्यर्थः। कथमिदमुक्तार्थसंवादीत्यतोर्थमाह-- पदान्तरेति॥ कुत एवमर्थान्तरकल्पनेत्यत आह --शक्तिद्वयेत्यादि॥
यद्यपि सुधायां जिज्ञासाधिकरणे"शक्तिश्चैवान्वित"इति श्लोकव्याख्यावसरे पदानामौत्सर्गिकी सामान्यान्वये शक्तिः, पदा 6 न्तरसन्निधानाच्चागन्तुकी विशेषविषया शक्तिः, पदान्तरे च पदाधानशक्तिरिति शक्तित्रयं कल्प्यमित्युक्तम्। तथापि सहजशक्त्याधेयशक्त्यपेक्षया शक्तिद्वयेत्युक्तमित्यदोषः। प्रामाणिकत्वाद्गौरवं न दोषायेत्यत आह-- पदान्तरेति॥ सुधेति॥"शक्तिश्चैवान्विते"इति श्वोकव्याख्यानसुधेत्यर्थः।
1.धजनिका-रा.सु. 2.अन्यपदं नास्ति-सु.रा. 3.क्तानि पदानि-नं.सु.रा. 4.याशक्ति-सु.रा 5.क्त्यधीन -सु.रा. 6.दार्थान्त-नं.ए.
अन्वि-धाने-उनाक्त-बा-दकोरः) शक्तिवादः पु - 179.
---------------------------- --------- ----------
1 केचित्तु--"न पुनरविद्यमानशक्त्या 2 धान"इति सुधैव पदान्तर 3 समभिव्याहारात्पूर्वमन्वयसामान्ये 4 शक्तिर्नेत्येतन्निषेधपरेति न विरोध इत्याहुः॥
नन्वेवमप्यानयनान्वितो घटो घटान्वितमानयनमित्यन्वयरूपस्य विशेष्यरूपस्यार्थस्य च भेदेन तद्भेदनिबन्धनो वाक्यभेदः स्यादिति चे 5 न्न। 6 तथापि चैत्रो घटमानयतीत्यत्र घटप्रातिपदिकस्य जात्यादिविशिष्टव्यक्तिवाचित्वाज्जात्याकृत्यन्वितो घटः प्रकृतिप्रत्ययार्थयोः पूर्वमन्वयाद्घटान्वितं कर्मत्वं, कर्मान्वितं चानयनं, आनयनान्विता च वर्तमाना कृतिः, कृत्यन्वितश्चैत्र इत्यन्वयरूप विशेष्यरूपस्य चार्थस्य भेदेन वाक्यभेदः स्यात् ॥
बाधकान्तरमाशङ्कते-- नन्वेवमपीति॥ तद्भेदेति॥ अर्थभेदनिबन्धनः। अर्थैकत्वादेकं वाक्यमिति जैमिन्युक्तेरिति भावः। परमुखेन समाधिं वाचयितुं प्रतिबन्दीमाह-- तवापीति॥ जात्याकृत्यन्वितो घट इत्यादि प्रथमान्तस्य इत्यन्वयरूपस्येत्यनेनान्वयः। पूर्वमिति॥ क्रियान्वयात्पूर्वमित्यर्थः। पूर्वमन्वय सिद्धमर्थमाह-- घटान्वितं कर्मत्वमिति॥ आनयतीत्यत्र प्रकृतिप्रत्ययोरन्वयाह-- आनयनान्विताचेति॥ प्रत्ययस्यैव लट्त्वाख्यातत्वरूपेण प्रतिपाद्यार्थयोरन्वयमाह-- वर्तमानेति॥ कृतिरिति॥ चैत्रपदसमभिव्याहारलब्धार्थमाह-- कृतीति॥
1.केचित्विति नास्ति-सु.रा. 2.क्तत्यधीन-सु.रा. 3.रात्पूर्वमन्व-सु.रा. 4.अपीत्यधिकम्-सु.रा. 5.न इति नास्ति-नं.सु.रा.ज.ग. 6. तवापि-नं.सु.रा.ज.ग.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 180.
------------------------ ------------ --------
इयांस्तु भेदः। मन्मते प्रकृतिप्रत्ययार्थयोरन्वयः। शक्यः, तव त्वशक्त्यो 1 ऽपि माहावाक्यार्थ 2 भूतान्वयवत्सहकारिवशाच्छाब्द इति॥
ननु पदार्थस्थानीयानामुक्तानामन्वयानां भेदे ऽपि तद्बोधमात्रेण नैराकाङ्क्ष्याभावेन घटकर्मकानयनानुकूल 8 वर्तमानयत्नवांश्चैत्र इति 4 वाक्यार्थभूतान्वस्याभेदेनैकवाक्यत्वमिति चेत्समं ममापि ॥
ननु न्यायमते अन्वयस्याशक्यत्वाद्वाक्यभेदो न दोषेस्तव तु श 5 क्यत्वाद्दोष इत्यत एतद्वैषम्यमप्रयोजकम्। शाब्दत्वस्य त्वयाप्यङ्गीकारादित्याह-- इयांस्त्विति ॥ परेणैव समाधिं वाचयति-- नन्विति॥ समं ममापीति॥ वाक्यार्थीभूतस्य पटानयनान्वयस्यैकत्वेनैकवाक्यत्वसंभवादित्यर्थः॥
एतेन क्रियाकारपदयोः प्रत्येकमितरान्वितस्वार्थबोधकत्वे वाक्यार्थद्वयधीप्रसङ्गादिति मण्युक्तं, कारकान्विता क्रिया क्रियान्वितं च कारकमिति धीप्रसङ्गेत वाक्यभेदः स्यादिति शशधरोक्तं च प्रत्युक्तम्। क्रियाकारकान्वयरूपवाक्यार्थघस्यैकत्वेनैकवाक्यत्वोपपत्तेः। क्रियान्वितो घटो घटान्विता क्रियेति बोधस्य सर्वसाक्षित्वेनादोषापत्तेरिति॥
1.क्तोपि-सु.रार्. 2.थभूत-नं.ग.क. 3.वर्तमानपदं नास्ति-रा. 4.महा इत्यधिकम् -सु.रा. 5.वाक्य-नं.ए.
अन्वि-धाने-उनाक्त-वा-दकोरः) शक्तिवादः पु- 181.
---------------------------- ------ -------
नन्वन्वितस्य घटस्य घटपदार्थत्वे घटमानयेत्युक्ते ऽन्वितस्यैव घटस्य पुनरानयनाद्यन्वयधीः स्यादिति चेन्न। तव जात्याकृतिभ्यामिव मम योग्येन 1 कर्मत्वादिना धर्मेणान्वितस्यैव घटस्यानयनाद्यन्वयप्रतीता 2 विष्टापत्तेः। घटप्रातिपदिकार्थस्य प्रत्ययार्थीभूतकर्मत्वान्वयात्पूर्वं क्रियासामान्यान्वययोग्यत्वे पूर्वं क्रियासामान्यान्वयधी 3 रिष्टैव, अयोग्यत्वे तु तत एव न पूर्व 4 मान्वयधीः। अन्वयांशे अनयनाद्य 5 नन्वयस्तु तव जात्याकृत्यंश इव एकपदोपात्तत्वे 6 न प्रथमान्वितकर्मत्वांश इव चाकाङ्क्षाद्यभावाद्युक्तः॥
अन्विताभिधानवादे घटमानयेत्यादौ अन्वितान्वयापत्तिरूपबाधकमाशङ्कते -- नन्विति॥ किमत्र कर्मत्वादिरूपयत्किञ्चिद्योग्येतरान्वितस्य क्रियान्वयश्चोद्यते ऽथ कर्मत्वाद्यन्वयात्पूर्वमेव क्रियासामान्यान्वयः, कर्मत्वान्वयात्पश्चादानयनादिक्रियाविशेषा 7 न्वित इति। आद्य आह-- तवेति॥ जत्याद्यन्वितस्य यथा क्रियान्वयः एकपदोपात्तत्वात, जात्यादिव्यक्तीनां तथा कर्मत्वान्वितस्यैव क्रियान्वय इत्यर्थः। द्वितीयं आह-- घटेति॥
नन्वन्वितान्वय 8 इत्यस्य लम्बकर्णमानयेत्यादाविव विशेषणीभूतान्वयरूपविशेषणे 9 प्यानयनान्वयः स्यादित्यर्थः। विशेषणान्वयिनो ऽन्वितरूपविशिष्टान्वययोगात्। विशिष्टस्य च पदार्थत्वादित्यत आह-- अन्वयांश इति ॥ यथा जात्याकृतिविशिष्टव्यक्तिरूपे पदार्थे आनयनादिक्रियान्वये ऽपि न जात्याद्यंशे तदन्वयः, यथा व कर्मत्वविशिष्टस्यानयनान्वये ऽपि न कर्मत्वांशे ऽन्वयस्तथैवेत्यर्थः।
1.घटत्वादिनाध-नं.ज. दिध-सु.रा. 2.त्येष्टापत्तेः-नं.सु.रा.ग. 3.रपीष्टैव-नं.ज.ग.क. र्4.वन्तदन्वय-सु.रा.ग. 5.द्यन्वय-सु.रा.ग. 6.त्वे च -नं. त्वेनैव-सु.रा. 7.षान्वय इति-उ.ए. 8.इति इति नास्ति-नं.ए. 9.णस्याप्या-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 182.
------------------------ -------------- ----------
ननु नथापि घटपदजनिते जनक ज्ञाने आनयनान्वितो घट इति घटं प्रत्युपसर्जनतया भातस्यानयनस्य कथं जन्यज्ञाने घटकर्मकानयनमिति प्राधान्येन घटं प्रति भानम्। गुणप्रधानभावविपरिवृत्तौ 2 विरोधेन जन्यजनकभावस्यैवायोगात्। मम तु घटः कर्मत्वमानयनं कृतिरिति जनकज्ञाने ऽपि घटस्यानयनं प्रति प्राधान्येनाभानान्न विपरिवृत्तिरिति चेन्न।
जन्यजनकज्ञानयोर्गुणप्रधानविपरिवृत्तिरूपबाधकमाशङ्कते--ननु तथापीति॥ आनयनान्वि 3 तो घट इति ज्ञाने सत्येव घटान्वितमानयनमिति ज्ञानं 4 (घट)मानयेत्यादिवाक्ये जायत इति वाच्यम्। घटपदस्य पूर्वं 5 अयोगात्। तत्र च पूर्वज्ञान जनकमुत्तरज्ञानं जन्यमित्यपि वाच्यम्। 6 उत्तरज्ञाने ऽस्य विशेषणत्वेन तज्ज्ञानस्य विशेषणज्ञानत्वात्। एवं च जनकज्ञाने ऽन्वयप्रतियोगितया विशेषणत्वेन भादमानयनं घटश्च विशेष्यत्वेन भातः तत्कथमुत्तरज्ञाने घटो ऽन्वयप्रतियोगितया विशेषणत्वेनानयनं विशेष्यत्वेन भायादित्यर्थः। विपरिवृत्तौ विनियमे सतीत्यर्थः॥ मम त्विति॥ अभिहितान्वयवादिनस्त्वित्यर्थः। गुणप्रधानविपरिवृत्तौ जन्यजनकभावो नेत्येतत्परामर्शवादान्ते मण्युक्तरीत्या व्यभिचारीत्याह -- पुरुषस्येति॥
---------------------------------------------------------------------------1.के ज्ञाने -नं.ज.क. 2.विरोधेनेति नास्ति-सु.रा. 3. न्वितघ-नं.उ.ए. 4.घटपदं न -नं. 5.प्रयो -नं.उ.ए. 6.घटस्य विशेषणत्वेन ज्ञातस्य विशेषणे ज्ञानत्वात्-नं. ज्ञानस्य विशेषणे ज्ञानत्वात्-उ.ए. इत्यस्ति.
अन्वि-धाने-उनाक्त-वा-दकोरः) शक्तिवादः पु - 183.
----------------------------- -------- ----------
पुरुषस्य दण्ड इति ज्ञानस्य विशेषणज्ञानतया जनकत्वे ऽपि तज्जन्ये दण्डी पुरुष इति ज्ञाने ऽपि विपरिवृत्तिदर्शनात्॥
ननु ज्ञानस्य यद्विषयत्वेन जनकत्वं तन्मध्ये यद्यस्य विशेषणं 1 तत्तत्र फलीभूते ज्ञाने तस्य विशेष्यं नेति नियमः, पुरुषस्य दण्ड इति ज्ञानं 2 च न पुरुषविषयतया जनकं, किं तु दण्डविषयतया, तत्र च दण्डं प्रति दण्डत्वं विशेषणं, तस्य च न विपरिवृत्तिरिति चेन्न 3 । भूतले घटाभाव इति ज्ञानेन घटाभाववद्भूतलमिति ज्ञानदर्शनात्।
व्यभिचारोद्धारं विवक्षामुखेनाशङ्कते --नन्विति॥ तस्य च न परिवृत्तिरिति॥ दण्डीत्यत्र पुरुषं प्रति दण्डस्य विशेषणत्वे ऽपि द 4 ण्डापेक्षया दण्डत्वस्य विशेषणत्वा 5 नपायादिति भावः। अयमिप नियमो नेत्याह-- भूतल इति॥ अभावनिर्विकल्पकानभ्युपगमेनाभाववद्भूतकमिति विशिष्टज्ञानं प्रत्यभावरूपविशेषणज्ञानस्य हेत्वुत्वात्तदर्थं भूतले ऽभाव इति विशेष्यतयाभावज्ञानानन्तरमेवाभावविशिष्टज्ञानमिति प्रामाण्यवादादौ तत्र तत्र मण्यादावुक्तत्वादिति भावः। अस्त्वेवं तावतोक्तस्य कथं व्यभिचार इत्यत आह--तत्रेति॥
1.तत्फलीभू-सु.रा.ग. 2.ने च -सु.रा. 3.न इति नास्ति-सु.रा. 4.पिण्डापे-उ. 5.त्वस्यान-उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 184.
----------------------- ------------ ----------
तत्राधिकरणज्ञानसाध्याभावज्ञाने भूतलज्ञानस्यापि हेतुत्वात्। न च परोक्षज्ञाने अयं नियमः। अप्रयोजकत्वात्। पर्वते वह्निव्याप्यो 1 धूम इति परामर्शेनापि पर्वतो वह्निमानित्यनुमितिदर्शनाच्च ॥
तस्यैव विवरणमधिकरणेत्यादि॥ अभावज्ञान इति॥ पटाभाववद्भूतलमित्येवंरूपे ऽभावविशिष्टज्ञान इत्यर्थः। अधिकरणज्ञानसाध्येति विशेषणं प्रागुक्तनियमभङ्गोपपादनायोक्तम्। भूतले घटाभावज्ञानं जनकं तच्च भूतलघटाभावोभयविषयकत्वेनैवाभाववद्भूतलमिति ज्ञाने हेतुरिति वाच्यम्। विशेषणज्ञानत्वेन हेतुत्वार्थमभावविषयकत्वस्याधिकरणज्ञानत्वेन हेतुत्वार्थं भूतलविषयकत्वस्यावश्यकत्वात्। एवं च जनकज्ञानस्य यद्विषयत्वेन हेतुत्वं तन्मध्ये एव विशेषणविशेष्यतया प्रतीतयोर्भूतलाभावर्योर्जन्यज्ञाने विशेष्यविशेषणभावदर्शनमस्तीति भावः कथं न नियभङ्ग इति॥ न च परोक्षेति॥ इदं चापरोक्षज्ञानमिति भावः। अप्रयोजकत्वादिति॥ एतेन अभाववबुद्ध्यन्यबुद्धावेवायं नियम इत्यपि प्रत्युक्तम्। परोक्षादाविव सर्वत्रोपपत्तौ गुणप्रधानभावविपरिवृत्तौ न जन्यजनकभाव इति नियमग्राहकप्रमाणाभावादिति भावः। अत एव शाब्दबोध एवायं नियम इत्यपि प्रत्युक्तम्। अप्रयोजकत्वादिति॥ पर्वत इति॥ जनकज्ञाने विशेषणत्वेन भातस्यापि पर्वतस्य जन्यानुमितौ विशेष्यत्वदर्शनेन परोक्षज्ञाने ऽयं नियम इत्यपि नेत्यर्थः॥
उपपादितं सर्वं बुद्ध्यारोहाय संग्रहेणानुवदन्नुपसंहरति-- तस्मादिति॥ बाधकानां समाहितत्वादित्यर्थः।
1. व्याप्तो धू - नं.क.
अन्वि-धाने-उनाक्त-बा-दकोरः) शक्तिवादः पु - 185.
---------------------------- -------- ----------
तस्मात् पर्यायत्वापत्तिः, वैयर्थापत्तिः, पुनरुक्त्यापत्तिः, अन्योन्याश्रयद्वयापत्तिः, विशेषान्वयप्रतिबन्दी, वाक्यभेदापत्तिः, अन्वितस्यैव पुनरन्वयापातः, अन्वयांशस्याप्यानयनाद्यन्वयापत्तिः, जन्यजनकज्ञानयोर्गुणप्रधानभावस्य विपरिवृत्तिरिति बाधकदशकमपि न युक्तमिति ॥
तस्मात्पदान्यन्विते शक्तान्येव ॥
अन्विताभिधाने उदयनाद्युक्तबाधकदशकोद्धारः
नन्वेवमपीत्यादिनोक्तमाह-- वैयर्थ्येति॥ आर्थिकपुनरुक्तेरदोषत्वपादित्युक्तमाह-- पुनरिति॥ न चैवमपि क्रियापदेनेति, न चैवमपि कारकपदेति चोक्तमाह-- अन्योन्याश्रयद्वयेति॥ नन्वेवं चेत्यादिनोक्तमाह-- विशेषान्वयेति॥ नन्वेमपीत्यादिनोक्तमाह-- वाक्यभेदेति॥ नन्वन्वितस्येत्यादिनोक्तमाह-- अन्वितस्यैवेति॥ अन्वयांश इत्यादिनोक्तमाह-- अन्वयांशस्येति॥ ननु तथापीत्यादिनोक्तमाह-- जन्येति॥
भङ्गद्वयार्थमुपसंहरति -- तस्मादिति॥ साधकाभावाद्बाधकाभावाच्चेत्यर्थः॥
अन्विताभिधाने बाधकदशकोद्धारः
वि
वि
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 186.
------------------------ ------------- ----------
अथ अन्विताभिधाने युक्तिदशकम्
अथ मतम्--
अस्त्येवान्वये शक्तिः, किं तु सा स्वरूपसत्येव हेतुः, न तु ज्ञाता। पदार्थे शक्तिज्ञानादेवान्वय बोधोपपत्तेः। न च वैपरीत्यं शङ्क्यम्। अन्वयस्य पदार्थनिरूप्यत्वेन नागृहीतविशेषणान्यायेन तत्रैव शक्तिग्रहस्य हुतुत्वात्। व्यवहरेण लिङ्गे 1 नान्विते -
अथ अन्विताभिधाने युक्तिदशकम्
यत्तु मणौ पदशक्तिवादपूर्वपक्षे प्राभाकरमतानुवादप्रस्तावे जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि हेतुः लाघवमिति कुब्जशक्तिवादस्त्वयानैयायिकेनाप्यन्वये कुब्जशक्तिस्वीकारादिति दृष्टान्तमुखेनान्वये कुब्जशक्तिरुपक्षिप्ता तां तन्मताभिमतोपपादनपूर्वमनुवदति -- अथ मतमित्यादिना॥ कुत इत्यतो ऽयतो 2 लभ्यत्वान्न तत्र ज्ञातोपयुज्यत इत्याह -- पदार्थ इति॥ वैपरीत्यमिति॥ अन्वये ज्ञाता पदार्थे स्वरूपसतीति वैपरीत्यमित्यर्थः। नागृहीतेति॥"नागृहीतविशेषणा विशेष्य बुद्धरुत्पद्यते"इति न्यायेन प्रथमोपस्थितपदार्थरूपविशेषणांश एव शक्तिग्रहस्य हेतुत्वादित्यर्थः। व्यवहारलिङ्गकान्वितशक्तिग्रहविरोध इत्यत आह-- व्यवहारेणेति॥
1.लिङ्गेति नास्ति- सु.रा. 2.न्यलभ्य-नं.उ.
अन्वि-धाने-युदकम्) शक्तिवादः पु - 187.
------------------ ----------- ----------
शक्तिग्रहे ऽपि गौरवान्यलभ्यत्वाभ्यामन्वयांशमपहाय पदार्थमात्रविषयत्वेनैव शक्तिग्रहस्य शाब्दबोध 1 हेतुत्वकल्पनात्॥
न चैवं पदर्थे ज्ञाता शक्तिरुपयोगिन्यन्वये त्वज्ञातेति शक्तिद्वित्वे गौरवमिति वाच्यम्। गुरुमते जातिविशिष्टव्यक्तिविषयायाः शक्तेरेकत्वे ऽपि जात्यंशमात्रे ज्ञातोपयोगित्ववदिहाप्यन्वितविशषयायाः शक्तेरेकत्वे ऽपि पदार्थांशमात्रे 2
ज्ञानतोपयोगित्वस्योपपत्तेः। अत एव कुब्जशक्तिवाद इति॥
उच्यते ॥
अस्मिन्नपि पक्षे ऽन्विते प्राथमिकी व्युत्पत्तिरित्यादि सिद्धान्तसाधकं युक्तिषट्कं सुस्थिरमेव ॥
ननूभयत्र शक्तेरेकत्वे ज्ञातत्वाज्ञातत्वयोर्विरोधेन शक्तिभेदे गौरवमिति शङ्कते -- न चेति॥ शक्त्यैक्ये ऽप्यवच्छेदक भेदादाविरोध इति सदृष्टान्तमाह-- गुरमत 3 इति॥ जात्यंश इति॥ नागृहीतविशेषणान्यायेनेति भावः। ज्ञातोपयोगित्ववदिति ॥ जातिविशिष्टव्यक्तिज्ञानहेतुत्वं यथातथेत्यर्थः। ज्ञाताया उयोगित्वं ज्ञातोपयोगित्वं तद्वत्,"तदशिष्य 4 प्रमाणत्वा"दितिवदयं निर्देशः साधुः। एवमग्रे ऽपि । अत एवेति॥ अंशभेदेनाज्ञानत्वादेवेत्यर्थः। सिद्धान्तसाधकमिति॥ प्रागन्विते शक्तिरित्यत्रोक्तसाधकषट्कमेवान्वये ऽपि शक्तिग्रहो हेतुरिति पक्षे ऽपि समानमित्यर्थः॥
1.धेहे-- सु.रा. 2.चेत् इत्यधिकम्-रा.सु. ऽउच्यतेऽ इति पर्यन्तं नास्ति-सु.रा. 3.तमिति-नं.ए. 4.संज्ञा इत्यधिकम्-ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 188.
------------------------ ------------- ---------
न चान्वये शक्तेः सत्वमात्रेण तस्य शाब्दत्वं तस्याः प्रत्यासत्तित्वं च युक्तमिति वाच्यम्। शक्तिभ्रमेणापि शाब्दयोर्भ्रमप्रमयोर्दर्शनेन शक्तिज्ञानस्यैव शाब्दत्वे तन्त्रत्वात्। प्रत्यासत्तित्वात्॥
किं च धूमोस्तीति 1 वाक्ये धूमशशब्दस्य वह्नौ लक्षणारूपवृत्तिज्ञाने सत्येव शाब्दधीरन्यथानुमितिरित्यन्वयांशे वत्यज्ञाने कथमन्वयस्य शाब्दत्वम् ॥
ननु 2 तत् प्रागन्वयस्याशक्यत्वे तद्धियोशाब्दत्वमुक्तं, यच्च शब्दरूपकरणस्यान्वयांशे प्रत्यासन्नत्वं स्यादित्युक्तं तद्द्वयमप्यन्वयांशे शक्तिग्रहस्य न हेतुत्वसाधकं, अन्यथैव तत्सिद्धेरिते शङ्कते-- न चान्वय इति॥ 3 भ्रमेणापीति॥ स्वरूपसत्या एव शक्तेः शाब्दधीहेतुत्वे प्रत्यासत्तित्वे च
तद्भ्रमेण श 4 ब्दभ्रमो न स्यात्। दृश्यते चायमतः तज्ज्ञानमेव तत्र हेतुः। ज्ञातैव च सा तत्र प्रत्यासत्तिरित्यर्थः। क्वचिच्छाब्दप्रमाभ्रमयोर्दर्शनेनेति पाठः, स तु गाव्याद्यसाधुशब्दशक्तिग्रहे प्रमाया अपि दृष्टेस्तदभिप्रायः। केचित्तु। यादृच्छिकप्रमाग्रह इत्याहुः॥
एवं प्रागुक्तसाधकषट्कमध्ये 5 युक्तत्वेन 6 भ्रान्तं साधकद्वयमुपपाद्येदानीं युक्तिं च चतुष्टयमधिकं विवक्षुः अन्यत्र कॢप्तत्वाच्छक्तिस्थले ऽपि तज्ज्ञान 7 मन्वयांशेप्यावश्यकमित्याह -- किञ्चेति॥ शाब्दधीविषयः स्वविषयशक्तिज्ञानविषयः तज्जन्यज्ञानविषयत्वात्। न चासिद्धिः। पदार्थांशे शक्तिज्ञानस्य परेणापि हेतुत्वोपगमात्। न च दृष्टान्ताभावः। 8 परोक्षानुमानस्थले जन्यज्ञानविषयसंबन्धस्य जनकज्ञानेपि विषयत्वनियमादिति युक्त्यन्तरमाह -- अपि चेति॥
1.त्यादि -सु.रा. 2.यत् इति नास्ति-नं.उ.ए. 3.शक्ति इत्यधिकम्-उ.ए. 4.शाब्द-नं.उ.ए. 5.ध्येप्युक्त-नं.उ. 6.भातं-नं.उ. ऽभ्रान्तंऽ इत्येतत् रेखयाताडितम्-ए. 7.द्भानं-नं. 8.न चेत्यादि नास्ति-नं.उ.ए.
अन्वि-धाने-युदकम्) शक्तिवादः पु - 189.
------------------ --------- ----------
अपि च 1 परोक्षज्ञाने फलीभूतज्ञानविषयस्य संबन्धस्य जनकीभूतज्ञानविषयत्वनियमेव शाब्दफलीभूतज्ञानविषयस्यान्वयस्य तज्ज 2 नकशक्तिज्ञानविषयत्वमावश्यकम्। भवति हि पक्षतदितरसाधारण्येन प्रवृत्तस्य वह्निधूमसामानाधिकरण्यविशेषरूपव्याप्तिज्ञानस्य पर्वतवह्निसंबन्धो ऽऽषि सामान्येन विषयः ॥
किं च यद्यन्वयांशे शक्तिज्ञानं न हेतुस्तर्हि घटमानयतीत्यादिपदजातादिव, घटः कर्मत्वमानयनं कृतिरित्यादिपदजातादपि कथं नान्वयधीः। पदस्य पदार्थे शक्तेस्तत्स्मृतेस्तत्साध्याया अनन्वितपदार्थस्मृतेः पदार्थेषु योग्यतादेश्च सत्वात्॥
सविकल्पकविषयसंबन्धस्य निर्विकल्पकाविषयत्वात्परोक्षेत्युक्तम्। नियमेनेत्येतदसिद्धमित्यतो व्यनक्ति-- भवति हीति॥ सामानाधिकरण्यविशेषेति॥
अव्यभिचरितसामानाधिकरण्येत्यर्थः। सामान्येन विषय इति॥ अन्यथा पर्वतीयधूमदर्शनात्पर्वतीयवह्निज्ञानानुदयापत्तेरिति भावः। घटः कर्मत्वमित्यादावन्ययाप्रतीतिरप्यन्वयांशे ऽपि शक्तिज्ञानस्य हेतुत्वे मानमित्याह-- किं च यदीति॥ सामग्र्यभावान्नान्वयधीरित्यत आह-- पदस्येति॥ तत्साध्यायाः शक्तिस्मृतिसाध्याया इत्यर्थः। अनन्वितेति॥ अन्वयाविषयकपदार्थस्मृतेरित्यर्थः।
1.चाप -नं. 2.तदज्ञात शक्ति-नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 190.
------------------------ ---------- --------
न च तत्राकाङ्क्षा नास्तीति वाच्यम् । अन्वयविशेषाकाङ्क्षादावहेतुभूतं सामान्याज्ञानं प्रत्यन्वयसामान्यशक्त्यज्ञानस्यैव तन्त्रत्वात् ॥
1 न च तादृशं पदजातं शिलाशकलमङ्कुर इव क्रियाकारकभावेनान्वयबोधे स्वरूपायोग्यं, तेन कदाप्यन्वयबोधादर्शनादिति वाच्यम्। एवं हि घटः कर्मत्वमित्यादिवाक्यं श्रुतवतो ऽभिज्ञस्य नाम विभक्तिधात्वाख्यातस्मरणादुत्पन्नान्वयबोधस्य प्रयोज्यवृद्धस्य व्यवहारं पश्यतो बालस्य घटः कर्मत्वमित्यादावेव व्युत्पन्नस्य ततो ऽन्वयबोधो न स्यात् ॥
योग्यतादेरित्यादिपदेनाकाङ्क्षासत्योह्ग्रहः। सामान्याज्ञानं अन्वयसामान्यज्ञानं प्रतीत्यर्थः। शक्त्यज्ञानस्येति । तथा च शक्तिज्ञानमाकाङ्क्षासद्भावार्थमवश्यमुपेत्यमिति भावः। योग्यता नेति शङ्कते -- न चेति॥ शिलेति॥ शिलाशकलमङ्कुरे यथा न योग्यं तथेत्यर्थः। एवं हिति॥ स्वरूपायोग्यत्व इत्यर्थः। नामेति॥ घटेति नाम, द्वितीया विभक्तिः, आनयेत्यानयनधातुः, लुप्ताख्याताख्यतिङ्प्रत्ययरूपहि शब्दः एतेषां स्मरणादित्यर्थः। अन्वयेति॥ घटकर्मकानयनरूपान्वयबोधस्येत्यर्थः। इत्यादावेवेति॥ स्मारितनामविभक्त्या 2 व्यवहारहेतुत्वमजानतो घटः कर्मत्वमित्येतद्घटकर्मेत्यर्थे, आनयनं कृतिरित्येतदायनं कुर्वित्यर्थः, शक्तमिति ज्ञानवत इत्यर्थः। ततः घटः कर्मत्वमित्यादिवाक्यादित्यर्थः। एतेनैवाकाङ्क्षाभावो ऽपि प्रत्युक्तः।
अन्वि-धाने-युदकम्) शक्तिवादः पु - 191.
------------------ -------- ----------
न च शक्तिभ्रमरूपसहकारिवशादन्वयधीः। स्वरूपयोग्यस्य सहकारिशतसमवधाने ऽपि कार्याजनकत्वात्। तस्मात्स्वरूपयोग्यमेव तत् बालं प्रत्यन्वयांशे शक्तिज्ञानरूपसहकारिसहितत्वादन्वयबोधकम्। अन्यं तु प्रति तद्रहितत्वान्नेत्यन्वयांशे शक्तिज्ञान 1 सहकारिता सिद्धा॥
किं च पदार्थांशे शक्तिज्ञानमपि पदार्थस्मृतिद्वारा शक्ति 2 धीहेतुरिति ते मतम्। न च तत्स्मृतौ शक्तिरूपसंबन्धस्य शक्तित्वेन ज्ञानमपेक्षितं, तदभावे ऽपि हस्तिरूपसंबन्धिदर्शनजन्यं हस्तिपकस्मरणं प्रति संबन्धांशे ज्ञानस्य संबन्धत्वप्रकारकस्यैव हेतुत्वदर्शनात् । किं तु संबन्धत्वेनैव ज्ञानमपेक्षितम्। एवं चाकाशमस्तीतिवाक्यादाकाश 3 शब्दसमावायित्वेनाकाशस्मृतिमत आकाशशब्दे--
4 अयोग्येपि वाक्ये ऽन्वयधीरन्यहेतुकेत्याशङ्क्याह-- न चेति॥ तदिति॥ घटः कर्मत्वमित्यादिवाक्यमित्यर्थः। ततश्च किं प्रकृत इत्यत आह-- बालं प्रतीति॥ शक्तित्वेन शक्तिज्ञानस्या 5 नन्यथासिद्धत्वं चान्वयधीहेतुत्वे मानामित्याहु -- किं चेति॥ ते मतमिति॥ सिद्धान्ते शक्तिज्ञानवाक्यार्थज्ञानयोर्मध्ये पदार्थस्मृतेरनभ्युपगमादिति भावः। अस्त्वेवं ततः किमित्यत आह-- एवं चेति॥ सम्बन्धत्वेन शक्तिज्ञानस्य पदार्थस्मृतिहेतुत्वे सतीत्यर्थः।
1.नस्य सह-नं.सु.रा.ग. 2.शब्दधी-नं.सु.रा.ग.क. 3.शस्य-सु.रा. 4.अयोग्येति । इत्यस्ति-नं.उ. 5.स्यान्यथा-नं.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 192.
------------------------ ------------- --------
-व्युत्पत्तिहीनस्यापि पुंस आकाशास्तित्वबोधः स्यात्। न चात्र नामविभक्त्याख्यातयुक्ते स्वरूपायोग्यत्वं शङ्कार्हम्॥
अथ संबन्धत्वप्रकारकज्ञानेनैवाकाशस्य स्मरणे सिद्धे ऽनुभवार्थं शक्तित्वेन ज्ञानमपेक्ष्यत 1 इति चेत्तर्ह्यन्वयानुभवार्थं तत्रैव शक्तिज्ञानापेक्षेति मदिष्टसिद्धिः॥
एवं चान्विताभिधाने न केवलं पूर्वोक्तं षट्कम्। किं तु वृत्तिज्ञाने सत्येव शाब्दधीः, परोक्षज्ञाने फलीभूतज्ञानविषयस्य संबन्धस्य जनकीभूतज्ञानविषयत्वनियमो घटः कर्मत्वमित्यादावन्वयाप्रतीतिः, पदार्थस्मृतेरन्यथापि सिद्ध्यान्वयानु--
आकाशास्तित्वबोधः स्यादिति॥ शक्तित्वेन शक्तिज्ञानरूपकारणं विना 2 न्यस्य पदार्थस्मृत्यादिरूपकारणस्य सर्वस्य सत्वादिति भावः। योग्यताविरहदन्वययबुद्ध्यभाव इत्यत आह-- नचात्रेति॥ आकाशमस्तीति वाक्य 3 मित्यर्थः। तर्हीति॥ अनुभवार् 4 थकत्वपक्षे केवलपदार्थे तदयोगेनान्वयसहित एवानुभवस्य वाच्यत्वेन तदर्थमेवान्वये शक्तिज्ञानमपेक्षितमित्युक्तं भवतीत्यर्थः। एवमुपपादितं सङ्ग्रहेणानुवदन्नुपसंहरति -- एवं चेति॥ अन्वितेति॥
1.इति चेत् इति नास्ति-सु.रा.ज.ग. 2.नास्यपदा-नं.उ. 3.क्य इत्य-एर्. 4.थत्वप -नं.उ.ए.
व्यक्ति-प्रन्द्या-दुरि-हत्वम्) शक्तिवादः पु - 193.
----------------------- ---------- --------
भवार्थं तत्रैव शक्तिज्ञानापेक्षेति युक्तिचतुष्टयमपि ॥
अन्विताभिधाने युक्तिदशकम्
अंशद्वये ऽपि शक्तिज्ञानेनैव पदार्थतदन्वयाभिधान इत्यर्थः। स्पष्टो ऽयं ग्रन्थः॥
अन्विताभिधाने 1 प्रागुक्तेन सह युक्तिदशकम्
अथ व्यक्तिप्रतिबन्द्या दुष्परिहरत्वम्
ननु -- षट्कान्तर्गता व्यक्तिप्रतिबन्दी न युक्ता। व्यक्तौ शक्तिज्ञानस्याहेतुत्वे जाताविव व्यक्तावपि --
अथ व्यक्तिप्रतिबन्दी दुष्परिहरत्वात्
ननु -- यदुक्तं शक्तिः पदार्थे ज्ञातोपयुज्यते, अन्वये तु स्वरूपसतीति कुब्जशक्तिपक्षे साधकष्टकं स्थिरमेवेति तत्रान्वयस्य शाब्दत्वं कारणरूपशब्दस्य
प्रत्यासन्नत्वं च शक्तिज्ञानं विना न युक्तमिति साधकद्वयस्योपपादने ऽपि शक्तिर्जाताविव व्यक्तावपि तद्विशिष्टव्यक्तिबोधे ज्ञातोपयुज्यते न तु व्यक्त्यंशे अज्ञातेति यथोच्यते तथान्वयांशे ऽपीति यत्साधकमभिहितं तदयुक्तम्। येन जातिव्यक्तिप्रतिबन्द्यान्वयांशे ऽपि शक्तिर्ज्ञातोपयुक्ता शाब्दबोधे स्यादिति भावेन शङ्कते -- नन्विति॥ पदशक्तिवादसिद्धान्ते मण्युक्तमाह-- व्यक्ताविति॥ व्यक्त्यंशे या --
1. शक्तिज्ञानपूर्वकमेवान्विताभिधानमित्यत्र प्रागु -नं.उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 194.
------------------------ ------------- --------
शक्तत्वेन ज्ञातस्यैव प्रयोजकत्वसम्भवे शक्यत्वेन ज्ञातजातिसंबन्धिव्यक्तित्वरूपप्रयोजकान्तरकल्पने गौरवमिति चेत् समन्वये ऽपि प्रोजकान्तरल्पने ऽनुव्याख्यानोक्तं गौरवम्॥
ननु गोत्वे गौपदं शक्तमिति ज्ञातं प्रति विषतया जातेरवच्छेदकत्वं नागृहीतविशेषणान्यायेन विशेषणीभूतव्यक्तिमादायैव युक्तम्। व्यक्तिं विना जातेरनुपस्थितेः।
- शक्तिस्तज्ज्ञानस्य जितिविशिष्टव्यक्तिज्ञान 2 हेतुत्वे व्यक्त्यंशे शक्तेः स्वरूपसत्या एव हेतुत्वे गौरवमित्यन्वयः। कथमित्यत उक्तं जातिवेशत्यादि। ग 3 वादिशब्देन गोत्वादिज्ञाने जनयितव्ये जातेर्गोपदशक्यत्वेन ज्ञानतत्वं यथा प्रयोजकं तथा गोव्यक्तिज्ञाने जनयितव्ये ऽप गोपदशक्यत्वेन ज्ञानतत्वस्यैव प्रयोजकत्वसंभवे तत्यागेन गोपदादिशक्यत्वेन ज्ञाता या गोत्वादिजातिस्तत्संभबन्धिव्यक्तित्वादिरूपप्रयोजकान्तरस्य कल्पनीयत्वादित्यर्थः॥ प्रयोजकान्तरेति॥ पदार्थ इवान्ये ऽपि शब्दशक्यत्वेन ज्ञातत्वरूपकॢप्तप्रयोजकत्यागेन शक्यत्वेन ज्ञातपदार्थान्वयत्वरूप्रयोजकान्तरल्पने"गौरवं कल्पने ऽन्यथे"ति साधकषट्कवादोदाहृतानुव्यख्यानोक्तगौरवमिति मूलारूढताप्रदर्शनायानुव्याख्यानेत्युक्तम् ॥
पदशक्तिवादसिद्धान्ते मण्युक्तदिशा शङ्कते-- नन्विति॥ गोत्वे गोपदं
शक्तमितिज्ञाते गोत्वं विशेष्यत्वेन विषयः। अत एव ज्ञाने व्यावर्तकापरपर्यायमवच्छेदकं जातौ च गोव्यक्ति 4 र्विशेषणम्। तया विना जातेरप्रतीतेः।
1.शक्यत्वे-रा.सु.ग. 2.नाह-ए. 3.गकारदि श नं.उ. 4.क्तिविशेषणतया-नं.ए.
व्यक्ति-प्रन्द्या-दुरि-हत्वम्) शक्तिवादः पु - 195.
----------------------- -------- ---------
अन्वये तु नैवम्। तं विनापि पदार्थोपस्थितेरिति चेन्मैवम्। अन्वितविषयकव्यवहाररूपलिङ्गजन्ये शक्तिग्रहे ज्ञाने नियमोपस्थितेरन्वये ऽपि सत्वात्। अन्यत्र नियमेन प्रतीतेस्तु नित्यादिपदन्यज्ञाने गोत्वप्रतीतावपि गवादि 1 व्यक्तेरप्रतीत्या व्यक्तावप्यसत्वात्। एवं व्यक्त्यन्वययोस्साम्ये ऽपि वैरूप्यकल्पने गौरवम्॥
तथा च नागृहीतविशेषणा विशेष्ये बुद्धिरित न्यायेन गोत्वे गोपदं शक्तमिति ज्ञानं गोव्यक्तिं गोत्वं च विषयीकरोतीति तादृशज्ञानं प्रति जातिव्यक्त्योर्द्वयोरपि विषयतयावच्छेदकत्वं न्याय्यमिति जात्यंश इव व्यक्त्यंशे ऽपि शक्तिज्ञानं जातिविशिष्ट्व्यक्तिज्ञाने हेतुरिति युक्तम्। अन्वये तु नैवम्। तद्व्यनक्ति-- 2 तमिति ॥ ज्ञान इति॥ इतरान्विते शक्तमित्येवंरूपज्ञानस्यैव वृद्धव्यवहारजन्यत्वस्य प्रागुपादा 3 नात्। तादृशज्ञाने च पदार्थस्येवान्वयस्यापि नियमेनोपस्थित्या तं विना पदार्थोपस्थितेरित्यस्यासिद्धिरितिभावः॥
ननु व्यवहाररूपलिङ्गजन्यप्राधमिकशक्तिज्ञाने ऽन्वयस्य नियमेनोपस्थितावपि व्याकरणोपमानकोशादिजन्यपाश्चात्यशक्तिज्ञाने अन्वयप्रतीतेरसत्वमेवेत्यतो व्यक्तावपि तथेत्याह-- अन्यत्रेति॥ गौर्नित्येत्यदौ व्यक्तेर्बाधेन जातेरेव प्रतीत्या व्यक्तिप्रतीतेरसत्वादित्यर्थः॥
"गौरवं कल्पने ऽन्यथा"इति मूलारूढतां दर्शयति-- एवमिति॥ अपि च यद्धर्मवत्तया ज्ञात एव यत्र यस्य ज्ञानं स तत्रावच्छेदक इत्यादिमण्युक्तं हृदि कृत्वा वैषम्यान्तरमनूद्य निराह -- एतेनेति॥
1.गवादि इति नास्ति- सु.रा. 2.तं विनापीति। अन्वितेति॥ इतरा-उ. 3.पपादित्वात्-उ. दनात् -ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 196.
------------------------ -------------- ---------
एतेन जातिव्यक्त्योस्समानसंवित्संवेद्यतया व्यक्तिज्ञानत्वेन ज्ञात एव जातिज्ञाने शक्तिग्रहाद्व्यक्तेरप्यवच्छेदक 1 तया शक्यत्वं, न त्वन्ययस्येति निरस्तम्। शक्तिग्राहके ज्ञाने समानसंवित्संवेद्यत्वस्यान्वये ऽपि सत्वात्। अन्यत्र तदसत्वस्याकिञ्चित्करत्वादि 2 त्युक्तत्वात्। जातिव्यक्त्योः समानसंवित्संवेद्यत्वे ऽपि तज्ज्ञानत्वयोस्तदभावाच्च॥
गोत्वाद्यर्थे गवादिपदं शक्तमित्येकं मतम्। गोत्वादिज्ञाने शक्तमित्यपरं मतम्। तन्मतावष्टम्भेन व्यक्तिज्ञानत्वेन ज्ञात एव, जातिज्ञान इत्यनुवादः। जातिव्यक्त्युभयिषयज्ञान्स्यैकत्वात्। अस्मिन् पक्षे शक्तिपदं कारणत्वम्। अर्थे
शक्तमिति पक्षे चेश्वरसङ्केतपरमिति ध्येयम्। परमते 3 इन्द्रियशक्तेरभावात्॥ उक्तत्वादित॥ 4 प्राधमिकव्युत्पत्तितो ऽन्यत्र व्याकारणादिव्युत्पत्तिस्थले समानवित्तिवेद्य 5 त्वासत्वस्यान्यत्र नियमेन प्रतीते 6 स्त्वित्यादिपूर्ववाक्ये जातिव्यक्त्योरपि तदसत्वस्योक्त्याकिञ्चित्करत्वादित्युक्तप्रायत्वादित्यर्थः। तज्ज्ञानत्वयोरिति॥ जातिज्ञानत्वव्यक्तिज्ञानत्वयोरित्यर्थः। तथाच व्यक्तिज्ञानत्वे 7 न ज्ञान एव जातिज्ञान इत्ययुक्तमिति भावः॥
1.कायाः-सु.रा. 2.ऽइत्युक्तत्वातऽ इति नास्ति-सु.रा. 3.तेतीन्द्रिय-ए. 4.अन्वयेपि सत्वादित्यनेनोक्तत्वादित्यर्थः। इत्यधिकम्-ए. 5.द्यत्वस्या-नं. 6.तेरस्त्वि-उ. 7. त्वे ज्ञा -नं
व्यक्ति-प्रन्द्या-दुरि-हत्वम्) शक्तिवादः पु - 197.
----------------------- -------- ----------
न च जातिविशिष्टव्यक्तौ शक्त्यभावे तयोर्वि 1 शिष्टा धीर्न स्यादिति वाच्यम्।
त्वन्मते पदार्थयोरिव जातिव्यक्त्योरपि प्रथमं पदादनन्वितयोरेवोपस्थितावपि पश्चादाकाङ्क्षादिसहकारेण वैशिष्ट्यरूपान्वयधीसंभवात्॥
न चैकपदोपस्थाप्य 2 योः परस्परमन्वयोः न व्युत्पन्न इति वाच्यम्। जीर्णनैयायिकमते एक लिङ्प्रत्ययोपात्तयोरपि कृतीष्टसाधनत्वयोः सर्वेषां मते एकलट्प्रत्ययोपात्तयोः कृतिवर्तमानत्वयोरन्वयधीदर्शनात्॥
ननु -- जातवेव शक्तिरितिपक्षे जातिविशिष्टव्यक्तिबुद्ध्यनुपपत्या तत्र विशिष्टे शक्तिरस्तु। न त्विन्विते॥ अन्वयधियो ऽन्यलभ्यत्वादित भावेनाशङ्क्याह-- न चेति॥ जातिविशिष्टव्यक्तिबुद्धेरपि तथैवान्यलभ्यत्वातन्न विशिष्टे शक्तिरस्त्वित्याह-- त्वन्मत इति॥ गामानयेत्यादौ गवानयनादिरूपपदार्थयोरिवेत्यर्थः। अनन्वितयोरन्वयविनाकृतयोरित्यर्थः। वाक्ये पदद्वयोपस्थाप्यपदार्थयोस्तथान्वयबोधयोगे ऽपि न जातिव्यक्त्योरेकशब्दोपस्थाप्यत्वादिति शङ्कते -- न चेति ॥
एकलिङिति॥ ननु 3 तत्र वाचकैक्येपि 4 लिङाख्यातत्वरूपवाचकतावच्छेदकभेदोस्तीति चेन्न। तस्याप्रयोजकत्वादिति भावः॥
1.वैशिष्ट्य- ग.ज.क. 2.पितयोः-नं. 3.यत्र-नं. एकत्र-ए. 4.पुल्लिङाख्यातत्व-नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 198.
------------------------ ------------- ---------
न च व्यकेरन्य 1 लभ्यत्वसंभवे ऽपि विभक्त्यर्थीभूतसङ्ख्याकर्मत्वाद्यन्वयार्थं व्यक्तेः पदार्थत्वमुपेयम्, सुब्धिभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वस्य व्युत्पन्नत्वादिति वाच्यम्। अन्वयस्य शब्दवृत्यविषयत्वे ऽपि शाब्दत्ववद्व्यक्तेरपि प्रकृतिवृत्यविषयत्वे ऽपि प्रकृत्यर्थत्वस्य संभवेन विभक्तर्थान्वयोपपत्तेः॥
अन्यथा दण्डिनमानयेत्यादौ दण्डिशब्दप्रतिपाद्ये दण्डविशिष्टपुरुषे कर्मत्वाद्यन्वयो न स्यात्। 2 तन्मते दण्डिशब्दस्य तत्र वृत्यभावात्॥
ननु ज्ञातकरणे संबन्धो यावत्प्रतियोगिकत्वेन ज्ञात एव ज्ञातहेतुः, व्याप्तिहेतुः
संबन्धे तथादर्शनादिति --
ननु व्यक्तेरशब्दार्थत्वे शब्दार्थभूतैकत्वा 3 दिसंख्याद्यन्वयो न स्यादतस्तत्र शक्त्तयैवोपस्थितिरपेक्षितेत्याशङ्कते -- न चेति॥ अन्ययप्रतिबन्दीमाह-- अन्वयस्येति॥ प्रकृति 4 वृत्तीति॥ प्रातिपदिकनिष्ठशक्त्यादिरूपवृत्त्यविषयत्वे ऽपि शक्य 5 पदार्थान्वयत्वेनान्वयस्येव शक्य
जातिसम्बन्धव्यक्तित्वेनोपस्थितस्य प्रातिपदिकरूपप्रकृतिशब्दार्थ 6 त्वं स्यादेवेत्यर्थः। प्रकारान्तरेण व्यक्त्यंशशक्तिज्ञानं जातिविशिष्टव्यक्तिधीहेतुरिति शङ्कते -- नन्विति॥ ज्ञातं यत्करणं गोशब्दादिरूपं तत्संबन्धो जातिव्यक्त्यादिरूपयावत्प्रतियोगित्वेनेत्यर्थः। तथेति॥ व्याप्यव्यापकरूपयावत्प्रतियोगिकत्वेन ज्ञाने सत्येवानुमितिहेतुत्वदर्शनादित्यर्थः।
1.रल -ग.सु.ग. 2.त्वन्म-सु.रा.ग.ज.क. 3.त्वसं-उ. त्वात्सं-नं. 4.वृत्तिपदं न -उ. 5.क्तप-उ. क्तिप-नर्ं. 6.थः- उ.नं.
व्यक्ति-प्रन्द्या-दुरि-हत्वम्) शक्तिवादः पु - 199.
------------------------ --------- --------
व्यक्त्यंशे ऽपि शक्तिरूपसंबन्धज्ञानं हेतुरिति चेत्त 1 त्तुल्यमन्वयांशे ऽपि। अन्यथा गोरवात्॥
तस्माल्लाघवं, नागृहीतविशेषणन्यायः, एक 2 वित्तिवेद्यत्वं, वृत्यभावे ऽपि शाब्दत्सिद्धिः, संबन्धज्ञानस्य यावत्संबन्धिविषयत्वनियमः, इति युक्तिपञ्चकं व्यक्त्यन्वययोः समम्॥
व्यक्तिप्रतिबन्द्या दुष्परिहरत्वम्
अन्यथेति॥ प्रकारन्तरेण यत्किञ्चित्प्रतियोगिकत्वेन ज्ञात इति कल्पन इत्यर्थः॥
प्रागुपपादितं संग्रहेणानुवदन्नुपसंहरति-- तस्मादिति॥ लाघवमिति॥ शक्त 3 त्वेन जातत्वरूपैकप्रयोजककल्पनाख्यामित्यर्थः। ननु गोत्व इत्यादिनोक्तमाह-- नागृहीतेति॥ एतेनेत्यादिनोक्तमाह-- एकेति॥ न च व्यक्तेरित्यादिनोक्तमाह -- वृत्तीति॥ ननु ज्ञानेत्यादिनोक्तमाह-- सम्बन्धेति॥ सममिति॥ शक्तिविषयत्वे
तदंशेपि शक्तिज्ञानं प्रयोजकमित्यत्रापीति योज्यम् ॥
व्यक्तिप्रतिबन्द्या दुष्परिहरत्वम्
1.तत् इति नास्ति- नं.सु.ग. तत्कल्प्यमन्वयां -ज.क. 2.वृत्ति-नं. विभक्ति- ज. 3.क्त्यत्वे -नं.ए. 4.ज्ञा-ए.
---------------------------------------------------------------------------न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेतः पु - 200.
----------------------- ------------ ---------
अथ मण्याद्यभिमतकुब्जशक्तिभङ्गः ॥ 2.0 ॥
ननु तथापि ज्ञातकरणे संबन्धः संसर्गिप्रतियोगिकतयैव ज्ञातो हेतुः। न तु संसर्गप्रतियोगि 1 तयापि, व्याप्तौ तथा दर्शनात्। न हि वह्निव्याप्तिर्वह्निप्रतियोगिकतयेव वह्निसंसर्गप्रतियोगिकतया विज्ञायते। एवं च शक्तिः संसर्गीभूतपदार्थप्रतियोगिकतयैव ज्ञाता हेतुः। न त्वन्वयप्रतियोगिकतयेति चेन्मैवम्। व्याप्तिग्राहकमानेन वह्निनैव सह व्याप्तिग्रहः,
अथ मण्याद्यभिमतकुब्जशक्तिभङ्गः ॥ 2.0 ॥
प्रकारान्तरेणान्वयांशे शक्तिज्ञानं न शाब्दधीहेतुरित्या 2 क्षिप्य समाधत्ते-- ननु तथापीति॥ व्याप्तिप्रतिबन्द्या दुष्परिहरत्वेपीत्यर्थः। तथा दर्शनादित्युक्तं व्यनक्ति-- नहीति॥ ततः किमित्यत पक्षे योजयति-- एवं चेति॥ ज्ञातकरणसम्बन्धस्य संसर्गप्रतियोगिकतयैव ज्ञातस्य हेतुत्वे सतीत्यर्थः। हेतुः, शाब्दधीहेतुरित्यर्थः। शब्दशक्तेरपि ज्ञातकरणसम्बन्धत्वादिति भावः। एतदुक्तंभवति-- शब्दशक्तिः संसर्गप्रतियोगिकतयैव ज्ञाता ज्ञानहेतुः। ज्ञात 3 करणसम्बन्धत्वात्। लिङ्गसम्बन्धरूपव्याप्तिवदिति॥ जातिव्याप्त्योरुभयोरपि संसर्गिकयोभयांशे ज्ञाता शब्दशक्तिः जितिविशिष्टव्यक्तिज्ञानहेतुश्चेदपि न तत्र व्यभिचार इति भावः। ज्ञातकरणसम्बन्धत्वाविशेषे ऽपि यथाप्रमाणं हेतुत्वं
कल्प्यमिति भावेन समाधिमाह-- व्याप्तीति॥ व्यवहाररूपेणेति॥ मानेनेत्यन्वयः।
1.गिकत-सु.रा.ग.ज. 2.ति शङ्कते-उ.नं. 3.नक- उ.
मद्य-भित-कुश-किङ्गः) शक्तिवादः पु - 201.
---------------------- --------- --------
अन्वितविषकव्यवहाररूपेण शक्तिग्राहकमानेन त्वन्वयेनापि सह शक्तिग्रह इति वैषम्यात्॥
अन्यथा संसर्गेण सह व्याप्तिः स्वरूपेणैव नास्तीति अन्वयेपि शक्तिः स्वरूपेणैव न स्यात्। व्याप्तिर्व्यापकतावच्छेदक 1 प्रतियोगिकतयापि न ज्ञायत इति शक्तिरपि शक्यतावच्छेदकजातिप्रतियिगिकतयापि न ज्ञातव्या, गौरवादित्यपि स्यात् ॥
संसर्गप्रतियोगिकतया व्याप्तिग्राहकमानाभावादेव तेन रूपेणा 2 ज्ञाताया अपि तस्या अनुमितिहेतुत्वेपीह शक्तौ संसर्गिप्रतियोगिकतयापि प्रागुक्तदिशा ग्राहकमान 3 भावेन तेन रूपेण ज्ञताया एव शाब्दधीहेतुत्वोपपत्तेरित्यर्थः॥
एतेन संसर्गप्रतियोगिकतया ग्राहकमानवैधुर्यमुपाधिः प्रागुक्तानुमानस्योक्तो भवति॥ स्वरूपेणैव नास्तीति॥ तेन सह व्याप्तिग्राहकमानाभावादिति भावः॥
ननु तत्रापि यत्र धूमस्तत्र वह्निसंसर्ग इत्यस्त्येव व्याप्तीरिति वदन्तं प्रति व्याप्तिशरीरप्रविष्टसम्बन्धेन व्याप्त्यभावरूपदोषे सत्यपि जातिप्रतिबन्दीमप्याह -- व्याप्तिरिति॥ अन्यथेत्यनुषङ्गः। इत्यपि स्यादिति ॥ तथा च पदशक्तिवादसिद्धान्ते जातिव्यक्त्युभयप्रतियोगिकतया ज्ञातैव हेतुरिति त्वदुपपादनविरोध इति भावः। अन्वयप्रतियोगिकतयापि शक्तेर्ज्ञानस्य शाब्दधीहेतुत्वे बाधकान्तरमाशङ्क्य निराह -- न चेति॥
1.वह्नित्वेत्यधिकम्-नं.सु.रा.ग.ज.क. 2.णज्ञा-ए.नं. 3.नाभा-ए.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 202.
------------------------ ------------- ---------
न चान्वयस्यापि प्रागुपस्थितौ पदार्थस्येवान्यस्यापि संसर्गः शाब्दबोधे भासेतेति वाच्यम्। मन्मते शब्दस्य शक्तिज्ञानसीमकत्वेन तदविषयस्यान्वयप्रतियोगिकसंसर्गस्याभानसंभवात्॥
न च त्वन्मते ऽव्ययं नियमः यः कारणीभूतधीविषयः तत्संसर्गः कार्यभूतज्ञाने
भासत इति ॥
प्रागिति॥ शाब्दबोधात्पूर्वं पूर्वगृहीतशक्तिस्मृतिदशायामेवान्वयस्यापि स्मृतौ सत्यमित्यर्थः। उभयप्रतियोगिकतया शक्तेर्व्युत्पत्तिदशायां ग्रहणे सति शाब्दबोधात्पूर्वं शक्तिस्मृतिदशायामप्युभयप्रतियोगिक 1 त्वेन स्मृतेरावश्यकत्वेनान्वयस्याप्युपस्थित्यान्वयनिरूपितसंसर्गो ऽपि शाब्दबोधे भायात्। 2 पदात्पदार्थस्य प्रागुपस्थित्या शाब्दबोधे तन्निरूपितसंसर्गवत्प्रागुपस्थितेः कारणतया तज्जन्यज्ञाने कारणीभूतज्ञानविषयनिरूपितसंसर्गस्यापि भाननियमात्। तथा चानयनान्वयवान् घट इति धीप्रसङ्ग इति भावः। शक्तिज्ञानसूमकत्वेनेति॥ शक्तिज्ञानमर्यादाकत्वेनेत्यर्थः। यद्विषये शक्तिज्ञानं तद्विषय एव ज्ञानजनकत्वं शब्दस्य स्वभावः। शक्तिज्ञानं च पदार्थे 3 तदन्वये च प्रागासीदीति तयोरेव शाब्दबोधे भानं, न तु 4 संसर्गस्यापि। हेत्वभावादिति भावः॥
न्यायमते ज्ञानयोः कार्यकारणभाव एव पूर्वज्ञानविषयसंसर्गभाने हेतुः। घटत्वनिर्विकल्पजन्ये तत्सविकल्पके तथा दर्शनात्। दण्डज्ञानज्ये दण्डीति विशिष्टज्ञाने च दर्शनाच्चेत्यत आह-- न च त्वन्मते ऽपीति ॥ अयमिति॥
वक्ष्यमाणः किमयं नियमोपरोक्षज्ञाने ऽथ -
1.त्वे स्मृ-उ. 2.पदादाति नास्ति-उ. 3.तत् इति नास्ति-उ. 4.तत्सं-नं-ए.
मद्य-भिति-कुश-क्तिङ्गः) शक्तिवादः पु - 203.
----------------------- -------- --------
विशेषणज्ञानतया हेतुभूताया धारावाहिकप्रथमादिबुद्धेर्विषयो यः संसर्गः तत्प्रतियोगिसंसर्गस्य द्वितीयादिबुद्धावभानात्॥
न च परोक्षज्ञाने ऽयं नियमः। अनुमितिहेतुभूतव्याप्तिज्ञानस्य यो विषयः। पर्वतवह्निसंयोगस्तत्समवायस्यानुमितावभानात्॥
नापि शाब्दज्ञाने ऽयं नियमः। हेतुभूतस्य पदार्थज्ञानस्य विष 1 यो जातिव्यक्त्योर्वैशिष्ट्यरूपो यः संबन्धः तत्संसर्गस्य शाब्दप्रमायामभानात्॥
- परोक्षज्ञान 2 स्थले । आद्य आह-- विशेषणेति॥ हेतुभूतस्य हेतुर्विशेषणज्ञानतयेति। यः संसर्ग इति॥ अयं घट इत्यादिधारावाहिकस्थले घटपटत्व 3 संसर्ग इत्यर्थः। अभावादिति॥ अन्यथा ज्ञानानामविशेषानुभवविरोध इति बावः। अन्त्यमाशङ्कते-- न चेति॥ तत्रापि किमनुमितिस्थले ऽथ शाब्दबोधस्थले । आद्य आह-- अनुमितीति॥ पर्वतवह्निसंयोग इति॥ 4 यो यो धूमवानसावसावग्निमानिति महानसादौ व्याप्तिग्रहदशायां सामान्यलक्षणप्रत्यासत्योपस्थितसमस्तधूमवह्निव्यक्तीनां व्याप्तिग्रहनियमेन पर्वतीयधूमस्यापि पर्वतीयवह्निना प्याप्तिग्रहणे पर्वतवह्निसंयोगस्यापि सामान्याकारेण ज्ञानविषयत्वादिति भावः। अभानादिति॥ अन्यथा पर्वतो वह्निसंयोगवानित्येव धीः स्यान्न तु वह्निमानितीति भावः। अन्त्ये द्वितीयमाशङ्क्य निराह -- नापीति॥ हेत्विति॥
1.ययोर्जाति-सु.रा. यजाति-ग. 2.स्थलपदं न -उ. 3.आदिपदमधिकम्-उ. 4.यच्छब्दादःशब्दयोर्वीप्सा नास्ति- उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 204.
------------------------ ------------ -----------
एतेन यथा प्रत्यक्षे विशिष्टज्ञाने विशेष्येन्द्रियसन्निकर्षो विशेष्यभा 1 नसामग्री, विशेषणज्ञानं तु विशेषणभा 2 नसामग्री, 3 इति सामग्रीद्वयसन्निविष्टादसंसर्गाग्रहादेव संसर्गभानमेवं शाब्दे ऽपि विशिष्टज्ञाने प्रथमान्तादिपदजन्यपदार्थधीर्विशेष्यभानसामग्री, तदितरा तु धीर्विशेषणभा 4 नसामग्री 5 ति सामग्रीद्वयसन्निविष्टादसंसर्गाग्रहादेव संसर्गभान, ततो नान्वयांशे शक्तिज्ञानापेक्षेति निरस्तम्।
वाक्यार्थज्ञानहेतुभूतस्येत्यर्थः। विशेष्यभानेति॥ घटादिरूपविशेष्यभावनसामग्रीत्यर्थः। निर्विकल्पकादिरूपं घटत्वादिविशेषणज्ञानं तु घटत्वादिविशेषणभानसामग्री वैशिष्ट्यभावनसामग्री तु 6 सामग्रीद्वयसहिता 7 तदुभयसंसर्गाग्रहरूपैव, न त्वन्यास्ति यथा तथा शाब्दविशिष्टज्ञानेपीत्यर्थः। तदुपपादयति -- प्रथमान्तादीति॥ घटोस्ति घटमानय घटेन जलमाहार
ब्राह्मणाय गां देहीत्यादौ प्रथमान्तादिपदजन्येत्यर्थः॥ विशेष्येति॥ वाक्यार्थभूतसंसर्ग 68 प्रतियोगिरूपविशेष्येत्यर्थः। तदिति॥ 9 विशेष्यभूतपदार्थधीभिन्ना 10 क्रियादिपदार्थरूविशेषणभानसामग्रीत्यर्थः। सन्निविष्टात्, स 11 हितात्। घटानयनादिपदार्थासंसर्गाग्रहणादित्यर्थः।
1.ज्ञान-नं. 2.विशिष्टभान-ग.रा. णज्ञान-नं. 3.तेनसा-नं.ज.क. इति सामग्री इति नास्ति-सु.रा.ग. 4.ज्ञान-नं. 5.ग्रीतेन-नं. इति इतिनास्ति-रा.ग.ज. 6.ग्रीभूतसा-उ.नं. 7.तत्तदु-उ.नं. 8.प्रतियोगिपदं न-उ.नं.ए. 9.विशेष्यभूत इति नास्ति-उ.नं. 10.न्ना पदावली ज्ञानशक्तिस्मरणादिरूपाधीः पदार्थरूप इत्येवास्ति -उ.नं.ए. 1.सन्निहिता-उ.नं.
मद्य-भित-कुश-क्तिङ्गः) शक्तिवादः पु - 205.
----------------------- ------- ---------
अन्वये शक्तिज्ञानाभावे बाधकानामुक्तत्वात् ॥
मन्मते प्रत्यक्षे ऽपि विशेषणविशेष्याभ्यामिव तत्संसर्गेणापीन्द्रियप्रत्यासत्तेर्हेतुत्वेनेहापि प्रत्यासत्तिस्थानीयस्य शक्तिज्ञान्सया 1 प्यन्वयांशे ऽप्यपेक्षितत्वाच्च॥
किं च प्रमाणान्तरे ऽपि प्रत्यक्षमर्यादानुसरणस्यावशकत्वे ऽनुमितावपि पक्षरूपविशेष्यज्ञानं कारणं न स्यात्। प्रत्यक्षे विशिष्टज्ञाने विशेष्यज्ञानस्याहेतुत्वात्। अनुमितिशाब्दज्ञाने प्रति लिङ्गशब्दयोर्ज्ञानं व्याप्तिशक्त्योज्ञानं च हेतुर्न स्यात्। प्रत्यक्षं प्रतीन्द्रियतत्सन्निकर्षयोर्ज्ञानस्याहेतुत्वात्।
एतेनेत्युक्तं व्यनक्ति-- अन्वय इति॥ उक्तत्वादिति॥ अथ मतमित्यादिनान्वयांशेपि शक्तिज्ञानस्याहेतुत्वमाशङ्क्य बाधकानामुक्तत्वादित्यर्थः। तत्संसर्गेणापीति॥ यद्यपि सिद्धान्ते घटादौ तद्धर्माणां घटादिना न संसर्गः। अभेदोपगमात्। तथापि दण्डीत्यादौ दण्डदेवदत्तसंयोगोपगमेन दण्डदेवदत्ताभ्यामिव तदुभयसंयोगेनापीन्द्रियस्य संयोगरूपप्रत्यासत्तेरङ्गीकारादिति भावः। प्रत्यासत्तीति शाब्दस्यान्वयेन सह
प्रत्यासत्तीत्यर्थः॥
ननु न्यायमते प्रागुक्तसामग्रीद्वयसहितादसंसर्गाग्रहादेव प्रत्यक्षस्थल इव संसर्गाग्रहोपपत्तौ नाधिककल्पनावसर इत्यत आह-- किं चेति॥
1.अपि इति नास्ति- नं.सु.रा.ग.ज.क.
न्यायदीपयुतर्कताण्डवम् (द्वि.परिच्छेः पु - 206.
---------------------- --------- ------------
तस्मादन्वयः पदशक्त्यो वृत्यन्तरं विना शाब्दत्वात्पदार्थवदिति ॥
मण्याद्यभिमतकुब्जशक्तिभङ्गः ॥ 2.0 ॥
शब्दादिरूपप्रमाणान्तरे ऽपीत्यर्थः॥ तस्मादिति॥ अनेकसहकारिसाधकभावाद्विपक्षे बाधकाभावाच्चेत्यर्थः। अन्वय इति॥ शब्दार्थनिरूपितोन्वयः। 1 शब्दशक्तिविषय इत्यर्थः। तेन प्रकृतिप्रत्ययार्थान्वयस्यापि शक्यतासिद्धिः। गङ्गायां घोष इत्यादौ घोषतीराद्यन्वये व्यभिचारनिरासाय हेतौ विनेत्यन्तोक्तिः॥
मण्याद्यभिमतकुब्जशक्तिभङ्गः ॥ 2.0 ॥
अथ भट्टाभिमताभिहितान्वयभङ्गः ॥ 2.1 ॥
एतेन पदं पदार्थस्मृतिमात्रोपक्षीणं नान्वितबोधकं --
अथ भट्टाभिमताभिहितान्वयभङ्ग ॥ 2.1 ॥
ननु यदुक्तं अन्वयः पदशक्यः वृत्यन्तरं विना शाब्दत्वात्पदार्थवदिति। तन्न। अनन्यलभ्यत्वस्योपाधित्वात्। पदशक्तिं विनाप्यन्वयबोधसंभवात्। न च पदान्वयव्यतिरेकानुविधानायोगः। तस्यान्यत्रोपक्षयादित्यत आह--
एतेनेति॥ यद्वा शाब्दत्वादित्यसिद्धं अन्वयबोधस्य पदार्थकरणकत्वात् शब्दानुविधानस्यान्यत्रोपक्षयादिति मतान्तरं चानूद्य निराह-- एतेनेति॥ पदार्थ एवेत्येकवचनं जात्यभिप्रायम्।
1.यशक्तिविषय- उ.नं
भभिता-भिता-न्वङ्गः) शक्तिवादः पु - 207.
-------------------- ---------- ---------
बोधकं स्मृत 1 पदार्थ एव तु तद्बोधक इति भाट्टमतमपास्तम्। एवं हि शब्दस्य स्मारकमात्रत्वात्पदार्थस्यैवान्वयप्रमाकरणत्वमिति वाच्यम्। न च तद्युक्तम्॥
प्रसिद्धं शब्दं त्यक्त्वाप्रसिद्धस्य 2 पदार्थाख्यप्रमाणान्तरस्य कल्पने ऽनुव्याख्यानोक्तगौरवात्। तस्यातीतानागतादिरूपत्वेन फलभूतमन्वयानुभवं व्यापारा 3 भिमतां पदार्थस्मृतिं च प्रति कारणत्वस्यैवासंभवेन तद्विशेषस्य करणत्वस्य दूरापास्तत्वाच्च। न च पदजन्या पदार्थस्मृतिरेव करणं 4--
"पदार्थस्तन्मतिर्वा स्यादिति"भाट्टोक्तेर्निव्यापारस्य कथं करणतेत्यत उक्तं स्मृत इति। स्मृति 5 रेवान्तरव्यापार इति भावः। तैरपि पदार्थानामन्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयमेवेति सुधोर्क्ति हृदि कृत्वाऽह -- एवं हीति॥
पदमभ्यधिकाभावात्स्मारकान्न विशिष्यत।
इत्युक्तेः स्मारकमात्रत्वादित्युक्तम्। अनुव्याख्यानेति॥"गोरवं कल्पनऽन्यथे"इत्यनुव्याख्यानोक्तेत्यर्थः। दोषान्तरं चाह-- तस्येति॥ पदार्थस्येत्यर्थः। वृष्टिरसीद्वृष्टिर्भविष्यतीत्यतीत्यतीतादिरूपत्वेनेत्यर्थः। कारणत्वसंभवदोषपरिहारमाशङ्क्याह -- न चेति॥ करणमिति॥ अन्वयबोधं प्रतीत्यर्थः। एवमग्रे ऽपि । पदानुविधानानुभवाविरोधायोक्तं -- पदजन्येति॥
1.तः प-ज. तेः-क. 2.द्वप-नं.सु. 3.रत्वा-नं.सु.रा.ज.क. 4.कार-नं.सु.रा.ग. 5.रवान्तर -ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 208.
------------------------ ---------- --------
- प्रसिद्धत्यागादिदोष 1 द्वयात्। निर्व्यापारत्वाच्च। करणस्य 2 च सव्यापारत्वनियमात् । न च शक्तिः 3 स्मृतिरेवा 4 न्तरव्यापारः। तस्याः पदार्थस्मृत्यजन्यत्वात्। व्युत्पत्तिकाले शब्दस्यैव करणत्वग्रहणाच्च। शब्देनायमर्थो
ज्ञात इत्यनुभवे बाधकाभावाच्च। कारणत्वसंबन्धेनाकाशपदजनिताकाशस्मृतितः-
प्रसिद्धेति॥ प्रसिद्धशब्दत्यागा 5 प्रसिद्धपदार्थस्मृतिरूपसप्तप्रमाणकल्पनारूपदोषद्वयादित्यर्थः। मण्युक्तं दोषमाह-- निर्व्यापारत्वाच्चेति॥ तस्या इति॥ शक्तिस्मृतिरित्यर्थः। तज्जन्यत्वे सति तज्जन्यजनकस्यैवेन्द्रियसन्निकर्षादौ व्यापारत्वदर्शनादिह च शक्तिस्मृतेः पदार्थस्मृतिपूर्वभावनित्वेन तदजन्यत्वादिति भावः॥
ननु क्रियाया अयोगव्यवच्छेदेन संबन्धित्वं करणत्वमस्तु। एवं च निर्व्यापारमपि स्मरणं करणं स्यात्। स्मरणव्यापारकं मन एववास्तु करणमित्यतो दोषान्तरमाह -- व्युत्पत्तीति॥ शब्दस्यैव कारणत्वग्रहणाच्च न पदार्थस्मृतिरन्वयबोधं प्रति कारणमित्यनुषङ्गः। प्रथमगृहीतमपि शब्दकारणत्वं त्यज्यताम्। न च शब्देनायमर्थो ज्ञायत इत्यनुभवविरोधान्न त्यागो युक्त इति वाच्यम्। तस्य भ्रमत्वोपपत्तेरित्यत आह-- शब्देनेति॥ पदार्थस्मृतेरेव स्मृतपदार्थान्वयबोधहेतुत्वे ऽतिप्रसङ्गं चाह-- कारणत्वेति॥ शब्दगुणकमाकाशमित्यादावाकाशे आकाशपदशक्तिग्रहहीनस्याप्याकाशस्य शब्दमात्रं प्रति कारणत्वादाकाशमिति पदं 6 प3ति
कारणत्वसंबन्धेनाकाशस्मृतिमतो आकाशशब्दगुणकत्वाद्यन्वयबोधः स्यादित्यर्थः।
1.षोद -नं. 2.च इति नास्ति-नं.सु.रा.ग. 3.क्तिस्म-नं.सु.रा.ग. 4.वावान्त-नं.ज.क. 5.गो ऽप्र -उ. 6.शब्दं प्रति-उ.
भाभिता-भिता-न्वङ्गः) शक्तिवादः पु - 209.
---------------------- ----------- -------
- आकाशान्वयबोधप्रसङ्गाच्च 1 । घटः कर्मत्वमानयनं कृतिरित्यादिपदजनितपदार्थस्मृतितोप्यन्यवयबोधप्रसङ्गाच्च॥
न च पदविशेषजनिता पदार्थस्मृतिरन्वयबोधाङ्गम्। तथात्वे प्रथमोपस्थितपदविशेषस्यैव हेतत्वावश्यंभावात्॥
न च -- पदं विनापि पदार्थज्ञानमात्रात् काव्यादिमूलान्वयबोधदर्शनाद्वेषादिश्रवणानन्तरं श्वेताश्वो 2 धावतीति धीदर्शनाच्च,
पदार्थज्ञानमेव कारणमिति वाच्यम्। योगजसाक्षात्कारे योगजधर्मसहकृतस्य --
पदार्थस्मृतेः करणत्वे मण्युक्तं दोषान्तरं चाह-- घट इति पदविशेषेति॥ घटमानयेत्यादिद्वितीयाविभक्त्यन्तपदविशेषेत्यर्थः। चिन्तावशोपनीतपदार्थानामन्वयवबोधात्काव्यादिरित मण्युक्तं चोद्यमनुवदिति-- न च पदमिति॥
पश्यतः श्वेतमारूपं हेषाशब्दं च श्रुण्वतः।
खरनिष्पेषशब्दं च श्वेतोश्वो धावतीति धीः॥
इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति सुधोक्तचोद्यं संक्षिप्याह -- हेषेति॥ करणमन्वयबोधं प्रतीत्यर्थः। पदं विनापीति कृतचोद्यस्य मण्युक्तमेव समाधिं स्पष्ठमाह -- योगजेति॥ उत्प्रेक्षानामोहजस्तर्कजं ज्ञानमित्याहुः॥
1.कारणत्वसंबन्धेनेत्यारभ्य नास्ति- सु.रा. 2.तो ऽश्वो -नं.ज. श्वेतोधा -ग.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्चेदः पु - 210.
------------------------ ---------- -------
मनस एव काव्यादिमूलसंसर्गानुभवे उत्प्रेक्षासहकृतस्य तत्तदर्थस्मृतिव्यापारकस्य मनस एव कारणत्वात्॥
अन्यथा गौरवात् ॥
अत एव नोत्प्रेक्षादेर्मानान्तरत्वापत्तिः। तस्या लोक 1 वन्मनःसहकारित्वात्। श्वेतो 2 धावतीति धीस्तु, तवार्थापत्या, मम तु अयं कालागरुवह्निमान् नीलसुरभिधूमवत्वादितिवदयं श्वेतो धावदश्वो हेषाखुरनिष्पेषवत्वादित्यनुमानेन । अन्यथानुमानमात्रोच्छेदः स्यात्॥
गौरवादिति॥ प्रसिद्धत्यागादिदोषद्वयगौरवादिति मूलारूढतोक्तिः। अत एवेत्युक्तं व्यनक्ति-- तस्येति॥ अन्यथाऽलोकस्यापि पृथड्म्यानत्वापत्तिरिति भावः। हेषादीत्यादिचोद्यस्यानुमानदर्थापत्तेर्वा तत्रान्वयप्रतीतेरिति सुधोक्तसमाधिं स्मष्टयति -- तवेति॥ पक्षधराद्युक्तदिशा प्रयोगं 3 व्यनक्ति- श्वेत इति ॥ श्वेत इति पक्षः धावदश्व इति साध्यम्। अन्यथेति॥ तत्रापि पदार्थानामेवान्वयबोधकत्वे
सर्वत्रानुमानस्थले स्मृतव्याप्त्यादिपदार्थस्यैव साध्यान्वयानुभावकत्वसंभवादिति भावः। उक्तं च मणिकृतापि श्वेतोश्वो धावतीति धीस्तु लिङ्गजेति॥
नन्वेवं वाक्ये पदार्थस्मरणमभ्युपेत्य तस्योक्तदिशा निर्व्यापारत्वादिनान्वयबोधं प्रत्यकरणत्वोक्तौ न्यायमत इव 4
वाक्ये पदार्थे स्मृतिरङ्गीकृता स्यात्।
1.कादि-सु.रा.ग.ज.क. 2.अश्व इति पूरितम्- नं.सु.रा. 3.जनं-उ. 4.पदार्थे वाक्यस्मृति -उ.नं.
भाभिता-भिता-न्वङ्गः) शक्तिवादः पु - 211.
--------------------- -------- ---------
वस्तुतस्तु मन्मते वाक्यस्थपदज्ञा 1 नान्वयानुभवयोर्मध्ये पदार्थस्मृतिरेव नास्ति। कदापि स्मरामीत्यनुव्यवसायाभावात्॥
2 कल्पने च गौरवात्। अवाक्यस्थ 3 पदं तावत्स्मरकमेवेतिचेत्किं तावता। न ह्यसहायस्य यत्कार्थं तदेव ससहायस्यापि । तथात्वे हीन्द्रियसहितसंस्कारजन्या प्रत्यभिज्ञा स्मृतिः स्यात्।
तथाच पदनिचश्रवणेत्यादिवक्ष्यमाणसुधावाक्यविरोध इत्यत आह-- वस्तुतस्त्विति॥ यद्वा पदकम्बश्रवणसमनन्तरं कुतश्चिन्मानसापराधादनुपजातपदार्थस्मृतेर्वाक्यार्थबोधानुदयादुपजाततपदार्थस्तमृतेस्ततुदुदयादन्वयवव्यतिरेकाभ्यां पदस्मारितपदार्थानां वाक्यार्थबोधकत्वमुपेयमित्यतः शक्तिस्मरणभावाभावाभ्यामन्यथोपपत्तेरिति भावे नाह-- वस्तुतस्त्विति॥ अन्यथेति॥ अननुव्यवसीयमानपदार्थस्मृतिकल्पने"गौरवं कल्पने ऽन्यथे"इत्यनुव्याख्यानोक्तगौरवादित्यर्थः॥
ननु वाक्ये पदार्थान्स्मरामीत्यनुव्यवसायाभावे ऽपि वाक्यत्वं पदं पदार्थस्मारकं पदत्वादेकैकशः। श्रूयमाणवाक्यस्थपदवदित्यनुमानात्स्मारकत्वसिद्धिरिति शङ्कते -- अवाक्यस्थपीति।. असहायपदत्वमुपाधीरिति भावेन सुधोक्तमेव समाधिमाह-- किं तावतेत्यादिना ॥ अस्तु को दोष इत्यत आह-- तथात्व इति॥ असाहयस्य यत्कार्यं 4 तत्सहायस्याप्यङ्गीकार इत्यर्थः॥
ननु प्रत्यभिज्ञायाः संस्कारजन्यत्वे ऽपीन्द्रियप्रत्यासत्तित्वेनैव संस्कारजन्यता --
1.तान्व-नं. 2.अन्यथा गौर-सु.रा.ग. 3.क्यप-सु.रा. 4.त्सहा - नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 212.
------------------------ ---------- -------
इन्द्रियलिङ्गाभ्यां सन्निकर्षव्याप्त्योरिव शबेदनापि शक्तेरनुभवरूपे 1 स्वफले जनयितव्य एव स्वविषयेण सह संबन्धत्वेनान 2 पेक्षितत्वाच्च॥
अन्यथा व्याप्तिरपि वह्नेः स्मारिका स्यात्। व्युत्पत्तिकाले ऽनुभवहेतुत्वेन गृहीतया शक्त्येदानीमप्यनुभव 3 स्यैव जनयितव्यत्वाच्च्। हस्तिना हस्तिपकस्मृतेरिव पदेन पदार्थस्मृतेरपि व्युत्पत्तिकाले --
- न तु संस्कारत्वेन तथात्वेन तज्जन्यस्यैव स्मृतित्वं शब्देत्ववाक्यस्थल इव वाक्यस्थले ऽपि शक्तित्वेन शक्तेः पदार्थोपस्थितिहेतुत्वात्स्मृतित्वमेव युक्तमित्यत आह-- इन्द्रियेति॥ इन्द्रियलिङ्गाभ्यस्वविषये ज्ञाने जनयितव्ये तथाक्रमं सन्निकर्षव्याप्त्योर्यथा संबन्धत्वेनापेक्षितत्वं तथा वाक्य 4 स्मृतशब्देनापि स्वार्थगोचरानुभवे जनयितव्ये शक्तेः संबन्धत्वेनैवापेक्षितत्वेन स्मृतित्वानापत्तेरित्यर्थः॥
ननु शब्द एव शक्तेः स्मारकत्वनियमो नान्यत्रेति मन्वानं प्रत्याह व्युत्पत्तीति॥ वृद्धव्यवहारादिना शक्तिग्रहणकाल इत्यर्थः। न चैवं केवलपदस्यापि स्मारकत्वं न स्यादिति वाच्यम्। व्युत्पत्तिकाले 5 ससहायत्वेनैव श्रुतस्य शब्दस्यानुभावकशक्तिमत्वेन ग्रहणेन वाक्य एवानुभवजनकत्वोपपादनस्याभिमतत्वेनासहाये अनुभवसामग्र्यभावादेव स्मारकत्वोपपत्तेः॥
ननु तु स्मारकत्वेनागृहीतायाः शक्तेरवाक्यस्थले कथं स्मारकत्वामित्यतस्तत्र शक्तेर्न स्मारकत्वं किं तु
शब्दज्ञानमेव शब्दार्थस्मारकमिति सदृष्टान्तमाह -- हस्तिनेति॥ स्मृतेरपीति॥ संभवेनेत्यन्वयः। पदार्थस्मरणार्थं शक्तेरनपेक्षितत्वादित्यर्थः।
1.पेस्य-नं. 2.नापे-ग.क. 3.वेन ज्ञाने-ज.क. 4.स्य शब्दे-ए. 5.लेस-नं.ए.उ.
भाभिता-भिता-न्वङ्गः) शक्तिवादः पु - 213.
-------------------- ---------- ---------
सहानुभूतत्वरूपसंबन्धादेन 1 संभवेन स्मरणार्थं शक्तेरनपेक्षितत्वाच्च। संबन्धज्ञानस्य संबन्धिज्ञानपूर्वकत्वनिय 2 तिस्तु प्रत्यक्ष एव। न तु शब्दे। संयोगोस्तीत्यादि 3 शब्दात्संयोगिज्ञानं विनापि संयोगानुभवात्॥
न चैवं 4 पदार्थस्मृतिरूपावान्वव्यापाराभावाच्छब्दस्य कथं प्रमाकरणत्वमिति वाच्यम्। 5 शक्ति स्मृतेरेव व्यापारत्वात्।
स्मारकत्वेन साहचर्यनियमो नावश्यक इति सूचनाय हस्तिनेति दृष्टन्तोक्तिः। तथा चानन्यथासिद्धत्वादनुभव एव शक्तेरुपयोगः स्वीकार्य इति भावः॥
नन्वन्वयरूपपदार्थसंबन्धस्य घटमानयेत्यादिवाक्यार्थरूपान्वयस्य पदार्थसंनबन्धरूपत्वात्तत्र च पदार्थयोः संबन्धित्वात्संबन्धज्ञानस्य च संबन्धिज्ञानपूर्वकत्वस्य घटपटसंयोगादिप्रत्यक्षे दर्शनात्पूर्वं पदार्थज्ञानं पश्चादन्वयरूपसंबन्धज्ञानं वाच्यम्। तथा च कथं मध्ये पदार्थस्मृतिरेव नेत्युक्तिरित्यत आह-- संबन्धेति॥ एतेन विशेषणज्ञानज्यत्वाद्विशिष्टज्ञानस्येति पदार्थस्मृतिरावश्यकीति निरस्तम्। विशेषणज्ञानहेतुताया निरासात्॥
यत्तु मणौ 6 पदार्थस्मरणं व्यापारः, आकाङ्क्षादिसहकारिवशात्स्मारितार्थान्वयानुभवः। फलमित्युक्तं तद्धृदि कृत्वा शङ्कते -- न चैवमिति॥ मध्ये पदार्थस्मृतेरभाव इत्यर्थः। 7 सङ्गतिस्मृतेरेवेति॥
1.स्मरणेत्यधिकम्-ज.ग.क.रा.सु. 2.यम-ज.ग.क.रा.सु. 3.तिश-ज. 4.वमर्थ-ज.ग.क.रा.सु. 5.सङ्गतिस्मृतेरे-ग.रा.सु. 6.पदं करणमित्यधिकम् -नं.ए.उ. 7.शक्तिस्मृ -नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 214.
----------------------- -------------- ----------
स्वीकृताहि त्वयापि शब्द 1 ज्ञानार्थस्मृत्योर्मध्ये शक्तिस्मृतिः॥
उक्तं हि सुधायाम्। पदनिचयश्रवणवाक्यार्थबोधा 2 वन्तरा पदार्थस्मृतीनामेवानभ्युपगमादिति॥
तस्मादनन्यलभ्यत्वलात्सिद्धं शब्द्स्यान्विताभिधायित्वम्॥
शब्दज्ञानस्य करणत्वा 3 त्सङ्गतिस्मृतेश्च शब्दज्ञानजन्यत्वाच्छब्दज्ञानजन्यान्वयानुभवजनकत्वाच्च व्यापारत्वमिति भावः॥
ननु शक्तिरन्वयांशे स्वरूपसती पदार्थांशे तु ज्ञातोपयुज्यत इति कुब्जशक्तिपक्षे पदज्ञानान्वबोधयोर्मध्ये शक्तिज्ञानं नास्त्येवेति कथं तस्य व्यापारतेत्यत आह-- स्वीकृता हीति॥ पदार्थस्मृत्यर्थं त्वयाप्यङ्गीकृतत्वादस्माभिश्चान्वयांशे ऽपि शक्तिज्ञानमावश्यकमिति साधितत्वाच्च भवति शक्तिज्ञानमवान्तरव्यापार इति भावः॥ उक्तं हीति॥ पदज्ञानवाक्यार्थबोधयेर्मध्ये पदार्थस्मृतिर्नेत्येतत्"गौरवं कल्पने ऽन्यथे"त्येतद्व्याख्यावसरे जिज्ञासाधिकरणसुधायामुक्तमित्यर्थः। बोधाविति द्वितीया द्विवचनम्।"अन्तरान्तरेणयुक्त"इत्यन्तराशब्दयोगे द्वितीया विधानात्॥
भङ्गार्थं साध्योक्तिपूर्वमुपसंहरति-- तस्मादिति॥ तस्यार्थः अनन्यलभ्यत्वादिति। उपपादितदोषान्बुद्ध्यारोहार्थम् सङ्ग्रहेणानुवदति-- तस्मादिति॥
1.शाब्द -नं. दीर्घो मार्जितः-मु. 2.धावान्तरपदा -रा.सु. 3.च्छक्तिस्मृ-नं.
भाभिता-भिता-न्वङ्गः) शक्तिवादः पु - 215.
--------------------- --------- ---------
तस्मात्पदार्थस्मृतेः 1 कारणत्वे प्रसिद्धत्यागः, अप्रसिद्धस्वीकारः, अवान्तरव्यापाराभावः, प्राथमिक 2 व्युत्पत्तिविरोधः, अनुभवविरोधः, 3 कारणत्वेन संबन्धेनाकाशस्मृतितोप्यन्वयधीप्रसङ्गः, घटः कर्मत्वमित्यादिपदजनितस्मृतितोप्यन्वयधीप्रसङ्गः, पदार्थस्मृतौ प्रमाणाभावश्चेति, दोषा 4 ष्टकम् ॥
भाट्टाभिमताभिहितान्वयभङ्गः ॥ 2.1 ॥
तस्मादिति॥ पदार्थस्य तत्स्मरणस्यान्वयबोधकरणत्वस्वीकाराद्दोषा 5
ष्टकमित्यन्वयः। यद्वोक्तमध्ये कस्याप्यपरिहार्यत्वादित्यर्थः। यद्वा शब्दस्यान्विताभिधायित्वात्ततदनभ्युपगमे दोषाष्टकमित्यर्थः। प्रसिद्धत्यागादिदोषद्वयादित्युक्तमाह-- प्रसिद्धेति॥ निर्व्यापार 6 त्वाच्चेत्युक्तमाह -- अवान्तरव्यापारेति॥ व्युत्पत्तीत्यनेनोक्तमाह -- प्राथमिति॥ शब्दे(ने)त्यनेनोक्तमाह-- अनुभवेति॥ कारणत्वे 7 त्यनेनोक्तमाह-- कारणत्वेति॥ घटः कर्मत्वमित्यादिनोक्तमाह -- घट इति॥ वस्तुतस्त्वित्यादिनोक्तमाह-- पदार्थेति॥
भाट्टाभिमताभिहेतान्वयभङ्गः ॥ 2.1 ॥
1.कार-नं. दीर्घो लोपितः-ज.मु. 2.केव्यु-नं. एकारो नाशितः-मु. 3.इदमापादानं नास्ति-ग. 4.दोषाः सप्तकम्-ग. 5.षसप्त-नं. अष्टकमिति शोधितं -उ. 6.राच्चे -नं.ए. 7. त्वेनेत्यत -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 216.
------------------------ ----------- ---------
अथ अन्वस्य लक्ष्यत्वभङ्गः ॥ 2.2 ॥
एतेन -- पदार्थमात्रे शक्तस्य पदस्य पदार्थ संबन्धिन्यस्य 1 ये लक्षणैवेति निरस्तम्। उक्तरीत्यात्वये ऽपि शक्तेः क्वृप्तौ परम्परासंबन्धरूलक्षणाङ्गीकारे 3 नुव्याख्यानोक्तगौरवात्॥
अथ अन्वस्य लक्ष्यत्वभङ्गः ॥ 2.2 ॥
नन्वन्यलभ्यत्वादित्यसिद्धम् । लक्षणयापि तद्बोधसंभवादित्यत आह -- एतेनेति॥ गौरवदोषेणेत्यर्थः। यथा प्रवाहे शक्तस्य गङ्गापदस्य तत्संबन्धिनि तीरे लक्षणा तथेति भावः॥ उक्तेति॥ ननु कथमन्विते शक्तिरित्यादिनोक्तरीत्येत्यर्थः। परम्परेति॥ शक्यार्थसंब 4 न्धत्वरूपपरम्परेत्यर्थः। एकयैव शक्त्यैव 5 पदार्थतदन्वययोरभिधानसम्भवाल्लाघवं शक्तिपक्ष इति भावः॥
ननु लक्षणापक्षे हस्तिना हस्तिपपरस्मृतेरि 6 वेत्यादिना पूर्वोक्तिदिशा शक्तिं विनापि पदार्थस्मृतिसम्भवेन पदार्थेष्वपि शक्तिर्नोपयेति लाघवमिति चेन्न।
तथात्वे क्वाप्यभिधानवृत्तेरभावेन लक्षणामात्रोच्छेदापत्तेः। वाच्यार्थसम्बन्धपूर्वकत्वात्सर्वत्र लक्षणायाः। अत एव प्राक्पदार्थमात्रे शक्तस्येत्युक्ततम्। या तु सुधाया"मन्वयो 7 लक्ष्यत इति चेत्तर्हि पदार्थेषु साहचर्यात्स्मारकत्वमात्रम्।
1.न्विते-नं.ज.क. 2.कॢप्ताविति नास्ति-नं. संभवे-ग.रा.सु. 3. रे गौर-नं. 4.न्धिरू-नं.उ. 5.एवकारो नास्ति-उ. 6.रेवेत्या-नं.उ. 7.योपिल-नं.उ.
अन्वस्य-लत्वङ्गः) शक्तिवादः पु - 217.
----------------- ----------- ---------
किं चैवं"वैला तत्तीरनीरयो"इत्यानुशासनात्केवल 1 तीरे शक्तस्य वेलापदस्य केवलमात्सर्वे शक्तस्य मत्सरपदस्य 2 विशिष्टे लक्षणसंभवेन, तत्र शक्तिर्न स्यात्। एवं जातिमात्रे शक्तस्य गवादिपदस्य जात्याकृतिविशिष्टव्यक्तौ 3 च लक्षणासंभवेन जात्याकृतिविशिष्टव्यक्तौ शक्तिश्च न स्यात्। यदि च वेलादिपदस्य नीरादौ तद्विशिष्टतीरादौ च प्रयोगप्राचुर्यान्नीराद्यनुपपत्त्य 4 नुसंधानं विनैव विशिष्टप्रतीतेश्च न तत्र लक्षणा ; तर्हि तत एवान्वस्य विशष्टेपि न लक्षणा ॥
किं च वाच्यार्थसंबन्धितया धीस्थ एवार्थे लक्षणा॥
अन्वये तु लक्षणेति पदानां न कुत्राप्यभिधा 5 वृत्तिरिति स्या"दित्युक्तिः स्वार्थान् स्मारयन्त्यन्य 6 पराणि पदानीति पूर्वप्रकृतमतान्तराभिप्रायेति 7 ज्ञातव्यम्॥
अतिप्रसङ्गं चाह-- किं चैवमिति॥ एकैकत्र शक्तस्यान्यत्र तत्सम्बन्धिनि प्रयोगप्राचुर्यसत्वे लक्षणामुपेत्य शक्त्यपलापे सतीत्यर्थः। तत्तीरेति॥ नीरविशिष्टतीरेत्यर्थः। विशिष्टेति॥ नीरविशिष्टे 8 मात्सर्यविशिष्टे चेत्यर्थः। परमुखेनैव हेतुद्वयोक्तिपूर्वं समाधिं वाचयति-- यदि चेति॥ तत एवेति॥ त्वदुक्तहेतुद्वयादेवेत्यर्थः। द्विविधं हि लक्षमाबीजम्। वाच्यार्थसम्बन्धित्वेन धीस्थत्वं, अन्वयानुपपत्तिश्चेत्येतद्विविधलक्षणाबीजाभावान्न लक्षणा युक्तेत्याह --
किं चेति॥ अपि चेति च 9 ॥
1.नीरे-ज.ग.क.रा.सु. 2.स्य चिव-नं.ग. चाविशिष्टेन-रा.सु. 3.क्त्याल-सु. 4.त्तिप्रतिसं-नं.रा.सु. 5.न वृत्तिः स्या-नं. 6.न्वयप-नं.उ. 7.ज्ञेयम् -ए.नं. 8.मत्स-उ. 9.च इति नास्ति-ए.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 218.
----------------------- ------------- ----------
न चान्वयविशेषो वाच्यार्थसंबन्धितया धीस्थः। अपि च प्रतीतान्वयानुपपत्यैव लक्षणेति लक्षणातः प्रागन्वये धीः स्वीकार्येति कथं लक्षणयान्वयधीः॥
तस्मादन्वयस्य लक्ष्यत्वे -- वृथैव कॢप्तशक्तित्यागो ऽतिप्रसङ्गो 1 वाच्यार्थसंबन्धितयोपस्थितिरूपलक्षणाहेत्वभावः प्रतीतान्वयानुपपत्तिरूलक्षणाबीजाभावश्चेति दोषचतुष्टयम् ॥
अन्वयस्य लक्ष्यत्वभङ्गः ॥ 2.2 ॥
न चान्वयविशेष इति॥ तस्यापूर्वत्वेन वाक्यैकबो 2 धस्य प्रागनुपस्थितेरिति भावः। शेषस्तु स्पष्टः॥
अन्वयस्य लक्ष्यत्वभङ्गः ॥ 2.2 ॥
3 इति प्रकरणसप्तकात्मकान्विताभिधानवादः ॥
अथ प्राभाकारोक्तपदशक्तिभङ्गः ॥ 2.3 ॥
पदार्थस्तु व्यक्तिरेव। शक्तिग्राहकस्यानयनादि व्यवहारस्य तत्रैव संभवात्। अन्यथा शब्दात्तत्प्रतीतेरसंभवाच्च ॥
अथ प्राभाकरोक्तपदशक्तिभङ्गः ॥ 2.3 ॥
नन्वन्विते पदार्थे पादनां शक्तिरित्युक्तम्। तत्र कः पदार्थः किं जातिरुत व्यक्तिरित तत्राह-- पदार्थस्त्वित्यादिना -- प्रकरणपञ्चकेन ।
1.पदार्थसं-ज.क. 2.ध्वस्य-ए.उ. 3.एवं प्रकरणसप्तात्मको अन्विताभिधानवादः समाप्तः -ए. उ.
प्रारोक्त-पक्तिङ्गः) शक्तिवादः पु - 219.
----------------- --------- ---------
अत्र प्राभाकराः--
अनिर्धारितयत्किञ्चिद्व्यक्तेः शक्यत्वे का व्यक्तिश्शक्येत्यनध्यवसायेन गान्दद्यादित्यादि वाक्यात्प्रवृत्तिर्न स्यात्। सर्वस्याः प्रत्येकं शक्यत्वे यत्र शक्तिग्रहस्तत्रैव शाब्दधीः स्यात्। अन्यत्र तुतदग्रहादपर्वव्यक्तिधीर्न स्यात् 1 । सर्वत्वेन शक्यत्वे 2 गान्दद्यादित्यादिशास्त्रमशक्यानुष्ठानार्थोपदेशकं स्यात्।
पदस्य शक्यान्वयप्रतियोग्यर्थस्त्वित्यर्थः। व्यक्त्य एव वाच्या इति पद्धत्युक्तेरिति भावः। अत्रैवकारः पराभ्युपगतानुगतजातिव्यावर्तको न तु घटत्वादितत्तदसाधारणधर्मनिरासकः। तस्यापि वाच्यत्वात्। यद्वा घट 2 त्वादेर्वाच्यत्वे ऽपि वाच्यतावच्छेदकत्वेनैव व्यक्तम्। अन्यथेति॥ व्यक्तौ शक्तेरभाव इत्यर्थः। अत्रेति॥ व्यक्तेः शक्यत्वपक्षे दोषमाहुः प्राभाकरा इत्यर्थः। पदशक्तिवादपूर्वपक्षे। मण्युक्तं निष्कृष्याह -- अनिर्धारितेत्यादिना उच्यत इत्यन्तेन ॥ व्यक्तौ शक्तिरिति वदता वक्तव्यम् किमेकस्यां व्यक्तावथ सर्वासु व्यक्तिष्विति। अन्त्येपि किं प्रत्येकं तत्तद्व्यक्तिषु पृथक्पृथक्शक्तिरुत सर्वत्वेन रूपेण सर्वास्वपि व्यक्तिष्वेकैव । आद्ये दोषोनिर्धारितेति। द्विताय आह-- सर्वस्या इति॥ एकदा सर्वासामुपस्थित्ययोगेन प्रत्येकं सर्वासु शक्तिग्रहायोगेन क्वचिदेवेति वाच्यत्वादिति भावः। तृतीय आह-- सर्वत्वेनेति॥ गामिति पदेन सर्वगोव्यक्त्युपस्थित्या सर्वासामपि दानकर्मत्वप्रतीतेरिति भावः॥
1.अन्यत्र त्वित्यारभ्य नास्ति-रा.सु. 2.त्वेन च गां-रा.सु 3.टादे-नं.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 220.
------------------------ ------------ -----------
तस्माच्छक्यव्यक्त्यनुगमायाशक्यव्यक्तिव्यावृत्तये च सर्वैकोदासीन्येन विशेषणेन वोपक्षणेन वा गोत्वेनावच्छिन्ना व्यक्तिः शक्यति शक्तिग्रहो वाच्यः। तथा च स्वत एवान्यव्यावृत्तगोत्वस्य प्रथमोपस्थितत्वाल्लघुत्वाच्च नागृहीतविशेषणन्यायेन जातिरेव शक्या॥
ननु व्यक्तौ शक्त्यभावेन कथं शब्दात्तद्वीरिति चेत्। सत्यम्। पदेन जातिविशिष्टव्यक्तिज्ञानजननाद्विशिष्टे शक्तिरस्त्येव।
एवं व्यक्तिपक्षे बाधकमुक्त्वा स्वपक्षमुपसंहारमुखेन सयुक्तिमाह -- तस्मादिति॥ केवलव्यक्तौ शक्तिपक्षस्योगादित्यर्थः। शक्येति॥ शक्यानां व्यक्तीनामनुगमाय सङ्ग्रहाय, अशक्यानामश्वादीनां व्यवच्छेदाया चेत्यर्थः। विशिष्टं शक्यमिति पक्ष आह-- विशेषणेनवेति॥ गोत्वेनेत्यन्वयः। व्यक्तिमात्रमेव शक्यमिति पक्ष आह-- उपलक्षणेनवेति॥ किं तत इत्यत आह-- तथाचेति॥ गोत्वरूपधर्मेणैव गोव्यक्तीनामनुगतत्वान्यव्यावृत्तत्वयोः सपाद्यत्वे सतीत्यर्थः। स्वत एवेति॥ व्यक्तिवदनुगतधर्ममुखापेक्षां विनैवेत्यर्थः। अन्यशक्तात्पदादन्यज्ञानायोगाद्गोपदाद्गोव्यक्तिधीरनुभवसिद्धा न स्यादिति भावेन शङ्कते -- नन्विति॥
यत्तु मणौ प्राभाकरमतानुवादप्रस्तावे कुस्ततर्हि व्यक्तिधीरित्याशङ्क्य गोपदं हि नियमतो जातिव्यक्ती बोधयतीत्यादिना प्राभाकरमतमूहितं तन्निष्कृष्याह-- सत्यमित्यादिना॥ शक्तिज्ञानस्य सहकारित्वे यक्तुरगृहीतेत्यादि।
प्रारोक्त-पक्तिङ्गः) शक्तिवादः पु - 221.
------------------ --------- ----------
किं त्वगृहीतशक्तिकस्य 1 बालस्यार्थाबोधात्कुत्र चिच्छक्तिज्ञानं सहकारि कल्पनीयम्। तत्र जात्यंशे शक्तिज्ञानस्यैव जातिशक्तिज्ञानत्वेन कारणता कल्प्यते । कार्यता तु जातिविशिष्ट 2 शाब्दज्ञानत्वेन । न तु जातिवशिष्टशक्तिज्ञानत्वेन कारणता। जात्यंशे शक्तिज्ञाने सति जातिविशिष्टे शक्तिज्ञानव्यतिरेकेण जातिविशिष्टव्यक्तिविषयकशाब्दबोधव्यतिरेकादर्शनात्॥
यद्वा 3 जातिशक्तिज्ञानत्वेनैव कारणता। जातिशब्दाज्ञानत्वेनैव कार्यता च । जातिभानसामग्री तु --
पक्षधरोक्तं निष्कर् 4 षमाह-- तत्रेति॥ जात्यंशे शक्तिज्ञानस्यैव । न तु व्यक्त्यम्शे शक्तिज्ञानस्यापीत्येव कारार्थः॥
नन्वन्यज्ञानेनान्योत्पत्तावतिप्रसङ्ग इत्यस्तद्विशिष्टत्वं नियामकमिति भावेनाह--
जातिविशिष्टेति॥ कुत इत्यतो विशिष्टशक्तिज्ञानत्वेन कारणताग्राहककमानाभावादित्याह-- जात्यंश इति॥ अन्यज्ञानेनान्यज्ञानोत्पत्तावपिप्रसङ्गनिरासाया तद्विशिष्टत्वं नियामकमेकमुक्तम्। समानसंवित्संवेद्यत्वरूपनियाकमान्तरं च । अथ वा जातिशक्तिज्ञानाज्जातिधीर्भवन्ती व्यक्तिमपि बोधयतीत्यादिना मण्युक्त 5 माह-यद्वेति॥
1.वाक्यस्यार्था-नं. 2."शक्तिज्ञानत्वेन"इति ततः ऽजात्यंशे इत्यादिचास्ति- नं.क. 3.शाब्द-नं.सु.रा. 4.कृष्या-नं.उ. 5.क्तं नियामकान्तरमा-नं.ए.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 222.
------------------------ ------------ ---------
-जातेर्व्यक्तिघटितमूर्तित्वेन व्यक्तिमनादाय जातिबोधना 1 शक्ता तामादायैव जातिं बोधयति। 2 यथा बुद्धिमद्धेतुकानुमितित्वेन कार्यत्वे 3 बुद्धिमद्धेतुकव्याप्य 4 त्वेन च 5 कारणत्वे सिद्धे क्षित्यादौ कार्यत्वेन हेतुना जायमानानुमितिर्बुद्धिनित्यत्वमादाय पर्यवस्यति। एतदेव हि समानसंवित्संवेद्यत्वम्, यदन्यबुद्धित्वावच्छिन्नकार्यताप्रतियोगिककारणादन्यत्र बुद्धिर्भवतीति॥
व्यक्तिघटितेति॥ गोत्वादेर्गवादिव्यक्तिनिष्ठधर्मविशेषरूपत्वादिति वानेकव्यक्तिवृत्तित्वरूपत्वादिति वा तात्पर्यम्। स्वयं दृष्टान्तमाह -- यथेति॥ क्षित्यादिकं बुद्धिमद्धेतुकं कार्यत्वात् घटवदितीश्वरानुमाने क्षित्यादिनिष्ठकार्यत्वहेतुना क्षित्यादेः 6 सिद्ध्यद्बुद्धिमज्जन्यत्वं नित्यबुद्धिमज्जन्यत्वं सिध्यति। बुद्धेर्नित्यत्वं विना क्षित्यादिनिष्ठकाय 7 त्वस्यायोगात्। लोके घटादिकार्ये च बुद्धिमद्धेतुकत्वगोचरानुमितित्वेन बुद्धिमज्जन्यत्वव्याप्यकार्यत्ववत्वेन कार्यकारणभावग्रहो न नित्यत्वगर्भितबुद्धिमद्धेतुकत्वानुमितित्वेनापि। तथापि यथा क्षित्यादौ विशेषसिद्धिस्तथेत्यर्थः॥
किमनेन नियामकमुक्तं स्यादित्यत आह -- एतदेव हीति॥ एतदित्युकं व्यनक्ति
-- यदिति॥ जातिशाब्दज्ञानत्वावच्छिन्नकार्यताप्रतियोगिककारणताज्जातिशक्तिज्ञानाज्जातिशक्तिज्ञानाज्जातिविशिष्टे बुद्धिरित्यर्थः।
1.शक्तत्वात्ता-नं. शक्तेस्ता-ज. शक्यत्वात्ता-रा.सु. 2.तथा-ग.क. 3.त्वेन- बु- रा.सु. 4.प्यवत्वे-ग.नं. 5.कारणत्वे इति नास्ति-रा.सु. 6.शुद्धबुद्धिमज्जन्यत्वं सिद्ध्यति-नं. सिद्ध -उ. र्7.यस्या -नं.उ.
प्रारोक्त-पत्तिङ्गः) शक्तिवादः पु - 223.
----------------- ---------- --------
उच्यते -- येन रूपेणोपस्थिते संबन्धिनि यस्य संबन्धो गृह्यते तेन रूपेणैकसंबन्धिप्रतीतिरपरसंबन्धिनं ज्ञापयतीत्यनुमित्यादौ कॢप्त 1 कार्यकारणभावसामान्यमतिक्रम्य सापग्र्यन्तकल्पना न युक्ता।
ईश्वरानुमाने ऽपि बुद्धिमज्जन्यत्वानु 2 मितिं विशिष्टव्यक्तौ शब्दशक्तिमुपेत्यापि शक्तिज्ञानस्य जातिशक्तिज्ञानत्वेनैव जातिविशिष्टव्यक्तिज्ञानं प्रति कारणत्वं तत्र च तद्विशिष्टत्वं वा तदेकववित्तिवेद्यत्वं वातिप्रसङ्गभञ्जकं नियामकद्वयम्, तदुभयमपि निराह-- येन रूपेणेति॥ धूमत्वादिना रूपेणोपस्थिते धूमादौ संबन्धिनि यस्य संबन्धः यन्निरूपितः संबन्धो वह्निनिरूपितो व्याप्तिलक्षणः संबन्धो गृह्यते, तेन रूपेण धूमरूपैकसंबन्धप्रतीतिः वह्निलक्षणमपरसंबन्धिनं ज्ञापयतीत्यनुमितिस्थले हस्ति हस्तिपादिस्मृत्यादिस्थले च कॢप्तम्। तथैव शब्दस्थले ऽपि गोवदत्वेन रूपेण गोपदरूपे संबन्धिन्युपस्थिते गोत्वविशिष्टगोव्यक्तिनिरूपितः शक्तिलक्षणः संबन्धोगृहीत इति गोपदत्वेन रूपेण गोपदरूपैकसंबन्धिप्रतीतिरपरं गोरूपं जातिविशिष्टमर्थं ज्ञापयतीत्युपपद्यते, तथा च गोपदज्ञानत्वेनैव गोरूपार्थज्ञानत्वेन च कार्यकारणभावसंभवे जातिविशिष्टव्यक्तिज्ञाने जातिशक्तिज्ञानत्वेन कारणभूतजातिशक्तिज्ञानरूपसामग्र्यन्तरकल्पने गौरवमित्यर्थः॥ स्वार्थे व्यक्तावित्युक्त्या --
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते।
अतो ऽन्विताभिधायित्वं गौरवं कल्पने ऽन्यथा।.
1.प्तङ्का -नं.ग.क.रा.सु. 2.तित्वावच्छिन्नकार्यताप्रतियोगिककारणाद्बुद्धिमद्धेतुकत्वव्याप्यकत्वान्नित्यबुद्धिमद्धेतुकत्वेनानुमितिर्भवतीति यदेतदेवेत्यर्थः। यदुक्तं जातिविशिष्टं -नं.ए.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 224.
------------------------ ------------- ----------
सामान्ये बाधकाभावे ऽपि स्वार्थे व्यक्तौ सामग्र्यन्तरकल्पने ऽनुव्याख्यानोक्तगौरवात्॥
किं चैवं व्यक्त्यंशे शक्तिज्ञानत्वेन कारणता, जातिविशिष्टप्यक्तिविषयकशाब्दज्ञानत्वेन कार्यतेति विपरीतं किं न स्यात्।
इति श्वोकस्य जात्यन्विते स्वार्थे व्यक्तौ शक्तिरनुभूयते शब्दानां अतो जात्यन्वितव्य 1 क्त्यभिधायित्वं, जात्यन्वितव्यक्तिप्रत्यायकत्वम्। अन्यथा सामग्र्यन्तकल्पन इत्यर्थो ऽभिप्रेतः॥
नन्वन्यलभ्येपि व्यक्तिज्ञाने व्यक्तिशक्तिज्ञानत्वेनापि कारणत्वकल्पने गौरवं तुल्यमेवेत्यत आह-- किं चैवमिति॥ लाघवादन्यतरांशशक्तिज्ञानस्यैव हेतुत्व इत्येवंशब्दार्थः॥
ननु जातेर्व्यक्तिघटिमूर्तित्वाज्जातिभानं व्यक्तिभानं विना न युक्तम्। न तु व्यक्ति भानं जातिं विनेति। वैषम्यमिति चेत्तर्हि जातिव्यक्त्योरेकवित्तिवेद्यत्वभङ्गः स्यात्। अन्यबुद्धित्वावच्छिन्नकार्यताप्रतियोगिकाकारणादन्यत्र बुद्धिर्भवतीत्यस्यैकवित्तिवेद्यत्वशब्दार्थत्वात्॥
ननु व्यक्तौ जातेर्विशेषणत्वान्नागृहीविशेषणन्यायेन जातिशक्तिज्ञानत्वेनैव हेतुत्वमिति चेन्न। व्यक्तेरपि जातौ विशेषणत्वात्क्रमिकोपस्तथितिस्थल एव नागृहीतेतिन्यायावतारेण तुल्यवित्तिवेद्यजातिव्यक्तिस्थले तदनवताराच्च।.
दोषान्तरमाह-- एवमिति॥ अन्वयांशेपि शक्तिज्ञानहेतुत्वस्य प्राभाकरैः स्वीकाराद्भवतीदमनिष्ठमितिभावः। नागृहीतेति न्यायमभ्युपेत्यापबि दोषान्तरमाह-- किं च मुण्डित इति॥
1.शक्त्य -ए. व्यक्तिप्रत्ययकत्वम्-नं.उ. 2.शक्त्य-ए.
प्रारोक्त-पक्तिःङ्गः) शक्तिवादः पु - 225.
------------------ --------- ----------
एवं पदार्थशक्तिज्ञानत्वेन कारणता, योग्येतरान्वितपदार्थविषयकशाब्दज्ञानत्वेन कार्यतेत्यापत्यान्विते शक्तिज्ञानस्य कारणता न स्यात्॥
किं च मुण्डिते गोत्वे न शक्तिग्रहः, यत्किं चिच्छक्यमिति ज्ञानेनाश्वत्वादिव्यावृत्तगोत्वस्य शक्यत्वासिद्धेः। कि तु व्यक्त्या विशेषिते गोत्वे शक्तिग्रह इति नागृहीतविशेषणन्यायो विपरीतः॥
न च गोत्वस्य स्वत एव 1 विलक्षणत्वात्स्वतः सिद्धेनेतरव्यावृत्तत्वेन ज्ञाते गोत्वे शक्तिग्रह इति वाच्यम्। गोत्वं शक्यमिति ज्ञानेपीतरव्यावृत्तेरनुल्लेखात्। डल्लेखे वा सैव प्रवृत्तिनिमित्तं स्यात्। न च गोत्वत्वेन ज्ञाने गोत्वे शक्तिग्रहः। गवेतरावृत्तित्वे सति गोत्ववृत्तित्वादन्यस्य 2 गोत्वत्वस्याभावेन गोत्वत्वे व्यक्तेर्द्विरनुप्रवेशात्॥
व्यक्त्यविशेषिते 3 गोत्वे इत्यर्थः। स्वत एवान्यव्यावृत्तेति प्रागुक्तमाशङ्क्य निराह-- न चेति॥ अनुल्लेखादिति॥ अश्वत्वादिव्यावृत्तं गोत्वमित्याकाराभावादिति भावः। सैवेति॥ इतरव्यावृत्तिरेव गोपदप्रवृत्तिनिमित्तं स्यादित्यर्थः। नागृहीतविशेषणन्यायात् । नत्वितरव्यावृत्तत्वविशिष्टं गोत्वमिति भावः ॥
1.विश्वेत्यधिकम्-ग.रा.सु. 2.स्याभावेनृ-ज. 3.तगो- नं.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 226.
------------------------ ------------- ----------
किं चैवं त्वदभिमता 1 गङ्गाशब्दादेस्तीरादौ लक्षणा मण्डपं मण्डपशब्दस्य गृहविशेषसंबन्धिनि पुरुषे रूढिपूर्विका लक्षणा च न स्यात्। तत्रापि तीरत्वपुरुषत्वे एव लक्ष्ये, तीरपुरुषौ तु लक्षणां विना नागृहीतविशेषणन्यायेन वा
एकवित्तिवेद्यतया वा प्रतीयेते इत्येव स्यात्॥
किं च व्यक्तेरशक्यत्वे तत्र विभक्त्यर् 2 थान्वयो न स्यात्॥
न च व्यक्तेरशक्यत्वेप्येकवित्तिवेद्यतया प्रकृतिप्रतिपाद्यत्वाद्विभक्त्यर्थान्वय इति वाच्यम्। तथात्वे हि पूर्वात्वापारत्वादेरप्येकवित्तिवेद्यतयैवान्योन्यं --
त्वदभिमतेति॥ लक्षणेत्यन्वयः। रूढिपूर्वकेति॥ मण्डपशब्दस्य गृहविशेणे रूढत्वात्तत्तपूर्विकेत्यर्थः। परोक्तं नियामकद्वयं लक्षणास्थेलऽप्याह-- नागृहीतेति॥ विभक्त्यर्थेति॥ घटमानयेत्यादौ कर्मत्वादिरूपविभक्त्यर्थान्वय इत्यर्थः। सुब्विभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वाद्व्यक्तेश्चाशक्यत्वेन घटादिप्रातिपदिकार्थत्वाभावात्॥
ननु प्रकृतितात्पर्यविषयेर्ऽथे विभक्त्यर्थान्वय इति चेन्न। लक्षणोच्छेदापत्तेः। गौरवाच्चेति भावः। यद्यपि प्राग्विविशिष्टे शक्तिरस्त्येवेत्युक्त्या व्यक्तेरपि शक्यत्वमस्ति । तथापि तदंशे शक्तिज्ञानस्याहेतुत्वे ऽशक्यत्वप्राययत्वादिति 3 वा, जातावेव शक्तिः व्यक्तिधीस्त्वेकवित्तिवेद्यत्वेन भविष्यतीति मतेन वा 4 स्यावताराददोषः। तथात्वे हीति॥
1.तगं -रा.सु.नं. 2.क्त्यन्वयो- ज.क. 3.तिनजा-नं-ऽनऽ इति रेखया दूषितम् -ए. 4.वास्य दोषस्या -उ. नं.
प्रारोक्त-पक्तिङ्गः) शक्तिवादः पु - 227.
----------------- --------- ---------
विभक्त्षथान्वयसंभवेन पूर्वापरप्रातिपदिकयोरपरपूर्वप्रातिपदिकार्थविषया विपरीतलक्षणा न स्यात्॥
अपि च पूर्वमानयेति मुख्यप्रयोगे ऽपरस्यापि विभक्त्यर्थान्वयः तदधीनः क्रियान्वयश्च 1 न स्यात्॥
अपि च जातिमात्रस्य पदार्थत्वे गोपदाज्जातिविशिष्टव्यक्तिधीर्न स्यात्। न च समानसंवित्संवेद्यतयैव तद्धीः। 2 तद्वैशिष्ट्यांशे तदभावात्।
एकवित्तिवेद्यत्वमात्रेण विभक्त्यर्थान्वये सति यत्र विपरीतलक्षणयापराभिप्रायेण
पूर्वमानयेति पूर्वपदं प्रयुङ्त तत्र पूर्वप्रातिपदिकस्यापरपदार्थलक्षणा न स्यात्। लक्षणां विनैव द्वितीयाविभक्त्यर्थकर्मत्वस्य पूर्वपदार्थेनैकवित्तिवेद्ये परपदार्थे अन्वयसंभवेनापरमानयेत्यर्थोपपत्तेः। एवमेवापरमानयेत्यत्राप्युक्तदिशा पूर्वमानयेत्यर्थोपपत्तेः। पर्वापरशब्दार्थयोश्चान्योन्यसापेक्षेत्वेनैकवित्थिवेद्यत्वादित्यर्थः। न चेष्टापत्तिः। सर्वतान्त्रिकलौकिकविरोधात्। अभ्युपेत्यापि बाधकमाह-- अपि चेति॥ लक्ष्याभिप्रायं विनैव यत्र पूर्वमानयेति मुख्यार्थप्रयोगस्तत्र स्थले पूर्वप्रातिपदिकात्परत्र श्रुतिविभक्त्यर्थकर्मत्वान्वयो ऽपरपदार्थे स्यात्। पूर्वपदार्थेनैकवित्तिवेद्यत्वस्य त्वदुक्तविभक्त्यर्थान्वयप्रयोजकस्य सत्वात् ॥
अस्तु को दोष इत्यत आह -- तदधीन इति॥ तथा च पूर्वमानयेत्युक्ते अपरस्यानयनप्रसङ्गोपरमानेत्युक्तं पूर्वस्यानयनप्रसङ्ग इत्यर्थः।
1.न इति नास्ति-ग.क.रा.सु. 2.तदिति नास्ति-नं.ज.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 228.
------------------------ -------- ----------
1 तत्रापि तथात्वे निर्विकल्पकोच्छेदः स्यात्॥
किञ्चोक्तन्यायेन व्यक्तिविशेषणकगोत्वे शक्तिर्ज्ञानेति तज्जन्या शाब्द 2 धीरपि व्यक्तिविशेषित गोत्वविशेषणकव्यक्तिविषया स्यात्। न च ततानुभवः। गौरित्यनेन गोत्वविशेषणकव्यक्तेरेव प्रतीतेः ॥
तस्माज्जात्यंश एव 3 शक्तिज्ञानस्य हेतुत्वे सामग्र्यन्तरकल्पनापत्तिः, व्यक्त्यंश एव शक्तिज्ञानं हेतुरिति वैपरी 4 त्यापत्तिः, अन्वयप्रतिबन्दी, गोत्वे शक्तिग्रहदशायां व्यक्तेर्द्विरनुप्रवेशापत्तिः, गवादिपदानां जातावेन शक्तौ गङ्गादिशब्दानां तीरत्वादावेन लक्षणाप्रसङ्गः, एकवित्तिवेद्यत्वमात्रेण विभक्त्यर्थान्वये पूर्वमानेत्यादौ परादेरपि तत्प्रसङ्गः,
निर्विकल्पकेति॥ जातिविशिषयकनिर्विकल्पकज्ञानस्यैकवित्तिवेद्यतया व्यक्तिविषयकत्वमिव वैशिष्ट्यस्यापि जातिवेत्तिवेद्यत्वे वैशिष्ट्यविषयकत्वस्याप्यापत्या वैशिष्ट्याविषयकनिर्विकल्पकोच्छेदः स्यादित्यर्थः।
एतच्च निर्विकल्पकास्तित्वमतेनोक्तम् ॥
तदभावमते तु दोषान्तरमाह -- किं चोक्तेति॥ मुण्डिते गोत्वे न शक्तिग्रह इत्यादिनोक्तन्यायेनेत्यर्थः। तज्जन्या शक्तिजन्येत्यर्थः। अस्त्वित्यत आह-- न च तथेति॥ प्रागुक्तं सङ्ग्रहेणानुवदन्नुपसहरति -- तस्मादिति॥
तस्यापि-ज.क. 2.शाब्दीधी-ज.ग.क. 3.व्यक्ति-ज.क. 4.त्यप्रसङ्गः-नं.ग.रा.सु.
भाक्त-व्यक्ति-लणाङ्गः) शक्तिवादः पु - 229.
---------------------- --------- ---------
जातिवैशिष्ट्यांशप्रतीत्यनुपपत्तिः, गोशब्देन व्यक्तिविशेषिगोत्वविशेषणकव्यक्तिधीप्रसङ्गश्चेत्यष्टौ दोषाः ॥
प्राभाकरोक्तपदशक्तिभङ्गः ॥ 2.3 ॥
स्पष्टो ग्रन्थः ॥
प्राभाकरोक्तपदशक्तिभङ्गः ॥ 2.3 ॥
अथ भाट्टोक्तव्यक्तिलक्षणाभङ्गः 24 ॥
भाट्टास्तु -- आनन्त्यव्यभिचाराभ्यां व्यक्तौ शक्तिग्रहासंभवाज्जातिरेव शक्या, जातिविशिष्टा व्यक्तिस्तु लक्ष्या ।
अथ भाट्टोक्तव्यक्तिलक्षणाभङ्गः ॥ 2.3 ॥
लक्षणाया आक्षेपतो वा व्यक्तिधीसंभवादनन्यलभ्यजातावेव शक्तिरिति मतमप्यनूद्य निराह -- भाट्टास्त्विति॥ आनन्त्येति॥ व्यक्तौ शक्तिरिति पक्षे प्रतिव्यक्ति शक्तिग्रहौ न संभवति। तासामानन्त्यात्। एकस्यां व्यक्तौ शक्तिग्रहे च शब्दश्रवणतो व्यक्तन्यन्तरस्याप्युपस्थितिदर्शनेन तत्र शक्तिग्रहो व्यभिचारि। तेन विनापि तदुपस्थितेः। अतोव्यक्तौ शक्तिग्रहायोगात्सर्वानुगतायामेकस्यामेव गोत्वादिजातौ गोपदादिशक्तिग्रह इत्यर्थः। कथं तर्हि व्यक्तिधीः शब्दाज्जायेतेत्यतः
पक्षद्वयमाह -- लक्ष्येति ॥ आक्षेपलभ्येति च ॥ आक्षेपज्ञेयेत्यर्थः॥
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 230.
----------------------- ------------- ---------
एवं च व्याक्तेस्तीरवत्प्रकृतिवृत्तिविषयत्वाद्विभक्त्यर्थान्वयो युक्तः। यद्वा व्यक्ति 1 स्त्वाक्षेपलभ्येति न तत्र वृत्तिः कल्प्येत्याहुः। तदपि न । उक्तरीत्या 2 स्वार्थे व्यक्तौ शक्तिसंभवेपरम्परासंबन्धरूपलक्षणाङ्गीकारे ऽनुव्याख्यानोक्तगौरवात् ।
यद्यपि मणौ भट्टमते तु व्यक्तिस्त्वपेक्षेपलभ्येत्युक्त्वाऽक्षेपपक्ष एव दोषानुक्त्वा--
जातावस्त्वनास्तित्वे न हि कश्चिद्विवक्ष्यति।
नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हि विशेषणे॥
इति मण्डनश्लोकं संमतित्वेनोक्त्वा लक्षमणापक्षं मण्डनमतत्वेनोपन्यस्य खण्डितवान्। तथापि मण्डनस्य भट्टशिष्यत्वाद्भाट्टास्तु लक्ष्येत्याहुरित्युक्तम्। आकृत्यधिकरणे च वार्तिकमते व्यक्तिलक्षणापक्षस्य स्फुटत्वाच्च॥
उक्तं च शास्त्रदीपिकायामपि --
ल 3 क्षणा वाभ्युपेतव्या जातेस्तेनाभिधेयता ।
इति। लक्ष्येति पक्षे प्रागुक्तदोषो नेत्याह -- एवं चेति॥ प्रकृतिवृत्तीति॥ प्रातिपदिकनिष्ठलक्षणारूपप्रवृत्तिविषयत्वादित्यर्थः। आक्षेपेति॥ व्यक्तेर्जात्यविनाभूतत्वाच्छब्दाज्जातिबुद्ध्यनन्तरं क्रमेण व्याप्त्याद्यनुसन्धानेन व्यक्तिबुद्धिरित्यर्थः। जातिव्यक्त्येरेकवित्तिवेद्यत्वं त्वसिद्धमिति भावः। अनव्याख्यानस्थत्रिपाद्यास्तात्पर्यार्थमाह -- स्वार्थ इति॥ उक्तरीत्येति पाठे पूर्वभङ्गोक्तरीत्येत्यर्थः॥
"गौरवं कल्पने ऽन्यथा"इति चतुर्थपादस्थान्यथाशब्दस्यार्थमाह-- परम्परेति॥
1.क्तिरा-नं.ग.रा.स. 2.उक्तरीत्येति नास्ति-ग. 3.क्ष्यता वा -उ.
भाक्त-व्यक्ति-लणाङ्गः) शक्तिवादः पु - 231.
--------------------- ----------- ---------
वाक्यस्थपर्वपदानां लक्षकत्वेन लक्षकस्याननुभावकत्वपक्षे व्यक्तेरनुभवायोगाच्च॥
किं च गङ्गात्वादिरूपात्स्वार्थादन्येन तीरत्वादिना रूपेणोपस्थित एव तीरादौ गङ्गादिपदस्य लक्षणा दृष्टा। न
चात्रर व्यक्तिर्जातिं विना रूपान्तरेणोपस्थिता। गौरिति प्रतीत्या जातिव्यक्त्योरेवोल्लेखात्। काकेभ्यो दधि रक्ष्यतामित्यादावपि काकत्वादन्येन दध्युपघातत्वादिनोपस्थित एव लक्षणा ॥
किं च गां पश्य गौस्तिष्ठतीत्यदौ सत्यपि --
शब्दसम्बन्धिजातिसंबन्धरूपपरम्परासम्बन्धरूपेत्यर्थः। मूलारूढताद्योतनायानुव्याख्यानोक्तेत्युक्तम्। सुधायामेवमाद्यर्थाव्युत्पादनं शिष्यैरेवोह्यतामितिभावने ग्रन्थगौरवभयादेव। न तु ग्रन्धकृतानभिमत्वात्।"ग्रन्थो ऽयमपि बह्वर्थ"इति मूलकारैरेवोक्तेरतो न विरोधः शङ्क्यः। लक्ष्यकत्वेनेत्यस्य व्यक्तेरनुभवायोगाच्चेत्यन्वयः। कुत इत्यतो लाक्षणिकं पदं नानुभावकमिति यन्मतं तत्पक्ष इति ॥
लक्षणाबीजाभावान्न लक्षणेतिभावेन मण्युक्तदोषं चाह-- किञ्चेति॥ अन्येन रूपेणोपस्थित एव लक्षणेत्यस्य व्यभिचारमाशङ्क्या 1 ह काकेभ्य इति॥ न केवलमन्येन रूपेणोपस्थितिरूप 2 बीजाभावो मुख्यार्थानुपपत्तिप्रतिसन्धानरूपमपि लक्षणाबीजं नास्तीत्याह -- किं च गामिति॥ प्रमितत्यागाप्रमितस्वीकाररूपदोषौ चाह -- किं च यस्यामिति ॥
1.ङ्क्य निराह -- उ. 2.लक्षणा इत्यधिकम् -नं.उ.
न्यायदीपयुततर्कताम्डवम् (द्वि.परिच्छेदः पु - 232.
----------------------- ---------- ------
जातेरन्वययोग्यत्वे ऽनुपपत्यनुसन्धानं विनैव जातिलिशिष्ट्यक्तिप्रतीतिर्न तत्र लक्षणा, प्रत्युत गौर्नित्या गौर्जातिरित्यादौ व्यक्त्यन्वयानुपपत्त्यैव जातिधीरिति तत्रैव लक्षणा ॥
किं च यस्यां व्यक्तानानयनादिव्यवहारेण शक्तिग्रहः एवं गौर्नष्टा गौर्दीर्घा गौः शुक्ला गौः सास्नादिमती गौरनेका गौर्गच्छति गामानय गां बधानेत्यादौ प्रयोगप्रतीत्ययोः प्राचुर्यं च, तस्यां व्यक्तौ लक्षणा तद्विपरीतायां जातौ शक्तिरिति साध्वीयं व्यवस्था। न हि जातौ नाशाद्यस्ति॥
किं चानित्यत्वनित्यत्वानुमानयोर्घटे दृष्टान्तिते घटशब्दमुख्यार्थस्य घटत्वस्य नित्यत्वात्क्रमेण साध्यवैकल्यतदभावौ स्याताम् ।
तस्यामित्यनेनान्वयः। गवानयनादिवृद्धव्यवहारेण हि प्राथमिकशक्तिग्रह इत्युक्तं प्राक्। स च व्यवहार आनयनादियोग्यव्यक्तावेवैतस्यां लक्षणा चेत् कथं न प्रमितत्यागः। तद्रहिते जातौ शक्तिग्रहश्चेत् कथं नाप्रमितस्वीकार इत्यर्थः। एवमिति॥ यथा व्यक्तौ शक्तिग्रहस्तथा प्रयोगप्रतीत्योः प्राचुर्यं च यस्यां व्यक्तौ तस्यां लक्षणेति योजना। साध्वीयमिति॥ काकुस्वरेणासाधुत्वमुच्यते । गौर्नष्टेत्यादिधीर्जीतिविषयास्त्वित्यत आह-- न हीति॥ किं चानित्यत्वेति॥ शब्दो ऽनित्यः कृतकत्वात् घटवदित्यनुमाने घटपदमुख्यार्थस्य घटत्वस्यैव दृष्टान्तत्वापत्या सध्यवैकल्य 1 दोषः स्यात्। तथा पृथिवी नित्या गन्धवत्वादित्यनुमाने च साध्यवैकल्याभावः स्यात्।
1. ल्यं स्या - उ. नं.
भाक्त-व्यक्त्या-पङ्गः) शक्तिवादः पु - 233.
--------------------- --------- ---------
तस्माद्व्यक्तौ मुख्यवृत्तिसंभवे ऽपि लक्षणाश्रयणं, व्यक्तेरनुभवानुपपत्तिः, मुख्यार्थादन्येन रूपेणोपस्थितिरूपलक्षणाबीजाभावः, जातावनुपपत्यनुसन्धानं विनैव व्यक्तिधीः, प्रत्युत व्यक्तावनुपपत्यनुसन्धाने सत्येन जातिधीः, प्रमितत्यागाप्रमितस्वीकारौ, अनित्यत्वा 1 नुमाने घटवदिति दृष्टान्तोक्त्यनुपपत्तिः।
नित्यत्वानुमान एव दृष्टान्तोक्तिप्रसङ्गश्चेति दोषनवकम्॥
भाट्टोक्तव्यक्तिलक्षणाभङ्गः ॥ 2.4 ॥
न चेष्टापत्तिः। सर्वतान्त्रिकविरोधादिति भावः। प्रागुक्तदोषान् बुद्ध्यारोहाय संक्षिप्यानुवदन्नुपसंहरति -- तस्मादिति ।.
भाट्टोक्तव्यक्तिलक्षणाभङ्गः ॥ 2.4 ॥
अथ भाट्टोक्तव्यक्त्याक्षेपभङ्गः ॥ 2.5 ॥
आक्षेपपक्षे ऽपि व्यवहारादिना गृहीतशक्तेर्व्यक्तेः --
अथ भाट्टोक्तव्यक्त्याक्षेपभङ्गः ॥ 2.5 ॥
यद्वेत्यादिनोक्ताक्षेपपक्षं च निराह -- आक्षेपेति॥ व्यवहारव्याकरणोपमानकोशादिनेत्यर्थः। गृहीतशक्तेरिति बहुव्रीहिः ।
1.आदिपदमधिकम् -नं.ज.क. हरिद्रया दूषितम् -मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 234.
------------------------ ------------ ---------
-- शब्दात्साक्षाद्धीसंभवेन शब्दबोधितजात्या व्यक्त्याक्षेपे ऽनुव्याख्यानोक्त 1 तदवस्थमेव। किं च धूमाक्षिप्तवह्नेरिव व्यक्तेरशाब्दत्वेन विभक्त्यर्थान्वयो न स्यात् ॥
शक्तिश्चेवोत्यादित्रिपादीतात्पर्यार्थोक्तिः संभव इत्यन्तेन । गौरवं कल्पने ऽन्यथेत्यत्रत्यान्यथाशब्दोक्तिः शब्दबोधितेत्यादि । मण्युक्तं दोषमाह -- किं चेति॥ न स्यादिति।. विभक्तीनां प्रकृतिरूपशब्दार्थान्वितस्वार्थबाधकत्वात्। व्यक्तेराक्षेप्यत्वे शब्दार्थत्वाभावात् 2 । तथा 3 चानयनादिक्रियान्वयो 4 पि न स्यात्। अन्यथा पूर्वमानयेत्यादौ पूर्वपदादिनाऽक्षिप्तापरपदार्थे ऽपि विभक्त्यर्थन्वयः स्यात्। तथा च गामानयेत्यादावाक्षिप्तगोव्यक्तेरिवापरपदार्थस्यानयनप्रसङ्गः। न च पूर्वादिपदार्थस्थले समानवित्तिवेद्यत्वमेव न त्वाक्षेप्याक्षपकभाव इति शङ्क्यम्। जातिव्यक्त्योरपि तथात्वादिति ॥
ननु-- जातेरानयनानुपपत्तेर्व्यक्तेरानयनबलाच्च शब्दादाक्षिप्तस्यापि कथं चिच्छाप्द 5 मुपेत्य विभक्त्यर्थान्वयो वाच्य इति चेन्न। शब्दशक्यत्वेन व्यक्तेरपि शब्दार्थत्वेनैव विभक्त्यर्थान्वयोपपत्तेः। शाब्दतात्पर्यविषयत्वमात्रेण शाब्दत्वे लक्षणोच्छेद इति भावः। अस्तु वा शाब्दत्वं कथञ्चित् तथापि व्यक्तेरशक्यत्वपक्षे गोत्वादिजातिर्व्यक्त्याश्रिता जातित्वादित्येवं रूपेण हि जात्या व्यक्त्याक्षेपो
वाच्यः। तत्र च क्रियान्वयो व्यक्तेर्दुर्लभ इत्याह -- किं च जातिरिति॥
1.क्तं गौ-नं.सु.रा. 2.व्यक्तेरित्यादि नास्ति-नं.उ. 3.था आ--नं.उ. 4.अपि इति नास्ति-नं.उ. 5.ब्दत्वमु -ए.उ.
भाक्त-व्यक्त्या-पङ्गः) शक्तिवादः पु - 235.
-------------------- ------ ------------
किं च जातिर्व्यक्त्याश्रितेत्याक्षेपे जातिरूप पक्षविशेषणीभूताश्रितत्वोपसर्जनीभूतया व्यक्तेः शाब्दत्वे ऽप्युसर्जनत्वाद्राजपुरुषमानयेत्यत्र राज्ञैवानयना 1 न्वयो न स्यात्॥
अपि च बह्न्यविवक्षया प्रयुक्तेन धूमपदेन वह्नेरिव गौरस्तीत्यादौ व्यक्त्यविवक्षया प्रयुक्तेन गौ 2 पदेन व्यक्तिधीर्न । आक्षेपे बीजस्यानुपपत्तेरभावात्॥
इत्याक्षेपे ॥ एवं प्रकारेण व्यक्ति 3 प्रतीतौ सत्याम्। गोत्वादिजातिरूपपक्षे विशेषणीभूतं यदाश्रितत्वं तत्र निरूपकतया उपसर्जनीभूताया इत्यर्थः। पूर्वत्र ह्याक्षेपाव्द्यक्तिबुद्धिमुपेत्य सुबर्धान्वयस्तथा क्रियान्वयश्च न युक्त इत्युक्तम्। अधुना व्यक्तिधीरेवाक्षेपपक्षे न युक्तेत्याह -- अपि चेति॥ वह्निरिवक्षया धूममात्रविषयोक्ते यथा न वह्निधीस्तथा गौरस्ति गां पश्येत्यादौ जातिमात्रविवक्षया प्रयुक्तेन व्यक्तिधीर्न स्यात्। व्यक्ततितात्पर्यानुपपत्या वा अन्वयानुपपत्या वा आक्षेपो व्यक्तेर्वाच्यः। सा तु नास्ति। जातिमत्र एव तात्पर्यात्। अस्तित्वादियोग्यक्रियान्वयसंभवाच्चेति भावः। न केवलं व्यक्तिप्रतीत्यनुपपत्तिः। अपि त्वाक्षेप्यानुपपत्तिश्च। तत्किं गोत्वादिना धर्मेण विशिष्टाक्षिप्यते व्यक्तिः, उत धर्मान्तरेण, अथ सर्वधर्मरहितव्यक्तिस्वरूपमात्रं गोत्वादिजात्याक्षेप्यम्। न त्रयमपि युक्तम्।
1.नाद्यन्व- नं.ज.क.रा.सु. 2.शब्देन -ज.क. 3.क्तेः प्र-ए.उ.
भाक्त-व्यक्त्या-पङ्गः) शक्तिवादः पु - 236.
--------------------- ----------- -----------
किं च गोत्वेन न तावद्गोत्वा 1 दिविशिष्टा व्यक्तिराक्षेप्या। गोत्वस्यापेक्षप्यशरीरे प्रवेशायोगात्। नाप्यन्यविशिष्टा व्यक्तिराक्षेप्या। गौरिति ज्ञाने जातिव्यक्त्योरे 2 वोल्लेखात्। अत एव न मुण्डितमश्वादिसाधारणव्यक्तिमात्रमाक्षेप्यम्। गौरित्युल्लेखायोगात्॥
किं च गोत्वमपि न स्वरूपमात्रेण बुद्धमाक्षेपकम्।
आद्ये आपक्षेपकत्वायोगः अन्त्ययोरनुभवविरोध इति भावेनाह-- किं च गोत्वेनेति॥
प्रवेशायोगादिति॥ ननु -- लिङ्गोपहितलैङ्गिभावपक्षे लिङ्गस्यानुमितिविषयत्ववदाक्षेपकस्याप्यस्त्वाक्षेप्यशरीरप्रविष्टत्वमितिचेन्न। तस्यैव प्रामाण्यवादे दूषितत्वात्। वैषम्याच्च। लिङ्गेन विनापि वह्नित्वादिना धर्मेण तत्र लैङ्गिकस्योपस्थितिसंभवे ऽपि सामग्रीबलाल्लिङ्गस्यापि तत्र भानम्। नह्येवं प्रकृते। गोत्वादिरूपलिङ्गेन विना व्यापकतावच्छेदकधर्माभावात्। अत एवाक्षेप्यशरीर इत्युक्तमितिभावः॥
अन्येति॥ गोत्वान्यसास्नादिमत्वादिरूपधर्मविशिष्टेत्यर्थः। मुण्डितं 3 सास्नादिमत्वादिधर्मरहितमित्यर्थः। गौरित्युल्लेखेति॥ अश्वादिव्यावर्तकगोत्वविशिष्टत्वेनैव गोपदादिना गोव्यक्तिप्रतीतेः मुण्डितव्यक्तिप्रतीतिरनुभवविरुद्धेतिभावः। एतेन व्यक्तित्वेनाक्षप्यधीरित्यपि प्रत्युक्तम्। आक्षेप 4 कत्वानुपपत्तिं चाह-- किं च गोत्वमपीति॥ स्वरूप 5 --
1.त्ववि-ग.ज.क.रा.सु. 2.रेवाक्षेपात्-ज.क. 3.ऽगोत्वऽ इत्यधिकम् -ए.उ. 4.पकानु-ए.उ. 5.पेण व्या-ए.नं.
भाक्त-व्यक्त्या-पङ्गः) शक्तिवादः पु - 237.
-------------------- --------- ---------
अतिप्रसङ्गात्। किं तु व्याप्यतावच्छेदकावच्छिन्नत्वेन बुद्धम्। न च व्यक्तिं विना तदवच्छेदकमस्तीति व्यक्तेः प्रागेव बुद्धतया कथमाक्षेप्यत्वम्। अन्यथा गौरिति 1 प्रत्यक्षज्ञानस्यापि जातिरेव विषयो व्यक्तिस्त्वाक्षेप्येति स्यात्। तस्माद्व्यक्तेः शचब्दादेव धीसंभवे आक्षेप 2 कल्पनम्, आ 3 क्षिप्तस्य
विभक्त्यर्थान्वयानुपपत्तिः, उपसर्जनीभूताया व्यक्तेः क्रियान्वयानुपपत्तिः, गौरस्तीत्यादावाक्षेपबीजाभावेन
व्यक्तिप्रतीत्यनुपपत्तिः, आक्षेप्यानुपपत्तिः, आक्षेपकानुपपत्तिश्चेति दोषट्कम् ॥
भाट्टोक्तव्यक्त्याक्षेभङ्गः ॥ 2.5 ॥
-- मात्रेण व्याप्यतावच्छेदक 4 विना कृतरूपेण॥ अतिप्रसङ्गादिति॥ प्रमेयत्वादिरूपेण ज्ञाने ऽपि गवादिव्यक्तिविशेषाक्षेपप्रसङ्गादित्यर्थः॥ व्यक्तिं विनेति॥ गवेतरावृत्तित्वे सति कललगोत्वव्यक्तिवृत्तित्वरूपत्वाद्गोत्वत्वरूपव्याप्यतावच्छेदकस्येति कथमाक्षेप्यत्वं सिद्धसाधनापत्तेरिति भावः। प्रागुक्तसर्वपक्षेषु विपक्षे बाधकमाह -- अन्यथेति॥ शब्दशक्त्यैव व्यक्तिधीसंभवे ऽपि आक्षेपादेव व्यक्तिबुद्ध्याद्यङ्गीकार इत्यर्थः। उक्तं संक्षिप्यानुवदन्नुपसंहरति --तस्मादिति॥ परेण जातेरेव शब्दार्थत्वेन स्वीकाराद्दोषषट्कमित्यर्थः॥
भा 5 ट्टोक्तव्यक्त्याक्षेपभङ्गः ॥ 2.5 ॥
1.प्रत्यक्षपदं न -नं. 2.पकक-नं. 3.क्षेपक-नं. 4.कं वि -ए.नं. 5.भ -ए.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 238.
------------------------ ------------- ----------
अथ नैयाधिकोक्तपदशक्तिभङ्गः ॥ 2.3 ॥
नयायिकास्तु -- जात्याकृतिविशिष्टा व्यक्तिः पदारथः जात्याकृतिव्यक्त्यः पदार्थ इति सूत्रे एक चानात्। यत्र गौर्नित्यत्यादौ जातिमात्र परत्वं, तत्रैकदेशे लक्षणा। पिष्ट 2 मय्यो गाव इत्यादौ तु गवाकृतिसदृशाकृतौ गौणी। अकृतिश्चावयसंयोगविशेष इत्याहुः ॥
अथ मण्याद्युक्तपदशक्तिभङ्गः ॥ 2.6 ॥
एवं पदर्थस्तु व्यक्तेरेति प्रतिज्ञातार्थसिद्धये प्राभाकरभाट्टमतं निरस्य न्यायमतमपि निरसितुं पदशक्तिवादान्ते जातिर्विशेषवदवयवसंयोगरूपाकृतिरपि पदशक्या, गोपदाज्जात्याकृतिविशिष्ट्सयैवानुभवादित्यादिना मण्याद्युक्तमनुवदति
-- नैयायिकास्त्विति॥ वैशिष्ट्यस्यापि शक्यत्वसूचनायोक्तं, विशिष्टा व्यक्तिरिति। मण्युक्तामेव सम्मतिमाह -- इति सूत्र इति॥ गौतमसूत्र इत्यर्थः। अन्यथा जात्यादेः प्रत्येकं शक्यत्वे पदार्था इति बहुवचनोक्तिः स्यात्। तेन ज्ञायते विशिष्टव्यक्तावेकैव शक्तिरितीति भावः॥ तत्रेति॥ जातिरूपैकदेश इत्यर्थः। यद्यपि मणौ जात्याकृतिव्यक्तीनां प्रत्येकमात्रपरत्वे लक्षणैवेत्युक्तम्। तथापि गौ 2 रूपपन्नेत्यादौ व्यक्तेः स्वातन्त्र्येणोपस्थितेः गोत्वस्यावच्छेदकतयाप्यन्वयेन लक्षणानापत्तेः जातिमात्रपरत्वमित्येवानुवादौ न 3 तु जात्यादिमात्रपरत्वमित्यनुवादः कुतः। आकृतेरपि 4 शक्यत्वे पिष्टमय्यो गाव इत्यादौ अमुख्यत्वं गोपदादेर्न इत्यादित्यत आह-- पिष्टेति॥
1.ष्टकम-ज.क. 2.रुत्पन्ने -ए.नं.उ. 3.न स्यात् -उ.नं. 4.वाच्यत्वे -ए.उ.
नैयिक्त-पदशक्तिङ्गः) शक्तिवादः पु - 239.
-------------------- --------- ----------
तन्न। गुणकर्मादिपदेषु तद्विषेषस्पर्शरूपोत्क्षेपणा 1 पक्षेपणादिपदेषु द्रव्यविशेषात्मादिपदेषु चावयवसंयोगविशेष 3 रूपाकृतेरे 3 वाभावात्। द्रव्यादिपदेषु पृथिव्यबादिपदेषु ब्राह्मणक्षत्रियादिपदेषचानुगताकृतेरभावाच्च॥
अवयवेति॥ कपालाद्यवयवानां यः संयोगविशेषः स इत्यर्थः। पृथुबुद्धनोदराकारत्वादिरूपसंस्थानविशेष इति
यावत्। किं सर्वत्राप्याकृतिरपि शब्दार्थ उत यत्रास्ति सा तद्वाचकपदेषु । आद्य आह -- गुणकर्मादीति॥ जातिसमवायादिरादिपदार्थः॥ रूपेति॥ स्पर्शश्च रूपं चेति विग्रहः। वक्ष्यमाणादिपदस्यात्राप्यन्वयः। रसगन्धादिस्तदर्थः। उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनरूपकर्मविशेषवाचिपदेष्वित्यर्थः। आत्मादीति॥ आत्माकाशदिगादिपदेष्वित्यर्थः। आत्मादेस्तन्मते नित्यत्वेन निरवयवत्वादिति भावः। द्वितीयपक्षे दोषमाह -- द्रव्येति॥ आकृतिमद्वस्तुवा चककद्रव्यादिसामान्यपदेषु तद्विशेषपृथिव्यादिपदेषु च वाच्यभूतार्थगताकृतिष्वनुगतजातेरप्रामाणिकत्वेनान्यतरकर्मज 4 त्वादिना साङ्कर्यापातेन चानुगतोपाधेप्यनिरुक्त्या चानुगमकाभावेन तासां
व्यक्तिवदननुगततयाऽनन्त्येन शक्यत्वग्रहणानुपपत्तेराकृतेरशक्यत्वमेव वाच्यमित्यर्थः॥
यत्तु -- गवादाववयवसंयोगत्वादिकमेवानुगमकमिति। तन्न। तथात्वे तत्प्रकारकप्रतीतेरप्यापातेनानुभवविरोधात्॥
--------------------------------------------------------------------------1.णादिपदे -नं. 2.ऽस्पर्शषरूपोऽ इत्यारभ्य नास्ति--ज.क. 3.एवकारो नास्ति -नं.सुरा. 4.जन्यत्वा -उ.नं.ट
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 240.
------------------------ --------------- ------
किं च गवादिपदैर्जात्याकृतिवत्सर्षपादिपदैः परिमाणादेर्द्रव्यादिपदैर्द्रव्यत्वसमनियतगुणादेः पृथिव्यादिशब्दैः पृथिवीत्वसमनियतगन्धादेरपि प्रतीत्या तत्तज्जात्याकृतिभ्यामिव परिमाणगुणगन्धादिनापि विशिष्टा व्यक्तिः 1 सर्षपद्रव्यपृथिव्यादिपदार्थः स्यात्। एवमकाशादिपदेन शब्दाश्रयत्वादेरपरि प्रतीत्या तद्विशिष्टा व्यक्तिराकाशादिपदार्थः स्यात्। तच्च त्वया नेष्यते। सर्षपादिशब्दैः परिमाणादेराक्षेपश्चेदाकृतेरपि स एवास्तु । अन्यलभ्याकृतौ शक्त्यङ्गीकारे ऽनुव्याख्यानोक्तगौरवात्॥
ननु -- जातिव्यक्त्योरिवाकृतेप्येकवित्तिवेद्यत्वाज्जातिवदाकृतिरपि वाच्यैव। उक्तं च मणौ"एकवित्तिवेद्यत्वनियमाज्जातिविशिष्टं शक्यमिति"। अन्यथा गोपदादाकृतेरपि व्यक्त्यैकवित्तिवेद्यत्वं न स्यादित्य आह-- किञ्चेति॥ यद्वा आकृतेः शक्यत्वमसाधारण्येन निरस्य पराभिमतानुगतजातेरपि न शक्यत्वमिति भावेन तदुक्तयुक्तेर्व्यभिचारमाह -- किं चेति॥ शब्दाश्रयत्वेति॥ आकाश्यैकव्यक्तित्वेनाकाशक्यजातेरयोगेन तस्य शब्दाश्रयरूपत्वादितिभावः। इष्टापत्तिमाशङ्क्याह -- तच्च त्वयेति॥ नेष्यत इति॥ अन्यतो लभ्ये ऽपि शक्यत्वोपगमे गौरवापातात्। अन्यथा पदानामन्वये ऽपि शक्तिस्वीकारापत्तेश्चानिष्टंमेतदिति भावः॥
एतदपि"गौरवं कल्पने ऽन्यथा"इति मूलारूढमिति दर्शयति-- अन्यलभ्येति॥
एतेनान्विते स्वार्थ व्यक्तिमात्ररूपे स्वार्थे इति पूर्वत्रिपादिस्थस्वार्थशब्दार्थ इति दर्शितम्।
1.एवेत्यधिकम् सर्षपपदं न -नं. 2.न्यल -उ.नं.
नैयिक्त-पदक्तिङ्गः) शक्तिवादः पु - 241.
------------------ --------- ----------
किं चाकृतेर 1 पि गोशब्दार्थत्वे गौः सास्नादिमतीत्यत्र सास्नादिमत्पदं पुनरुक्तम् स्यात्॥
किं च विशिष्टा व्यक्तिः पदार्थ इति कोर्ऽथः। अनेका व्यक्तय एकेन गोत्वेनेव जात्यादि 2 त्रयमेकेन क्रोडीकृतमेकपदार्थ इति वा, यद्वा जात्यादिविशिष्टमेकमेव शक्यं प्रवृत्तिनिमित्तं विशिष्टत्वमिति, --
अत्र सर्वत्राकृतवित्युपलक्षणम्। अनुगतजातावित्यपि ध्येयम्। यद्वा अनुगतजातेः स्वरूपेणैवाग्रे निरस्यत्वादाकृतिमात्रापादानम्॥
नन्वाकृतेराक्षेपलभ्यत्वे तत्र विभक्त्यर्थान्वयेनानयनादिक्रियान्वयो ऽपि न स्यादिति चेत्। तर्हि परिमाणादेरपि
तथात्वा 8 पत्तिः। व्यक्त्यानयनादिना परिमाणादेरप्यानुषङ्गिकतयाऽनयनादिसिद्धाकृतेरपि तथास्तु। अमूर्तस्य परिमाणादेरानयादिक्रियान्वय एव नेति चेत्। संयोगविश 4 षाकृतेरपि तथास्त्विति भावः ॥
सह प्रयोगानुपपत्तिदोषं चाह -- किं चाकृते 5 रपीति॥ सास्नादि 6 मत्पदेनाकृतेरेवोक्तेरिति भावः। व्यक्तिमात्रस्य शक्यत्वं सुनिर्वाहं न तु विशिष्टस्य विकल्पासहत्वादिति भावेन त्रेधा विकल्प्य क्रमेण निराह -- किं च विशिष्टेति ॥ व्यक्त्य इति॥ गोव्यक्तय इत्यर्थः।
1.तेर्गो -ज.ग.क.रा.सु 2.दिरूपमे-नं. दित्रितय -ग. 3.त्तेः -- उनं. 4.षरूपा -उ.नं. 5.तेरिति -ए.नं. 6.आदिपदं न -उ.नं.
न्यायदीपयुततर्कताण्डवम्(द्वि.परिच्छेदःपु - 242.
किं वा व्यक्तिरेव शक्या जात्याकृतौ तु प्रवृत्तिनिमित्ते इति। नाद्यः त्रिष्वनुगतस्यैकस्य क्रोडीकारकस्याभादभानाच्च। द्वितीये व्यक्तिद्विशिष्टस्याप्यनन्त्याद्विशिष्टत्वस्य चाजातित्वेनाननुगतत्वादनुगतस्य च गोत्वस्याननुगतशक्यशरीर एव प्रवेशादननुगमतादवस्थ्यम्॥
किं चैवं शाब्दधीर्विशिष्टवि 1 षयका विशिष्टत्वप्रकारिका च स्यात्।
पूर्वोक्तसूत्रानुरोधादयं 2 कल्प्यं। गोपदाज्जात्याकृतिविशिष्टस्यैवानुभवादित्यादिमण्युक्तेर्द्वेधाप्यभिप्रायसंभवात्तदनुरोधेन यद्वेत्याद्युत्तरकल्पद्वयम्। प्रवृत्तिनिमित्ते शक्यतावच्छेदक इत्यर्थः॥
प्रतीतिरेव क्रोडीकारधर्मसत्वे मानमित्यत आह-- अभानाच्चेति॥ यद्वा - एकवित्तिवेद्यत्वमेव त्रयाणां क्रोडीकारको धर्म इति चेन्न। परिमाणादावपि सर्षपादिपदजन्यैकवित्तिवेद्यत्वस्योक्तत्वेनातिप्रसञ्जकत्वात्। अस्तु वा यत्किञ्चित्। तथापि तस्य पदार्थतावच्छेदकत्वे शब्दाच्छक्यतावच्छेदकप्रकारेण शक्यभाननियमेन तेन रूपेण जात्यादेर्भानं स्यात्। न च तदस्तीत्याह -- अभानाच्चेति॥
ननु विशिष्टपदर्थे विशेषणस्यानुगतत्वमात्रणास्तुविशिष्टमप्यनुगतमित्यतो ऽभ्युपेत्या प्याह -- किं चैवमिति॥ शाब्दबुद्धेः शक्यतावच्छेदकप्रकारेण शक्यविशेष्यकत्वनियमाद्विशिष्टस्य शक्यतावच्छेदकत्वे तत्प्रकारिका विशिष्टविशेष्यका धीः स्यादित्यर्थः। अस्त्वित्यत आह -- न चेति॥
1.शेष्यक -नं.ज.क.रा.सु. 2.यं विक- नं.ए. 3.अपिपदं न - नं.उ.
नैयिक्त-पदक्तिङ्गः) शक्तिवादः पु - 243.
------------------- --------- -----------
न चेष्टापत्तिः। गोव्यक्तिविशेष्यकगोत्वप्रकारकबुद्धेरेवानुभवात्। न तृतीयः। त्वन्मते आख्याते कृतित्वजातेरिवात्रापि लाघवाद्गोत्वजातेरेव प्रवृत्तिनिमित्तत्वौचित्यात्॥
किं च 1 जात्याकृत्योर्मध्ये एक 2 विशेषितमपरं प्रवृत्तिनिमित्तं, किं वा स्वतन्त्रे उभे अपि प्रवृत्तिनिमित्ते। नाद्यः। द्वयोरपि व्यक्त्यैव संबन्धस्य प्रतीत्यान्योन्यं
विशेषणविशेष्यभावस्याप्रतीतेः। द्वितीये समुदितयोः प्रवृत्तिनिमित्तत्वे जातिवादाकृतेरपि प्रवृत्तिनिमित्तत्वेन गोशब्दोत्तरत्वप्रत्य--
आख्यात इति॥ आख्यातशब्दिततिङ्ग्वाच्यतावच्छेदकं कृतित्वं न तु कृत्यकृतिसाधारणव्यापारत्वं कृतिमत्वादिकं वा यथा तथात्रापि जातिरेवच्छेदिका न तूभयम्। गौरवादनतिप्रसङ्गाच्चेतिभावः। न केवलगमौचित्यप्राप्तं युक्तं चैवमेवान्यथा 3 नुपपत्तेरित्यह -- किं चेति॥
यद्वा जात्याकृत्योर्घटं प्रति दण्डचक्रयोरिवावधृतमेवमतो न दोष इत्यत आह-- किं चेति॥ द्वयोर्निमित्तत्वं वदन् प्रष्टव्यः किं विष्णवे शिपिष्टायेत्यादौ विशिष्टनिष्ठदेवतात्वमिव जात्याकृत्योरन्योन्यं विशेषणविशेष्यभावापत्या विशिष्टतापन्नत्वात्तन्निष्ठं निमित्तत्वमित्युच्यते इति प्रथमकल्पस्यार्थः द्वितीये ऽपि किमग्निषोमयोर्मिलितयोर्देवतात्वमिव मिलितयोर् वा निमित्तत्वं उत दण्डचक्रादिरिव प्रत्येकमेवयेति हृदि विकल्प्याद्य आह -- समुदितयोरिति॥ गोशब्दोत्तरेति॥
1.किमित्यधिकम्-रा.सु. 2.केन वि-नं. कया विशेषिता अपरा प्र-ग.रा.सु 3.थाह्यनु -नं.उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 244.
------------------------ ------------- ---------
--स्योभयवाचकत्वाद्गोत्वं नित्यं गोत्वं जातिरित्यादिकोभयविषया धीर्वाधिता स्यात्। आकृत्यंशे नित्यत्वादेरभावात्॥
अपि चोभयोर्निमित्तत्वे ऽनुगताभ्यां जात्याकृतिभ्यां कृष्यमाणा व्यक्तिः त्रिशङ्कुवन्नानुगता नाप्यननुगतेति स्यात्। आकृतेरपि कतं चिदनुगमे एकयैव व्यक्त्यनुगमसिद्धेरितरवैयर्थ्यम्। उभयधीस्त्वेकस्याक्षेपादपि युक्ते 1 त्युक्तम्।
गोशब्दादुत्तरः परतः श्रूयमाणो यः त्वप्रत्ययः तस्येत्यर्थः।"तस्य भावस्त्वतला"विति पाणिनिसूत्रेण प्रवृत्तिनिमित्तपर्यायभावशब्दार्थेभिधेये त्वतलोर्विधानात्। त्वया च द्वयोर्निमित्तत्वोपगमेन द्वयोरपि त्वप्रत्ययब्दार्थत्वादिति भावः॥ उभयोरिति॥
समुदितयोरित्यर्थः। त्रिशङ्कुवदिति॥ त्रिशङ्कुर्नाम राजा विश्वामित्रेण स्वर्गं प्रापितोपि देवैः पात्यमानो विश्वामित्रेण प्रतिरुध्यामानो न पतति देवैर्निष्कास्यमानो न स्वर्गं च प्राप्नोति यथा तथैव व्यक्तिरप्यननुगतत्वादनुगतत्वबहिर्भूता स्यात्। तथा च व्यक्तौ शक्तिग्रहो दुःशक आपाद्येत इत्यननुगताया आकृतेर्निमित्तत्वं विहाय केवलजातेरेव तदुपेयमिति भावः। अवयवसंयोगत्वादिना रूपेणाकृतेरप्यनुगमो ऽस्तु एवं च नोक्तदोष इत्यत आह-- अकृतेरपीति॥ पदादुभयप्रतीतिरन्यतराश्रयनिमित्तत्वेन युक्तेत्यत आह-- उभयधीस्त्विति॥ पदाज्जायामाना जात्याकृत्युभयधीरित्यर्थः। द्वितीये ऽपि द्वितीयं प्रत्येकं निमित्तत्वपक्षं निराह -- उभयोरिति॥
1.ति वाच्यम्। अपि गोत्वशब्दयोरुभयार्थकत्वे जातावाकृतौ चानुगतस्यैकस्य प्रवृत्तिनिमित्तत्वाभावाद्गोशब्दो नानार्थकः स्यादिति। इत्यधिकम् -- रा.सु.
नैयिक-पदक्तिङ्गः) शक्तिवादः पु - 245.
----------------- --------- ----------
उभयोः प्रत्येकं निमित्तत्वे पिष्ट 1 मय्यो गाव इत्यत्र गौणत्वं न स्यात्। आकृतेः सत्वात्॥
अ 2 पि च गोत्वमनित्यमित्याद्यपि प्रमाणं स्यात् । आकृतेरनित्यत्वात्॥
अपिच गोशब्दस्य 3 गोत्वशब्दस्य 4 चाक्षशब्दवदक्षत्वशब्दावच्च नानार्थत्वं स्यात्। उभयोर्धीस्तु श्लिष्टशब्द इव स्यात्॥
तस्माज्जात्याकृतिविशिष्टव्यक्तेः पदार्थत्वे गुणकर्मादिपदेष्वननुगमः, सर्षपादिशब्दानां परिमाणविशेषविशिष्टे शक्त्यापत्तिः,
नन्वाकृतिशब्देन मुख्या 5 कृतिरेवावयवसंयोगविशेषस्य इत्यत आह-- अपि चेति॥ जात्याकृत्योः पदार्थत्वपक्षे चोभयत्रापि दोषमाह-- अपि च गोशब्दस्येति॥ अक्षत्वस्यापि विदेवनाक्षत्वविभीतिकाक्षत्वादिरूपेण
नानात्वादक्षत्वदिशब्दवच्चेत्युक्तम्। अस्तु को दोष इत्यत आह -- उभ 6 योरिति॥ श्लिष्टेति च ॥ अक्षाण्यानेयेत्यादावनेकवजातीया 7 क्षाभिप्रायेण प्रयुक्तस्थले यथा युगतदुभयधी तथात्रापि जात्याकृत्यो ऽरपि धीः। सा
चानुभवबाधितेति भावः। उपपादितं च सर्वं सङ्ग्रहेणानुवदन्नुपसंहरति-- तस्मादिति॥ त्रयाणां वाच्यत्वोपगमादेकस्यापि दोषस्यापरिहार्यत्वाद्वा दोषनवकमित्यन्वयः। पुनरुक्तं स्यादित्यस्य सङ्ग्रहः --
1.ष्टकम-ज.क. 2.किञ्च-ज.क. 3.स्य वा-नं. 4.स्य वा क्ष.नं. 5.ख्यार्थाकृ -नं.उ. 6.येति -उं.नं. 7.अक्षपदं न -नं.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 246.
------------------------- ------------- --------
सहप्रयोगानुपपत्तिः, गोरवं, एकविशिष्टाया अन्यस्याः प्रवृत्तिनिमित्तत्वे ऽनुभवविरोधः, स्वन्त्रयोरुभयोः प्रवृत्तिनिमित्तत्वेपि समुदितयोः प्रवृत्ति तिमित्तत्वे गोत्वं नित्यमित्यादेरप्रामाण्यापत्तिः, त्रिशङ्कुवदुभयतः पाशारज्जुः, प्रत्येकं निमित्तत्वे दोषत्रयमिति दोषनवकम् ॥
नैय्यायिको 1 क्तपदशक्तिभङ्गः ॥ 2.6 ॥
सहप्रयोगानुपपत्तिरिति॥ जात्याकृती 2 ति तु प्रवृत्तिनिमित्ते इति पक्षे जातिरेव प्रवृत्तिनिमित्तत्वौचित्यादित्यभिप्रेतमाह -- गौरवमिति॥ द्वयोर्निमित्तत्वपक्षस्यैव पराभिमतत्वादेतद्दोषस्य 3 संग्रहो न पूर्वकल्पद्वयस्येति ज्ञेयम्॥
यद्वा गौरवमिति पक्षित्रयदोषस्यापि संग्रहः। जातिनिमित्तेन व्यक्तावेव शक्तेर्लघुत्वादिति भावः। दोषदशकमिति पाठः साधुः। नवकमिति तु लेखकदोषमूलमित्याहुः॥
दोषत्रयमिति ॥ गोणत्वानुपपत्तिः, गोत्वमनित्यमित्यस्याप्रामाण्यापत्तिः, नानार्थत्वापत्तिश्चेति दोषत्रयम् ॥
मण्याद्युक्तपदशक्तिभङ्गः ॥ 2.6 ॥
1.मण्याद्युक्त-नं.गा.रा.सु यिकाद्युक्त -ज.क. 2.ऽइतिऽ इति नास्ति-ए.उ. 3.एव पदमधिकम् -न.ए.
स्वते-पक्ति-नियः)शक्तिवादःपु - 247.
अथ स्वमते पदशक्तिनिर्णयः ॥ 2.7 ॥
तस्माद्व्यक्तस्य एव वाच्याः। जात्यादिकं तु प्रत्येकं तेषु तेषु शब्देषु प्रवृत्तिनिमित्तम्। उक्तं हि सुधायाम्। ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यकर्मसामान्यैर्निमित्तैः तत्तच्छब्दवाच्या इति।
अथं स्वमते पदशक्तिनिर्णयः ॥ 2.7 ॥
नन्वेवं वाद्यन्तरैरुक्तपक्षचतुष्टयस्याप्ययोगे कस्तर्हि पदस्यार्थ इत्यतः प्राक्प्रतिज्ञानतमेव सप्रमाणकं स्मारयति -- तस्मादिति॥ प्राभाकराद्युक्तपक्षाणामयुक्ततया परिशेषप्रमाणादित्यर्थः॥
नन्वेवं ब्राह्मण इत्यादयो जातिशब्दाः, गौरःशुक्ल इत्यादयो गुणब्दाः, गच्छतीत्यादयः क्रियाशब्दा, इति व्यवस्था न स्यात्। सर्वत्र व्यक्तीनामेव वाच्यत्वादित्यत आह-- जात्यादिकं त्वितिप्रत्येकमिति॥ जातिशब्दे 1 जातिः गुणशब्देन गुण इत्येवं प्रत्येकमित्यर्थः। जात्यादिनिमित्ता 2 व्यक्तय एव वाच्या इत्यत्र संमतिमाह -- उक्तं हीति॥ वैशेषिकाधिकरणे --
तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥
इति श्लोकव्याख्यावसर उक्तमित्यर्थः। ते 3 ते घटपटादय इत्यर्थः। व्यावृत्तैः -- प्रतिवस्तु भिन्नभिन्नैः न तु
सर्वत्रानुगतैरित्यर्थः। द्रव्येति॥
1.ब्देन जा-उ.नं. 2.त्ते व्य- नं.ए.उ. 3.ते घ -उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 248.
------------------------ ------------- ------------
न च गोत्वस्य प्रवृत्तिनिमित्तत्वे शक्यतावच्छेदकत्वेन पृथिवीशब्दे 1 न गन्धवत्वस्येवाशक्यत्वं स्यात्। ततश्च गोशब्दजन्यधीविषयत्वं न स्यादिति शङ्क्यम् । अवच्छेदकं हि द्विविधिम्। एकं सत्तया। यथा पृथिवीत्वजातिनिमित्तके पृथिवीशब्दे गन्धवत्वं तस्य पृथिवीशब्दशक्यतया 2 समनीयतत्वे ऽपि गन्धवत्तयाज्ञात एव पृथिवीशब्दशक्तेर् 3 ग्रहात्। अपरं ज्ञाततया। यथा गोत्वजातिनिमित्तके गोशब्दे गोत्वम् । गोत्ववत्तया ज्ञात एव
गोशब्दशक्तिग्रहात् ।
दण्डी कुण्डलीत्येवमादयः शब्दाः दण्डादिरूपद्रव्यनिमित्तका इति तदभिप्रायेण द्रव्येत्युक्तिः। अस्मिन् पक्षे गोशब्दाद्गोत्वविशिष्टप्रतीत्यभावरूपबाधकमाशङ्कते --न चेति॥ अवच्छेदकत्वेनेति॥ 4 अन्यूनानधिकदेशतया शक्यतायां नियामकत्वेनेत्यर्थः। न स्यादिति॥ न चेष्टापत्तिः। गोशब्दाद्गोत्वविशिष्टगोव्यक्तिबुद्धेः साक्षिसिद्धत्वादिति भावः॥ गन्धवत्वस्यैवेत्युक्तदृष्टान्तवैषम्यं वक्तुमाह -- अवच्छेदकं हि द्विविधमिति॥ शब्दशक्यत्वस्य कारणरूपमेकं ज्ञापकरूपमेकमित्यर्थः॥
ननु गन्धवत्वस्यापि पृथिवीशब्दवाच्यत्वसमनियतत्वेनाव्यभिचारात्कुतो न निमित्तत्वमित्यत आह -- तस्येति॥ गन्धवत्वस्य गुरुत्वेन तज्ज्ञानं विनैव लघुभूतपृथिवीत्वज्ञानेनैव तच्छब्दशक्तिग्रहादिति भावः॥ गोत्वमिति॥ न तु सास्नादिमत्वादिकमिति भावः॥
1.ब्देग -ज.ग.क.रा.सु. 2.सह इत्यधिकम् -ज.ग.क.रा.सु. 3.क्ते रग्र- ज.ग.क.रा.सु. 4.अन्यथा गोत्वानाधिक इत्येवास्ति -ए.
स्वते-पक्ति-नियः) शक्तिवादः पु - 249.
----------------- ---------- ----------
तत्राद्यं न प्रवृत्तिनिमित्तम्। किं तु द्वितीयम्। तच्च शक्यमेव । यो ह्येतच्छब्दनिष्ठशक्तेरयं भासते स एव शक्यः। शक्तिं प्रति विषयतया भानं च विशेष्यरूपायां व्यक्ताविन विशेषणभूते गोत्वे ऽप्यस्त्येव । तथा च कथं शक्यत्वव्याप्येन प्रवृत्तिनिमित्तत्वेनाशक्यत्वापादनम्।
तत्राद्यं न प्रवृत्तिनिमित्तमिति॥"गन्धवत्वं हि न पृथिवीशब्दवाच्यं, नापि तत्प्रवृत्तिनिमित्त"मिति सुधोक्तेः शक्तिग्रहे तज्ज्ञानस्यानपेक्षितत्वाद्गुरुत्वाच्चेति भावः। यद्वा नविलक्षणत्वाधिकरणं याथार्थ्यमेव मानत्वमित्येतव्द्याख्यानसुधायां, गन्धवत्वादिकं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत्तस्यान्योव्यवच्छेद 1 तत्तच्छब्दव्यवहारकर्तव्यत्वे च प्रतिपादयति पृथिवीत्यादिकं च प्रवृत्तिनिमित्तं भवत्तव्द्यवहारमात्रकारणं भवीत्युक्तदिशा शब्दव्यवहारासाधारण्याभावान्न निमित्तमा
2 त्रम्। द्वितीयं तु व्यवहारासाधारण्यान्निमित्तमिति भावः॥
यद्वा आद्यद्वितीययोर्वक्ष्यमाणनिमित्तलक्षणायुक्तत्वयुक्तत्वाभ्यां अनिमित्तत्वनिमित्तत्वे इति भावः। कथं शक्यत्वमित्यतो व्यनक्ति-- योहीति॥ भासत इत्यन्वयः। एतच्छब्देति।. बुद्धिस्थो गवादिशब्दः। अयं गोपिण्डादिः ॥
ननु -- शक्यतावच्छेदकस्य शक्यत्वमयुक्तम्। तद्भावावच्छेदकस्यापि तद्भाव इत्यस्य क्वाप्यदृष्टेः। द्वयोः
शक्यत्वे शक्यमिदं इदं तु शक्तौ निमित्तमिति व्यवस्थानुपपत्तेश्चेत्य आद्यं तावन्निराह -- युक्तं चेति॥ शक्यत्वमित्यन्वयः।
1. दकत उ-नं. 2.माद्यं इति शोधितम् -उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 250.
------------------------ ------- --------
युक्त च घटादि 1 साक्षात्कारजनकतावच्छेदकस्याप्युद्भूतरूप 2 स्य तज्जनकत्ववद्घटो ऽयमिति ज्ञानं प्रति घटनिष्ठविषयतावच्छेदकस्यापि घटत्वस्य तद्विषयकत्ववच्च शक्यतावच्छेदकस्यापि शक्यत्वम्। शक्यत्वाविशेषेपीदं प्रवृत्तिनिमित्तमिदं नेति व्यवस्था तु विशेषणत्वविशेष्यत्वाभ्याम्॥
अत एव शक्यत्वे शक्यवृत्तित्वे च सति स्वभिन्नशक्यं प्रत्यनधिकरणत्वं प्रवृत्तिनिमित्तत्वमित्याहुः॥
महत्वसमानाधिकरणोद्भूतरूपवत्वं हि बहिर्द्रव्यप्रत्यक्षतायां तन्त्रमिति स्वीकारेणोद्भूतरूपस्य साक्षात्कारजनकतावच्छेदकस्यापि प्रत्यक्षे जनकत्वेन स्वस्यापि जनकत्वादर्शनादिति भावः॥ जातावेदतद्भावो न दृष्ट इत्यत आह -- घटोयऽमिति ॥ व्यस्थानुपपत्तिं निराह -- शक्यत्वाविशेषे ऽपीते ॥ विशेषणत्वविशेष्यत्वाभ्यां युक्तेति विपरीणामेनानुकर्षः। कुत एव कल्प्यं, शक्यत्वमेव नास्ति प्रवृत्तिनिमित्तत्वात्, शब्दात्तधीस्तु व्यक्तिशक्तादेवाक्षेपत इत्युपेयतामित्यत आह-- एत एवेति॥ जातः शक्यत्वादेवेत्यर्थः। पृथिव्यादिशब्दप्रवृत्तिनिमित्तत्वे गन्धवत्वादौ पृथिव्यादिशब्दशक्यपृथिव्यादिकं प्रत्यनिधिकरणे पृथिव्यादिवृत्तिमत्यतिव्याप्तिनिरासाय शक्यत्वे सतीत्युक्तिः। यत्पदप्रवृत्तिं प्रति निमित्तत्वमुच्यते तत्पदशक्यत्वे सतीति
सम्बन्धिशब्दत्वववादेवानुक्तिसिद्धमिति यत्किञ्चित्पदशक्यत्वाद्गन्धवत्वादौ पुनरतिव्याप्तिरिति शङ्कानवकाशः।
1.निष्ठेत्यधिकम् -ज.ग.क.रा.सु. 2.पवत्वस्य-नं.रा.सु.
स्वते-पक्ति-नियः) शक्तिवादः पु - 251.
---------------- ---------- ----------
यद्वा पूर्वोक्त 1 ज्ञाने शक्तिं प्रति विषयतया भासमानत्वे सति यद्विशेष्यं तदेव शक्यम्। तथा च गोत्वमशक्यमेव शक्यतावच्छेदकम्। शब्दात्तद्धीस्तु शक्यत्ववच्छक्यतावच्छेदकत्वस्यापि शाब्दधीविषयत्वे तन्त्रत्वाद्युक्ता। कथमन्यथा परमते पारिभाषिकाकाशादिपदादशक्य 2 शब्दाक्षयत्वस्य धीः।
व्यक्तावतिव्याप्तिनिरासाय शक्यवृत्तित्वे च सतीत्युक्तम्। तावत्येवोक्ते प्रमेयत्वशब्दप्रवृत्तिनिमित्तं प्राप्नोति। प्रमेयत्वस्य केवलान्वयित्वेन स्ववृत्तितया शक्यत्वे सति शक्य 3 वृत्तित्वादतः स्वभिन्नं शक्यं प्रत्यनधिकरणत्व 4 मित्युक्तम्। तस्य प्रमेयत्वरूपस्वभिन्नशक्यं प्रत्यधिकरणत्वादिति वदन्ति॥
व्यक्तिरेव वाच्येति पद्धतिगतैवकारस्वारस्यमनुरुद्ध्य पक्षान्तरमाह -- यद्वेतिथ॥ पूर्वोक्तेति॥ एतच्छब्दनिष्ठशक्तेरयं विषय इति पूर्वोक्तज्ञाने इत्यर्थः। सत्यन्तमात्रस्य विशेषणे गोत्वादावपि गतत्वाद्यद्विशेष्यमित्युक्तम्। विशेष्यतया भासमानत्वमित्येवोक्तावसिद्धिः। विषयत्वेनैव शक्तिं प्रति भा 5 समानत्वात्। शब्दशक्त्यविषयत्वे गोशब्दाद्गौरिति विशिष्टधीर्न स्यादित्यत आह-- शब्दादिति॥ शक्यत्ववदिति॥ शक्तिविषयत्वस्येवेत्यर्थः। कुतोचछेदकत्वस्य शब्दधीविषयत्वे तन्त्रत्वमित्यत आह -- कथमन्यथेति॥ पारिभाषिकेति॥ यथा डित्थादिशब्दः कस्मिंश्चित्सङ्केतो लक्षणादिमान् मुख्यवृत्तिमान्वा यथा न भवति, तथाकाशशब्दोप्याकाशे शक्त्यादिवृत्तिशून्यः केवलं साङ्केतिकैत्यभ्युपगमादिति भावः॥
1.क्ते ज्ञा -न.ज.क.रा.सु. 2.क्यस्य -नं.ज.क.ग. 3.क्यत्ववृ -नं.उ. 4.त्वादित्युक्तम् श -नं.उ. 5.भानात् -उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 252.
------------------------ ------------- ---------
कथं च गङ्गापदाच्छक्यसंबन्धरूपलक्षणावृत्यविषयत्वस्य तीरत्वस्य धीः। न च तीरस्य संयोगेन तीरत्वस्य तु संयुक्तसमवायेन धीरिति वाच्यम्। युगपद्वृत्तिद्वयविरोधात् ॥
किं च गङ्गापदेन तीरततीरत्वयोर्भिन्नसंबन्धे 1 न नानार्थाक्षादिपदेन तदर्थानामिव तीरतीत्वयोरपि स्वतन्त्रयोरेव बोधापत्या तीरत्वविशिष्टतीरधीर्न स्यात् ॥
ननु तत्राकाश बोधे ऽपि वृत्तेरव्यापारत्वाद्व्यक्तिबोध इव शब्दाश्रयत्वरूपधर्मबोधोपि सेत्स्यति । व्यक्त्यंशे वृत्तिद्वारा बोधकस्य गोत्वादिधर्मांशे वृत्तिं विना कथं बोधकत्वं शब्दस्येत्यत आह -- कथं चेति॥ वृत्तिद्वयेति॥ लक्षणा लक्षितलक्षणा चेति वृत्तिद्वयेत्यर्थः। शक्यसंबन्धस्य लक्षणात्वे लक्ष्यसंबन्धस्य लक्षितलक्षणात्वादिति भावः। अस्तु गङ्गायां मीनघोषावित्यत्रेव वृत्तिद्वयमित्यत आह -- किं चेति॥ यद्वा -- पूर्वं शक्यसंयोगेन तीरबोधे पश्चाच्छक्यसंयुक्तसमवायेन तीरत्वबोधोस्तु । एवं च न युगपद्वृत्तिद्वयापत्तिरित्यत आह -- किं चेति॥ नानार्थेति॥
नन्वक्षाण्यानयेत्यादौ विदेवनविभीतकरथचक्रादिरूपनानार्थबोधे ऽन्योन्यानपेक्षवृत्ति 2 द्वारकत्वेन तत्र शब्दात्तेषां स्वतन्त्राणामेवार्थानामुपस्थितावपि गङ्गायां घोष इत्यादौ शक्यसंबन्धघटितसमवायसंबन्धेनैव तीरत्वबोधनात्तीरान्वितत्वेनैव तीरत्वधीर्भविष्यतीति॥ चेन्न। शब्दस्य विरम्यव्यापारापत्तेः। शब्दात्तीरगोचरनिर्विवकल्पकधीप्रसङ्गाच्च ॥ पूर्वं तीरबोधेपि तस्य विशेष्यत्वेन पश्चाज्ज्ञायमानविशेषणरूपतीरत्वस्य --
1.न्धवत्वेन -ज.क. न्धेन बोधने-रा.सु न्धेन बोधने नानार्थनामिव तीर -ग. 2.त्वद्वाचकत्वे -ए.
स्वते-पक्ति-नियः)शक्तिवादःपु - 253.
न च प्रथमं 1 स्मृत स्वतन्त्रपदार्थविषयिण्येवानान्तरं विशिष्टानुभव इति वाच्यम्। त्वन्मते लाक्षणिकस्याननुभावकत्वात्। निर्विकल्पकस्य साक्षात्वनियमेन स्मृतेर्निर्विवकल्पकत्वायोगाच्च ॥
--- तीरविशिष्टेन बोधाप 2 त्तेश्च। संयोगसंयुक्तसमवायाभ्यां घटघटत्वयोरिव गङ्गायां घोष इत्यत्रापि शक्यसंयोगशक्यसंयुक्तसमवायरूपसंबन्धद्वयेनापि तीरतीतरत्वयोर्युगपद्बोधस्यैव वाच्यतया युगपद्वृत्तिद्वयविरोधापरिहाराच्चेति भावः॥
ननु -- पूर्वं स्वातन्त्र्येण तीरतीत्वयोः शब्दाच्छशक्यसंयोगादिसंबन्धद्वयेनोपस्थितावपि पश्चाद्विशिष्टबोधः। स्यादेव को दोषः। घटघटत्वनिर्विकल्पकबोधानन्तरं घटत्वविशिष्टधीवदित्याशङ्क्य निराह -- न चेति॥ स्वतन्त्रपदार्थेति॥ गङ्गापदलक्ष्यर्थभूततीरत्वविषयिण्यव गङ्गायां घोष इत्यत्र गङ्गापदादन्योन्यानन्विततीरतीरत्वस्मृतिर्जायत इत्यर्थः। पश्चात्तु घोषान्वयदशायां तीरत्वविशिष्टानुभवो जायते गङ्गापदादेवेत्यर्थः। अनन्तरं विशिष्टानुभव इत्यंशं तावद्दर्षयति -- त्वन्मत इति॥
ननु -- गङ्गापदस्याननुभावकत्वे ऽपि घोषपदमेव घोषान्वयं तीरतीरत्ववैशिष्ट्यं चानुभावयत्विति चेन्न। तीरतीरत्वयोर्घोषपदार्थत्वाभावेन तद्वैशिष्ट्यबोधे तस्यासामर्थ्यात्। स्वतन्त्रपदार्थविषयिण्येवेत्याशङ्कां निराह -- निर्विकल्पकस्येति॥ अन्योन्यानन्वितततीरतीरतीरत्वविषयत्वे स्मृतिनिर्विकल्पकत्वा 3 पातात्। तस्य त्वन्मते प्रत्यक्षत्वनियमेनासाक्षात्कारत्वेन
1.मस्मृ नं.क. 2.प्ताप्ते- ए. धाप्रवृत्ते- उ.नं. 3.त्वायोगादित्यर्थः- उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 254.
----------------------- ------------- ---------
त्वन्मते विरोधिविभक्त्यभावे नामार्थयोरभेदान्वयस्य व्युत्पत्तिसिद्धत्वेन संसर्गानुभवविरोधाच्च। मन्मते मध्ये स्मृतेरभावाच्च। उत्र चाद्ये पक्षे सुधायां"द्रव्यगुणकर्मसामान्यैर्निमित्तै"रिति, तृतीया सहयोगे, द्वितीये 1 हेताविति द्रष्टव्यम्। तस्माच्छक्तिज्ञानं प्रति विशेष्यत्वेन विषयत्वाद्व्यक्त्य एव वाच्याः
जात्यादिकं तु प्रवृत्तिनिमित्तमिति ॥
स्वमते पदशक्तिनिर्णयः ॥ 2.7 ॥
त्वदङ्गीकृतस्मतेर्निर्विकल्पकत्वा 2 योगादित्यर्थः॥
अस्त वा सा निर्विकल्पकरूपा स्मृतिः। अथाप्यनन्तरं तयोरभेदान्वय एव स्यात्। न तु तीरत्ववत्तीरमिति विशिष्टधीः राज्ञः पुरुष इत्यादाविवाभेदविरोधिविभक्त्य 3 भावस्थले ऽभेदान्वयस्य व्यत्पत्तिबलसिद्धत्वोपगमेन तीरतीत्वयोर्नीलोत्पलमित्यादाविवाभेदान्वय एव स्यात्। न तु तीरतीरत्वसमवायरूपसंसर्ग 4 धीरित्याह -- तन्मत इति॥ प्रथमं स्मृतिरित्येतन्निराचष्टे -- मन्मत इति॥ पदोपस्थित्यन्वयानुभवयोर्मध्य इत्यर्थः। यथा चैतत्तथोक्तं प्राक् भट्टाभिमतान्विताभिधानभङ्गे। गोत्वादिकं शक्यमिति पक्षे ऽशक्यमिति पक्षे च प्रागुक्तसुधावाक्यमेव संवादयति - अत्र चेति॥ पक्षद्वय इत्यर्थः॥
स्वमते पदशक्तिनिर्णयः ॥ 2.7 ॥
1.तु इत्यधिकम् -ज.क.ग.रा.सु. 2.त्वापातादित्यर्थः-उ. 3.वत्यन्तस्थले भेदा इति शोधितम् -उ. र्4.गादित्यर्थः प्रथमं स्मृ-इत्यस्ति -नं. ऽदित्यऽ इति वर्णयोर्मध्ये ऽरिऽ इति पूरितम् -उ.
सङ्केत-सन्धङ्गः) शक्तिवादः पु -- 255.
------------------ ------- ----------
अथ सङ्केतसंबन्धभङ्गः ॥ 2.8 ॥
यत्तूक्तं मणावस्माच्छब्दादयमर्थो बोद्धव्य इतीच्छारूपः सङ्केत एव शक्तिर्न त्वौत्पत्तिकः संबन्ध इति।
अथ सङ्केतसम्बन्धभङ्गः ॥ 2.8 ॥
एवं कथमन्विते शक्तिरित्युपक्रम्य प्रकरणसप्तकेन पदार्थस्त्वित्युपक्रम्य प्रकरणपञ्चकेन चान्वयव्यक्तिरूपेण पदशक्तिविषयस्वरूपनिर्णयं कृत्वेदानीमवसरप्रप्तं पदशक्तिरस्वरूपनिर्णयं चिकीर्षुः --
"नित्ययो 1 रपि शब्दानामर्थे 2 नैव निषिध्यते"।
इत्यानुमानिकपादीयव्याख्याने"औत्पत्तिकस्यु शब्दस्यार्थेन संबन्ध"इति जैमित्युक्तार् 3 थैः शब्दानां नित्ययोगोपि नैवास्माभिस्त्याज्य इति सुधाकृदभिहितां शब्दार्थेन सह स्वाभाविकसम्बन्धरूपां पदशक्तिं --
"पत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि"।
इति जिज्ञासासूत्रानुव्याख्यानसुधायां सम्यक्प्पञ्चितं मनसि निधाय पराभिमतसङ्केतपक्षे बाधकमात्रमाह -- यत्विति॥ शब्दखण्डे लक्षणा वादात्पूर्वं शब्दसाधुत्वोक्तिप्रस्तावे उक्तमित्यर्थः॥
औत्पत्तिकः स्वाभाविकः। इच्छारूप इत्यत्र किमस्मदादीच्छासाधारणेच्छारूपोथेश्वरमात्रेच्छारूपः।
1.गोपि -ए.उ. 2.मर्थैनैव -ए. 3.क्तेरर्थे -ए.
तन्न। गङ्गा 1 पदात्तीरं प्रत्येत्वितीच्छयैव 2 गङ्गाशब्दस्य 3 प्रयोगेन तीरे ऽपि शक्तिप्रसङ्गात्॥
न चास्माच्छब्दादायं साक्षात्प्रत्येत्वितीच्छा शक्तिः तीरे च पपरया प्रत्येत्विच्छेति वाच्यम् । साक्षात्वस्य स्मृत्यनुभवयोरन्त्रत्वेन प्रत्येत्वितिच्छाया एव शक्तत्वात्॥
न च तादृशीश्वरेच्छा शक्तिः, सा च न तीर इति वाच्यम् ।
---------------------------------------------------------------------------आद्येपि किं साक्षात्परंपरासाधारण्येन प्रत्येत्वितीच्छारूप उत साक्षात्प्रत्येत्विति। तत्राद्ये दोषमाह -- गङ्गेति॥ अन्त्यमाशङ्क्याह -- न चेति॥ परम्परयेति॥ मुख्यार्थभूतप्रवाहं प्रतीत्येतत्संबन्धितया तीरं प्रत्येत्वितीच्छैवेत्यर्थः। अतन्त्रत्वेनेति॥ पदाद्व्यवहित तीरादौ स्मृतेरनुभवस्य वा जायामानत्वेन पदस्यपदार्थस्मृत्यनुभवयोर्जन्मनि कार्ये साक्षात्वस्याप्रयोजकत्वनेत्यर्थः। यद्वा स्मृतेरनुभवद्वारैव पजन्यत्वादनुभवस्य साक्षात्तज्जन्यत्वात्साक्षात्वस्यस्मृतौ व्यभिचारेणातन्त्रत्वात्। स्मृत्यनुभवसाधारण्येन पदार्थ 4 प्रत्येत्वितीच्छामात्रस्यैव शक्तित्वादित्यर्थः॥
उक्तदोषपरिजिहीर्षया द्वितीयमाशङ्कते -न चेति॥ आधुनिकसङ्केतितदेवदत्तादिशब्दे शक्त्यभावः स्यादिति दोषे सत्येव
दोषान्तरमाह -- ईश्वरेच्छाया इति॥
1.शाब्दा -ज.क.ग.रा.सु. 2.वक्त्रा इत्यधिकम् -ग. 3.ब्दप्र -रा. 4.दादर्थं-ए.उ.
सङ्केत-सन्धङ्गः) शक्तिवादः पु - 257.
------------------ -------- ---------
ईश्वरेच्छायाः सन्मात्रविषयत्वेन तस्या अपि तत्र सत्वात्। न हि गङ्गाशब्दात्तीरबुद्धौ सत्यामपि तादृशीश्वरेच्छा नेति युक्तम्। तस्याः कार्योन्नेयत्वात्॥
न चास्मात्पदादमुमर्थमनुभवत्वितीश्वरेच्छा शक्तिः सा च तीरे नेति वाच्यम्। जानात्विति सामान्येच्छाया एवाधुनिकसङ्केतितदेवदत्तादिशब्देष्विव सङ्केतत्वोपपत्तौ विशेषकल्पकाभावात्। लाक्षणिकस्यानुभावकत्वपक्षे तस्या अपि तत्र सत्वाच्च॥
न च तादृशेच्छयेश्वरोच्चरितत्वं शक्तिः सा च न तीरेस्तीति वाच्यम्। उच्चारणतज्ज्ञानयोरभावेपीच्छाज्ञानमात्रेण पदार्थज्ञानदर्शनेनोच्चारणांशस्य व्यर्थत्वात्। आधिनिकसङ्केतितदेवदत्तादिपदे 1 तादृशेच्छयेश्वरोच्चरितत्वाभावेन शक्त्यभावापत्तेश्च। त्वया च तत्रापि शक्त्यङ्गीकारात्॥
सा च न तीर इति॥ लाक्षणिकस्याननुभावकत्वादिति भावः। तस्या अपीति॥ अनुभवत्वि 2 तीश्वरेच्छाया अपि॥ तत्र तीरादावित्यर्थः। सा च न तीरेस्तीति॥ लाक्षणिकपदप्रयोक्तृच्चारितत्वादिति भावः। तादृशेश्वरच्छयोच्चरितत्वं शक्तिरिति हि तदा कल्पनीयम् यदि तादृशेश्वरच्छयोच्चरितत्वं विना वा तज्ज्ञानं विना वा पदात्पदार्थज्ञानं स्यात्। न ह्येवमस्तीत्याह - उच्चारणेति॥ अस्माच्छब्दादमुमर्थमयं जानात्वितीश्वरेच्छाज्ञानमात्रेणेत्यर्थः। इष्टापत्तिरित्यत आह -- त्वया चेति॥
1.तदिच्छ-नं.ज.ग.रा.सु 2.तीच्छा -ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 258.
------------------------- ---------- ---------
न च द्वादशे ऽहनि पिता नाम कुर्यादिति सामान्येनेश्वरोच्चारितत्वं तत्राप्यस्तीति वाच्यम्। साधुभिर्भाषितव्यमिति
सामान्येनेश्वरोच्चारितत्वस्य लाक्षणिके ऽपि सत्वात्। घटोत्पत्तिरिव गङ्गाशब्दोतच्चारणस्यापि द्विकर्तृकत्वेनेश्वरोच्चरितत्वस्यापि सत्वाच्च। तस्मात्स्वाभाविकः संबन्धः शक्तिरित्यस्वीकारे लाक्षणिकेपि शक्तिर्दुवारा ॥
किं चैवं चक्षुषा घटं प्रत्येतु, धूमेन वह्निं प्रत्येत्वितीश्वरेच्छैव चक्षुर्धूमयोर्घटवह्निभ्यां संबन्धो न तु संयोगव्याप्ती इति स्यात्॥
सङ्केतसंबन्धभङ्गः ॥ 2.8 ॥
देवदत्तादिपदार्थबुद्धौ सङ्केतज्ञानस्य कारणत्वावधारणा 1 दित्यत्रापि तत्कल्पनात् इत्यादिना मणौ तथैव स्पष्टं प्रतीतेरिति भावः। आधुनिकसङ्केतस्थले ऽप्याप्त्युद्धारमाशङ्क्य निराह -- न च द्वादश इति॥ पुत्रजन्मादिनमारभ्य द्वादशे ऽहनीत्यर्थः। तर्ह्यतिव्याप्तिः स्यादित्याह -- साध्वति॥ विशिष्यापीश्वरोच्चारितत्वमस्त्वित्याह -- घटोत्पत्तेरिति॥ ईश्वरेच्छया कॢप्तशक्तित्यागे ऽतिप्रसङ्गं चाह -- किं चेति॥
सङ्केतसंबन्धभङ्गः ॥ 2.8 ॥
1. दन्य - नं.
तर्कताण्डवम् - 2. 18-11-2000.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 259.
------------------------- ---------- --------
अथ अनुगतजात्यभावेपि शक्तिव्याप्त्यादिग्रहणसमर्थनम् ॥ 2.9 ॥
ननु उच्यते --
सर्वगोव्यक्तिसङ्ग्राहकस्य शक्यतावच्छेदकस्यैकस्य गोत्वस्याभावेन शक्तिग्रकाले सर्वगोव्यक्त्युपस्थित्यसंभवात्कथङ्गोशब्दस्य सर्वगोव्यक्त्युपसंहारेण शक्तिग्रहः । तदग्रहे च कथं गोशब्दादपूर्वगोव्यक्तिधीः । एवं सर्वधूमाग्निसङ्ग्राकयोर्व्याप्यत्वव्यापकतावच्छेदकयोर्धूमत्वाग्नित्वयोः --
अथ अनुगतजात्यभावेपि शक्तिव्याप्त्यादिग्रहणसमर्थनम् ॥ 2.9 ॥
एवं शक्तिस्वरूपं निरूप्यावसरप्राप्तं तद्ग्रप्रकारं ---
"इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते"।
इत्यादिविशेषिकाधिकाधिकरणानुव्याख्यानसुधयोः"समयप्रवृत्तौ तु सादृश्यमुपधान"मिति पद्धतौ चोक्तं समर्थयमानः सुधोक्तं पूर्वपक्षं संक्षिप्यानुवदति -- ननु त्वन्मत इति ॥ अभावेनेति ॥ आगामिभङ्गे वक्ष्यमाणदिशेति भावः । अनुगतजातिपक्षे तु पुरोवर्तिचक्षुः संयुक्तघटादौ प्रत्यक्षावगतं घटत्वं प्रत्यासत्तीभूय स्वाश्रयभूतसमस्तघटव्यक्तीः प्रत्यक्ष 1 ज्ञाने भसयतीति युगपदुपस्थितानन्तव्यक्तिषु शक्तिग्रहः सुशक इति भावः । तुल्यन्यायविषयत्वादाह -- एवमिति ॥ व्याप्यत्वावच्छेदकव्यापकत्वावच्छेदकयोरित्यर्थः । 2 अग्नित्वयोरित्यनन्तरं एवमित्यनुषङ्गः ।
1.त्यभिज्ञा - उ. नं. 2.धूमत्वाग्नि - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 260.
----------------------- ------------- ---------
कार्यत्वकारणत्वावच्छेदकयोरनुगतयोर्घटत्वदण्डत्वयोश्चाभावे कथं सर्वोपसंहारे 1 ण व्याप्तेः कार्यकारणभावस्य च ग्रहः । कथं च कारणकारणविभागः । व्यक्त्यपेक्षया नियत 2 त्वस्य रासभे ऽपि सत्वाज्जात्यपेक्षया नियमस्य त्वन्मते दण्डादावप्यभावात् ॥
सर्वोपसंहारेणेति ॥ सर्वेषां युगपदेकबुद्धिस्थत्वं सर्वोपसंहारः । तेन च धूमवह्निघटदण्डरूपसर्वव्यक्तिनिष्ठव्याप्यव्यापकभावग्रहः कार्यकारणभावग्रहो भवति स कथमित्यर्थः । मास्तु को दोषः पुरोवर्तिनोरेव व्याप्यादिभावग्रहोस्त्वित्यत आह -- कथं चेति ॥ उपलक्षणमेतत् । व्याप्याव्याप्यविभाग 3 श्च कथमित्यपि ध्येयम् । कार्यकारण 4 विभागायोगं व्यनक्ति-- व्यक्तीति ॥ नियतपूर्ववृत्तित्वादि 5 हि कारणत्वादिकं वाच्यम् । तत्र नियमश्च दण्डे सति घटः तदभावे तदभाव इति वाच्यः । स च दण्डघटरूपव्यक्तिमादाय चेत्तदा कस्मिंश्चित् घटे जायमाने यत्र रासभो ऽपि सन्निहितस्तत्र रासभे सति घट इत्यस्ति नियम इति रासभस्यापि कारणत्वग्रहः स्यात् । अथ -- दण्डत्वावच्छिन्ने सति घटत्वावच्छिन्नमित्येवं नियमस्तु सिद्धान्तिनो मते न युक्तः । अनुगतदण्डत्वादेरभावात् । एवं व्याप्यत्वादिग्रहे ऽपि ज्ञेयम् । तथा च दण्डान्तरादौ कारणत्वाग्यग्रहे ऽपि कारणत्वादिस्वीकारे रासभादेरपि स्वीकारापत्तेः कारणाकारणादिविभागो न स्यादित्यर्थः ।
1.रमात्रे -नं-ज. 2.यमस्य-नं-ज-ग-रा-सु. 3.गादि क -उ.नं. 4.णाविभागं व्य -उ. 5.दिना का - उ.
अत-जावे-शव्यादि-ग्रसनम् ) जातिवादः पु - 261.
-------------------------- ---------- --------
किं च क्रियावत्वं न द्रव्यलक्षणम् अव्याप्तेः, न सत्वाश्रयत्वं अतिव्याप्तेरित्यादिव्यवस्था न स्यात् । तत्तव्द्यक्तिमात्रविश्रान्तद्रव्यत्वावच्छिन्नस्यैव लक्ष्यासङ्ग्रहरूपतया अव्याप्तेर्द्रव्यादिव्यक्तिषु प्रत्येकं विश्रान्तायाः सत्ताया गुणकर्माद्यवृत्तित्वेन लक्ष्यातिरिक्तसङ्ग्रहरूपाया अतिव्याप्तेश्चाभावात् ॥
तस्मादनुगतजात्यनङ्गीकारे सर्वव्यवहारविलोपः स्यादिति ॥
उच्यते --
अनुगतजातेरभावे किं शक्यव्याप्यादिरूपसर्वव्यक्त्युपस्थितिरेव न संभवतीत्युच्यते, किं वा तत्संभवे ऽपि क्रोडीकार 1 कस्यैकस्य गोत्वधूमत्वादेरभावे सर्वगोव्यक्त्याद्युपसंहारेण शक्तिव्याप्त्यादिग्रहो न संभवतीति ॥
अनुगतजात्यभावे दोषान्तरमाह पूर्व 1 वादि -- किं चेति ॥ गगनादावभावादाह -- अव्याप्तेरिति ॥ गुणकर्मादावपि भावादाह -- अतिव्याप्तेरिति ॥ इत्यादीत्यादिपदेन -- द्रव्यत्वपृथिवीत्वादेः सामान्यविशेषव्यवस्था न स्यादिति, केचिच्छब्दाः एकैकार्थाः केचित्वक्षादिशब्दा नानार्था इत्यादिव्यवस्था न स्यादिति गृह्यते । एकानेकप्रवृत्तिनिमित्तकत्वादेकार्थकत्वादेरिति भावः । कुतो न स्यादित्यतः क्रमेण व्यनक्ति -- तत्तदिति ॥ अव्याप्तेरिति ॥ अभावादित्यन्वयः ।
1. पक्षी - उ.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 262.
----------------------- ------------ --------
नाद्यः । त्वन्मते सामान्यप्रत्यासत्तिभूतेन शक्यत्वव्याप्यत्वाव 2 च्छेदकेनैवकेन गो 3 त्वेनेव मन्मतेप्युपदेशव्यवहारभूयोदर्शनादिना शक्तिव्याप्यादिग्रहकाले उपस्थितगवादिव्यक्तिविशेषधर्मिकेणातीतानागतसकलव्यक्तिप्रतियोगिकेनैकेन सादृश्येनातीतानागतसकलशक्यव्याप्यादिव्यक्तीनामुपस्थितिसंभवात् ॥
इयांस्तु भेदः । त्वन्मते जातिरतीताद्याश्रिता, मन्मते तु सादृश्यं ध्वंसादिव 4 त्प्रतियोगित्वेन तत्तत्संबद्धमिति ॥
व्यप्त्यादीति ॥ कारणमादिपदार्थः । भूयो दर्शनादिनेत्यादिपदं पूर्वेणाप्यन्वेति । इयं गौरिति व्यक्तिविशेष उपदेशेन गामानयेत्यादिवृद्धव्यवहारेण तत्रान्विततादिपदोपपत्तावुपमानकोशादिना कारणत्वग्रहकाले भूयोर्शनेन व्याप्तिग्रहकाले अन्वयव्यतिरेकदर्शनेन कारणत्वग्रहकाल इत्यर्थः । सादृश्येनेति
॥ सादृश्यं च पदार्थान्तरम् । न त्वनुगतजातिघटितमूर्तिकमिति भावः । व्याप्त्यादीत्यादिपदेन कारणव्यक्तिग्रहः । उपस्थापकतायामविशेषद्योतनायाह -- इयांस्तु भेद इति ॥ इयानेव भेद इत्यर्थः । अतीतादेः कथं प्रतियोगित्वं नाम धर्मः । आश्रयाभावादित्यत उक्तं -- ध्वंसादिवदिति ॥ प्रागभाव आदिपदार्थः । तथात्वे ध्वंसादेरपि तत्प्रतियोगित्वं न स्यादिति भावः ॥
1.रकस्यै-रा-सु. 2.त्वाद्यव-नं.ज-रा.सु. 3.त्वादिने-नं.ज. ग.रा.सु. 4.वत्सप्र -नं. ज. त्तत्प्र -ग.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 263.
------------------------- --------- ---------
युक्तं च तदनाश्रितत्वे ऽपि संस्कारवत्प्रत्यासत्तित्वेन तदुपस्थापकत्वम् । प्रत्युत त्वन्मत एवातीतादेरसत्वाज्जात्याश्रयत्वमयुक्तम् ॥
ननु त्वन्मते सादृश्यनातीतादेः प्रतियोगित्वरूपसंबन्धो नानेति चेत्किं तावता । न ह्येकस्मिन् ज्ञाने एक एव संबन्धो हेतुरिति नियमः । समूहालम्बनज्ञाने रूपी घट इत्यादौ च तदभावात् ।
नन्वतीताद्यनाश्रितं पुरोवर्तिमात्राश्रितं सादृश्यं कथमतीताद्युपस्थापयेदित्यत आह -- युक्तं चेति ॥ संस्कारवदिति । प्रत्यभिज्ञायां जन्दनखण्ड इत्याद्युपनीतमानादौ च संस्कारस्यान्तः करणाद्याश्रितस्यापि यथा चक्षुरादिप्रत्यासत्तित्वं तथेत्यर्थः । एतच्च स्वमतावष्टम्भेनोक्तम् । परमते तु ज्ञानवदिति बोध्यम् । आत्मसमवेतस्यापि तत्तादिस्मृतिरूपज्ञानस्य प्रत्यभिज्ञादौ चक्षुरादिप्रत्यासत्तित्वं तथेति ध्येयम् । सामान्यप्रत्यासत्तिपक्ष एवोपस्थितिर्दुघटेत्याह -- प्रत्युतेति ॥
ननु - पुरोवर्तिधर्मिनिष्ठसादृश्यप्रतियोगित्वमतीतादिषु सर्वत्र नानुगतमेकमस्ति । तथात्वे गोत्वादेरेव तथात्वोपपत्तौ किमेतत्कल्पनया । वक्ष्यमाणानुगतपक्षदोषग्रासाच्च । अतो यावन्ति प्रतियोगीनि तावत्सु प्रतियोगित्वान्यपि तावन्त्येवेति भिन्नभिन्नानि । तथा चा 2 नन्तप्रतियोग्यनुयोगिताभावरूपसंबन्धैरनन्तप्रतियोगिवस्तूनि
युगपत्कथमुपस्थापयेदिति भावेव शङ्कते -- नन्विति ॥ संबन्धानेकत्वं युगपदुपस्थितौ न प्रतिबन्धकं व्यभिचारादित्याह -- किन्तावतेत्यादिना ॥
1.दिज्ञाने-ग.रा.सु. 2.च न तत्र प्रति -उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 264.
------------------------ ----------- -------
घटस्वरूपत्वैः सह सन्निकर्षाणां भेदात् । किं च समवायाभेदवादिनः तवापि मते गोत्वादिसमवायस्याश्वादावपि सत्वादाधाराधेयत्वमात्रस्य 1 सर्वाधारे कालादावपि सत्वात्स्वरूपसम्बन्धरूपविशषणता विशेष एव गौरित्यादिधीनियामक इत वाच्यम्।
समूहालम्बनज्ञानस्थले घटपटादिसंनिकर्षाणामन्यान्यत्वं स्पष्टमित्युपेत्य रूपीत्यादिज्ञाने तद्व्यनक्ति -- घटेति ॥ संयोगसंयुक्तसमवायसंयुक्तसमवेतसमवायरूपसन्निकर्षाणामित्यर्थः । इदं च संबन्धनानात्वं सामान्यप्रत्यासत्तिपक्षे ऽपि समवेत्याह -- किं चेति ॥ पुरोवर्तिनिष्ठस्य गोत्वस्यातीतादिव्यक्तिभिः समवाय आधाराधेयभावो वा जातौ व्यक्तेर्व्यावर्तकतया विशेषणत्वेन स्वविशेषणत्वरूपो वा संबन्धो वाच्यः । तत्राद्य आह -- समवायेति ॥ एक एव समवायो न तु संयोगवन्नानेति पक्षे सर्वव्यक्तिभिर्जातेरेक एव संबन्ध इति युगपत्सर्वोपस्थितिः संभवति । तथापि गोत्वेन सर्वगोव्यक्त्युपस्थितिवदश्वादिव्यक्त्युपस्थितिरपि स्यात् । गोत्वसमवायस्यैकत्वेनाश्वादावपि गोत्वसमवायस्य समवायभङ्गोक्तरीत्या सत्वादित्यर्थः । 2 द्वितीय आह -- आधारेति ॥ कालादाविति ॥ तथा च गोत्वेन देशकालयोरप्युपस्थितिः स्यादिति भावः । तृतीयः परिशिष्यत इति भावेनाह -- स्वरूपेति ॥ गौरित्यादीति ॥ अतीतानागतसर्वगोविषयकधीनियामकमिति वाच्यमित्यर्थः ॥
ननु - प्रतियोगिनामुपस्थितावेव प्रतियोगिभावरूपसम्बन्धज्ञानं संबन्धज्ञाने च प्रतियोगिनामुपस्थितिरिति प्रतियोगिनां ज्ञाने प्रतियोगिनां ज्ञानं कारणमित्यापन्नम्,
1.स्य च स -ग.रा.सु. 2.द्वितीय आह इति नास्ति - उ.नं.
अत-जाव-शव्यादि-ग्रसनम्) जातिवादः पु - 265.
------------------------ --------- ----------
स य तत्तद्व्यक्तिरूपोनन्त एवेति समम् । स च संबन्धः स्वरूपसन्नेव प्रत्यासत्तिर् 1 न तु ज्ञात इत्यात्माश्रयपरिहारोप्यावयोः समानः ॥
ननु पुरोवर्तिगोव्यक्तौ मन्मते गोत्वमिव त्वन्मते तस्याः स्वगतसादृश्यप्रतियोगित्वं नेति कथं तस्मादुपस्थितिरि चेन्न । तस्याः प्रत्यभिज्ञायामिदमंशस्येवेन्द्रियसंयोगादिनैवोपस्थितेः ॥
संबन्धस्य स्वरूपत्वादित्यतः स्वरूपसन्नेव संबन्धः प्रतियोग्युपस्थितिहेतुः, न ज्ञातः, येनात्माश्रयः स्यात्, अन्यथा तवाप्ययं दोषः स्यादिति भावेनाह -- स चेति ॥ विशेषण 2 ताविशेषरूपः प्रतियोग्यनुयोगिभावरूपश्चेत्यर्थः। सामान्यप्रत्यासत्त्या साम्यं सादृश्यप्रत्यासत्तेरयुक्तम् । गोत्वस्य पुरोवर्तिव्यक्त्याप्रतीतादिव्यक्तिभिश्च विशेषणतारूप एव संबन्ध इति युक्तम् । तत्र गोत्वं पुरोवर्तिनः येन रुपेण संबद्धं 3 तेनैव रूपेणातीतादिभिरपि संबद्ध 4 मिति पुरोवर्तिव्यक्तमतीतादिव्यक्तिं युगपदुपस्थापयतीति, सादृश्यं तु पुरोवर्तिना धर्मित्वेन संबन्धमतीतादिभिः प्रतियोगित्वेनेति वैरूपात्कथं युगपत्सर्वमुपस्थापयेदिति भावेन शङ्कते -- नन्विति ॥ मन्मते तार्किकमत इत्यर्थः । स्वगतेति ॥ पुरोवर्तिव्यक्तिनिष्ठं यत्सादृश्यं तत्प्रतियोगित्वं नास्ति । किं तु धर्मित्वमेव । प्रतियोगित्वं त्वप्रतीतादावेवेत्यर्थः । तस्या इति ॥ पुरोवर्तिन्या इत्यर्थः । इदमंशस्येवेति ॥
1.त्वे तन्त्र न तु -नं. ज. 2.णविशेष्यरू - उ.नं. 3.न्धः तेनै -उ.नं. 4.न्ध इति -उ.नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 266.
----------------------- --------- --------
अपि च-- त्रिवक्रम एकेन पादेनोर्ध्वलोकमन्येनाधरलोकमिव सादृश्यं
प्रतियोगित्वरूपसंबन्धेनातीतादिकं धर्मित्वरूपसंबन्धेन पुरोवर्तिनमपि स्पृशति । न चैवं वैरूप्यम् । उभयानुगतस्य निरूपकत्वस्यैकरूपत्वात् ॥
अपि च सादृश्येञ्जनादिवत्सहकारित्वमात्रेण प्रत्यासत्तिशब्दः । अत एव पद्धतावतीतादि ज्ञानंभूयोतर्शनादि सहकारिसामर्थ्येनेत्युक्तम् ।
तत्तांश एव चक्षुषः संस्कारस्य ज्ञानस्य वा प्रत्यासत्तित्वेनेदमंशे संयोगादेरेव लौकिकन्निकर्षस्य प्रत्यासत्तित्वेन सबन्धद्वयेनाप्युभयविषयकमेकं प्रत्यभिज्ञानं यथा जायते तथैव संयोगसादृश्यरूपसंबन्धाभ्यां पुरोवर्तितदन्यसर्वविषकमेकं ज्ञानं भवत्येवेति भावः ॥
नन्वथाप्येकरूपसंबन्धो न लभ्यत इत्यत आह -- अपि चेति ॥ उभयेति ॥ पुरोवर्तिन्यतीतादौ च गतस्य निरूपकत्वस्येत्यर्थः । सादृश्यस्य धर्मिप्रतियोग्युभयनिरूप्यत्वादिति भावः । अतीतादौ पुरोवर्तिनि च निरूपकत्वमस्तीत्येतावतैवानुगतस्येत्युक्तम् । न त्वेकं व्यासज्यवृत्तितयास्तीति भ्रमितव्यम् । तथात्वे ऽनुगतजात्यपाकरणायोगात् ॥
ननु -- निरूपकत्वमपि नैकरूपम् । क्वचिद्धर्मित्वेन क्वचित्प्रतियोगित्वेनेति नानैव । शब्दानुगतिमात्रस्यातिप्रसङ्गादित्यत आह -- अपि चेति ॥ वर्तमानसन्निकृष्टमात्रग्राहिप्रत्यक्षं कथमतीताद्यास्पदां व्याप्तिं गृह्णीयादिति चेन्न । सहकारिसामर्थ्येन करणानांशक्त्यन्तराविर्भावस्य बहुलमुपलम्भादिति वाक्यमर्थतो निष्कृष्याह -- पद्धतावित्यादिना ॥ अस्य वाक्यस्य वक्ष्यमाणदिशा सादृश्यपर्यन्तत्वाद्भवत्युपष्टम्भकमिति भावः ।
अतो-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 267.
------------------------- --------- ---------
न हि न्यायमते ऽप्यनुगतजातौ संस्कारे व्यवसाये योगजधर्मे भ्रान्तिहेतौ दोषे च मुख्यं प्रत्यासत्तित्वमस्ति । न वा योगजधर्मादेरतीतादि 1 ना संबन्धोस्ति । पद्धतावपि भूयोदर्शनादिजनितसंस्कारसचिवमिन्द्रियं स्वसन्निकृष्टव्यक्तिनिष्ठसादृश्यप्रतियोग्यतीतादिग्राहकमित्येव विवक्षितत्वान्नानुव्याख्यानोक्तसादृश्यत्यागः । अन्यथा विसदृशस्यापि ग्रहणापातात् । सादृश्यमुपधानमितिस्ववचनविरोधाच्च ॥
कुत एवं सामान्यप्रत्यासत्तिरेवोपेयतामित्यत आह -- न हीति ॥ संस्कार इति ॥ संस्कारपदं ज्ञानपरम् । ज्ञानस्यैव प्रत्यभिज्ञादौ प्रत्यासत्तित्वोपगमात् । प्राभाकरादिमतेन वा संस्कार इत्युक्तिः । अनुप्यवसायेन बाह्यार्थविषयीकरणे व्यवसायस्य प्रत्यसत्तित्वाद्व्यवसाय इत्युक्तम् । योगजधर्म इति ॥ नित्यानुमेयादिज्ञाने तस्य प्रत्यासत्तित्वात् । मुख्यमिति ॥ संयोगादिरूपलौकिकसन्निकर्षस्येवोभयसंबन्धत्वरूपमित्यर्थः । पद्धतिवाक्यं कथमुक्तार्थोपष्टम्भकमित्यत आह -- पद्धतावपीति ॥
"इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।
इत्याद्यनुव्याख्यानोक्त 2 स्येत्यर्थः-- अन्यथेति ॥ सादृश्यविवक्षाभाव इत्यर्थः । स्ववचनेति ॥ अन्यथेत्यनुषङ्गः ।"व्यक्तय एव वाच्याः । समयप्रतिपत्तौ तु सादृश्यमुपधान"मिति पद्धत्युक्तशब्दपरिच्छेदगतवचनविरोधादित्यर्थः । न च शक्तिग्रह एव सादृश्यमुपधानमित्युक्तम् न तु व्याप्तिग्रह इति वाच्यम् ।
1. दिसं - नं. ज. ग. रा. सु. 2.क्तेत्य - उ. नं.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 268.
---------------------- ------------ ----------
ननु तथापि गवयोपि गोसादृश्यप्रतियोगीति तस्याप्युपस्थितिः स्यादिति चेत्तवाप्युपमितौ गौसदृशपश्वान्तरस्य गवयशब्दवाच्यताधीः स्यात् । अयं गौरित्युपदेशे 1 च गोगतद्रव्यत्वादिजात्यन्तरस्य धीः स्यात् ॥
यदि च तत्रावापोद्धापाभ्यामन्तरङ्गस्य सादृश्यस्य --
तुल्यन्यायत्वादिति भावः । सादृश्यस्य सहकारित्वेन प्रत्यासत्तित्वेन वा यथाकथञ्चित्स्वनिरूपकसर्वोपस्थापकत्वेनातीतादिसर्वोपस्थितावुपेतायां"न च वाच्यं गोसादृश्यमश्वेप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग"इत्यादिना सुधोक्तातिप्रसङ्गोत्तरे व्यनक्ति --नन्वित्यादिना ॥ गोनिष्ठसादृश्येत्यर्थः 2 । उपमिताविति ॥ गोसदृशो गवय इत्यतिदेशवाक्यं श्रुतवतो वनं गतस्य गौसादृश्यविशिष्टपिण्डदर्शनात्तस्मिन् पिण्डे
गवयशब्दवाच्यत्वविषयकोपमितिर्जायत इति मते गोसदृशे गवयभिन्ने पश्वन्तरे यत्किञ्चिद्गोसादृश्यविशिष्टदर्शनेन तस्मिन् गवयशब्दवाच्यत्वोपमितिः योजना । प्रत्यक्षोपदेशे ऽपि परस्यातिप्रसङ्गमापादयति -- अयमतिति ॥ पुरस्थिते गोपिण्डे गौरित्युपदेशे गोत्वावच्छेदेन गोशब्दवाच्यत्वं गृह्णाति ॥ तन्न स्यात् । किं तु गोत्वादिव्यापकबहिरङ्गद्रव्यत्वं पृथिवीत्वादिनैव वाच्य 3 धीः स्यादित्यर्थः । तेनैव समाधिं वाचयति -- यदि चेति ॥ अवापः प्रक्षेपः । उद्वापः उद्धारः । यत्किञ्चित्सदृशो महिष्यादौ गवयपदप्युत्पत्तिग्रहे सति महिणमानयेत्यादिव्यावहारे गवयपदस्योद्वापो महिषपदस्यावापोस्ति स न स्यात् ।
1.तेन च -नं. ज. 2.श्यस्ये-नं-उ. 3. च्यत्वधीः - नं.ए.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 269.
------------------------ ---------- ----------
गोत्वादिजातेश्च ग्रहस्तर्हीहापि गवयादिव्यावृत्तमन्तरङ्गं सास्नादिमत्वगोत्वादिप्रयुक्तसादृश्यं प्रत्यासत्तिः ।
तस्माज्जातिवत्सादृशस्यापि पुरोवर्तिर्पिण्डनिष्ठस्येन्द्रियसन्निकृष्टस्योक्तसंबन्धेनातीताद्युपस्थापकत्वं युक्तमेव ॥
एतदेवाभिप्रेत्योक्तं सुधायां सादृश्यस्य व्यावृत्तत्वे ऽपि प्रतियोगि 1 निरूप्यत्वेनानुगतफलसाधकत्वानुभवादिति । अनुगतफलं सर्वव्यक्त्युपस्थितिः ॥
नापि शक्ति 2 व्यप्त्यादिग्रहो न संभवतीति द्वितीयः । त्वन्मत एक 3 जात्येव मन्मतेप्युक्तरीत्या सर्वव्यक्तिसम्बन्धिनैकेन सादृश्येन क्रोडीकृतासु व्यक्तिषु शक्तिव्याप्त्यादिग्रहसंभवात् ॥
तथा गवयानयनादौ गवयमानयेत्युच्यते तत्र गवयपदस्यावापोस्ति पदान्तरस्योद्वापः स न स्यात् । अतः पदान्तरावापोद्वापदर्शनेनान्तरङ्गमेव सादृश्यमुपमितौ नियामकम् । अयमित्याद्युपदेशे ऽपि घटाद्यानयने गामानयेत्यादिप्रयो 4 गादर्शनादन्तरङ्गं गोत्वमेवावच्छेदकं गृह्णातीति यद्युच्यत इत्यर्थः । सुधायामिति ॥ वैशेषिकाधिकरणसुधायाम् । उक्तरीत्या ॥ व्याप्त्यादिग्रहणकाल इत्यादिनोक्तरीत्येत्यर्थः । संबन्धिनेति 5 ॥ निरूपकत्वेन
रूपेण पुरोवर्त्यतीतादिरूपसर्वव्यक्तिसम्बन्धिनेत्यर्थः ॥
1.गिव्यावृत्तत्वेना -नं.ज. 2.क्तिग्रहो-नं.ज.ग. क्तिव्याप्तिग्र -रा.सु. 3.कया जा - रा.सु.ग. 4.ग द -नं.ए. 5.ऽसंबन्धिनाऽ इति नास्ति -उ.नं.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 270.
---------------------- ------------- ----------
इयांस्तु विशेषः । त्वन्मते गोत्वं ज्ञानतं सत्प्रत्यासत्तिः, मन्मते तु गोत्वं सादृश्यज्ञानमेव प्रत्यासत्तिः । एवं त्वन्मते गोत्वं शक्तिग्रहे विशेषणत्वाच्छाब्दज्ञाने विषयत्वेन प्रविशति । मन्मते तु सादृश्यं प्रत्यसत्तिमात्रत्वान्न तत्र प्रविशतीति गोशब्दाद्गोसदृश इति धीर्न भवतीति । गुण एव चाज्ञातकरणे प्रत्यासत्तेरज्ञा 1 ताया एव प्रत्यासत्तित्वात् स्वसाध्यज्ञाने विषयत्वेनाननुप्रवेशश्च । प्रत्यासत्तौ संयोगादौ तथा दर्शनात् ॥
नन्वेवं जातेरिव सादृश्यस्यापि शाब्दधीवषयत्वप्रसङ्गेन गोशब्दाद्गोसदृश इति धीः स्यादीत्यत आह -- इयांस्त्विति ॥ विशेषणत्वादिति ॥ विशेषणतया विषयत्वादित्यर्थः । 2 त्वन्मते त्वित्यनन्तरं शक्तिग्रह इत्यनुषङ्गः । प्रत्यासत्तिमात्रत्वादिति ॥ विशेषणतया विषयत्वाभावादिति मात्रपदार्थः ॥
ननु कथमज्ञातस्य प्रत्यासत्तित्वं, अनुमानशब्दस्थले व्याप्तिशक्त्योर्ज्ञातयोरेवानुमेयवाक्यार्थयोरुपस्थितौ प्रत्यासत्तित्वदर्शनादित्यतो ज्ञातकरणे तथात्वे ऽप्यज्ञातकरणप्रत्यक्षे ऽज्ञातस्यैव तद्युक्तमित्याह -- गुण एव चेति ॥ अननुप्रवेशश्च गुण एवेत्यन्वयः ॥
नन्वलौकिकसन्निकर्षे ज्ञातस्यैव प्रत्यासत्तित्वमिति नियम इति चेन्न । हेत्वभावात्।
1.यमानाया एव-रा.सु. 2.तन्म -नं.उ.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 271.
------------------------ -------- ---------
न चैवं सादृश्येन मुण्डितव्यक्तीनामेवोपस्थापनाच्छक्तिग्रहकाले
गोत्वप्रकारिकोपस्थितिर्नेति शाब्दबोधो ऽपि गोत्वप्रकारको न स्यादिति शङ्क्यम् । त्वन्मते 1 तादृश्या अपि प्रत्यासत्तेः स्वप्रकारकधीजनकत्वस्वभावस्यैव मन्मते ऽपि सादृश्यरूपप्रत्यासत्तेः स्वप्रयोजकगोत्वादिप्रकारकधीजनकत्वस्वभावस्य फलबलेन कल्पनात् ॥
यद्वा तवेव ममापि पुरोवर्तिगोवर्तिगोत्वं ज्ञातमेव प्रत्यासत्तिः ।
प्रत्यभिज्ञायां सुरभिचन्दमित्याद्युपनीतभानादौ ज्ञानस्यज्ञातस्यैव विशेषणीभूततत्ताद्यंशे प्रत्यासत्तित्वोपगमाच्च । रजतत्वाद्यारोपांशे दोषस्याज्ञातस्यैव प्रत्यासत्तित्वाच्चेति भावः ॥
गोपदाद्गोसदृश इति धीः स्यादिति दोषाभावेपि गोत्वविशिष्टगोधीर्न स्यादित्याशङ्क्य निराह -- न चैवमिति ॥ जातेरप्रत्यासत्तित्वमित्यर्थः । मुण्डितेति ॥ गोत्वादिजातिविनाकृतेत्यर्थः । अन्यत्रेति ॥ संयोगादिलौकिकसन्निकर्षस्थले व्याप्तिशक्तिज्ञानयोगजधर्मरूपप्रत्यासत्तिस्थले चेत्यर्थः । प्रत्यासत्तेरिति ॥ सामान्यलक्षणप्रत्यासत्तेरित्यर्थः । गोत्वरूपसामान्यप्रत्यासत्त्योपस्थितानां गोव्यक्तीनां गोत्वेनैवोपस्थितेस्त्वयाङ्गीकारादिति भावः । सादृश्यं हि पदार्थान्तरमपि गोत्वघटत्वादि प्रयुक्तमित्युपगमात्स्वप्रयोजकेत्युक्तम् ॥ फलेती ॥ सादृश्यनियामकतयोपस्थितानामपि गोत्वेनैवोपस्थितिरूपफलबलेनेत्यर्थः । अन्यत्राकॢप्तस्वभावान्तरकल्पने 2 गौरवं मन्वान आह -- यद्वेति ॥ 3 तर्हि गिं सादृश्येनेत्यत आह -- किं त्विति ॥
1.ते अन्यत्रादृष्टस्यापि -रा. सु. 2.नं -नं . उ. ए. 3.तर्हि किं -नं. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 272.
----------------------- ------------- ---------
किं तु तव तदेकमिति स्वविशिष्टव्यक्त्युपस्थापकम् । मम तु नानेति स्वनिष्टसादृश्यप्रतियोगिगोत्वान्तरविशिष्टोपस्थापकमिति भेदः ॥
एतदेवाभिप्रेत्योक्तं सुधायाम् --"तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैरि"ति । अनेन प्रवृत्तिनिमित्तानां द्रव्यगुणादीनामननुगमे ऽपि दण्डिशुक्लादिशब्दानामिव
गोत्वादिजातेरननुगमे ऽपि गवादिशब्दानां व्युत्पत्तिरस्तु ॥
स्वनिष्ठेति ॥ पुरोवर्तिगोत्वनिष्ठेत्यर्थः । सुधायामिति ॥ तेते व्यावृत्ताकाराः तैस्तैर् 1 द्रव्यगुण कार्मसामान्यैर्निमित्तैः तत्तच्छब्दवाच्या इति सुधायामित्यर्थः ॥
अत्रायमर्थो ऽभिमतः । पुरोवर्तिनिष्ठदण्डादिरूपद्रव्यगुणकर्मसामान्यनिष्ठसादृश्यप्रतियोगि 2 तयोपस्थितैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैर्युक्ताः दण्ड्यन्तरगुण्यन्तरादिपदार्थाः दण्डी गुणी शक्ल इत्यादिशब्दवाच्यतया ग्राह्या इति ॥
नन्वस्मिन् पक्षे - सुधावाक्ये सामान्यैर्निमित्तैरित्येव वाच्यम् तावतापि मुण्डितगोव्यक्तिधीर्गोपदात्स्यादिति प्रस्तुतदोषपरिहारात् द्रव्यगुणकर्मेत्युक्तिर्व्यर्थेत्यत आह -- अनेनेति ॥ द्रव्यत्वादिपदोपादानेनेत्यर्थः । इति सूचितमित्यन्वयः । प्रवृत्तीति ॥ दण्डी शुक्लः पटश्चलति गौरिति दण्डि 1 शुक्लचल इत्यादिशब्दप्रवृत्तिनिमित्तानामित्यर्थः ।
1.व्यावृक्तैरित्यधिकम् - ए. 2.कोप -नं. उ. 3.ण्डशुक्ल इत्या - नं. उ.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 273.
------------------------- --------- ---------
न च तत्रापि दण्डत्वादिकमनुगतमिति वाच्यम् । तथापि निमित्तदण्डादेरननुगमात्। न हि पितुः पाण्डित्येन पुत्रः पण्डितो भवतीति सुचितम् ॥
नन्वेवं सादृश्यस्यैकत्वे ऽपि तस्य शक्तग्रहे विषयत्वेनाननुप्रवेशादनुप्रविष्टानां च गोत्वा 1 दीनां व्यक्तिवदनेकत्वेनैकस्य शक्तिग्रहविषयता 2 नियामकस्याभावादनियमः स्यादिति चेन्न । शक्तिग्रहस्य विषयानियमो
हि न तावदश्वादेरपि शक्यत्वम् ।
तत्रापीति ॥ दण्ड्यादिशब्दशक्तिग्रहस्थले ऽपीत्यर्थः । निमित्तस्य दण्ड्यादिशब्द 3 निमित्तस्येत्यर्थः । दण्डत्वादेरनुगमेन दण्डादेरनुगकिर्नेत्येतद्व्यनक्ति -- न हीति ॥ शक्तिग्रहस्य सादृश्यनिमित्तकत्वे --
"तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
4 अभीष्टावगतिश्च स्यात्"॥
इत्यनुव्याख्यानसुधयोरुक्तबाधकतत्परिहारौ विवृण्वानः शक्तिग्रहाव्यवस्था स्यादिति शङ्कते -- नन्विति ॥ एकत्वेपीति ॥ सर्वप्रतियोगिकपुरोवर्तिनिष्ठसादृश्यस्यैकत्वेपीत्यर्थः । परमते संयोगसमवायादेरिव प्रतोगिभेदे ऽपि सादृश्यानेकत्वाभावादिति भावः । अननुप्रवेशादिति ॥ मन्मते सादृश्यं प्रत्यासत्तिमात्रत्वान्न तत्रानुप्रविशतीति पूर्वमुक्तत्वात् । सुधायां च"न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वाभ्युपगम्यते"इत्युक्तेरिति भावः। संभावितपक्षचतुष्टयमपि क्रमान्निराह -- न तावदित्यादिना ॥
1.आदिपदं न -नं. ज. ग. रा. सु. 2.यनि -नं. ज. ग. रा. सु. 3.प्रवृत्तीत्यधिकम् -ए. 4. विशेषावगतीत्यपि प्रदर्शितम् - ए.
न्यायदिपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 274.
----------------------- ------------ ---------
अनेकैरपि शक्तिग्रहे प्रकारभूतैरन्योन्यं सदृशैर्गोत्वैस्तन्निवारणात् । न ह्यनेकनियतमनियतं भवति ॥
नापि समूहादिशब्देष्विव गवामेव समुदायत्वेन शक्यत्वात् । प्रत्येकमानयनादिव्यवहारदर्शनेन तत्तन्निष्ठगोत्वावच्छेदेन प्रत्येकं शक्तिग्रहात् ॥
नापि गोष्वेव केषां चित्यागेन शक्यत्वम् । शक्तिग्रहकाले उपस्थितसर्वमध्ये केषां चित्यागे हेत्वभावात् ॥ नापि गोष्वेव 1 केषां चित्यागेनानभिमतगवान्तरस्यापि शक्यत्वम् । सर्वगोव्यक्तिषु शक्तिग्रहे ऽनभिमतव्यक्तेरेवाभावात् । शाब्दबोधे ऽनभिमतव्यक्तिविषयत्वस्य तु प्रकरणादेरसत्वे इष्टत्वात् । तत्सत्वे तेनैव नियमात् ॥
अत एवानुव्याख्याने --
"सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते"।
इत्यनेन प्रकरणादेरसत्वे साधारण्यमुक्त्वा --
"तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
एकस्यानियामकत्वे कथं शक्यत्वं नियतं स्यादित्यत आह -- न हीति ॥ समूहादीति ॥ समूहचमूसेनावनमित्यादिशब्दोष्विवेत्यर्थः । अत एवेति । इष्टत्वादिहेतोरेवेत्यर्थः ।
1. वानभिमत इत्येवमस्ति -नं. ज. ग. रा. सु. 2. स्याश - नं. ज.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 275.
------------------------ ------- --------
विशेषावगतिश्च स्याच्छक्तिः सादृश्यगा यतः"॥
इत्यनेन 1 तत्सत्वे नियम उक्तः । अत्र च योग्यत्ववाचिना प्राप्तित इत्यनेन गामानयेत्येत्यादावानयनाद्य 2 योग्यानामतीतानागतविप्रकृष्टानाम्, एकवचाननादित्यनेन सन्निहितानामेव 3 वह्नीनां, शबलत्वादिविशेषणवाचिना विशेषत इत्यनेनाशबलानां व्यवच्छेद उक्तः ॥
एतदप्युक्तं सुधायामुगतफलसाधकत्वानुभवादिति । अनुगतफलं सर्वत्र शक्तिग्रहः ।
तस्मास्त्वरूपसादृश्योपस्थापितपरस्परसदृशनानागोत्वावच्छिन्नव्यक्तिषु प्रत्येकं शक्त्यादिप्रहान्न कोपि दोषः ॥
स्वोक्तपक्षत्रयापाकरण मूलारूढतया दर्शयति -- अत्र चेति ॥ न तावदित्यादिनोक्तनिराकरणं तु --
4 "व्युत्पत्तिरपि हि सादृश्येनैव गम्यते"।
इति पूर्वकृतव्युत्पादनरीत्या स्पष्टं प्रतीयत इति भावः । एतदपीति ॥ नापि शक्तिग्रहो न संभवतीति द्वितीय इत्यादिनोक्तद्वितीयपक्षापाकरणमपीत्यर्थः । तद्व्यनक्ति -- अनुगतमिति ॥
यद्वेत्यादिनोक्तपक्षमुपसंहरति -- तस्मादिति ॥ स्वरूपस 5 द्यत्सादृश्यं पुरोवर्तिगोत्वनिष्ठं सादृश्यं तदुपस्थितानि यानि परस्पर 6 सादृश्यानि गोत्वानि तदवच्छिन्नगोव्यक्तिष्वित्यर्थः ।
1.शक्यत्वे-नं-ज. 2.द्यन्वययोग्यानां -सु.रा. 3.व्यक्तीनां-नं.ज. 4. इति इत्यधिकम् -उ. 5.सत्सा -ए. 6.सदृशानि इत्यस्ति -नं.ए. तथापि दर्शितम्-उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 276.
----------------------- ------------ ---------
तदुक्तमनुव्याख्याने --
"इति व्यत्पत्तिरपि हि सदृश्येनैव 1 गम्यते ।"इति । सादृश्येन स्वरूपसता । पद्धतौ च"व्यक्त्य एव वाच्याः, समयप्र 2 तिपत्तौ तु सादृश्यमुपधान"मिति । अत्रैवकारणे व्यावृत्तजात्यादेः प्रवृत्तिनिमित्तता न निषिध्यते । किं त्वनुगजातेः श्क्यतैव । अन्यथोक्तसुधादिविरोधात् । गोत्वादेः प्रकारत्वेनाप्रतीतौ शाब्दप्रतीतिर्वनिविकल्पकत्वापाताच्च ।
प्राचीनपक्षस्याप्युपसंहारपक्षे तु पुरोवर्तिव्याक्तिनिष्ठसादृश्योपसथापिताः परस्परसदृशः या नानाव्यक्तयः परस्परसदृशनानागोत्वैरवच्छिन्नास्तास्वित्यर्थः । तदुक्तमिति ॥ वैशेषिकाधिकरणे उक्तमित्यर्थः । अपिपदं कार्यकारणभावव्याप्त्यवाधारणसमुच्चर्यार्थम् । सुधायामस्फुटत्वादाह -- सादृश्येन स्वरूपसतेति ॥
ननु पदशक्तिवादे सुधासम्मत्या जात्यादेरपि निमित्ततया शक्यत्वोक्तिः पद्धतिवाक्यविरुद्धेत्यत आह -- अत्रैवकारणेति ॥ उक्तसुधेति ॥ तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैरित्युक्तसुधेत्यर्थः । विपक्षे बाधकं चाह -- गोत्वेति ॥ अन्यतेत्यनुकर्षः जात्यादेः प्रवृत्तिनिमित्ततानिषेध इत्यर्थः । न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्तया वाभ्युपगम्यत इति सुधानुरोधेनार्थमाह -- अत्रोपधामित्युक्त्येति ॥
1.नाव -रा. सु. 2.ग्रहे तु-नं.ज. ग.रा.सु.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 277.
------------------------ -------- --------
अत्रोपधानमित्युक्त्या - सादृश्यं न गोव्यक्तिवद्वाच्यम् । नापि गोत्ववत्प्रवृत्तिनिमित्तम् । किं तूक्तप्रकारेणाज्ञातमेव प्रत्यासत्तित्वेन गोत्वविशिष्टव्यक्त्युपस्थापकमिति सूचितम् ॥
यद्वा यथा प्राभाकरमते धेनुशब्दस्य ज्ञातेन गोत्वेनोपहिते धानकर्मणि शक्तिग्रहो यथा च न्यायमत एकविंशतिप्रभेदभिन्नानां दुखानां मध्ये चरमस्य मुख्यदुःखस्य जन्यत्वादितरेषां च शरीरादीनां गौणदुःखानां जनकत्वादुभयनिरूप्य 1 तया ज्ञातं जन्यजनकभावसंबन्धमुपधानीकृत्य शरीरत्वाद्यनेकप्रकारावच्छिन्नेष्वेनेकेषु शरीरादिषु--
उक्तेति ॥ इयांस्तु विशेष इत्यादिनोक्तप्रकारेणेत्यर्थः ॥
सादृश्यं तु व्यावृत्तमपि तत्तच्छब्दवाच्यत्वबोधे लिङ्गतयोपयुज्यत इत्यादिसुधोक्त्यनुरोधेन पक्षान्तरं तथेत्यादिना वक्तं दृष्टान्तत्रयमाह -- यद्वा यथेति ॥ धानकर्मणीति ॥ घेट् पान इति धातोर्धानं पानं तत्प्रति कर्मकारकभूत इत्यर्थः । वत्सेन गोः पयिमानत्वाद्धेटः कर्मणि 2 ल्युट्प्रत्ययविधानादिति भावः । तर्हि मिहिष्यादावपि धेनुशब्दप्रयोगापत्तिरित्याशङ्क्य 3 गोत्वस्य प्रयोगोपाधित्वोपगमादिति भावेनोक्तं -- गोत्वेनोपहिते इति ॥ तस्याज्ञातत्वेतिप्रसङ्गतादवस्थ्याज्ज्ञातेनेत्युक्तम् । एकविंशतीति ॥ शरीरं, षडिन्द्रियाणि. षड्विषयाः, षड्बुद्धयः, सुखं, दुखं, चेत्येकविंशतिप्रभेदेत्यर्थः । उभयेति ॥ जन्यजकोभयेत्यर्थः ।
प्यं -ज्ञ-नं.जं.ग.रा.सु. 2. नुप्र -नं. ए. 3.ति न शङ्क्यम् । गो - ए.
न्यायदीपयुततर्कताण्डवम् (द्वि. परिच्छेदः पु - 278.
----------------------- -------------- ---------
- दुखशब्दस्य 1 शक्तिग्रहो, यथा च वक्तुनिष्टां देवदत्तादिविषयां ज्ञातामेकां बुद्धिमुपधानीकृत्य वक्तृनिष्ठबुद्धिविषयेषु देवदत्तत्वाद्यनेकप्रकारावच्छिन्नेष्वनेकेषु 2 देवदत्तादिषु सर्वनाम्नः तच्छब्दस्य शक्तिग्रहः; तथोपदेशव्यवहारादिपूर्वकशक्तिग्रहविषयव्यक्तिनिष्ठं ज्ञातमुभयसंबद्धमेकं सादृश्यमुपधानीकृत्यानेकगोत्वालिङ्गतास्वनेकगोव्यक्तिषु गोशब्दस्य शक्तिग्रहोस्तु ॥ उक्तं हि बाधनालक्षणं दुःखमिति न्यायसूत्रतत्वबोधे वर्धमानेन दुःखसबन्धनिरूपकत्वं दुःखत्वमिति ॥
वक्त्रिति ॥चैत्रादिरूपवक्तृनिष्ठां देवदत्तयज्ञदत्तविष्णुमित्रादिविषयाम् । तच्छब्दस्येति । ते गता आगता इत्यादिव्यावहारार्थं हि तच्छब्दस्य शक्तिग्रहः, स च सर्वनामसर्वज्ञकशब्दत्वाद्बुद्धिस्थवाचकः, बुद्धिश्च ज्ञातैव सत्युपयुज्यत इति भावः । दृष्टान्तानुक्त्वा दार्ष्टान्तिकमाह -- तथेति ॥ अयं गौरित्युपदेशः । गामानयेत्यादिवृद्धव्यावहारः उपमानकोशादिरादिपदार्थः । उभयेति ॥ पुरोवर्तितदितररूपोभयेत्यर्थः । धर्मित्वेन पुरोवर्तिना । प्रतियोगित्वेन तदितरेः संबद्धत्वादिति भावः । प्रतियोगिनामनेत्वे ऽपि तन्निरूपितपुरोवर्तिनिष्ठस्यैकत्वादिति भावः । प्रतियोगिनामनेकत्वे ऽपि तन्निरूपितपुरोवर्तिनिष्ठस्यैकत्वादिति भावः । उपधानीकृत्य तटस्थेन निमित्तीकृत्य । व्यक्त्य एवेति पद्धत्यविरोधायोक्तम् -- अनेकेति ॥ एकत्वनिरासार्थत्वोक्तेरेवकारस्येति भावः ।"यथा न न्यायमत"इत्यत्र सम्मतिमाह--उक्तं हीति ॥ तत्वबोधे ग्रन्थविशेषे ।
1.संकेतग्र-ग. रा. सु. 2.ऽशरीरादिषुऽ इत्यारभ्य नास्ति- नं. ज.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 279.
------------------------ --------- ---------
न च सर्वनाम्नि वक्तृगतबु 1 द्धेरिवातीतादिज्ञानात्प्राक्तन्प्रतियोगिकसादृश्यज्ञानं न संभवतीति वाच्यम् । भूयो व्यववहारादिदर्शनदशायां प्रतियोगिभूत 2 वर्तमानपिण्डान्तरस्य ज्ञातत्वेन तत्संभवात् । तस्यैव चातीतादिप्रतियोगिकत्वात् । अतीतादिप्रतियोगिक 3 त्वेन ज्ञानस्य चानपेक्षैतत्वात् ॥
यद्वाऽदौ स्वरूपसत्सादृश्यमुक्तरीत्यातीतादिकमुपस्थाप्य पश्चात्सामग्रीसत्वेनातीतादिप्रतियोगिकत्वेनापि ज्ञातमुपलक्षणं भविष्यति ॥
दुःखसम्बन्धेति ॥ जन्यत्वेन वा जनकत्वेन वा यथाकथञ्चिद्दुःखसंबन्धनिरूपकत्वमित्यर्थः । तच्च दुःखे तज्जनके चास्तीति भावः । वक्त्रित्युक्तदृष्टान्तवैषम्यमाशङ्क्य निराह -- न चेति ॥ बुद्धेर्यथा ज्ञानं संभवति न तथा सादृश्यज्ञानं संभवतीत्यर्थः । अतीतादेरज्ञाने ऽपि पुरोवर्त्येकपिण्डे चक्षुःसन्निकृष्टे
पिण्डान्तरप्रतियोगिकसादृश्यज्ञाने सति
सर्वप्रतियोगिकसादृश्यं ज्ञातमेव, तस्यैव सर्वप्रतियोगित्वादिति भावेनाह -- भूय इति ॥ आदिपदेन भूय उपदेशो ग्राह्यः ॥
ननु तत्प्रतियोगिकत्वेनाज्ञाने सत्येतत्सादृश्यप्रतियोगिनः सर्वे गोपदवाच्या इति ज्ञानं कथमित्यत आह -- यद्वेति ॥ उक्तेति ॥
1.द्धिरवा -नं.ज. 2.वर्तमानपदं न -नं.ज. 3.कत्वज्ञा -नं.ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 280.
----------------------- ------------ ---------
एतदप्युक्तं ---
"इति व्यत्पत्तरपि हि सादृश्येनै 1 गम्यते"। इति ॥
सादृश्येन ज्ञातेन । पद्धतौ च सादृश्यमुपधानमित्युक्तम् । अत्रोपधानमित्युक्त्या सादृश्यं सर्वनाम्नि तत्पदे वक्तृगतबुद्धिरिव ज्ञानमप्युपलक्षणत्वान्न शक्तिग्रहविष इति सूचितम् । अत्र च सादृश्यं स्वरूपसदे 2 वोपस्थापकमितिमते तदुपस्थापितैः 3 परस्परं सदृशैरनेकैर्गोत्वैः 4 शक्तिग्रहनियमः, पुरोवर्तिपिण्डगतं ज्ञातं गोत्वमुपस्थापकिति मते तदुपस्थापितैः तत्सदृशैरनेकैर्गोत्वैस्तन्नियमः,5 ज्ञातं सादृश्यमेवोपस्थापकमिति मते --
6 आद्यपक्षोक्तरीत्यर्थः । सुधायामस्फुटत्वादाह -- एतदपीति ॥ यद्वा यथेत्यादि 7 नोक्तपक्षान्तरमपीत्यर्थः । बुद्धिस्थपरामर्शित्वोपपादनायाह -- सर्वनाम्नीति ॥ सर्वादीनि सर्वनामानीत्यनेन सर्वनामसंज्ञके त 8 दितिपदे वक्तृगतबुद्धिस्थस्य विषयत्वे ऽपि न बुद्धिर्विषयो यथा तथा सादृश्यमपि न शक्तिविषयतया गृह्यत इत्यर्थः । प्रागुक्तपक्षद्वयं निष्कृष्य दर्शयति -- अत्र चेति ॥ तस्यैव विवरणं इति मत इति ॥ मत इति 9 च ॥ यद्वा शक्तिग्रहविष इत्यर्थः । उपस्थापकमिति ॥ स्वप्रतियोगिनामतीतादिसर्वपदार्थानामिति योज्यम् ॥
1.नाव -रा.सु. 2.वज्ञातं वो-नं.रा.सु. चाज्ञातं वो- ग. 3.तैः सत्सह-नं तत्स -ज. 4.त्वैस्तन्नि-नं-ज. 5.म इति भेदः -एवं च -ग.रा.सु. 6.यद्वा यथेत्यादिपक्षात्पूर्वपक्षरीत्येत्यर्थः - उ.नं.ए. 7.दिपक्षान्तर -उ. नं.ए.
8.तत्तदिति -उ.नं. 9.तिशक्तिग्र-उ. ति वा श -नं.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 271.
------------------------ ------- ----------
-- साक्षात्संबन्धवता तेनैकेनैव सादृश्येनोपस्थापितैर्गोत्वैस्तन्नियम इति भेदः 1 । एवं च तवेव ममापिमते धूमजातीयस्य वह्निजातीयराहिते ऽवृत्तिर्धूमस्यवह्निव्याप्तिः, घटजातीयस्योत्पत्तौ दण्डजातीयस्य नियमो दण्डस्य घटकारणत्वं, लक्षणजातीयस्य लक्ष्यजातीये ऽवृत्तिरव्याप्तिः, अलक्ष्यजातीये वृत्तिरतिव्याप्तिरित्यादिव्यवस्था युक्ता ॥
इयांस्तु भेदः । तव साजात्यमेकजात्याश्रयत्वं मम तु साजात्यमेकजातिसदृशजात्याश्रयत्वं वा, एकस्या एव व्यक्तेर्व्यक्त्न्यरिष्ठसादृश्य 2 प्रतियोगत्वरूपो व्यक्त्यन्तरसंबन्धो वा, धर्मित्वेन --
एवमनुगत जातेरभावेपि सर्वत्र शक्तिग्रहं सादृश्येनैवोपपाद्यदानीयमेवं सर्वधूमाग्निसंग्राहकयोरित्यादिना पूर्वमाक्षिप्तं व्याप्तिग्रहादिकं च समाधत्ते-- एवं चेति ॥ सादृश्येनैव सर्वोपस्थितिसंभवे सतीत्यर्थः। जातीयत्वं च परमते तद्भिन्नत्वे सति तन्निष्ठजातिमत्वम् । सिद्धान्ते तु तदभावात्कथं तवेव ममापीत्युक्तिरित्यत आह -- इयांस्तु भेद इति ॥ एकस्या एवेति ॥ एकगोपिण्डनिरूपितसादृश्यानि तत्प्रयोजकत्वरूपः गोपिण्डसंबन्धः साजात्यम् । एवं पत्येकं गोपिण्डेष्वस्तीति सर्वेषामन्योन्यसाजात्यमित्यर्थः । धर्मित्वेनेति ॥
अन्योन्यसदृशत्वमेवान्योन्यजातीयत्वमित्यर्थः । नचैवं गवयस्यापि गोजातीयत्वप्रसङ्गः शङ्क्यः । अन्तरङ्गसदृश्यस्य विवक्षितत्वादिति भावः ।
1.ऽपुरोवर्तिऽ इत्यारभ्य न -नं.ज. 2.प्रयोजकत्वरूपो -ग.रा.सु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु- 282.
----------------------- ------------ --------
- प्रतियोगित्वेन वा निरूपितयैकसादृश्यसंबन्धो वेति । केचित्तु
सादृश्यजन्यैकधीविषत्वं साजात्यमित्याहुः । चतुर्णामपि पक्षाणामनुव्याख्यानोक्तं सादृश्यमेव 1 जीवातुः । एवं तवेव ममापि द्रव्यत्वस्य --
सादृश्यजन्यैवधीति ॥ तच्च गोपिण्डादिमात्र एवास्तीति भावः । एकधीविषयत्वाज्ञाने ऽपि साजात्यज्ञानात्प्रागुक्तमेव साजात्यं युक्तमित्यत्र पक्षे ऽरुचिबीजं ध्येयम् । पक्षाणामिति ॥ साजात्यनिर्वचनपक्षाणामित्यर्थः ॥
यद्वा धर्मिप्रतियोगितया पुरोवर्त्यतीतादिसकलगोव्यक्तिसंबद्धं पुरोवर्तिनिष्ठं सादृश्यं स्वरूपसदेव स्वप्रयोजकनाना 2 गोत्वविशिष्टसर्वगोत्वमेव प्रत्यासत्तीभूय धर्मिप्रतियोगितया स्वस्वेतरनानागोत्वसंबन्धेन सादृश्येन हेतुनानेकगोत्वावच्छिन्नसर्वगोव्यक्त्युपस्थापकं सत्सर्वत्र शक्तिग्राहतमिति; तथा धर्मिप्रतियोगितया सर्वगोव्यक्तिसंबन्धं सादृश्यं ज्ञातमेव सर्वगोव्यक्त्युपस्थापकमिति; तथोक्तरूपव्यक्तिसादृश्यं स्वरूपसदेवाखिलव्यक्तीरुपस्थाप्य पश्चादतीतादिप्रतियोगिकत्वेन ज्ञातं सत्स्वयमुपलक्षणीभूय नानागोत्वावच्छिन्नं सर्वगोव्यक्तिषु शक्तिग्राहकमिति च; प्रागुक्तचतुर्णामपि पक्षाणामित्यर्थः ॥
जी 3 वातुरिति ॥ जीवनौषधमित्यर्थः ।"जीवातुर्जीवनौषधमि"त्यभिधानात् । प्रागादिपदोपात्तसामान्यविशेषव्यवस्थां च समाधत्ते -- एवमिति ॥
1.जीवनं -नं. वोपजीवनं -रा. सु. 2.कं न गोत्व -नं. कं नान्योन्यत्वविशि -ए. 3. वनमिति - नं.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 283.
----------------------- --------- ---------
-- सर्वपृथिवीजातीयसंबन्धत्वे सति तदधिकाबादिसंबन्धित्वरूपं सामान्यत्वं, पृथिवीत्वस्य द्रव्यजातीयसंबन्धित्वे सति किञ्चिद्रव्यजातीयावाद्यसंबन्धित्वरूपं विशेषत्वं च युक्तमित, न सामान्यविशेषन्यायभङ्गो ऽपि । किं तु द्रव्यत्वस्य सर्वपृथिव्यादिना संबन्धस्तव समवायः मम तूक्तरीत्या 1 पृथिव्यादिप्रतियोगिकसादृश्यं 2 प्रति प्रयोजकत्वम्, एवं पृथिवीत्वस्य किञ्चिद्र 3 व्यासंबन्धस्तावावाद्यसमवायो मम त्ववादिप्रतियोगिकसादृश्या 4 प्रयोजकत्वमिति
भेदः । उक्तश्च समावायपक्षे ऽतिप्रसङ्गः। घटादिशब्दः एकार्थो ऽक्षादिशब्दस्तु --
न्यायभङ्गो ऽपीति ॥ एतेन"न हिंस्यात्सर्वाभूतानि, अग्निषोमीयं पशुमालभेत"इत्यादौ उत्सर्गापवादन्यायभङ्गो ऽपि नेत्यपि समाहितं बोध्यम् । कथं तर्ह्यनुगतजातिपक्षाद्भेद इति पृच्छति -- किं त्विति ॥ समाधत्ते -- द्रव्यत्वस्येति ॥ उक्तेति ॥ धर्मित्वेन प्रतियोगित्वेनेत्यादिनोक्तरीत्यर्थः । सर्वेति ॥ सर्वपृथिवीप्रतियोगिकसादृश्यमबादवबादिप्रतियोगिकसादृश्यं पृथिव्यामित्येवंरुपेण सादृश्यप्रयोजकत्वं द्रव्यत्वादेः सर्वपृथिव्याबादिसंबन्धित्वमित्यर्थः । पृथिव्यबादेरन्योन्यसादृश्यस्य स्वस्वनिष्ठद्रव्यत्वप्रयुक्तत्वादिति भावः । युक्ता चास्मदुक्तरीतिरेवेति भावेनाह -- उक्तश्चेति ॥"किं च समवायाभेदवादिनस्तवापि मत"इत्यादिना पूर्वस्मिन्नेव
वादे उक्त इत्यर्थः । एकानेकार्थकत्वव्यवस्थां च समाधत्ते-- घटादीति ॥
1.सर्वेत्यधिकम्-नं.ज.ग.रा.सु. 2.श्यप्रयो -नं.ग.रा.सु. 3.व्यसं -नं.ज. 4.श्यप्र - नं .ज.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 284.
----------------------- ------------ --------
नानार्थ इति व्यवस्था पूपस्थापितानां प्रवृत्तिनिमित्तानां सादृश्यवैसादृश्याभ्यां वा उपस्थापकानां सादृश्यानां जातीनां सादृश्यवेसादृश्याभ्यां वा युक्ता। न चानवस्था। क्वचिद्धर्मिण एव --
उपस्थापि 1 तानामिति ॥ शब्देनेति शेषः । घटादिशब्देनोपस्थापितानां घटत्वानामनेकत्वे ऽपि सर्वेषां सदृशत्वाद्घटादिशब्दस्यैकार्थत्वम्; अक्षादिशब्दोपस्थापितिनां तु विदेवनाक्षत्वविभीतकाक्षत्वरथचक्राक्षत्वादिनां विकदृशत्वादनेकत्वमित्यर्थः। सादृश्यं वा गोत्वादीकं वा तीरादिपदार्थोपस्थापक मितिपूर्वोक्तमतद्वयानुरोधेनाह -- सादृश्यानां जातीनां वेति ॥
नन्विदमयुक्तम् । सादृश्यानामपि सादृश्यान्तरोपगमे सति सादृश्यानां
तन्निष्ठसादृश्यस्य च सादृश्यान्तरमुपेयं उभयनिष्ठसादृश्यस्यचाधिकरणभूताभ्यां सादृश्यान्तरमुपेत्यनवस्थाऽपत्तेरित्याशङ्क्य निराह -- नचेति ॥ क्वचिदिति ॥ प्रमेयत्वाभिधेयत्वादौ प्रमेयत्वादे केवलान्वयित्वेन स्वनिष्ठप्रमेयत्वादिकं प्रति धर्मिणि एव घटादिधर्मत्ववन्मृद्घटयोः समवाय इत्यत्र संबन्धित्वेन प्रतीतस्यापि समवायस्य मृद्घटाभ्यां स्वस्य च विशिषणविशेष्यभावेन जायमानविशिष्टप्रत्ययं प्रतिनियामकसंबन्धस्यान्यस्याभावेन तत्रापि समवायस्यैव संबन्धत्ववद्घटनिष्ठपटभेदस्य 2 घटभेदस्य च घटेन भेदे सत्यनवस्थाऽपत्या स्वस्य स्वेनैव तद्भिन्नस्य घटनिष्ठभेदत्ववत्सादृश्यानां स्वेनैवान्योन्यसादृश्यो 3 पपत्तेरित्यर्थः। प्रमेयत्वादावपि प्रमेयत्वान्तरं समवाये समवायान्तरं भेद भेदान्तरमिति तत्राप्यनवस्था स्यादेवेति भावः ।
1.पितेति-उ.नं.ए. 2.घटभेदस्य चेति नास्ति-उ.ए.नं. 3.श्यवत्वोप -नं.ए.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 285.
------------------------ ---------- ---------
-- धर्मित्ववत्संबन्धिन एव संबन्धत्ववद्भिन्नस्यैव भेदत्ववच्च सदृशस्यैव सादृश्यत्वोपपत्तेः । न च सामान्यान्येवेति न्यायेन जातिरेव सादृश्यम् । सादृश्यस्य सप्रतियोगिकत्वादुत्कर्षापकर्षवत्वाज्जात्यादौ वर्तमानाच्च । जातेस्तु तदभावात् ॥
तस्मादनुगतजात्यभावे ऽपि सादृश्येनैव शक्तिव्याप्त्यादिग्रहणं युक्तम् ॥
नन्वथापि जातानां सादृश्यवैसादृश्यभ्यामित्ययुक्तमिति भावेन शङ्कते -- न चेति॥
सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यव्यक्तिसादृश्यमुच्यते ॥
इत्युक्तेरिति भावः । न च सामान्यं प्रतियोगिनिरूपं तन्निरूप्यं च सादृश्यमिति स्फुटमनयोर्भेद इति सुधोक्तमाह -- सप्रतियोगिकत्वादिति ॥ तदुपलक्षणं मत्वाऽह -- उत्कर्षेति ॥ अयमनेनात्यन्तसादृशः अयं च किं चित्सदृश इति प्रतीतेरिव सत्वान्न जातिरेव सादृश्यमित्यर्थः । अस्ति च गोत्वघटत्वादिर्जा 1
तित्वनित्यत्वादिना सदृश इत्यादि व्यवहार इति भावः । तदिति ॥ सप्रतियोगिकत्वोत्कर्षादिमत्वजात्यादिवर्तमाना 2 नामभावादित्यर्थः । स्वोक्तव्युत्पत्तिग्रहोपायचतुष्टये
सुधाविरोधमाशङ्क्य तत्स्पष्टं निष्कृष्यानुवदन् पक्षान्तरत्वेन समाधिमाह -- सुधायां त्विति ॥
1.दिजाति -उ. नं. ए. 2.नाभा-नं.नत्वा- उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 286.
---------------------- ------------ ---------
सुधायां त्वयं गौरित्युपदेशो व्याप्तिग्रहकः, तस्य 1 चायं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इत्येवं परत्वादवगतव्याप्तिश्च पिण्डान्तरं दृष्ट्वानुमिमीते अयं दोशब्दवाच्यः तत्सदृशत्वादिति ॥
न च दृष्टान्ताभावः, पुरोवर्तिगोपिण्डे स्वप्रतियोगिकसादृश्याभावादिति शङ्क्यम्। आप्तवाक्येन व्याप्त्यवगमेदृष्टान्तानपेक्षणात् । तथा च पृथिव्याः पृथिवाशब्दवाच्यत्वे गन्धवत्वमिव गोर्गोशब्दवाच्यत्वे ऽनुव्याख्यानोक्तं सादृश्यं लिङ्गमिति पक्षान्तरमुक्तम् ॥
अत एव पद्धतौ --"वर्तमानसन्निकृष्टमात्रग्राहिप्रत्यक्षं कथमतीताद्यास्पदां व्याप्तिं गृह्णीयादिति चेन्न । सहकारिसामर्थ्येन कारणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भा"दित्यनेनास्मदुक्तं पक्षमुक्त्वा किं च प्रतीतस्य धूमस्याग्निना संबन्धे स्वाभाविकतया --
इति व्युत्पत्तरित्यादिश्लोकव्याख्यावसरे सुधायामित्यर्थः । तर्हि स्वोक्तपक्षे किं ज्ञापकमित्यत आह -- अत एवेति ॥ अस्मदुक्तमिति ॥ सादृश्यं चक्षुःसहकारितया स्वनिरूपकसर्वोपर्थापकं सर्वक्रोडीकारकं चेत्युक्तपक्षमित्यर्थः ।पक्षान्तरमुक्तमित्यनेन पद्धतिवाक्ययोः परस्परं सुधावाक्येन च विरोधः परिहृतो ज्ञेयः ॥
ननु - न भवदुक्तपक्षः पद्धतिवाक्यानुगुणः । तत्र वर्तमानसन्निकृष्टमात्रग्राहिप्रत्यक्षमित्युक्तप्रत्यक्षपदस्य साक्षिप्रत्यक्षपरत्वात् ॥
1.तस्य च इति नास्ति -नं. ज.
अत-जावे-शव्यादि-ग्रसनम्) जातिवादः पु - 287.
------------------------ ---------- ---------
-- निश्चिते यद्यन्तत्रापि धूमः स्यात्तर्हि तस्याप्ये 1 वमित्येवं व्याप्तिग्रहो भवतीत्य नेन सुधोक्तं पक्षान्तरमुक्तम् । अत्र च वर्तमानसन्निकृष्टमात्रग्राहीति सरकारिसामर्थ्येनेति चोक्तत्वात्, भूयोदर्शनादिहेतुर् 2 धूमत्वादिना विशिष्टव्यक्तिग्रहकश्चक्षुरादिवाभिप्रेतः । न तु साक्षी । उक्तं च --
"अतीतवर्तमानत्वग्राहिणी सा च दृश्यते"।
इत्यनुव्याख्याने चाक्षुषादिप्रत्यभिज्ञाया अपि सहकारिसामर्थ्येनातीतादिविषयत्वम् । ग्रन्थन्तरे व्याप्तिग्रहे साक्ष्युक्तिश्च सामान्येन साक्षिज्ञानस्यापि सत्वात् ।
अतः सर्वपदार्थाश्च समान्यात्साक्षिगोचराः ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥
इति भक्तिपादीयानुव्याख्यानश्लोकव्याख्यानसुधायामतीतानागतवर्तमानं सर्वमपि लिङ्गपदेन साध्येन व्याप्तमितिज्ञानपेक्षं खल्वनुमानम् । न चैतज्ज्ञानं 3 साक्षिणा विना संभवतीत्यादिना व्याप्तिग्रहे साक्षिण एवोपायत्वोक्तेः । भवद्भिश्च चाक्षुषप्रत्यक्षस्योपायत्वोक्तेरित्यतः पद्धतिवाक्यार्थं तावदाह -- अत्रेति ॥ उक्तं चेति ॥"अतः सर्वपदार्थाश्चे"त्येतस्मादुपरितनश्लोकव्याख्यावसरे --"अतीतवर्तमानत्वविशिष्टार्थविषया सा प्रत्यभिज्ञेत्यर्थः । दृश्यते साक्षिणा सोयमिति प्रत्यभिज्ञाकारोनुभूयते । चक्षुरादिनैव जायत इति भाव इति"ग्रन्थेनोक्तमित्यर्थः । साक्ष्युक्तेर्गतिमाह -- ग्रन्थान्तरेति ॥ सुधायामेव"अतर् सर्वपदार्थश्च"इत्यादि
पूर्वश्लोकव्याख्यानप्रदेश इत्यर्थः ।
1.प्येवं -नं.ज.रा.सु. 2.धूमत्वगोत्वा -नं.ज.ग.रा.सु. 3.वताद् साक्षि- ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 288.
----------------------- ------------ ----------
सुधायां पद्धत्युक्तप्रथमपक्षानुक्तिश्च पद्धतावेवोक्तत्वात् । न च सुधा शक्तिग्रहमात्रविषया । पद्धतिस्तु व्याप्तिग्रहमात्रविषयेति शङ्क्यम् । पद्धत्युक्तस्य प्रकारद्वयस्य न्यायसाम्येन शक्तिग्रहे ऽपि संभवात् । सुधायाम्"प्येतेन कार्यकारणभावाधारणादिकमपि समाहितमि"त्यनेन वाक्येन शक्तिग्रहे उक्तस्य प्रकारस्य व्याप्त्यादिग्रहे ऽतिदेशाच्च ॥
अत एव --
"आगमोपि हि सामान्यदृष्टे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव कथं शक्तिग्रहो ऽन्यथा ॥
अत एवेति ॥ पद्धत्युक्तप्रकारद्वयस्य शक्तिग्रहे संभवादेवेत्यर्थः । आगमोपीत्यादिश्लोकः अतीतवर्तमानत्वग्राहिणीति श्लोकात्किञ्चिव्द्यवहितपूर्वनग्रन्थस्थः । सन्न्यायरत्नावलीनामानुव्याख्यानस्य चिरन्तनटीका ॥
यद्यपि तत्रातीतानागातपदार्थेषु सामान्याकारेण साक्षिप्रतीतेषु पदानां वाचकत्वशक्तिर्गृहीतेत्येव पाठात् सा 1 क्ष्येवातीताद्युप 2 स्थितेरिति भाति । तथापि सामान्येन साक्षिज्ञानस्यापि सत्वात्साक्षीत्युक्तिः । तावता सहकारिसामर्थ्येन चाक्षुषोपस्थितेर् 3 न निरासः । अत एव तत्रापि सामान्याकारेणेत्युक्तिरित भावेन सामान्याकारेण साक्षिप्रतीतेष्वत्यंशप्रहाणेनावशिष्टवाक्योदाहरणमित्यदोषः ॥
1.क्षिण्येवाती -ए. 2.स्थापक -नं. 3.तेर्निरा -ए. नं.
अत-जावे-शव्यादि-ग्रसनम् ) जातिवादः पु - 289.
-------------------------- --------- --------
अतीतानागतार्थेषु"--
इत्यनुव्याख्यानव्याख्यावसरे सन्न्यायरत्नावल्या मतीतानागतपदार्थेषु वाचकत्वशक्तिर्गृहीतेत्याद्युक्तम् ॥
यत्तु -- सुधायामतीतानागतार्थेष्वित्यनुव्याख्यानस्यानागतादिविषयादिशब्दविषयत्वेन
व्याख्यानं, तत्पद्धत्युक्तद्वितीयपक्षाश्रयेण गवादिशब्देष्वन्यथोपपत्तिशङ्कायामपि न ऌडादिशब्देष्विति दर्शयितुम् ॥
अनुगतजात्यभावे ऽपि शक्तिव्याप्त्यादिग्रहणसमर्थनम् ॥ 2.9 ॥
ननु - सुधायामतीते लुडन्तस्यानागते ऌडन्तस्य शक्तिग्रहोक्तिपरत्वेनैवातीतेतिश्लोको व्याख्यातः, न सर्वशब्दशक्तिग्रहोक्तिपरत्वेना अतः कथं तत्संमतिरुच्यत इत्यत आह -- यत्विति ॥ द्वितीयपक्षे सादृश्यनिरूपकत्वेन सर्वोपस्थितेरभावात्साक्षिणैवातीताद्युपस्थितेर्वक्तव्यत्वाल्लुङॢडादिशब्दव्युत्पत्यर्थमतीतादिविषयोपस्थापकतया साक्षी स्वीकार्य इत्यभिप्रायेणेत्यर्थः । आद्यपक्षे तु सन्न्यायरत्नावल्युक्तदिशा भवत्येवोक्तार्थे संमतिरिति भावः । किमर्थमेवं तत्र सुधायां व्याख्यातमित्यत आह -- गवादीति ॥
गोत्वादिसामान्यप्रत्यासत्यादिनाप्यतीतादिगोपिण्डोपस्थितये साक्षीस्वीकार्य इत्यन्यथोपपत्तिशङ्कायामपि लङॢडादिशब्दव्यत्पत्तावतीताद्युपस्थितेरावश्यकत्वेनावश्यं साक्षी स्वीकार्य इति दर्शयितुमित्यर्थः ॥
इत्यनुगतजात्यभावे ऽपि शक्तिव्याप्त्यादिग्रहसमर्थनम् ॥ 2.9 ॥
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 290.
----------------------- --------- ------
अथ स्वर्णघटत्वादिप्रतिबन्दी
किं च त्वन्मते ऽपि घटत्वादजातिः पृथिवीत्वादिव्याप्या नानैव । तारत्वादिजातिरपि कत्वा 1 दिजात्या चैत्रजत्वजात्या सङ्करापत्या गत्वादिव्याप्या नानैव । उद्भूतत्वजातिरपि नीलत्वादिना सङ्करापत्या शुक्लत्वादिव्याप्या नानैव ।
अथ स्वर्णघटत्वादिप्रतिबन्दी
परम्मत्याप्यननुगधर्मेण शक्तिग्रहमुपपादयुतुमुपोद्धातमाह -- किं च त्वन्मत इति ॥ नावैवे 2 त्येनैरन्वयः ॥ सङ्करेति ॥ परस्परिहारेण वर्तमानयोरेकत्र समावेशः सङ्करः । इह च तेजस्तेजस्त्वस्य मृद्घटे सतो घटत्वस्य घटत्वपरिहारेणालोकादौ सतस्तेजस्त्वस्य स्वर्णघटे समावेशात्स्वर्णस्य च परमते तेजस्त्वादतः साङ्कर्यदोषनिरासाय नानैवोपेया । तथा च तेजस्त्वादिव्याप्यस्य घटत्वस्य तेजस्त्वादिपरिहारेणान्यत्रावर्तमानत्वान्न साङ्क्यर्यम् । स्वर्णघटादौ घटत्वादिजातिर्नेति मतेनाह -- तारत्वेति ॥ चैत्रजत्वेति ॥ चैत्रजन्यतावच्छेदकजात्येत्यर्थः । तारत्वचैत्रजन्यतावच्छेदकजात्योः मैत्रीयतारककारे चैत्रकृतकटादौ च सतोश्चैत्रजन्यतारककारे समावेशात्साङ्कर्यं स्यात्तन्निरासाय नानैव वाच्या । एवमुद्भूतत्वानीलत्वयोः शुक्लरूपानुद्भूतनीलरूपयोः सतोरुद्भूतनीलरूपे घटादिनिष्ठे समावेशेन साङ्कर्यनिरासाय नानैव वाच्येत्यर्थः ।
1.त्व चैत्रत्वादिजात्यासं-नं.ज. कत्वचैत्रजत्वादिजात्यासं-ग.रा.सु. 2.त्यन्तै-ए.
स्वर्ण-घत्वादि-प्रन्दी) जातिवादः पु - 291.
------------------- -------- ---------
एवं च यथा -- तत्र घटत्वादीनां नानात्वे ऽपि घटादिशब्दव्युत्पत्तिः, घटस्य कपालं प्रतिव्याप्यता, जलाहरणादिकारणता, घटाकारानुगतप्रत्ययश्च; तथा गोत्वानां नानात्वे ऽपि व्युत्पत्यादिकं किं न स्यात् ।.
न च घटत्वं संस्थनरूपावयवसंयोगवृत्तीति न सङ्कर इति वाच्यम् । अन्यतरकर्मादिप्रयोज्यजात्या सङ्करापातात् ।
ननु - घटत्वं पृथिव्यात्मकेषु घटेष्वेकमेव । स्वर्णघटेष्वपि सर्वत्रैकमेव । गोत्वादि तु त्वन्मते बहु । एवं न घटत्वबहुत्वाभावान्न दोष इति चेन्न । अननुगत्वे समाने ऽस्य वैषम्यस्याप्रयोजकत्वात् । तारत्वादीनां बहुत्वेन तारादिशब्दव्युत्पत्याद्यभावापातस्यापरिहाराच्च । एकदेशिमतेन शङ्कते -- न च
घटत्वमिति ॥ न सङ्कर इति ॥ तेजस्त्वादिनैकत्राधिकरणे समावेशाभावादिति भावः । अन्यतरेति ॥ संयोगो हि न्यायमते ऽन्यतरकर्मजोभयकर्मसंयोगजभेदेन त्रिविध इति कारणत्वत्रय अन्यतावच्छेदकजातयो ऽपि संयोगे तृणारणिमणिन्यायेन तिस्रो ऽङ्गीकार्याः । तथा चान्यतरकर्मप्रयोज्या जातिर्घटत्वप्रहाणेन श्येनस्थाणुसंयोगेस्ति ।
घटत्वमपि तत्प्रहाणेन कपालद्वयकर्मजन्यसमयोगोस्ति । उभयमप्यन्यतरकपालकर्मजन्यकपालान्तरसंयोगेस्तीति साङ्कर्यम् । एवमुभयकर्मप्रयोज्य जात्यादिनापि साङ्कर्यं ध्येयम् ।
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 292.
----------------------- ---------- -------
स्थूलो घटश्चलतीति घटत्वस्य परिमाणकर्मादिसमानाधिकरण्यप्रतीतेश्च ॥
यदि च तारत्वादीनां सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकवृत्तित्वेनानुगमस्तर्हीहापि गोत्वानामुगतसादृश्यसंबन्धित्वेनानुगमोस्तु ॥
अपि च त्वन्मते यथा ज्ञेयत्वाभिधेयत्वमूर्तत्वकार्यत्वस्वरूपत्वजातित्वादीनामननुगमेपि ज्ञेयाभिदेयादिसपब्दप्युत्पत्तिस्तत्तदुचितव्याप्त्यादि 1 श्च, तथात्रापि किं न स्यात्।
न च ज्ञेयत्वादीन्यप्यनुगतानि । जातित्वापत्तेः । न चेष्टापत्तिः । सामान्यादावपि वृत्तेः ॥
द्रव्यनिष्ठत्वावगाहिप्रत्यक्षबाधं चाह -- स्थूल इति ॥ यदपि तारत्वं नानेति तारादिशब्दप्युत्पत्यादिर्न स्यादित्यादिपदप्रयोगेनाभिमतं 2 तत्रानुगतिमाशङ्क्याह -- यदि चेति ॥ सजातीयेति ॥ व्याख्यातमेतच्छब्दनित्यत्ववादे । अनुगतेति ॥ प्रागुक्तदिशानुगतं धर्मिप्रतियोगितया सर्वत्र विद्यमानं सादृश्यसंबन्धित्वमित्यर्थः ॥
ननु सादृश्यान्यपि नानासंबन्धित्वान्यपि तथैव शब्दानुगममात्रस्यातिप्रसञ्जकत्वादिति भावेनाह -- अपि चेति ॥ मूर्तत्वमियत्तावच्छिन्नपरिमाणवत्वम् । कार्यत्वम् कृतिविषयत्वम् ॥ तत्तदुचितेति ॥ यज्ज्ञेयं तत्सत्, यदिभिधेयं तत्प्रमेयमित्यादि तत्तदुचितेत्यर्थः । अत्रापीति ॥
गोत्वानामनुगमे ऽपि गवादिशब्दव्युत्पत्यादीत्यर्थः । केवलान्वयिग्रन्थे मण्याद्युक्तदिशा शङ्कते -- नन्विति ॥
1. दिग्रहश्च - रा. सु. 2. ता - नं.उ.
स्वर्णं-घत्वादि-प्रन्दी) जातिवादः पु - 293.
------------------- ----------
ननु च -- ज्ञेयत्वादीनि ज्ञानत्वाभिधायत्वपरिमाणत्वकृतित्वादिजातिरूपाण्येव, औपाधिकधर्माणामुपाध्यनतिरेकान्, तानि च पम्परासंबन्धेन घटादावनुगतानीते चेत् । तर्हिहापि सादृश्यद्वार 1 कपरम्परासंबन्धेनैकमात्रवृत्तिगोत्वं वा नानाव्यक्तिसंबन्धि सादृश्यं वा यच्छब्दे वक्तृनिष्ठबुद्धिरिव गोमात्रानुगतमस्तु ॥
औपाधिकेति ॥ ज्ञेयत्वादीनां ज्ञानाद्यनतिरेकाज्ज्ञानत्वादिरेव ज्ञेयत्वादीति भावः । परम्परेति ॥ स्वसमवायिविषयत्वरूपसंबन्धेनेत्यर्थः । एकमात्रवृत्तित्वमिति ॥ पुरोवर्तियत्किञ्चिद्गोपिण्डनिष्ठं गोत्वं स्वप्रतियोगिकसादृश्याधारभूतगोत्वाश्रयत्वरूपपरम्परासंबन्धेन सर्वगोसंबन्धितयानुगतमिति गोशब्दव्यत्पत्यादिरस्तु । सादृश्यं व स्वसंबन्ध्यनन्तगोव्यक्तिषु स्वसंबन्धित्वसंबन्धेनानुगतमितिव्यत्पत्याद्युपपत्तिः । वक्तृनिष्ठबुद्धिर्वक्तृबुद्धिविषयानेकार्थेषु स्वसंबन्धित्वेन सर्वानुगता सती सर्वनामसंज्ञकतत्पदस्य व्युत्पत्तौ निमित्तं भवति ॥ सर्वनाम्नां बुद्धिस्थवाचकत्वप्रसिद्धेः । तथापीत्यर्थः । तार्किकाभिमतनित्यद्रव्यगतविशेषप्रतिबन्द्याप्यननुगतधर्मपक्षे व्युत्पत्याद्युपपादयितुमाह -- किं चात्यन्तेति ॥ व्यावर्तकान्तरभावे ऽपि व्यावृत्तेत्यर्थः ॥
1. रापर - नं. ज. 2. स्य वा औ - नं. ग.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 294.
----------------------- ----------- --------
न हि साक्षात्संबन्धेन धर्मेणानुगमे व्यावृत्तैकस्वभावहानिर्न तु
परम्परासंबन्धेनानुगम इति संभवति ॥ तस्मात्तत्रानुगतेन सादृश्येनैव व्युत्पत्यादिकं वाच्यमित्यत्रापि 1 तथैवास्तु ॥
किं च त्वत्पक्षे जातिवदाकृतेरपि प्रवृत्तिनिमित्त 2 त्वादाकृतिरप्यनुगतैवास्तु ॥
तस्मात्सुवर्णघटत्वादिवज्ज्ञेयत्वाद्यौपाधिकधर्मवदन्त्यविशेषवदाकृतिवच्चाननुगतजातेरपि प्रवृत्तिनिमित्तं युक्तम् ॥
स्वर्णघटत्वादिप्रतिबन्दी
नन्वौपाधिकर्मरूपस्योपाध्यनतिरेकादित्युक्त्या परम्परासंबन्धेनौपाधिकधर्मघटकोपाधिनिष्ठजातिविशेषेण विशेषाणामनुगमे स्वरूपहानिर्नास्त्येव अनुगतौपाधिकधर्मस्वीकारे स्वरूपहानिः स्यादित्ययुक्तमित्यत आह -- नहीति । नियाकाभावादिति भावः । मास्तु तत्रानुगतो धर्मः किं तत इत्यत आह -- तस्मादिति ॥ अनुगतधर्मसत्वे रूपहानिप्रसङ्गादित्यर्थः॥ आकृतेरपीति ॥ अवयसंस्थानविशेषस्येत्यर्थः । व्यक्त्याकृतिजातयः पदार्थ 3 इति गौतमसूत्रान्मण्याद्युक्तपदशक्ति 4 वादेस्य व्यक्तत्वाच्चेति भावः । पूर्वोक्तप्रतिबन्दीचतुष्टयं संग्रहेणानुवदन्नुपसंहरति -- तस्मादिति ॥
स्वर्णघटत्वादिप्रतिबन्दी
1.त्यन्यत्रा - नं ग. रा. सु. 2.वज्जातिरप्यननुगतै - नं. ग. रा. सुर्. 3.थां -नं.ए. 4.ग्रहस्यव्य -नं. उ.
अत-जातौ-बाकम्) जातिवादः पु - 295.
----------------- ----------- ---------
अथ अनुगतजातौ बाधकम्
किं च स्थूलमुत्पन्नं, स्थूलं नष्टं, 1 निलमुत्पन्नं निलं निष्टमितिवद्घट उत्पन्नो 2 घटो नष्ट इत्यनुभवात्प्रत्यक्षा 3 देव जात्युत्पत्तिविनाशौ ॥
अथ अनुगतजातौ बाधकम्
नन्वस्त्वेवं स्वर्णघटाद्युक्तस्थलचतुष्टये ऽनुगतधर्माभावेनान्यगत्याननुगतधर्मैरेव
शक्त्यादिग्रहो ऽन्यत्र गवादावनुगतगोत्वादिसंभवे तेनैव शक्त्यादिग्रहो ऽस्तु । तत्रानन्यगतिकत्वाभावादित्यतस्तत्रापि त्वदभिमतनित्यैकानुगतधर्म नास्त्यैव । प्रमाणाभावात्, साधकमानाभावाच्चेति भावेन --
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च . . . ॥
इत्यादिवैशेषिकनयानुव्याख्याने सुधावाक्यानि हृदि कृत्वा जातिविशिष्टवस्तूत्पत्तिनाशगोचरप्रत्य 4 क्षेण समवाय्युत्पत्तिनाशादियुक्त्या जातेरुत्पत्तिनाशबोधकागमेन जातिमात्रोत्पत्यादिग्राहिप्रत्यक्षेण श्रुत्या च जातेर्नित्यत्वादिकमपाकुर्वन्नादौ तावद्विशिष्टप्रत्यक्षेण जातेरनित्यत्वमाह -- किं चेत्यादिना ॥ परिमाणस्य नीलरूपस्य चोत्पत्तिविनाशप्रत्ययाकाराभिनयो ऽयं स्थूल 5 मित्यादि ॥ इत्यनुभवादिति ॥ अस्य च घटपटत्वादिजातिव्यक्त्युभयविषयकत्वात्प्रत्यक्षावेव जात्युत्पत्तिविनाशावित्युक्तम्॥
1.नीलमुत्पन्नमिति नास्ति - नं.ज. 2.पट उत्पन्नः घटो नष्टः पटो नष्टः -ग. 3.वेव-नं.ज.रा.सु. 4.त्ययेन -नं.उ. 5.लमुत्पन्नमि -उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 296.
----------------------- ------------ -------
न च विशिष्टोत्पत्या 1 दिविषयेयं धीतिर्विशेष्यव्यक्तिमात्रोत्पत्यादिनापि युक्तेति वाच्यम् । वैपरीत्यस्यापि सुवचत्वात् । स्थूलमुत्पन्नमित्यादिबुद्धेरपि तथात्वापाताच्च ॥
किं च यथा द्रव्ये पाकेन नीलरक्तरूपयोर्नाशोत्पादौ तथा द्रव्ये सत्येवौषधादिना ताम्रत्वरजतत्वयोरपि तौ दृश्येते ।
ननु - जातिविशिष्टव्यक्तिविषयको ऽयमनुभवो न घटघटत्वोभयविषयकः । घटघटत्वे उत्पन्ने इत्युभयोत्पत्तिनाशविषयीकरणात् । तथा चान 2 न्यथासिद्धोस्त्विति शङ्कते -- न चेति ॥ किमन्यतरमात्रविषयत्वेनोपपत्तौ उभयविषशयकत्वे कल्पनागौरवादेवं कल्प्यते, अथ दण्डी नास्तीत्यादाविव विशेषणे बाधात् । आद्य आह -- वैपरीत्यस्यापीति ॥
जातिमात्रोत्पत्यादिनेत्यस्यापीत्यर्थः । लाघवस्यैवमपि संभवात् । प्रत्युत एतदेव युक्तम् । विशेष्यं नाभिगच्छेत् क्षीणशक्तिर्विशिषेणे इति न्यायादिति भावेनोक्तम् -- सुवचत्वादिति ॥
ननु प्राधान्याद्विशेष्यविषयत्वमेवोत्पत्यादिबुद्धेर्युक्तम् । न तु गुणभूतधर्मपरत्वमित्यत आह -- स्थूलमिति ॥ तथात्वेति ॥ विशेष्योत्पत्तिपरत्वेत्यर्थः ॥
ननु सत्येव द्रव्ये नीलादिगुणस्य निवृत्तिदर्शनान्न तत्र तथात्वापातो युक्त इत्यत आह -- किं चेति ॥ पीलुपाकप्रक्रियाया अप्रमाणकत्वाद्वक्ष्यमाणप्रत्यभिज्ञाप्रमाणविरुद्धत्वात्, सुधायां जातिनिरासप्रस्ताव एव दूषितत्वाच्च, पिठरपाकप्रक्रियैवोपेयेति भावेनोक्तम् -- द्रव्ये सत्येवेति ॥ द्वितीयेपि किं व्यक्तिनाशस्थलीयजात्यनुभवो वा बाधक उत व्यक्त्यन्तरे तदनुभवो वा ।
1. आदिपदं न -नं.ज. 2.चान्यथा -उ.ए.
अत-जातौ-बाकम्) जातिवादः पु - 297.
----------------- --------- ---------
न च पुरुषे नष्टे ऽपि दण्डवव्द्यक्तौ नष्टायामपि तत्रैव प्रदेशे जातिरनुभूयते । येनोत्पत्यादिधीर्विशेष्योत्पत्यादिमात्रविषया स्यात् । व्यक्त्यान्तरे ऽनुभवस्तु परिमाणादावप्यस्ति । व्यञ्जकव्यक्तेरभावात्तत्र जातेरननुभवकल्पनं तु परिमाणादावपि समम् । न चाद्यापि जातेर्नित्यत्वं सिद्धम् । येन परिमाणादितो वैषम्यं स्यात् । तदेवेदं गोत्वमिति प्रत्यभिज्ञाया अभावात् । अयं गोरयमपि च गौरिति धीस्त्वयं स्थूलो ऽयमपि च स्थूल इति धीवत्सादृश्यविषया ॥
किं च तत्समवेतस्य तदुत्पत्तेः पूर्वं तन्नाशानन्तरं ---
आद्यं निराह -- न चेति ॥ द्वितीयं निराह -- व्यक्त्यन्तर इति ॥
ननु -- व्यक्तिनाशप्रवेशे जातेः सत्वेपि व्यञ्जकाभावादननुभवोस्त्वित्यत आह -- व्यञ्जकेति ॥
ननु -- परिमाणादौ नित्यत्वासिद्ध्यानुपलम्भस्य व्यञ्जकाभावप्रयुक्तत्वकल्पनं
निर्बीजम् । जातौ तु नैवमित्यत आहः-- न चाद्यापीति ॥ ननु 1 -- प्रत्यभिज्ञया अनुगतमत्या वा जातेर्नित्यत्वं सिद्धमित्यतः प्रत्यभिज्ञानस्य स्वरूपतः प्रमाणत्वेन न संदिग्धत्वादित्यासुधोक्तं व्यञ्जयन्नाह -- तदेवेदमिव ॥
नन्वनादिजातेः कथं न नित्यत्वम् । जातिर्नित्या अनादिभावत्वाद्गगनवदित्यनुमानविरोधादित्यत आह -- किं चेति ॥ यद्वा जातेरनित्यत्वे प्रत्यक्षमुक्त्वा अधुना विमतं विनाशवत् विनाशवदाश्रयसमवेतत्वाद्रूपादिवदित्यादिसुधोक्तयुक्तीमाह -- किञ्चेत्यादिना अस्मन्मतापत्तिरित्यन्तेन ग्रन्थेन ॥
नियमादिति ॥ अवयविगुणकर्मसु तथादर्शनादिति भावः ॥
1. न च -नं .उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 298.
------------------- ------------- -----------
चासत्वनियमात्कथं घटत्वा 1 देरनादित्वं नित्यत्वं च ॥
अपि च जातेर्द्वित्वादिवद्य्व्यासज्यज्वृत्तित्वे तद्वदेव यावत्स्वाश्रयप्रतीतिं विनाप्रतीतिः स्यात् । अग्निमात्रोद्देशेन द्रव्यत्यागे ऽग्नीषोमीयशास्त्रार्थ इवैकगोव्यक्तिदाने गां दद्यादिशास्त्रार्थो ऽननुष्ठितश्च स्यात् ।
नन्वनुगत्वमेव जातेरनित्यत्वे बाधकमतो नष्टो घट इत्यादिबुद्धेर्व्यक्तिविषयत्वमेव युक्तमित्यतः"यो ऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते यथा द्वित्वादिः। प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमि"त्यादिसुधोक्तिं व्यञ्जयन्ननुगतत्वमपि निराह -- अपि चेति ॥ जातिः प्रतिव्यक्त्यपरिमासमाप्य वर्तते अथ परिसमाप्य । आद्य आह -- जातेरित्यादि ॥ अप्रतीतिः स्यादिति पदच्छेदः। प्रतीतिर्न स्यादित्यर्थः। अग्निमात्रेति ॥ पौर्णमास्यां हि अग्नेयोपांशुयागाग्नीषोमीयाख्यकर्मत्रयमनुष्ठीयते । तत्र यदाग्नेयो ऽष्टाकपालो ऽमावास्यां 2 च पौर्णमास्यां चाच्युतो भवतीतिवाक्योक्तस्याष्टसु कपालेषु संस्कृतपुरोडाशरूपद्रव्यस्य हविष इति यावत् अग्नय इदं न ममेत्यग्नमात्रोद्देशेन त्यागरूपे आग्नेये यागे अनुष्ठिते ऽपि
"अग्निषोमीयमेकादकपालं पौर्णमासे प्रायच्छदि"ति वाक्योक्ताग्निषोमीययागरूपः शास्त्रार्थो यथा नानुष्ठितः तथात्वे आग्नेयेन कृतार्थत्वादग्नीषोमीयानुष्ठानाभावप्रसङ्गादिति भावः ॥
1. दिजातेरन - ग. रा. सु. 2. स्यायां पौ - उ. ए.
अत-जातौ-बाकम्) जातिवादः पु - 299.
----------------- -------- ------
देवतात्ववद्गोत्वस्यापि व्यासज्यवृत्तित्वात् । प्रत्येकं परिसमाप्यत्वे च प्रतिव्यक्तिवृत्तिताकारेण प्रत्येकपरिसमाप्तेरभावादस्मन्मतापत्तिः ॥
अपि च -- महापातकादिना ब्राह्मणत्वादिजातिनाशेन --
ननु -- समर्थः पदविधिरिति परिभाषया समर्थादेव पदात्तद्धितप्रत्ययानां विधानादग्नेरसहायस्य देवतात्व एवाग्नेर्ढगिति तद्धितविरोधानेन तत्रादग्निमात्रोद्देशेन द्रव्यत्यागे ऽनुष्ठिते ऽप्यग्नीषोमीयो नानुष्ठित इत्युक्तम् । तत्राग्नेः सोमस्य च द्वयोरितरेतरयोगेनोभयनिष्ठैकदेवतात्वे विवक्षित एव"द्यावापृथिवीशुनासीनमरुत्वदग्नीषोमवास्तोष्पतिगृहिमेधाच्छ"इति तद्धितोत्पत्तिप्रसङ्गादित्य आह -- देवतात्ववदिति ॥ आद्यपक्षे सुधावाक्यं विवृत्य द्वितीयपक्षं स्वयं निराह -- प्रत्येकेति ॥"तथा जातिविशेषयोः"इत्यादिवाक्यव्याख्यावसारे"ब्राह्मणत्वपिण्डयोर्भेदाभेदौ महापातकेन जातेरपायादि"ति तत्वविवेकटीकोक्तरीत्या, आगमेन च जातेर्नित्यत्वं निराह -- अपि च माहापातकादिनेति ॥
"मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयी"।
इत्याद्यागमसिद्धा शूद्रत्वादिजात्युत्पत्तिः । विश्वामित्र 1 ब्राह्मणत्वजात्युत्पत्तिस्तु--
"गाधेरभून्महातेजाः समिद्ध इव पावकः ।
तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥
1.त्रस्य ब्रा - उ. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 300.
----------------------- ------------ ----------
-- शूद्रत्वादिजात्युत्पत्तिर्विश्वामित्रिशङ्कादीनां वरशापादिना क्षत्रियत्वादिजातिनाशेन ब्राह्मणत्वादिजातयुत्पश्चागमसिद्धा । स्पर्श 1 वेध्यादि संबन्धेनायसोप्ययस्त्वादिनाशेन काञ्चनत्वादिजात्युत्पत्तिश्च प्रत्यक्षसिद्धेति कथं जातेर्नित्यत्वनियमः।
किञ्च --
"भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि इत्यादिश्रुतिसिद्धः प्रतिव्यक्ति धर्मभेदः ।------------------------------------------------------------------------
इत्याद्यागमसिद्धा । त्रिशङ्कुनामक्षत्रियस्य चण्डालत्वजात्युत्पत्तिः --
तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः ।
प्राप्तश्चण्डालतां शापाद्गुरोः. . .॥
इत्यादिनवमस्कन्धसप्तमाध्यायस्तागमसिद्धा । कल्माषपादस्य ब्रह्मरक्षस्त्वजात्युत्पत्तिः --
"आहुर्मित्रसहं यं वै कल्मषाङ्घिमतः क्वचित् ।
वसिष्ठशापाद्रक्षो ऽभूत् . . . ॥
इत्यादमसिद्धेत्यर्थः । स्पर्शवेधी नामौषधिविशेषः । वैशेषिकनयानुव्याख्यानोक्तश्रुतिमाह -- भिन्नाश्चेति ॥ न च भिन्नधर्मा इत्यस्य स्वास्माद्भिन्नधर्मवन्त इत्यर्थ इति शङ्क्यम् ।"स्वैः स्वैर्धर्मैरभिन्नाश्च"इति श्रुतिविशेषविरोधादिति भावः ॥
ननु मासेन शूद्र इत्यादिरागमः क्षीरविक्रय 2 निन्दापरो वर्णत्रयकर्महानिप्रतिपादनार्थो वास्त्वित्यत आह -- न चेति ॥ उपलक्षणमेतत्।
र्1.शादिसं - नं. ज. 2.कर्मे -त्यधिकम् - उ. ए.
अत-जतौ-बाकम्) जातिवादः पु - 301.
---------------- --------- ----------
न चासति बाधके आगमस्य गौणार्थत्वम् अयः पिण्डमेव स्वर्णं जातमिति
प्रत्यभिज्ञाभ्रान्तित्वं च युक्तम् ॥
किं च धर्मधर्मिणोरभेदस्यान्यत्र समर्थितत्वात्कथं व्यक्त्यभिन्नया जातेरनुगतिः ॥
कर्मनिन्दापरत्वे तस्मात्"ब्राह्मणं ना 1 वगुरुरेदित्यवगोरणादिनिषेध 2 शेषभूतानां"योवगुरेत्तं शतेन यातयादि"ति शतयातनादिवाक्यानामपि कर्मनिन्दापरत्वेन फलपरत्वाभावप्रसङ्गेन"शंयो च सर्वपरिदानादि"ति तृतीयाध्यायचतुर्थपादीयावगोरणाधिकरणविरोधापत्तिः । वर्णत्रयकर्णहानिप्रतिपादननार्थत्वे च वसन्ते ब्राह्मणो ऽग्नीनादधीतेत्यादावपि ब्राह्मणशब्दस्य क्षत्रियवैश्यकर्मरहितपरत्वस्य वक्तुं शक्यत्वेन शूद्रस्याप्यग्निविद्यासंभवेन वैदिककर्माधिकारापत्या षष्ठाद्यपादस्थापशूद्राधिकरणविरोधापत्तिश्चेत्यापि ध्येयम् ॥
यदपि -- गाधेरभूदित्याद्यागमो ऽपि विश्वामित्रस्य ब्राह्मणकर्मयोग्यत्वपर एवेति । तदपि न । असति बाधके मुख्यार्थत्यागायोगात् । जातिनित्यत्वस्याद्याप्यसिद्धेश्चेति भावः॥
ननु यदुक्तं स्पर्शवेधीत्यादि तन्न । तादृशप्रत्यक्षस्यैवासिद्धेः । सिद्धौ वा भ्रान्तित्वमस्त्वित्यत आह -- अयः पिण्डमिति ॥ न चासति बाधक इत्यनुषञ्जनीयम् । पीलुपाकप्रक्रिया त्वप्रामाणिकी प्रमाणबाधिता चेति भावः ।
एतेन द्रव्ये सत्येवेत्यादि प्रागुक्तं च समर्थितं ध्येयम् । अन्यत्रेति ॥ वैशेषिकनयानुव्याख्यानादौ तत्वविवेकादिग्रन्थे चेति भावः ॥
1. सर्वत्र पकार -नं. उ. ए. 2.धदोषम् -नं. उ. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 302.
----------------------- ------------ ---------
एतेन लाघवाज्जातिरेकैवेति निरस्तम् । उक्तं चानुव्याख्याने --
"नरत्वादिकमप्येवं तत्तद्धर्मतयेयते"
इति । तस्माद्रूपादिवज्जातिर्नानैव सामान्यं तु समाननां भावः सामान्यमिति व्युत्पत्या सादृश्यमेव । तच्चोक्तरीत्यानुगतम् । तस्माज्जातिविशिष्टव्यक्तिनाशादर्घटो नष्ट इत्यादिप्रत्यक्षेण
जातिनाशादेस्समवायिनाशप्रत्येकपरिसमाप्त्यादियुक्त्त्या व्यक्तौ सत्यामेव ताम्रत्वायस्त्वादि 1 नाशादेः प्रत्यक्षेण ब्राह्मणत्वादिजातिनाशादेरागमेन प्रतिव्यक्तिधर्मभेदस्य --
एवं जातेर्नित्यत्वमनुगतत्वं च निरस्यैकत्वमपि निराह -- एतेनेति ॥ नित्यत्वानुगतत्वखण्डनेनेत्यर्थः । उक्तं चेति ॥ जातेरननुगतत्वं वैशेषिकाधिकरणे उक्तमित्यर्थः । ईयते प्रतीयते इत्यर्थः ॥
नन्वेवं सामान्यविशेषादिव्यवहारस्य का गतिरित्यत आह -- सामान्यं त्विति ॥ समानानां सदृशानामित्यर्थः । उक्तरीत्येति ॥ शक्तिव्याप्त्यादिग्रहसमर्थनवादोक्तरीत्येत्यर्थः । घटो नष्ट इत्यादिप्रत्यक्षेणेति ॥ विशिष्टनाशविषयप्रत्यक्षेणेत्यर्थः । किं च यथा द्रव्येसत्येवेत्यादिनोक्तस्य स्पर्शवेध्यादीत्यादिनोक्तस्य चैकार्थतया सकृदुभयसङ्ग्रहरूपत्वादागमसिद्धेत्यतः पश्चादुक्तस्यापि पूर्वसङ्ग्रहानुवादः । किं च यथा द्रव्ये सत्येवेत्यादिनोक्तस्यैवोदाहरणान्तरेण पुनर्व्यक्तीपकरणमात्रं, तदपि प्रत्यभिज्ञारूपप्रत्यक्षप्रदर्शनेन तस्याभ्रान्तित्वोक्त्यर्थं पीलुपाकप्रक्रियानिराकरणार्थं चातो न पुनरुक्तिदोषः इत्याहुः ॥
1. दिजातिना -ग. रा. सु.
आप्तायस्य-लिर्थत्वेः-बाधकम्) विधिवादःपु - 303.
-------------------------- --------- ----------
चोक्तश्रुत्या सिद्धत्वान्न जातेरनुगमः । तदेवं जात्यभावे ऽप्यन्विते शक्तिग्रहो युक्तः॥
एवं लिङ्गादिरप्यन्वितेष्टसाधनत्वरूपविधौ शक्त इतीष्टसाधनत्व 1 ज्ञानमेव प्रवर्तकम् ॥
अनुगतजातौ बाधकम्
ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्येत्यादिनोक्तवादत्रयार्थमुपसंहरति --
तदेवमिति ॥ उत्तरवादोपक्षेपार् 2 थमाह -- एवमिति ॥"ज्ञात्वैवेहीष्टसाधनतां प्रवर्तत"इत्याचार्योक्तेराह -- इष्टसाधनत्वज्ञानमेव प्रवर्तकमिति ॥
ननु -- विधिज्ञानं प्रवर्तकं विधिश्च लिङ्गर्घथः"विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, लोट्चे"त्यादिपाणिनिस्मरणात्। कथमेवमित्यत उक्तं -- इष्टसाधनत्वरूपविधाविति ॥ न्यायमताद्वैलक्ष्यण्यज्ञापनायोक्तं -- अन्वितेति ॥ यागादियोग्येतरान्वितेत्यर्थः॥
अनुगतजातौ बाधकम्
अथ आत्पाभिप्रायस्य लिङ्गाद्यर्थत्वे बाधकम्
नन्विष्टसाधनत्वं न विधिः । तथात्वे करणत्वस्य विध्यर्थेन --
अथ आप्ताभिप्रायस्य लिङ्गाद्यर्थत्वे बाधकम्
प्रागुक्तमाक्षिपति -- नन्वति ॥ विधिनिमन्त्रणेत्यादिपाणिनिसूत्रे लिङ्गाद्यर्थत्वेनोक्तो विधिरिष्टसाधनत्वं न भवतीत्यर्थः ।
1. त्वमेव - नं. ज. 2. पायाह -नं. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 304.
----------------------- ------------ ---------
लिङ्गाभिहितत्वेन"उद्भिदा यजेते"त्यादावनभिहिताधिकारविहिततृतीयानुपपत्तेरिति चेन्न । साधतनत्वे ऽभिहिते ऽपि तद्विशेषस्य करणत्वस्यानभिधनात् । लिङ्गान्तरङ्गस्वप्रकृति--
येन तज्ज्ञानं प्रवर्तकमिति भावः । विध्यर्थेनेति बहुव्रीहिः। अभिहितत्वेन कथितत्वेनेत्यर्थः । अनभिहिताधिकरोति । द्वितीयस्य तृतीयपदे"नभिहित"इत्यधिकारसूत्रम् । तिङ्कृत्तद्वितसमासैरकथित इत्यर्थका 1 नभिहिताधिकारे ऽनभिहित इत्यनुवृत्तिप्रकरणे"कर्तृकरणयोस्तृतीयेति"सूत्रेण तिङ्गाद्यनभिहितकर्तरि करणे च तृतीया भवतीति विहिति तृतीया न स्यात् । उद्भिदा यजेत पशुकाम इति पशुरूपेष्टसाधनत्वस्य यागनिष्ठत्वेन तस्य
यागान्वितस्य यजेतेति तिङ्गाभिहितत्वात् । उद्भिदेत्युपपदस्य चाद्याध्यायचतुर्थपादीयोद्भिदधिकरणन्यायेन यागानामत्वेन यागनिष्ठकरणत्वस्यैवोद्भित्पदगततृतीयार्ऽथत्वादिति भावः॥ तद्विशेषस्येति ॥"साधकतमं करण"मिति पाणिनिस्मृत्यातिशयितसाधनत्वरूपसाधनत्वविशेषस्य करणत्वात्तस्यैव च तृतीयार्थत्वादस्माभिश्चेष्टसाधनत्वस्यैव विधित्वाङ्गीकारेणेष्टकरणत्वस्य विधित्वानङ्गीकारात् । तथा चोद्भिद्यागः इष्टसाधनं करणकारकं चेति 2 लिङ्तृतीयाविभक्तिभ्यामर्थो लभ्यत इति भावः ॥
ननु -- कारणत्वेनोद्भिदादियागस्य लिङ्गानभिधाने ऽपि साधनत्वेनाप्यभिहितत्वाकथं तृतीयेत्यतः साधनत्वेनाप्यभिधानमुद्भिदादेर्विशेषस्य नेत्याह -- लिङ्गेति ॥ यद्वा लिङ्गा कारणत्वाभिधानेपि तृतीयालभ्यकरणत्वस्याभिधानं नास्त्येवेत्याह -- लिङ्गेति ॥ उपपदा 3 न्वयात्पूर्वमेव लिङ्गार्थान्वये हेतुरन्तरङ्गेति ।
र्1.थकम् । अन - उ.ए. 2. तिङ्तृतीया -ए 3.दात्पू -नं.ए.
आप्तायस्य-लिर्थत्वे-बाकम्) विधिवादः पु - 305.
------------------------- --------- ---------
--यज्यर्थमात्रगतेष्टसाधनत्वे ऽभिहिते ऽपि यागविशेषरुपोद्भित्प्रातिपदिकार्थगतस्य तस्यानभिधानेनोद्भित्प्रातिपदिकात्परस्याः तृतीयायाः संभवाच्च ॥
तत्र हेतुः 1 स्वप्रकृतीति ॥ अन्विताभिधानवादेपि सामान्यत एवेतरान्वितस्यार्थबोधकत्वेन विशेष्येतरान्वितस्वार्थाभिधानस्य पदान्तरसमभिव्याहारकृतत्वादिति भावः ॥
एतेन लिङ्गैव साधनबोधना 2 उद्भिदेति तृतीया व्यर्था शब्दसाधुत्वमात्रार्था वेति निरस्तम् । लिङ्गनुक्तकरणत्वार्थकत्वेन वोद्भित्प्रातिपादिकार्थगतकरण्तवार्थकत्वेन वा तृतीयायाः सार्थक्यसंभवात् ॥
यत्तु साधनत्वसामान्यमुखेन यागसाधनत्वसामान्यमुखेन वोद्भिद्रूपयागविशेषस्य करणकारकस्याभिधानात्
अनभिहिताधिकरोक्ततृतीया न युक्तेति रुचिदत्ताद्युक्तं ।
तन्न । यथाकथञ्चिदभिहितत्वेन तृतीयाया अयोगे कटं कुर्यादित्यादाविश्टसाधनत्वस्य लिङ्गर्थत्वे इष्टत्वेन क 3 टस्याप्यभिहितत्वेन द्वितीयानुपपत्यापत्तेः । तेन रूपेणाभिहिततत्वस्यैव द्वितीयादिभञ्जकत्वे प्रकृते ऽपि साम्यात् ॥
यत्तु -- कर्तृकरणगतसंख्यायाः तिङ्गादिनानभिधाने तृतीया भवति । अभिधाने तु न भवतीति पाणिनीयसूत्रार्थः । इह च करणगतसंख्याया अभिधानाद्भवति तृतीयेति पक्षध 4 रादिमतम् । तन्न । कर्तृकर्मणोराख्यातार्थत्वसमर्थनवादे कर्त्रादिगतसंख्यामात्राभिधायित्वस्य निरसिष्यमाणत्वादिति ॥
1.स्वपदं न- नं. उ. ए. 2.नात् उ -ए. 3.घट -नं.उ. ककारेण शोधितः -ए. 4.राभिम - नं. उ. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 306.
----------------------- ------------- --------
केचुत्तु - यागगतेष्टसाधनत्वामपि संसर्गमर्यादयैव लभ्यते । न त्वभिधीयत इत्याहुः॥
ननु तथापि --
नेष्टसाधनत्वं विधिः । कुत इदं कर्तत्वमिति प्रश्ने इष्टसाधनत्वादितीष्टसाधनत्वस्य कर्तव्यत्वे हेतूकरणात् ।"तरति 1 मृत्युं तरति ब्रह्महत्यां यो ऽश्वमेधेन यजेत"इत्यर्थवादेनेष्टसाधनत्वे बुद्धे ऽपि विधिप्रत्ययानुमानाच्च ।
यत्तु मणौ विधिवादान्त्यभागे नव्यास्त्वित्यतः पूर्वं वस्तुतस्त्वभिहितान्वयलभ्यं यागेष्टसाधनत्वं इष्टसाधनत्वमात्रस्य लिङ्गर्थत्वादिति समाधानमुक्तं तदाह -- केचित्वति ॥ इह च यागस्य धातुलभ्यत्वाद्यागेष्टसाधनत्वयोराधाराधेयभावस्य च प्रकृतिप्रत्ययस्य समभिव्याहारवबलेन संसर्गमर्यादया भानोपपत्या तत्राभिधानवृत्तेर्गोरवेण केवलेष्टसाधनत्वस्यैव लिङ्गाभिधानमिति भावः ॥
अत्रारुचिबीजं तु यगेवान्विताभिधानस्यान्वयशक्यत्वे ऽशाब्दत्वाद्यपत्तेरुपपादितत्वेन तत्राभिधावृत्तेरेव वाच्यत्वात्वन्मते ऽपि वाक्यार्थरूपसंसर्गस्याशक्यत्वे ऽपि
तत्प्रतिपादनं लिङ्गादेरस्त्येवेति ध्येयम् । वक्त्रभिप्राय एव लिङ्गाद्यर्थ इत्युजयनमतमाचार्यास्त्वित्यादिना विधिवादान्ते मणिकृदनूदितमाशह्कते - नन्विति ॥ हेतुत्वादित्यादिवक्ष्यमाणश्लोकस्थपञ्चहेतून् कुसुमाञ्जवलिवर्धमानाभ्यामुक्तरीत्या निष्कृष्टार्थोक्त्या विवृणोति -- कुत इदमित्यादिना ॥ लिङ्लोट्तव्यादिनैवेष्टोपायत्वावगतौ हेतूक्तिर्व्यर्थेति । आप्ताभिप्रायस्य लिङ्गाद्यर्थत्वेनेदं कर्तव्यमित्यस्य ममैतत्करणानुकूलेच्छा वक्तुरस्तीत्यर्थः स्यात् ।
1. तिं तरति ब्रह्म - ग. ज. एकं तरतीत्येतद्द्रेखया दूषितम् - क.
आप्तायस्य -लिङ्गर्थत्वे -बाकम्) विधिवादः पु - 307.
------------------------------ ------- -------
इष्टसाधनत्वबोधानन्तरं कर्मकाले प्रयुक्ताभ्यां कुर्याः कुर्यामिति मध्यमोत्तमपुरुषाफभ्यां संबोध्यकर्तृक 1 स्वात्मकर्तृक क्रियाविषयोरभिप्राययोरेव प्रतीतेश्च । इ 2 च्छाविशेषरूपामन्त्रणाद्यर्थके लिङ्गादाविच्छावाचित्वस्य कॢप्तत्वाच्च ।
तत्र च कुत इत्याकाङ्क्षायां म 3 दिष्टसाधनत्वादिति हेतुर्थवानिति भावः । इष्टासाधनत्व इति ॥ अश्वेधयागमस्य ब्रह्मैत्यातरणे 4 ष्टसाधनत्वे ऽवगतेप्यर्थवादाधिकरणे विध्यर्थवादयोरविनाभावस्य सिद्धतयात्रार्थवादेन लिङ्गादिविधैप्रत्ययानुमानादिति वा इष्टोपायत्वस्य विधिव्या 5 प्यत्वात्तेन तदनुमानादिति
वार्ऽथः । लिङ्गादिनेष्टसाधनत्वबोधने ब्रह्महत्यातरणकामो ऽश्वमेधेन यजेतेति विध्यनुमानं व्यर्थं स्यात् । आप्ताभिप्रायत्वे त्वश्वमेधादेर्मदिष्टसाधनत्वान्मत्प्रत्यनुकूलेच्छाऽप्तस्यास्तीत्यनुमानभेदाददोष इति भावः ॥
मध्यमेत्यादितृतीहेतुं व्यनक्ति -- इष्टेति ॥ तवेदमिष्टसाधनवतः कुर्याः ममेदमिष्टसाधनमतः कुर्यामिति मध्य 6 मोत्तमपुरुषसंज्ञिकाभ्यां लिङ्गादेशप्रत्ययाभ्यां कर्तृद्वयनिष्ठक्रियाविषययोः संकल्पापरपर्यायामिप्राययोरवगमे तत्रेष्टसाधनत्वार्थकत्वविरहादन्यत्रापि
लिङ्ग्लोडादेराप्ताभिप्राय एवार्थो वाच्य इति भावः ॥
अन्यत्र कॢप्तसामर्थादिते हेतुं व्यनक्ति -- इच्छेति ॥"विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रर्थनेषु लिङ्, लोट्च, आशिषि लिङ्लोटाविति"--
1 क क्रियावि -ज.ग. कर्तृकेत्यपि नास्ति नं. ध्वस्वात्मकर्तृक -क. ध्यस्वकर्तृकस्वकर्तृकक्रि- सु. ध्यस्वकर्तृकक्रि-रा. 2.ष्टविशे -नं.ज.क. 3.मदिति नास्ति -ए. 4.णरूपेष्ट -उ.ए. 5.प्तत्वा-उ.ए. 6.मपुरुषोत्तम् -नं.ए.
आप्तायस्य-लिर्थत्वे-बाकम्) विधिवादः पु - 308.
------------------------ -------- ---------
इष्टसाधनत्वार्थत्वे मानान्तरविरोधेन"न कलञ्जं भक्षये"दित्यादौ तन्निषेधानुपपत्तेषु ॥
तदुक्तं कुसुमाञ्जलौ --
हेत्वादनुमानाच्च मध्यमादौ 1 प्रयोगतः ।
अन्यत्र कॢप्तसामर्थ्यान्निषेधानुपपत्तिः ॥
इति । तस्मादुक्तबाधकगपञ्चकेनेष्टसाधनत्वार्थकत्वस्यायोगाद्वक्त्रभिप्रायरूपविध्यर्थक एव लिङ्गादिरिति ॥
-- पाणिनिसूत्रोक्तदिशा इच्छाविशेषरूपो य आमन्त्रणाध्येषणादिस्तदर्थवाचित्वस्य कॢप्तत्वात् । तदन्यत्रापि वक्त्रभिप्राय एव लिङ्गद्यर्थो नेष्टसाधनत्वमिति भावः। अपौनरुक्त्यायेच्छाविशेषेत्युक्तम् । विध्यादेः सर्वत्रेच्छारूपत्वे ऽप्यवान्तरभेदः कुसुमाञ्जलावेव व्यक्तः ॥
अन्तिमहेतुं व्यनक्ति -- इष्टेति ॥ लिङ्गादेरिति योज्यम् । मानान्तरेति ॥ कलञ्जनामक्तमूलविशेषभक्षणमिष्टसाधनं नेत्यर्थः । आप्ताभिप्रायार्थत्वे तु मम कलञ्जभक्षणकरणेच्छाप्तस्य नास्तीत्यर्थकत्वाददोषः । स चाप्तो वेदे भगवानीश्वर एवेति भावः । तदुक्तमिति ॥ पञ्चमस्तबकन्त्यभागे हेतुत्वात् कर्तव्यत्वे ऽनुमानाच्चेति । विधेरिति शेषः । मध्यमेति ॥ मध्यमोत्तमपुरुषलिङ्गः
इष्टसाधनतावियोगादित्यर्थः ॥ अन्यत्रेति ॥ इच्छाविशेषरूपे आमन्त्रणाध्येषणादौ लिङ्गः कॢप्तशक्तित्वादित्यर्थः ।"न कलञ्जं भक्षये"दित्यादौ निषेधानुपपत्तित इत्यर्थः ॥
1. दौ नि -ज. ग.क. 2. दौ वि -नं. रा. सु.
आप्तायस्य-लिर्थत्वे-बाकम्) विधिवादः पु - 309.
------------------------- -------- --------
उच्यते --
अभिप्रायो हीच्छा । एवं च तस्या विधित्वे 1 सविषमन्नं कलञ्जं वा भक्षयत्वितीश्वरेच्छाया अभावे तद्बक्षणे प्रवृत्ययोगेन तस्यास्तत्रापि सत्वेन विषयभक्षणादिकमपि विधेयं स्यात् ॥
किं च बालस्याद्यस्तन्यपानादिस्वप्रवृत्तौ हेतुत्वेनेष्टसाधनत्वज्ञानमेव कॢप्तम् । न हि बालस्याद्यप्रवृत्तौ जातिबधिरप्रवृत्तौ वा वक्तास्ति । येन तत्रापि वक्त्रभिप्रायज्ञानमेव हेतुः स्यात् । एवं च ---
परोक्तबाधकपञ्चकं पश्चादुद्भरिष्यन् आदौ तावदिष्टसाधनत्वस्य लिङर्थत्वे साधकत्रयमभिप्रायस्य लिङर्थत्वे बाधकरूपं क्रमेणाह -- अभिप्रयायो हीत्यादिना ॥ वक्तुरेच्छा अभिधीयत इत्यादितदुक्तप्रसिद्धिद्योतको हि शब्दः । इच्छाविषयसाधनत्वापेक्षया इच्छामात्रस्य विङर्थत्वे लाघवयुक्तिसूचको वा । प्रवृत्ययोगेनेति ॥ ईश्वरेच्छायाः कार्यमात्रहेतुत्वादिति भावः । किं वक्त्रभिप्राये ज्ञानं प्रवर्तकमित्युपेत्य तस्य लिङाद्यर्थत्वमुच्यते, अथ तदभावे ऽपि । आद्ये दोषमाह -- किं चेति ॥ यद्वा परपक्षे बाधकं सिद्धान्तसाधकान्तरमाह -- किं चेति ॥ आद्यस्तन्यपानेति ॥ प्राथमिकस्तन्यपानेत्यर्थः । तत्रापि संदिहानं प्रत्याह -- न हीति ॥ हेतुरिति॥ प्रवृत्तावित्यनुषङ्गः ॥
नन्वस्तु बालबधिरयोः शब्दज्ञानशून्ययोरेवम् । तदन्यप्रवृत्तिरभिप्रायज्ञानपूर्विकास्तु । तत्राभिप्रायज्ञानसंभवादित्यत आह -- एवं चेति ॥ चैत्र जलमाहरस्वेत्युत्तमवृद्धवाक्याज्जायमाना प्रयोज्यभूतमध्यमवृद्धप्रवृत्तिर्या --
1. अयं सवि - क. रा. सु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 310.
----------------------- ------------ -------
एवं मध्यमवृद्धप्रवृत्तिदर्शनेन बालेन कल्प्यमाना लिङ्गादेः शक्तिः तत्प्रवृत्तौ कॢप्तेष्टसाधनत्वविषयैव कल्प्या । 1 तस्या 2 कॢप्तत्वात् ॥
किं च वक्त्रभिप्राये ज्ञाते ऽप चेतस्येच्छां विना कथं प्रवृत्तिः । कथं चेष्चसाधनत्वज्ञानं विनेच्छा ॥
-- तद्दर्शनेनैतत्प्रवृत्तिः ज्ञानपूर्विका स्वतन्त्रप्रवृत्तित्वात् मदीयस्तन्यपानादिप्रवृत्तिवदिति ज्ञानपूर्वकत्वानुमानान्तरं मत्प्रवृत्तिहेतुज्ञानं यथेष्टोपायत्वविषयमेवमस्यापि प्रवृत्तिहेतुज्ञानं तद्विषयमेवेति निश्चित्य तज्ज्ञानं च लिङ्गादियुक्तोत्तमवृद्धवाक्येनास्योत्पन्नं तदनुविधानादिति निर्णीयावापोद्वापाभ्यां लिङ्गादेरिष्टसाधनत्वविषयामेव शक्तिं मन्यते बाल इत्येव युक्तमित्यर्थः । तस्या इति ॥ इष्टसाधनत्वविषकत्वस्य स्वस्मिन्नवधृतत्वादिति भावः । तस्य अकॢत्पत्वादिति पाठे तु वक्त्रभिप्रायज्ञानस्य प्रवर्तकत्वेन स्वस्मिन्ननिर्णीतत्वादित्यर्थः ॥
आप्ताभिप्रायज्ञानमपि वायुस्तृणमिव बलात्प्रवर्तयतकि उत पितापुत्रादिकमिवेच्छामुत्पाद्य । नाद्यः अनुभवविरोधात् । चेतनप्रवृत्तेरिच्छापूर्वकत्वानुभवात् । द्वितीये त्विष्टोपायत्वज्ञानमावश्यकमित्याह -- किञ्चेति कथं प्रवृत्तिरिति ॥ वक्त्रभिप्रायं जानतो ऽप्यनिच्छतः प्रवृत्यभावस्यैव लोके दर्शनादित भावः । कथं चेति ॥ प्रवृत्तिहेत्विच्छाजनकेष्टोपायत्वज्ञानार्थं लिङ्गादेरिष्टोपायत्वार्थकत्वमेव वाच्यमिति भावः ॥
आप्तभिप्रायस्योक्तविधया स्वयं साक्षादप्रवर्तकत्वेनेष्टोपायत्व--
आप्तायस्य-लिर्थत्वे-बाकम्) विधिवादः पु - 311.
------------------------ -------- --------
न चेद 1 मिष्टसाधनं मत्कृतिसाध्यत्वेनाप्ताभिप्रेतत्वात्
मद्भोजनवदित्याप्ताभिप्रायेणेष्टसाधनत्वानुमानात्प्रवृत्तिरिति वाच्यम् । तथात्वे लिङ्गादिशक्तेरावश्यकेष्टसाधनत्वविषयत्वेनैव कल्प्यत्वात् । अर्थापत्तिर्हि साक्षादुपपादकविषया । न तूपपादकव्याप्यविषया । अनुमानं चायुक्तम् । उक्तरीत्या विषभक्षणादौ व्यभिचारात् ।
-- ज्ञानस्यैवेच्छाद्वारा प्रवर्तकत्वे ऽपि तज्ज्ञानार्थं न तस्य लिङ्गार्थत्वं कल्प्यम् । इष्टोपायत्वज्ञानस्यान्यथापि संभवादिति भावेनाचार्यास्त्वित्यादिग्रन्थे मण्युक्तानुमानानुमानानुवादपूर्वं प्रागुक्तद्वितीयपक्षमाशङ्क्य निराह -- न चेदमिति ॥ तृप्तिकामे 2 नान्येव क्रियमाणविषयभक्षणादावव्यभिचाराय मत्कृतिसाध्यत्वेनेति हेतुविशेषणम् ॥
इष्टसाधनत्वविषयकत्वेनैवाप्ताभिप्रायविषयत्वेनेत्यत्रावश्यकत्वहेतुरेक उक्तः । कल्पकाभावं चाह --अर्थापत्तिर्हीति ॥ इच्छापूर्वकप्रवृत्तेरनुपपद्यमानार्थस्य दर्शनरूपार्थापत्तिः स्वोपपादमिष्टोपायत्वज्ञानमेव स्वीकरोति । न तु इष्टोपायत्वव्याख्यं पुरुषसाधन 3 मित्युक्तानुमानं चेत्यर्थः । उक्तेति ॥ अयं सविषमन्नमित्यादिनोक्तरित्येत्यर्थः ॥
ननु 4 तत्रापि तात्कालिकेष्टसाधनत्वमस्त्येव तृत्पिजनकत्वादतो न व्यभिचार इति चेन्न । त्वन्मते बलवदनिष्टाननुबन्धीष्टोपायत्वज्ञानस्यैव तत्र साध्यार्थत्वादन्यथा निवृत्तिस्थले कलञ्ज भक्षणादावनिष्ठासाधनताज्ञानं न स्यात् । न च तत्राव्यभिचाराय बलवदिष्ट 5 जनकत्वे सतीति हेतुर्विशेष्यत इति वाच्यम् ।
1.ऽमत्ऽ इत्यधिकम् -ग. रा.सु. 2.मक्रि-उ.ए. मेव कि-न. 3.नमित्यनु- नं.ए.उ. 4.न च त -नं.उ.ए. 5.ष्टाज-नं.उ.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 312.
----------------------- ------------ ----------
कलञ्जभक्षणं ममानिष्टं मत्कृतिसाध्यत्वेनाप्तेनानिष्यमाणत्वादित्यस्यासिद्धेश्च ॥
तस्मान्निषिद्धे ऽपि सत्वाद्बालवधिरादिप्रवृत्तावसत्वात्पराभिप्राये ज्ञाते ऽपि चेतनस्येष्टसाधनत्वाज्ञाने प्रवृत्ययोगाच्च ना 1 भिप्रायो विधिः ।
किन्त्विष्टसाधनत्वमेव ॥
2 आप्ताभिप्रायस्य लिङ्गाद्यर्थत्वे बाधकम्
उदयनमतानुवादप्रस्तावे मण्युक्तं निवृत्तिस्थलीयमनिष्टोपायतानुमानमप्ययुक्तमित्याह -- कलञ्जेति ॥ अनिष्टं अनिष्टसाधनत्वमित्यर्थः । यद्वा तत्रेष्टसाधनत्वे सत्यपि बलवदनिष्टाननुबन्धित्वं नेति भावेनानिष्टमित्येव लाध्यनिर्देशः कृतः । विषयसंपृक्तान्नभोजनवदिति दृष्टान्तो ध्येयः। असिद्धेश्चेति ॥ उक्तरीत्येत्यनुषङ्गः । उक्तसाधकानि त्रीण्यप्यनुवदन्नुपसंहरति -- तस्मादिति ॥ सत्वादिति ॥ आप्ताभिप्रायस्येति योज्यम् ॥
आप्ताभिप्रायस्य लिङ्गाद्यर्थत्वे बाधकम्
1.प्ताभि -ज.क.रा.सु. 2.अत्र प्रकरणविभागो नास्ति -नं.ज.ग.क.रा.सु. हंसपादेन पूरितः -च. 3.द्यश -उ.ए.
उनोक्त-वभिय-वित्वङ्गः) विधिवादः पु - 313.
---------------------- -------- -------
अथ उदयोनोक्तवक्त्रभिप्रायविधित्वभङ्गः
बाधकपञ्चके ऽप्याद्यं तावन्न युक्तम् । त्वन्मते इदं कर्तव्यमाप्ताभिप्रेतत्वादिति हेतूकरणवदुपपत्तेः ॥
नापि द्वितीयम् । अर्थवादादेवेष्टसाधनत्वे बुद्धे विधिप्रत्ययस्य वा तदर्थस्य वानुमित्यनभ्युपगमात् । त्वत्पक्षे ऽपि तत्र विधिप्रत्ययाद्यनुमानं व्यर्थमेव। तद्बोध्यस्य प्रवर्तकर्तस्येष्टसाधनत्वस्यर्थवादादेव सिद्धेः । असिद्धौ च कल्पकाभावात् ।
अथ उदयनोक्तवक्त्रभिप्रायविधत्वभङ्गः
इष्टोपायस्य लिङ्गार्थत्वे प्रागुक्तपञ्चबाधकानि क्रमेण निराह -- बाधकेत्यादिना ॥ इति हेतूकरणवदिति ॥ इदं त्वया कर्तव्यमित्युक्तेन कुत इति प्रत्युक्तो ब्रूते आप्ताभिप्रेतत्वादिति । तत्र त्वन्मते इदं त्वया कर्तव्यमित्यस्य त्वत्कृतिविषयत्वेनाप्ताभिप्रेतमित्यर्थः । तत्र कुत
इत्याकाङ्क्षायामाप्ताभिप्रेतत्वादिति हेतुरयुक्तः स्यात् । तत्र यदि कर्तव्यमित्यस्य कृतिविषय इत्येतावन्मात्रं
विवक्षित्वा हेतोरुपपत्तिं मन्यसे तर्हि ममापि तथैवास्त्विति भावः । विध्यनुमानाच्चेति बाधकं निराह -- नापि द्वितीयमिति ॥ इष्टसाधनत्वे इति ॥ तथा 1 चानुमानाच्चेति हेतोरसिद्धिरिति भावः । अस्तूदयनमते ऽयं दोष इत्यत आह -- त्वत्पक्षे ऽपीति ॥ असिद्धौ चेति ॥ इष्टासाधनत्वस्यार्थवादादसिद्धौ विध्यनुमापकाभावादित्यर्थः।
1. थानु - नं. उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 314.
----------------------- ----------- ---------
व्यापकानुपलब्धिरूपबाधकनिरासेन सार्थक्यं तु मन्मते ऽपि समम् ॥
नापि तृतीयम् । उक्तरीत्येष्टसाधनत्ववाचिनो लिङः एकदेशभूतायामिच्छायां लक्षणासंभवात् । कुर्याः कुर्यामित्यत्रापि संबोध्यं स्वात्मानं च प्रतीष्टसाधनत्वस्यैव लिङर्थत्वे बाधकाभावाच्च ॥
नापि चतुर्थम् । त्वन्मते कॢप्तेच्छांशात्यागेनाप्तत्वांश इव --
अश्वमेधादे 1 रिष्टसाधनत्वादिहेतुना ह्यश्वमेधादिकं कृतिविषतयाप्ताभिप्रेतमित्यर्थको"श्वमेधेन यजेत ब्रह्महत्यातरणकाम"इति विधिरनुमातव्यः । इष्टसाधनत्वस्यैवाज्ञाते विध्यनुमितिरेव नोदीयादिति भावः ॥
नन्वर्थवादान्निश्चितमपीष्टसाधनत्वं कर्तव्यत्वरूपविधिव्याप्तत्वादिह च तस्यानुपलम्भेन कुण्ठितशक्तिकं न प्रवर्तयितुमीष्टे इष्टासधतारूपार्थवियोगादिति बाधकं निराह -- नापि तृतीयमिति ॥ उक्तेति ॥ अभिप्रायो हीच्छेत्यादिनोक्तरीत्येत्यर्थः । एतदेशेति ॥ इष्टासधनेत्यत्र साध्यविषयकत्वेनानुप्रविष्टेच्छाया एकदेशत्वात् । तद्वि 2 शिष्टार्थनुपपत्तावेकदेशस्य लक्षणया 3 ग्रहणसंभवादित्यर्थः । लक्षणैव दोष इत्यनुशयादाह -- कुर्या इति ॥ तवेष्टसाधनं ममेष्टसाधमित्यर्थकत्वोपपत्तेरित्यर्थः। अन्यत्र कॢप्तसामर्थ्यादित्युक्तबाधकं निराह -- नापि चतुर्थमिति ॥ कॢप्तेति ॥ 4 इच्छाविशेषरूपामन्त्रणादौ लिङ् 5
शक्तेः कॢप्तत्वेनामन्त्रणाद्यर्थकलिङ्गादौ --
1.रपीष्ट -ए. 2.तत्र वि -ए. 3.णाग्र -ए. 4.यथा इत्यधिकम् -ए. 5.ङः श-नं.उ.ए.
उनोक्त-वभिय-वित्वङ्गः) विधिवादः पु - 315.
---------------------- -------- --------
मन्मते ऽपि तदत्यागेन साधनत्वांशे शक्तिकल्पनात् । कथं च लिङ्गारे ऽन्योर्थ इति विध्यर्थ लिङोऽपि स एवार्थः ॥
नापि पञ्चमम् । नञो ऽसुरा इत्यादाविव त्वद्रीत्या लक्षणया मद्रीत्याभिधयेष्टसाधनत्वविरुद्धानिष्टसाधनत्वार्थकत्वात् ।1 दृष्टं च नञः क्रिया-
-- कॢप्तेच्छार्थकत्वांशात्यागेनाप्तत्वांशमधिकमपि निवेश्यप्तेष्टत्वं विधिलिङोऽर्थ इति कल्प्यते । तथा मन्मतेपि कॢप्तेच्छार्थकत्वात्यागेनेच्छाविषयसाधनत्वांशेपि लिङ्गादेः शक्तिः कल्प्यते । अतो ऽधिकांशे शक्तिकल्पनस्य तुल्यत्वान्नेदं बाधकमिति भावः । आप्तत्वांश इत्युपलक्षणम् । कृतिसाधत्वांश इत्यपि ध्येयम् । मन्मते तु न तदंशेपि लिङ्गादेः शक्तिरित्यग्रे व्यक्तम् ॥
नन्वामन्त्रणादावाप्तत्वांशे ऽपि शक्तिः कॢप्तेति वादिनं प्रत्याह -- कथं चेति ॥ नियामाकाभावादिति भावः । एकत्र निर्णीतार्थो ऽन्यत्रापीति न्यायस्त्वसति बाधके । प्रकृते चाप्तेच्छाया विध्यर्थत्वे बाधकत्रयस्य प्रागेवोक्तत्वादिति भावः । निषेधानुपपत्तित इति बाधकं निराह -- नापि पञ्चममिति ॥ त्वद्रीत्यापद्रीत्येत्येतन्नञर्थनिर्णयवादे ऽग्रे व्यक्तम् । अनिष्टसाधनत्वार्थकत्वादिति ॥ तथा च तत्र
मानान्तरविरोधाभावान्निषेधानुपपत्तिर्नेष्टसाधनत्वस्य लिङ्गाद्यर्थत्वे बाधकमिति भावः ॥
नन्वसुरादिपदं पर्युदासे ऽपि क्रियायोगे नञः पर्युदासार्थत्वमदृष्टचरम् । तथा च न भक्षयोदिति प्रसज्यप्रतिषेध एवेत्यत आह -- दृष्टं चेति ॥
1. इष्टं च -ज.ग.क.
न्यायदिपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 316.
----------------------- ----------- ----------
यागे ऽपि नानुयाजेषु एयजामहं करोतीत्यादौ पर्युदासार्थकत्वम् ॥
नानु याजेष्विति । नञः क्रियान्वयो न तूत्तरपदेन समासेन निर्देशः । अनुयाचानाम त्रयोनुयाजा इत्युक्तेः त्रयो यागविशेषाः । अनूयाजनामकयागभिन्नेषु 1 ए यजामह इति पञ्चाक्षरं मन्त्रं करोति उच्चारयतीत्यर्थः । प्रतिषेधः 3 प्रदेशे ऽनारभ्य विधाने च प्राप्तप्रतिषिद्धत्वा द्विकल्प्यः स्यादिति दशमाष्टपपादीयाद्याधिकरणे"यजतिषु ए यजामहं करोति नानुयाजेषु ये यजामहं करोति"ति वाक्यद्वयमुदाहृत्य नञत्र प्रसज्यप्रतिषेधार्थ उत पर्युदासार्थ इति संदिह्य आद्ये अनारभ्याधीतेन यजतिष्विति मन्त्रेणानुयाजेष्वपि यजतित्वात्प्राप्तो ये यजामह इति मन्त्रो न करोतीति प्रतिषिध्यत इति नञो ऽनु 3 याज इति शब्दस्य च मुख्यार्थलाभः । पर्युदासपक्षे तु नञनुयाजशब्दाभ्यां तदन्यायागान्तरग्रहणमिति पदद्वयलक्षणादोषः । नञोनुयाजपदेनान्वये ऽनश्व इत्यादाविव नित्यसमासेनाननुयाजेष्विति प्राप्त्यात्र प्रतीयमानक्रियान्वयायोगतो ऽविहितप्रतिषिद्धत्वाद्वयनद्वयप्रामाण्यात्सामान्यविशेषभावे सत्यपि निषेधस्य स्वापेक्षितनिषेध्यप्रापकतया समान्यवचसोपेक्ष्यत्वेन तुल्यवच्छ्रवणविरोधेन चायुक्तत्वान्नञोनुयाजसंबन्धझे व्याकरणे ऽपि द्वितीयाध्यायप्रथमपादे विभाषेति महाविभाषाधिकरणा 4 समासोपपत्तेः क्रियान्वितनञो ऽपि पर्यदासार्थत्वमेवेति अनुयाजान्ययागेषु य यजामहं करोतीत्येवार्थ इति सिद्धान्ति 5 त्वादिति भावः ॥
1.ऽयेऽ इत्येव सर्वत्रास्ति -नं.उ.ए. 2.धे प्र-उ.ए. 3.ऽनूऽ इति प्राय अस्ति -उ.ए. 4.णस -नं.ए.
उनोक्त-वभिय-वित्वङ्गः) विधिवादः पु - 317.
---------------------- --------- ---------
यद्वा प्रथमं नञर्थधत्वर्थयोरन्वयो ऽनन्तरं तदन्वितेन लिङ्गा मानान्तराविरुद्धकलञ्जलभक्षणाभावस्येष्टसाधनत्वमेवोच्यते ॥
एते विरोधिपरत्वं समस्तस्यैव नञो न तु व्यस्तस्येति रुचिदत्तोक्तं निरस्तम् । पर्युदाश्रयणे मीमांसान्यायसिद्धे सति यथोयोगं विरोधित्वस्य वान्यत्वस्य वार्थस्य ग्रहणे बाधकाभावात् ॥
मणौ 1 तु -- इष्टसाधनत्वस्य लिङर्थत्वे न कलञ्जं भक्षयेदित्यत्र विध्यर्थनिषेधानुपपत्तिः । तद्भक्षण्स्य तृप्तिरूपेष्टसाधनत्वात् । नचासुरा इत्यादिवत्पर्युदासलक्षणया विरोध्यनिष्टसाधनत्वबोधनं नञोसमस्त्वात्क्रियासंगतत्वेन प्रतिषेधवाचकत्वव्यत्पत्तेश्चेति चेन्न । विशेष्यवति विशिष्टनिषेधस्य सविशेषणेहीतिन्यायेन विशेषणनिषेधपर्यवसायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखसाधनमिति न कलञ्जं भक्षयेदित्येन बोधितत्वादिति ग्रन्थेन नञः प्रतिषेधार्थत्वमुपेत्यैव निषेधानुपपत्तिसमाधनमुक्तम् । तदुत्तरभङ्गे निरसिष्यत इति भावः । आदिपदेन नार्षेयं वृणीते, नेक्षेतोद्यन्तमादित्यमित्यादेर्ग्रहः । नेक्षेतेत्यस्यापि चतुर्थाद्यपादे 2 तृतीयाधिकरणे पर्युदासत्वोक्तेः ॥
अस्तु तत्र नित्यवच्छ्रवणविरोधादिबाधकेन लक्षणयापि पर्युदासाक्षयणम् । प्रकृते च बाधकाभावान्मुख्यार्थ एव
प्रसज्यप्रतिषेधोस्त्विति वादिनं प्रत्याह -- यद्वेति ॥ भक्षणरूपधात्वर्थेत्यर्थः । न च मीमांसकवन्न्यर्थमादायाख्यातान्वयः, तेन कलञ्जभक्षणाभाव इष्टासाधनमित्यन्वय इति वाच्यमित्यादिना पक्षधराद्युक्तमाशङ्क्य निराह -- नेचेति ॥ न तु नञर्थेनेति ॥ तस्य भिन्नपदोपात्तत्वेन बहिरङ्गत्वादिति भावः । सुबन्तेप्याह -- गम्भीरायामिति ॥
1.ऽणौ न कलञ्जऽ इत्थमस्ति-नं.उ. 2.ऽतृतीयाधिकरमेऽ इति नास्ति-उ.ए.नं. पूरितम् -मु.
-------------------------------------------------------------------------न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 318.
----------------------- ------------ ---------
न ट प्रकृतिभूतधात्वर्थस्य प्रथममन्तरङ्गेण प्रत्ययार्थेनैवान्वयो न तु नञर्थेनेति वाच्यम् । तण्डुलान् पचतीत्यत्र तण्डुलविषयकपाकानुकूलकृतिमानित्यर्थ 1 प्रतीत्या तण्डुलान्वितपाकस्याकस्याख्यातार्थ 2 भूतया कृत्यान्वयस्य गम्भीरायां नद्यां घोष इत्यादौ गम्भीरा3 न्विताया एव नद्याः सप्तम्यर्थे नाधिकरणत्वेनान्वयस्य 4 दर्शनात् ॥
किं च नञर्थस्य प्रतियोगिन्याकाङ्क्षोत्थितेति तस्यैव प्रथमं धात्वर्थेनान्वयः । सन्निधानादप्या--
ननु - तत्राप्यरूणै 5 कहायनीन्यायेन खलेकपोतन्यायेन चोपपदार्थप्रकृत्यर्थयोः युगपदेन क्रियान्वये पश्चात्पा 6 र्ष्टिकान्वयबलेनैव तण्डुलवलविषकपाकानुकूलकृतिमानित्यादिप्रतीतिरित्यस्तु । यद्वा सन्निधेर्बलवत्वात्पूर्वं प्रकृत्यर्थस्य प्रत्यार्थेनैवान्वयो नोपपादार्थेनेति वदन्तं प्रत्याह -- किं चेति ॥ उत्थितेति ॥ स्वरसा । धात्वर्थेनेति ॥ तस्यैव प्रतियोगित्वादिति भावः । सन्निधानादपीति ॥ धात्वर्थस्यैकपदोपात्तत्वात्प्रत्ययार्थसन्निधानमस्ति । नञर्थेन त्वाकाङ्क्षास्ति । तत्र सन्निधानात्पूर्वं प्रत्ययार्थेन धात्वर्थस्यान्वयो वा 7 थाकाङ्क्षावशान्नञर्थेनेति संदेहे द्वितीय एव युक्तः ।
1. र्थस्य प्र-नं.ग.रा.सुर्. 2.थेनान्वयस्य -ज.कर्. थकृत्य -रा.सु. 3. रत्वान्वि-नं.ज.ग.क. 4.स्य च द-नं.ज.क. 5.णयैक-उ.ए. 6.त्पार्ष्णिका -उ. त्पार्थिका -ए. 7. अथेति नास्ति -ए.उ.
उनोक्त-वभिय-वित्वङ्गः) विधिवादः पु - 319.
-------------------- -------------- -----------
-- काङ्क्षाया 1 एव बलवत्वात् ॥
एतदेव परिहारद्वयमभिप्रेत्य विष्णुतत्वनिर्णये"ज्ञात्वैव हीष्टसाधनतां प्रवर्तते च विपर्ययेणे"ति विपर्ययशब्दः प्रयुक्तः । कलञ्जभक्षणस्यानिष्टसाधनत्वं कलञ्जभक्षणस्यानिष्टसाधनत्वं कलञ्जभणाभावस्येष्टासाधनत्वं चेति द्वयमपि हि कलञ्जभक्षणेष्टसाधनत्वस्य विपर्यय एव ॥
केचि 2 त् -- यथा गतिनिवृत्यर्थस्यापि स्थाधातोः प्रतिष्ठत इत्यत्र प्रो 3 पसन्दानेन गमनार्थता । तथेष्टसाधनत्वार्थस्यापि लिङ्गो नञुपसंदानेनानिष्टसाधनत्वार्थत्वमित्याहुः ॥
सन्निधानं हि पाठसादेश्यरूपं स्थानप्रमाणम् । आकाङ्क्षा हि प्रकरणम् । तत्र"श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये 4 परदौर्बल्यमर्थविप्रकर्षादिति"तृतीयाधिकरणोक्तदिशा प्रकरणस्य स्थानादपि बलवत्वात् ॥
अत एव तृतीयस्य तृतीयपादे दशमाधिकरणे 5 राजसूयप्रकरणे श्रुताभिषेचनीयागसन्निधावाम्नातानामप्यक्षैर्दाव्यतीत्याद्युक्तिवदेवनादीनां प्रकरणात् राजसूया 6 ङ्गत्वमुक्तमिति भावः । एतदेव परिहारद्वयमित्येतद्व्यञ्जयन्मूलारूढतां स्पष्टयति -- कलञ्जभक्षणस्येति ॥ मणिकारादिमतमाह -- क्तेचित्विति ॥ स्थाधातोरिति ॥ यद्यपि ष्ठा गतिनिवृत्तावितिपठनात् ष्ठा धातोरितिवाच्यम् । तथापि
"धात्वादेः षः श"इति कृतसकारस्यायमनुवाद इत्यदोषः । प्रोपसंदानेनेति ॥ उपसंदानं नाम धातुगतशक्ततावच्छेदकत्वापरपर्यायम् द्योतकत्वात् । तादृश 7 प्रेत्युपसंसर्गसंनिधानेनेत्यर्थः । गमनार्थतेति ॥
1.एव इति नास्ति-नं.ग.क.रा.सु. 2.त्तु य -नं.ज.ग.क.रा.सु. 3.प्रेत्युप -ज.क. 4.पार-नं. 5. दशमाधिकरणे इति नास्ति -उ.ए.नं. हंसपादेनपूरितम् -मु. 6.विषयेत्यधिकम् -ए. 7. शप्रत्युप -नं.ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 320.
----------------------- ------------- --------
अन्ये तु - न भक्षयेदित्यादिनिषेधस्थले भक्षयेदिति न लिङ् । विहितस्य प्रतिषेधायागात् । किं तु बलवदनिष्टाननुबन्धित्वनिषेध्यसमर्पकं लिङ्प्रतिरूपकमव्ययमेव ।"व्यातेन किरणावलीमुदयनः""चक्रे सुबन्धुः सुजनैकबन्धुरित्यादौ"2 तिङ् प्रतिरूपकाव्ययवत् ।
"अपेतरयुद्धाभिनिवोशसौम्यो ।
हरिर्हरिप्रस्थमथ प्रतस्थे"॥
इत्यादि माघादौ प्रयोगादिति भावः ॥
अत्रारुचिबीजं तूपसर्गाणां मण्यभिमतद्योतकत्वनिरासेनाग्रे वाचकत्वसमर्थनेनेदं प्रत्युक्तं भविष्यतीति । 2 तिङ्प्रतिरूपकं 3 किङ्गन्तसदृशमित्यर्थः ॥
अर्थानां प्रविवेचनाय जगतामन्तस्तमः शान्तये
सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः ।
तत्तत्तासमसभूतभीतय इमां विद्यावतां प्रीतये
व्यातेने किरणावलीमुदयनः सत्तर्कतेजोमयीम् ॥
इति किरणावल्यां तृतीयो ग्रन्थकरणप्रतिज्ञाश्लोकः । चक्रे सुबन्धुरिति ॥
प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धम् ।
सरस्वतीदतत्तवरप्रसादश्चक्रेसुबन्धुः. . . .
1.लिट्प्र-नं.ज.ग.क.रा.सु. 2.लिङ्प्र-नं.ए.उ. 3.लिङ्सदृ-उ.नं. 4.लिङ्न्तसदृ-ए.
उनोक्त-वभिय-वित्वङ्गः) विधिवादः पु - 321.
----------------------- -------- ---------
बलवदनिष्टाननुबन्धित्वविशिष्टसाधनत्वं लिङर्थ इति मते ऽपि हि नञा बलवदनिष्टाननुबन्धित्वरूपविशेषणे निषिद्धे द्रविटमण्डकन्यायेनानिष्टानुबन्धित्व 1 एव पर्यवस्यतीत्याहुः ॥
तस्माद्विधिप्रत्ययस्येष्टसाधनत्वार्थकत्वे न किञ्चिद्बाधिकम् ॥
इति वासवदत्ताख्यग्रन्धस्य श्लोकः । सुबन्धुरिति वासवदत्ताख्यग्रन्थकर्तुर्नामधेयम् । आददिपदेन --
उज्जहारपदमञ्जरीमसौ शब्दशास्त्रसहकारपादपात् ।
इति पदमञ्जर्यादिप्रयोगग्रहः । लिङन्तप्रयोगे त"परोक्षे लिडिति"परोक्षे भूते च लिटोनुशानसनात्स्वकृतेः परोक्षत्वभूतार्थयोरयोरभावाव्द्यातेन इत्यादिप्रयोगोछऽसाधुरेव स्यात् ॥
अत एव किरणावली व्याख्याने -- व्यातेने व्यातनोदित्यर्थमुक्त्वा,"आशंसायां भूतवच्चे"ति लिडिति मतमयुक्तं, तत्र भूतसामान्यप्रत्ययस्यातिदेशाद्भूतविशेषविहितयोर्लङ्लिटोरनतिदेशादिति मतान्तरं दूषयित्वा, तिङन्तप्रतिरूपपको ऽय निपातः चक्रे सुबन्धुः सुजनैकबन्धुरितिवदित्युक्तमिति भावः ॥ द्रविडेति ॥
मण्डाकाख्यभक्ष्यविशेषभक्षणाकुशलो द्रविडो द्राविडजातिमान् हस्तेन मण्डकं गृहीत्वा शिरोवेष्टनेनापि वदने निक्षिप्य यथा भक्षयति एवमेव विशिष्ट 3 निषेधेनाप्यनिष्टानुबन्धित्वमेव प्राप्तमित्यर्थः ।.
अत्राप्यरुचिबीजं तु पूर्वोक्तदिशा द्वेधा निषेधस्थले समाधानोपपत्तावव्ययत्वादिकल्पनाक्लेषो नानुसर्तव्य इति ॥
------------------------------------------------------------------------1
1.त्वमेव -नं. ज.क.ग. 2.लडिति-नं.ए. 3. विधिपदमधिकम् - उ. ए.
न्यायदीपयुततर्कताण्डवम् (द्वि.पिरिच्छेदः पु - 322.
----------------------- ----------- -------
एतदप्युक्त"मिष्टसाधनता"मेवेति । न तु वक्त्रभिप्रायमित्यर्थः ॥
यद्यपि स्वाभिप्रायो ऽपि स्वप्रवृत्तिहेतुः । तथापि स स्वरूपसन्नेव हेतुः । न तु ज्ञातः । ज्ञातं सद्यत्प्रवर्तकम् तदेव लिङ्वाच्यम् । तादृशं चेष्टसाधनत्वमेव । न त तु स्वाभिप्रायः । 1 एतदप्याह"इष्टासाधनतां ज्ञात्वै"वेति । न तु स्वाभिप्रायमिवाज्ञात्वेत्यर्थः ॥
उदयनोक्तवक्त्रभिप्रायविधित्वभङ्गः
टीकोक्तदिशा एवकारस्य भिन्नक्रमपेत्य प्रतिपादितमर्थं मूलारूढं दर्शयति - एतदप्युक्तमिति ॥ न केवलं प्राचीनपरिहारद्वयमित्यपेरर्थः । यथाश्रुतान्वये ऽप्येवकारव्यावर्त्यं दर्शयति -- यद्यपीत्यादिना ॥
ननु ज्ञातं सत्प्रवर्तकमिष्टसाधनत्वमेव न तु स्वाभिप्राय इत्ययुक्तम् । इष्टसाधनत्वज्ञाने तद्विशेषणेच्छा अपि ज्ञातव्यत्वात् । अभिप्रायस्य चेच्छाविशेषत्वादित्यत आह -- अत्र चेति ॥
उदयनोक्तवक्त्रभिप्रायविधित्वभङ्गः
1.स च प्रेष्ठत्वं नेच्छाविषत्वं येनेच्छापि ज्ञाता प्रवृत्तिहेतुः स्यात् । किं तु स्वरूपं सदिच्छाविषयत्वं प्रति प्रयोजकं सुखदुःखाभावान्यतरत्वमेवेति ज्ञेयम् । इत्यधिकम् - ग. ऽअत्र चेष्टत्वऽ मित्यादिना शिष्टमित्थमेव - रा. सु.
बष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 323.
----------------------------- --------- ---------- हलवदनिष्ठाननुबन्धित्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
अत्रोक्तं मणौ --
नेष्टसाधनत्वमात्रं विधिः । अशक्ये तक्षकचूडामण्याहरणादौ तात्कालिकेष्टसाधने विषसंपृक्तमधुभक्षणे निषिद्धकर्मणि च प्रवृत्तिप्रसङ्गात् । किं तु कृतिसाध्यत्वे सति बलवदनिष्टाननुबन्धित्वेन वा इष्टोत्पत्तिनानन्तरीयकदुःखाधिकदुःखाजनकत्वेन वा-
बलवदनिष्टाननुबन्धित्वादिशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
अत्रेति ॥ इष्टसाधनत्वमेव विङगाद्यर्थ इति प्रमेयविषये विशिष्टमेवेष्टसाधनत्वं विधिप्रत्यार्थ इत्युक्तमिति वक्ष्यमाणेनान्वयः । निषिद्धकर्मणि कलञ्जभक्षणादौ । तात्कालिकेष्टसाधन इत्यनुषङ्गः । बलवदित्यादि ॥
यद्यपि मणाविष्टोत्पत्तिनान्तरीयकेत्यादि द्वितीयकल्प एव कण्ठोक्तस्तथापि श्येनादौ विधिप्रवृत्तिव्युत्पादनस्थले बलवदनिष्टाननुबन्धित्वमपि नान्वेतीत्यादिव्यवहारात्तदनुरोधेनाद्यः पक्षः । 1 पक्षधरादिविक्षायुरोधेन तृतीयः पक्ष उक्त इत्यदोषः ॥
1.नञ् व्यत्यासेनेत्यधिकम् - नं. उ.
न्यायदियपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु -0 324.
इष्टोत्पत्यनान्तरीयकदुःखाजनकत्वेन वा विशिष्टमेवेष्टसाधनत्वं विधिः ॥
यद्यप्याद्ये बववत्वमनुगतमेकं नास्तीति शङ्का । द्वितीये ऽप्यक्लेशरूपे 1 रामस्मरणादौ तत्साध्येष्टोत्पत्तिनान्तरीयकं दुःखमप्रसिद्धमिति शङ्का। तथापि तृतीये न कापि शङ्का । एवं च निषेधवाक्यस्थेन नञा -
कृतिसाध्यत्वे सतीत्येतदुत्तरकल्पद्वये ऽप्यन्वेति । आद्यविशेषणेन तक्षकचूडामण्याहरणादौ न प्रवृत्तिप्रसङ्गः । द्वितीयेन तु विषसंपृक्तमधुभक्षणे निषिद्धे च न प्रवृत्तिः । भोजनादिना तृप्त्यादिरूपेष्टोत्पत्तौ सत्यां यन्नान्तरीयकं दुःखं श्रमादि तदधिकनरकादिदुःखाजनत्वेनेति द्वितीयपक्षस्यार्थः । इष्टोत्पत्यनन्तर 2 भाविदुःखाजनकत्वेनेति तृतीय 3 पक्षस्यार्थः । आद्यपक्षे बवदनिष्टाननुबन्धित्वं च न विशेषणम् । अनुगतस्य तस्याभावादिति मणिकृदुक्तमेव दोषं द्वितीयपक्षे पक्षधराद्युक्तं दोषमरुचिबीजं दर्शयति -- यद्यपीति ॥ इष्टापेक्षया अनिष्टस्याधिकत्वं बलवत्वमित्यादिरूपेण कथं चिदनुगतेः इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःथजनकत्वं प्रसिद्धम् । तदन्यत्वेन विवक्षितत्वस्य च सम्भवाच्छङ्केत्येवोक्तम् ॥ तृतीये नकापि शङ्केति ॥
यद्यप्यजनकत्वं जनकत्वात्यन्ताभावजनकान्योन्याभावरूपतया भिन्नम् । तथा च मिलितज्ञानहेतुतायां गौरवमनुभवश्च । प्रत्येकज्ञाने ऽपि फलसिद्धेश्च प्रत्येकहेतुतायामननुगम इति शङ्कास्ति । तथापि प्रत्येकहेतुत्वे ऽपि तादृशदुःखजनकत्वज्ञानविरोधित्वेनानुगमसम्भवादिति भावः ॥
निषेधस्थलोक्तनिर्वाहमनुवदति -- एवं चेति ॥ विशिष्टस्य विध्यर्थत्व इत्यर्थः ।
1.नाम-ग.रा.सु. 2.रंभा -उ.नं 3. पक्षपदं न -नं.उ.
बष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 325.
------------------------------ -------- ---------
बलवदनिष्टाननुबन्धित्वादि 1 रूपं विशेषणमेव निषिध्यते । न तु विशेष्यम् । तथा च न मानान्तरविरोधः ॥
न च नञो विध्यर्थैकदेशेन विशेषणेनान्वये एकशब्दार्थस्यापरशब्दार्थैकदेशेनान्वय 2 व्युत्पत्तिविरोध इति वाच्यम् । चैत्रमातेत्यादि चैत्रस्य जनकस्त्रीवाचकमातृपदार्थैकदेशेन, पुत्रेण चैत्रपुत्रस्य पुत्र इत्येवमन्वयस्य च दर्शनात् ॥
किं च -- कुमुदं श्वेतमेव पार्थ एव धनुर्धरो 5 नीलं सरोजं भवेत्येवेत्यत्र विशेषणविशेष्यक्रिया 6 न्विता नामवधारणानां
यथाक्रममयोगान्ययोगात्यन्तायोगव्यवच्छेदा अर्थाः । एवं च श्वेतदीनामवधारणार्थैकदेशेनायोगादिनान्वयो दृश्यते । एवमघटः पट इत्यादौ मन्मते सामानाधिकरण्याय ---
न मानान्तरेति ॥ तात्कालिकेष्टसाधनत्वग्राहिमानान्तरेत्यर्थः । पक्षधराद्युक्तशङ्कोत्तरे व्यनक्ति-- न च नञ इति ॥ अवधारणार्थैकदेशेनेति ॥ अयोगव्यवच्छेदादित्रयस्याप्यवधारणार्थत्वेनैकैकप्रक्रमात्स्थितीयोगान्ययोगात्यन्तायोगानां व्यवच्छेदप्रतियोगिनामवधारणार्थैकदेशत्वादिति भावः ।
1.आदिपदं न -ज.क. 2. येव्यु -ज.क.सु. नानन्वयविरोध इति -रा. 3. त्रनप्ता -नं.ज.ग.रा.सु. 4.पुत्रपुत्र-नं.ज.ग.क स्य नप्तृवा -रा.सु. 5.सरोजं नीलं -नं.ज.ग.क.रा.सु. 6.याश्रिता - ज.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 326.
----------------------- ------------ ---------
अन्योन्याभाववति लाक्षिणिकत्वेन पदार्थैकदेशेनान्योन्याभावेन 1 घटस्य प्रतियोगित्वेनान्वयो दृश्यते । तथा 2
चैकदेशेनान्वयव्युत्पत्तिरेव सिद्धा ॥
अपि च -- न कलञ्जं भक्षयेदित्यादौ नञर्थस्य विध्यर्थेन विशिष्टेनान्वयेपि शाब्देन विशिष्टाभावेन विशेष्यसत्वज्ञानसहकृतेन विशेषणाभावस्यानुमानात् । विध्यर्थैकदेशेन विशेषणेन नञर्थस्यान्वय एव नास्ति ॥
केचित्तु -- कृतिसाध्यत्वेष्टसाधनत्वानिष्टासाधनत्वानि प्रत्येकं विधिप्रत्ययार्थाः । तथा च निषेधस्य न विध्यर्थैकदेशेनान्वय इत्याहुः । तन्न । त्रयाणां प्रत्येकमर्थत्वे ऽक्षादिशब्देष्विवैकैकस्मिन् प्रयोगे एकैतस्यैव प्रतीतिप्रसङ्गात् ।
मन्मते -- न्यायमते । लाक्षिणिकत्वेनेति ॥ व्यक्तमेतदग्रे नञर्थनिर्णयवादे । अतिरिक्तविशिष्टाभावानभ्युपगमपक्षे समाधिं दृष्टान्तैरुपपाद्यातिरिक्ताभावमतेनाह -- अपि चेति ॥ विध्यर्थेनेति ॥ विधिप्रत्ययरूपलिङ्गाद्यर्थेनेत्यर्थः । विशिष्टेनेति ॥ कृतिसाध्यत्वेसतीत्यादिविशेषणविशिष्टसाधनत्वेनेत्यर्थः । विशिष्टाभावेन विशिष्टाभावज्ञानेन ॥
एकदेशिमतं पूर्वपक्षिमुखेनैवानूद्य पक्षधराद्युक्तदोषेण निराह -- केचित्विति ॥ विशिष्टस्य लिङगाद्यर्थत्वकल्पने किं यागादौ प्रवृत्यर्थमुत निषेधोपपत्यर्थं यद्वा बाधकदशायामपि विषयसंपृक्तमधुभक्षणदावप्रवृत्यर्थम् ।
1. सहेत्यधिकम् -नं.ज.ग.क.सु. 2. तस्मादेक - नं.ज.क.
वष्ठा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 327.
----------------------------- --------- ----------
सति गत्यन्तरे शक्तित्रयकल्पनस्यान्याय्यत्वाच्च । तस्माद्विशिष्टमेवेष्टसाधनत्वं विधिप्रत्ययार्थ इति ॥
उच्यते --
विशिष्टार्थकत्वकल्पनं हि नतावद्यागादौ प्रवृत्यर्थम् । इष्टसाधनत्वज्ञानेनैव तदुपपत्तेः । न हि यागे बलवदनिष्टानुबन्धित्वं प्रसक्तम् । येन तदभावो यजेतेत्यनेन बोध्येत ॥
नापि कलञ्जं न भक्षयेदित्यादिनिषेधोपपत्यर्थम् । अन्यथापि 1 तदुपपत्तेरुक्तत्वात् ॥
नापि संजातबाधस्य विषसंपृक्तमधुभक्षणादौ निषिद्धे कलञ्जभक्षणादौ चाप्रवृत्यर्थम् । प्रवर्तकत्वेनाभिमतमिष्टसाधनत्वज्ञानं हि 3 नेष्टसाधनमिति ज्ञानम् । परेष्टसाधनमिति ज्ञानेप्यप्रवृत्तेः ॥
आद्यं निराह -- न तावदिति ॥ द्वितीयं निराह -- नापीति ॥ चतुर्धेति ॥ स्वमतेन परिहारद्वयस्य"केचित्तु अन्ये त्वि"त्याभ्यां च परिहारद्वयस्योक्तेरिति भावः । तृतीयं निराह -- नापि सञ्जातबाधस्येति ॥ बहुव्रीहिः ॥ विषसंपृक्तमधुभक्षणादिकमनर्थहेतुरिति जानतोपि पुरुषस्येत्यर्थः । इष्टोपायत्वमात्रस्य प्रवर्तकत्वेपि तस्य तत्रापि सत्वेन प्रवृत्यापत्तेरिति भावः । प्रवर्तकत्वेनाभिमतमिष्टोपायत्वं तत्र नास्तीति वक्तुं प्रसक्तकल्पद्वयनिरासपूर्वमुपोद्घातमाह -- प्रवर्तकत्वेनेत्यादिना प्रवृत्तिपरत्वाहानेरित्यन्तेन । पूर्वोक्तपक्षद्वये ऽपि दोषमाह -- इच्छाया इति ॥
1.पि चचुर्थोप -- ग. पि चतुरर्थो -रा.सु. 2.स्यापि -नं.ज.रा.सु. 3.नस्वे-नं.ज.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 328.
----------------------- ------------- ----------
नापि स्वेष्टसाधनज्ञानम् । 1 इष्टसामान्यसाधनत्वज्ञानेनेष्टविशेषस्वर्गादिसाधनयागादावप्रवृत्तेः । इच्छायाः स्वरूपसत्या एव प्रवर्तकत्वेन तज्ज्ञानानपेक्षणाच्च ॥
किं तु स्वर्गो मे ऽस्त्वितीच्छाप्रकारीभूतस्वर्गत्वविशिष्टं प्रति साधनत्वेन ज्ञानम् । न चैवं प्रवर्तकज्ञानस्याननुगमः ।
स्वरूपसदिच्छाविषयसाधनत्व 2 ज्ञानत्वेनानुगमात् । 3 एतदपि न फलेच्छारहितं प्रवृत्तिं जनयति । किं तु स्वर्गं साधयिष्यामीति फलेच्छासहितमेव ।
इष्टसाधनमिति ज्ञानं स्वेष्टासधनमिति ज्ञानमिति पक्षद्वये ऽपीच्छाया ज्ञानविषयतयानुप्रवेशात् । तस्याश्च स्वरूपसत्या एव प्रवर्तकत्वान्न कल्पद्वयमपि युक्तमिति भावः । इच्छेति ॥ स्वरूपसदिच्छायाः प्रकारीभूतं 4 स्वर्गविशेषणतया विषयीभूतं यत्स्वर्गत्वं तद्विशिष्टं प्रतीत्यर्थः । अस्मिन् पक्षे बाधकमाशङ्क्य निराह -- न चैवमिति ॥ स्वर्गपशुपुत्रादिरूपेणेष्टविशेषणामनेकत्वात्तत्तदिच्छाप्रकारीभूतविशिष्टं प्रति साधनत्वस्याप्यनेकत्वेन तज्ज्ञानानामपि तथात्वादननुगम इत्यर्थः । स्वरूपसदिच्छेति ॥ सुखादिवदिच्छायाः ज्ञातैकसत्वे ऽपि तज्ज्ञानवर्जनीयसन्निध्येव । न तु प्रवर्तककोटिप्रविष्टमिति भावः ॥
नन्वेवं फलेच्छाहीनस्यापि प्रवृत्यापत्तिरित्यत आह -- एतदपीति ॥
1.परेष्ट इत्यादि नास्ति -नं.ज.क. 2.नज्ञा-ज.क. 3.तदपि-नं. ज.क.रा.सु. एकारः पूरितः -च. 4. तस्व -ए.नं.
वष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 329.
----------------------------- ---------- ---------
उक्तायामिच्छायां स्वरूपेण सत्यामिदं स्वर्गसाधनमिति ज्ञानेनैव प्रवृत्तेर्दर्शनात् । न हि फलरागे इदं फलसाधनमिति ज्ञान च सति अनिष्टाननुबन्धित्वाज्ञानेन 1 प्रवृत्तिविलम्बः । 2 क्रियां 3 फलसाधनतयावगम्य फलरागे सति तां चिकीर्षत्यनन्तरं करोतीति हि स्थितिः ॥
न चैवं यत्प्रवर्तकमिष्टविशेषसाधनत्वेन ज्ञानं तन्न विधिप्रत्ययजन्यम् । यच्च विधिप्रत्ययजन्यमिष्टसाधनत्वेन ज्ञानं तन्न प्रवर्तकमिति कथं विधिप्रत्ययस्य प्रवृत्तिपरत्वमिति वाच्यम् । विधिप्रत्ययेनेष्टसाधनमित्येव बोधिते ऽपि स्वर्गकामो यजेतेति वाक्यजन्यस्य स्वर्गसाधनमिति ज्ञानस्य प्रवर्तकत्वेन विधिप्रत्ययस्य प्रवृत्तिपरत्वाहानेः ॥
स्वर्गोमे ऽस्त्वितीत्यादिनोक्तमपीत्यर्थः । अस्यैव प्रवर्तकत्वे प्रमाणमाह -- उक्तायामिति ॥
नन्वेवं मण्युक्तविशेषणज्ञानमप्यस्तु प्रवर्तकमित्यत आह -- न हीति ॥ कथमेतदुभयमित्यतो व्यनक्ति -- क्रियामिति ॥ यजनभजनादिक्रियामित्यर्थः ।"अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलिङ्किञिति, वाल्यपी"त्त्युक्तत्वादवगम्येति साधु । इति हीति ॥ हिशब्देन सर्वानुभवसिद्धत्वं सूचयति -- विधिप्रत्ययेनेति ॥ सामान्यान्विताभिधानवादे सामान्यान्वयबोधको ऽपि शब्दः पदान्तरसमभिव्याहारेण विशेषान्वयबोधकम एव भवतीत्यन्विताभिधाने व्युत्पादितत्वाल्लिङ्गादिविधिप्रत्ययस्य चेष्टसाधनत्वसामान्यबोधकस्यापि --
1.नाप्रवृत्तिः -ज.क. 2.फलेत्यधिकम्-ज.क. 3.प्रवृत्तीत्यधिकम् -नं.ज.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 330.
----------------------- ----------- ----------
एवं च विषसंपृक्तमधुभोजनादिफले दुःखे उत्कटद्वेषदशायां तत्फले सुखे इच्छैव 1 नेति न तत्र प्रवृत्तिः । सुखत्वप्रयुक्ताया अपि औत्सर्गिकफलेच्छाया दुःखविषयकत्कटद्वेषेणापोदितत्वात् । अन्यथा साधने बलवदनिष्टानुबन्धित्वे ज्ञातेपि सुखसाधनत्वप्रयुक्तेच्छा स्यात् ।
- स्वर्ग 2 यागिशब्दान्तरसमभिव्याहारेण विशेष एव पर्यवसानान्न प्रवृत्तिपरत्वभङ्ग इत्यर्थः ॥
एवमुपोद्घातमुक्त्वा कलञ्जभक्षणादावप्रत्यर्थं विधिप्रत्ययस्य विशिष्टार्थत्वकल्पनमपि नेत्येतदुपपादयति -- एवं
चेति ॥ इच्छैव नेतीति ॥ तथा च तत्रेष्टसाधनत्वज्ञानमेव नेति कारणाभावान्न प्रवृत्तिरित्यर्थः ॥
नन्वैवं विषसंपृक्तमधुभोजनादिफले सुखत्वस्यापि भावात् सुखत्वप्रयुक्तेच्छाया प्रवृत्तिरपि आह -- सुखत्वेति ॥ 3 विषसंपृक्तमधुभोजनादिजन्ये तात्कालिकतृप्तिसुखरूप इति योज्यम् । उत्कटेति ॥ उत्कटत्वं च जातिर्वा कश्चिद्धर्मो वेति भावः । अन्यथेति ॥ प्रबलबाधकेन रागस्यानपवादे तात्कालिकेष्टासधने बलदनिष्टानुबन्धित्वादिनाज्ञाते ऽपीत्यर्थः । इच्छास्यादिति ॥ तथा च तत्प्रयुक्तेष्टसाधनत्वज्ञाननिमित्ता प्रवृत्तिरपि स्यादिति भावः । उक्तार्थस्य संग्रहेणानुवादपूर्वकं फलितमाह -- एवं चेति ॥ स्वरूपसदिच्छाविषयसाधनत्वज्ञानस्य फलेच्छासहितस्य प्रवृत्तिहेतुत्वे सतीत्यर्थः ।
1.एवकारो नास्ति- नं.ज.क. 2.स्वर्गपदं न -उ.नं. 3.तत्फले इत्यधिकम् -उ.
वष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 331.
----------------------------- --------- -----------
एवं च बलवदनिष्टाननुबन्धित्वादिविशेषणफलस्यातिप्रसङ्गनिवारणस्येष्टसाधनताघटकत्वेन प्रवृत्ताववश्यापेक्षितायाः फलेच्छाया अभावेनैव सिद्धेरिष्टासाधनत्वं त्रेधा न विशेषणीयम् । उक्तायां फलेच्छायामसत्यां त्वदुक्तविशेषणविशिष्टस्वर्गसाधनत्वज्ञाने सत्यप्यलसस्यान्यत्रासक्तस्य च पुरुषस्य यागादौ प्रवृत्यदर्शनेनान्वयव्यभिचारात् ॥
न च तत्र साधनविषयकचिकीर्षाभावादेवाप्रवृत्तिरिति वाच्यम् । सामग्रीसत्वेन चिकीर्षाय एवापाद्यमानत्वात् । बलवदनिष्टानुबन्धित्वा 1 दिज्ञाने सत्यपि निषिद्धकर्मजन्ये दुःखे उत्कटद्वेषरूपापवादकाभावदशायां तज्जन्यसुखविषयकरागौत्कट्येन निषिद्धकर्मणि प्रवृत्तिदर्शनेन
व्यतिरेकव्याभिचाराच्च ॥
अतिप्रसङ्गेति ॥ संजातबाधस्यापीत्यादिनोक्तातिप्रसङ्गनिवरणस्येत्यर्थः । घटकत्वनेति ॥ इच्छाया अभावे इष्टसाधनतोक्त्यसंभवादिति भावः ॥
ननु फलेच्छाविरहेणे 2 वोक्तविशेषणत्रयान्यतमज्ञानविरहेणापि प्रवृत्यभावात्तदप्यावश्यकमित्यतो ऽन्वयव्यतिरेकव्यभिचारान्न प्रवृत्तिहेतुत्वं तस्येति भावेनाह -- 3 उक्तायामिति ॥ व्यभिचारस्यान्यप्रयुक्तत्वमाशङ्क्यनिराह -- न चेति ॥ सामग्रीति ॥ उक्तविशेषणविशि 4 ष्टेष्टसाधनत्वज्ञानस्यैव सामग्रीत्वादिति भावः । अत्राप्यन्यप्रयुक्तत्वं व्यभिचारस्याशङ्क्य निराह -- न च साधन इति ॥
1.त्वाज्ञाने -ज.ग. त्वज्ञा-क.रा.सु. ष्टाननुबन्धित्वाज्ञा -नं. 2.णैवो उ.नं. 3.यु-नं.उ. 4.ष्टसा-नं.ए.उ. इष्टेति पूरितम् -मु.
न्यायदीपयुततर्कताण्डवम् (द्वि.पिरिच्छेदः पु - 332.
----------------------- ------------- ----------
न च साधनचिकीर्षया तत्र प्रवृत्तिः । सामग्र्यभावेन चिकीर्षाभावस्यैवापाद्यमानत्वात् ॥ किञ्च विशिष्टमिष्टसाधनत्वं विध्यर्थश्चेच्छयेनेनाभिचरन्यजेतेत्यत्र 1 विधिप्रत्ययस्य विशेष्यमात्रे लाक्षणिकत्वं स्यात् ॥
परोक्तविशेषणविशिष्टेष्टसाधनत्वं लिङ्गद्यर्थ इत्यत्र कल्पकं नास्तीत्युपपाद्य बाधकं चास्तीत्याह -- किं च विशिष्टमिति ॥ श्येनेनाभिजरन्यजेतेत्यस्य श्येननामको यागः शत्रु वधसाधनमित्यर्थः । अभिचरन्नित्यस्य"लक्षणहेत्वोः क्रियाया"मिति हेतौ शत्रन्ततयाभिचरितुं शत्रुं हन्तुमित्यर्थात्फलभूतः शत्रुवधश्च"नहिंस्यादिति"वचनेन निषिद्ध इति निषिद्धफलकत्वात् तात्कालिकेष्टोपायो 2 पि श्येनयागो
बलवदनिष्टानुबन्धीष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखजनकादिश्च भवतीति तत्र विशेषणत्रयस्य बाधाद्विशेष्यमात्रपरत्वं वाच्यम् । लिङ्गदेर्विशिष्टार्थशक्तस्य विशेष्यमात्रे लाक्षणिकत्वमिति दोषः स्यात् । इष्टसाधनत्वस्यैव विधिप्रत्ययार्थत्वे तु न दोष इति भावः ॥
ननु - गोर्द्रव्यं घटो ऽनित्य इत्यादौ विशेष्यमात्रेप्यन्वयदर्शनेन विशेशेष्यमात्रोपस्थितौ न लक्षणा । विशेष्यबाधेन विशेषणमात्रान्वयस्थल एव विशेष्यान्वितविशेषणस्य स्वातनत्र्येणोपस्थित्यर्थमेव लक्षणाश्रयणमिति चेन्न । विशेषणविशेष्ययोरन्योन्यान्वितत्वे ऽविशिष्टेप्येकत्रैव लक्षणेत्यत्र नियामकाभावात्॥
1.विधिप्रत्ययस्येति नास्ति- क.ज. 2.येपि-नं.उ.ए. 3.गे-नं.ए.उ.
वष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 333.
----------------------------- --------- -------
किं चैवं निवर्तकमनिष्टसाधनत्वमपि बलवदिष्टाननुबन्धित्वेन विशेषणीयं स्यात् ॥
इमामेव प्रतिबन्दीं दर्शयितुं विष्णुतत्वनिर्णये"निवर्तते च विपर्ययेण"इत्युक्तम् ॥
ननु तत्र बलवदिष्टानुबन्धित्वज्ञानं प्रतिबन्धकमिति बलवदिष्टानुबन्धित्वाज्ञानमेव निवृत्तिहेतुर्न तु बलवदिष्टाननुबन्धित्वेन ज्ञानमपि, अननुभवादिति चेदिहापि बलवदिनिष्टानुबन्धित्वज्ञानं प्रतिबन्धकमिति बलवदिनिष्टानुबन्धित्वाज्ञानमेव प्रवृत्तिहेतुः न तु बलवदनिष्टाननुबन्धित्वेन ज्ञानमपि अननुभवादिति समम् ॥
तुष्यतु दुर्जन इति दोषान्तरमाह -- किं चैवमिति ॥"न कलञ्जं भक्षयेदित्यादौ निषेधान्वितलिङ्गादिना बोध्यमानमनिष्टसाधनत्वं निवर्तकमनुभवसिद्धम् । तत्रापि विधिस्थल इव तावन्मात्रं न निवर्तकम् । किं तु बलवदिष्टाननुबन्धित्वादिविशिष्टानिष्टोपायत्वज्ञानमेवनिवृत्तिहेतुरिति निषेधान्वितविधिप्रत्ययस्याप्युक्तरूपविशेषणविशिष्टानिष्टोपायत्वमेवार्थो भवेत् । तथा च निषेधवाक्यस्थेन न चेत्यादिपूर्वोक्तविरोध इति भावः ॥
प्रतिपादितं मूलारूढं दर्शयति -- इमामिति ॥ विपर्ययेण, इष्टसाधनत्वविपर्ययानिष्टसाधनत्वज्ञानेनेत्यर्थः । प्रतिबन्दीकथनस्य विशेषणत्याग एव फलमिति परमुखेन समाधिं वाचयित्वा सममित्याह -- नन्विति ॥ तत्र -- निवृत्तिस्थले ॥ प्रतिबन्धकं निवृत्तेरिति योज्यम् । सममिति ॥ प्रवृत्तिस्थलेपि बलवदनिष्टानुबन्धित्वज्ञानं प्रवृत्तिप्रतिबन्धकमिति बलवदनिष्टानुबन्धित्वज्ञानमेव प्रवृत्तिहेतुर्न तु बलवदनिष्टाननुबन्धित्वज्ञानमप्यननुभवादिति सममित्यर्थः ।
र्1. वंवाक्यवि -नं.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 334.
----------------------- ---------- --------
न चैवं जनकीभूतज्ञानं विघटयत एव प्रतिबन्धकत्वात्तद्विघटनीयमननुबन्धित्वेन 1 ज्ञानं हेतुः स्यादिति वाच्यम । प्रवृत्तिजनकीभूतफलेच्छाविघटनेनापि तदुपपत्तेः । इष्टानुबन्धित्वानिष्टानुबन्धित्वज्ञानयोः प्रवृत्तिनिवृत्तिरूपविरुद्धकार्यसमामग्रीत्वेन सत्प्रतिपक्षवत्साक्षादेव प्रतिबन्धकत्वाच्च ॥
क्व चित्तु एवमेव मूले पाठः । मणौ पूर्वपक्षे कृतिसाध्यत्वज्ञानस्य हेतुत्वे कथितयुक्तिं तुल्यन्यायतयात्राप्याशङ्क्य निराह -- न चैवमिति ॥ बलवदनिष्टानुबन्धित्वज्ञानस्य प्रवृत्तिप्रतिबन्धकत्व इत्यर्थः । जनकज्ञानमिति ॥ साक्षादविरोधिनो ज्ञानस्य यत्किञ्चिज्जनकज्ञानं विघटयत एव कार्यप्रतिबन्धकत्वम् ।व्यभिचारज्ञानस्य व्याप्तिज्ञानं विघटयत एवानुमितिप्रतिबन्धकत्वदर्शनात्प्रकृते च
बलवदनिष्टानुबन्धित्वज्ञानस्य प्रतिबन्धकत्वान्यथानुपपत्यैव तदननुबन्धित्वादिज्ञानं कारणमित्यायातमिति न च वाच्यमित्यर्थः । साक्षादविरोधिनो ज्ञानस्य यत्किञ्चिज्जनकविघटकत्वेनैव प्रतिबन्धकत्वोपपत्तौ किं जनकज्ञानविघटकत्वेनेति ज्ञानविशेषणेनेति भावेनाह -- प्रवृत्तीति ॥ अस्तु वा तवायं नियस्तथापि न प्रकृते चज्ज्ञानस्य हेतुत्वमायाति साक्षादेन विरोधत्वसंभवादित्याह -- इष्टानुबन्धित्वेति ॥ सत्प्रतिपक्षवदिति ॥ अन्यथा तत्राप्यसत्प्रतिपक्षत्वज्ञानस्यानुमितिहेतुतापत्तेरिति भावः । स्वरूपसद्बलवद्वेषविषयदुःखाजनकत्वे सति तादृशेच्छाविषयसाधनमिति ज्ञानं प्रवर्तकमिति निर्गलितोर्थ इति पक्षधरोक्तमाशङ्कते -- ननु तर्हीति ॥
1. त्वज्ञा -नं.ज.ग.क.रा.सु.
वष्टा-नत्वा-दिष्ट-सास्य-विङ्गः)विधिवादःपु - 335.
ननु तर्हि बलवद्वेषविषयदःखजनकत्वं विशेषणमस्तु, एवं च नोक्त 1 व्यभिचारः,
निषिद्धकर्मजन्ये सुख उत्कटरागवतो निषिद्धकर्मणि बलवदनिष्टानुबन्धित्वज्ञाने सत्यपि तज्जन्ये दुःखे बलवद्वेषाभावेन बलवद्वेषविषयदुःखाजनकत्वज्ञानस्य सत्वादिति चेन्न । कस्य चिदलसादेर्यागाद्यनुष्ठानजन्यदुःखेपि बलवद्वेषस्य सत्वेन बवद्वेष 2 विषयदुःखाननुन्धित्वेन 3 विशिष्टस्य विधिप्रत्ययार्थस्य बाधिततया विधानानुपपत्तेः ॥
बलवदनिष्टाननुबन्धित्वादेर्विशेषणस्य व्यभिचारतया दुष्टत्व इत्यर्थः । व्यभिचार इति ॥ व्यतिरेकव्यभिचार इत्यर्थः ॥ विधानानुपपत्तेरिति ॥
ननु -- तं प्रति विध्ययोगे ऽपि पुरुषान्तरं प्रति कालान्तरे तं प्रत्येव वा विधानोपपत्तिरिति चेन्न । विधेः सर्वदा सर्वपुरुषसाधारण्यस्य वाच्यत्वादिति भावः । विधेयत्वापातादित्युपलक्षणम् । बलवद्वेषेत्यत्र बलवत्वस्यानुगतस्याभावादिति मणामेव निरासात् । न च बलवत्वमुत्कटत्वं तच्च जातिविशेष इति युक्तम् । उत्कटानुत्कटानानादुःखविषयकसमूहालम्बनाद्यत्र तदुभयगोचरा द्वेष एकांशे उत्कटः अपरांशे अनुत्कटः कथं तत्र जातिः । अव्याप्यवृत्तित्वात् । न च तत्र द्वेषद्वयम् । ज्ञानादेरपि तथापातेन समूहालम्बनोच्छेदापत्तेः। सामग्रीयौगपद्यात् । क्रमे विनिगमनाभावाच्च । ज्ञानस्यैकत्वे द्वेषे ऽपि साम्यम् ॥
1.क्तोव्या-नं.रा.सु. 2.षावि-ज.क. 3.त्ववि-ज.क.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 336.
----------------------- ------------ -------
न च प्रवर्तमानस्य बलवद्वेषो विवक्षित इति वाच्यम् । निषिद्धेपि कर्मण्युत्कटरागेण प्रवर्तमानस्य तज्जन्यदुःखे बलवद्वेषाभावेन निषिद्धस्यापि विधेयत्वापातात् । तस्मा 1 च्छुद्वमेवेष्टसाधनत्वं प्रवर्तकम् ॥
एतदप्युक्तं"मिष्टसाधनतामेवे"ति । शुद्धामिष्टसाधनतामेव न तु बलवदनिष्टाननुबन्धित्वादिविशिष्टामित्यर्थः ॥
यदि च तस्य तत्रोपाधित्वं तर्ह्यननुगम एव । तद्वदेवान्यत्रापि तस्योपाधिताऽपत्तिश्च । अत एवोत्कटकोटिकसंदेहे उत्कटत्वं न जातिरित्येव
न्यायमतम् । अस्तु वा जातिरुत्कटत्वम् । तथापि शब्दवद्देवदत्तादिकारणविशेषप्रयोज्यद्वेषवैजात्यमावश्यकमिति तत्सङ्करापत्या द्वेषनिष्ठमुत्कटत्वमनेकमिति वाच्यम् । तदननुगमेन ज्ञानाननुगमात् । प्रवृत्यननुगम एव लिङ्गादिपदशक्तिग्रहानुपपत्तिश्चेत्याद्यपि ध्येयम् ॥
उक्तदोषान् संक्षिप्यानुवदन्नुपसंहरति --तस्मादिति ॥ तच्छब्दपरामृष्टमेव हेतुचतुष्टयं क्रमेण व्यनक्ति --अवश्यकेत्यादिना ॥ अतिप्रसङ्गेति ॥ सज्जातबधस्यापीत्यादिनोक्तातिप्रसङ्गेत्यर्थः । उभयत इति ॥
उक्तायां फलेच्छायामित्यादिनोक्तादन्वयतो व्यतिरेकतो व्यभिचारादित्यर्थः। किं च विशिष्टमित्यादिनोक्तमाह -- श्येनेति ॥ किञ्चैवमित्यादिनोक्तमाह -- निवर्तक इति ॥ चतुर्धेत्युक्तिघटनायोक्तं मण्यादीत्यादिपदम् ।
1.तस्मादावश्यक्या यत्नेन फलं साधयिष्यामीति फलेच्छयैवातिप्रसङ्गनिवारणादुभयतो व्यभिचारात् श्येनादौ लक्षणाप्रसङ्गात् निवर्तके अनिष्टसाधनत्वेपि विशेषेणप्रसङ्गाच्च इष्टासाधनत्वं मण्याद्युक्तरीत्या चतुर्धा न विशेषणीयमितिऽ इत्यधिकम् -ग.रा.सु.
वष्टा-नत्वा-दिष्ट-सास्य-विङ्गः) विधिवादः पु - 337.
----------------------------- -------- ---------
ननु तर्हि साधनत्वमेव विध्यर्थोस्तु । प्रवर्तकस्य स्वर्गसाधनत्वज्ञानस्य फलपदसमभिव्याहारादेव सिद्धेः । त्वयापि विधिप्रत्ययार्थत्वेन स्वीकृतस्येष्टसामान्यसाधनत्वज्ञानस्य चाप्रवर्तकत्वादिति चेन्न । फलपदसमभिव्याहारात्प्रागेन विधिप्रत्ययेनैनेष्टसामान्यसाधनत्वस्य प्रतीतेः । अन्यथा साधनत्वमप्यर्थो न स्यात् ।
तेन तव्द्याख्यानाभिमतं ननु तर्हि बलवदित्यादिनोक्तं चुतुर्थविशेषणं ध्येयम् ॥
यत्तु - निषिद्धकर्मादाप्रवृत्यर्थमुक्तमिष्टसाधनत्वज्ञानमात्रं न प्रवर्तकम् । किं तु स्वर्गोमेस्त्वित्येवमादिरूपतत्तदिच्चाप्रकारीभूतस्वर्गत्वादिविशिष्टं प्रति साधनत्वेन ज्ञानमेव । स्वरूपसदिच्छाविषयसाधनत्वज्ञानत्वं त्वनुगममात्रमिति । तत्र मण्याद्युक्तविशेषणचतुष्टयवदिष्टेतिविशेषणमपि व्यर्थमिति शङ्कते -- ननु
तर्हीति ॥ तत्तद्विशेषसाधनत्वज्ञानस्यैव प्रवर्तकत्व इत्यर्थः । विध्यर्थः लिङ्गातिविधिप्रत्ययार्थः । प्रवर्तकज्ञानलाभः केनेत्यत आह -- प्रवर्तकस्येति ॥ स्वर्गपश्वादितत्तत्फलविशेषसधनत्वज्ञानस्य स्वर्गपश्वादिफलसमर्पकस्वर्गकामपशुकामादिपदसहोच्चारणेनैव सिद्धे रित्यर्थः । त्वयेति ॥ सिद्धान्तिना ॥ येन तस्यापि लिङ्गाद्यर्थता कल्प्येतेति भावः । सत्यमेवं तथापि प्रयोगप्रत्ययाभ्यामेव शब्दार्थव्यवस्था वाच्या । प्रकृते चेष्टसाधनत्वस्य लिङादिना प्रतीयमानत्वात्तदर्थकत्वकल्पनमेव तस्य युक्तमितिभावेनाह -- फलपदेति ॥ अन्यथेति ॥ प्रतीतस्यापि त्याग इत्यर्थः । तर्हि नैरर्थक्यमेव लिङ्गादेः स्यादित्यत आह -- आख्यातेति ॥
न्यायदीपयुततर्कतण्डवम् (द्वि.परिच्छेदः पु - 338.
----------------------- ------------- --------
आख्यातान्तरवत्कृत्यादिरेवार्थः स्यात् । विश्वजिदादाविष्टविशेषकल्पनं च न स्यात् । तस्मात्साधन--
बाधकान्तरमाह -- विश्वजिदिति ॥ अन्यथेत्यनुषङ्गः । इष्टसामान्यस्य लिङ्गादिना प्रतीत्यभाव इति तस्यार्थः । चतुर्थे तृतीयपादे"चोदनायां फलाश्रुतेः कर्ममात्रं प्रतीयेत न ह्यशब्दं प्रतीयते"इति पञ्चमेधिकरणे विश्वजिता यजेतेत्यादि विश्वजिदादिनामकयागेषु अश्रुतफलेषु फलमस्त्युत नेति संदेहे स्वर्गादिरूपादृष्टफलस्य शब्दप्रमाणकत्वादिह च स्वर्गादिबोधकशब्दाभावात् यागं कुर्यादित्यन्वयेन यजेतेत्यस्य निराकाङ्क्षतयाऽकाङ्क्षामूलकस्य स्वर्गादिविधिप्रत्ययनिष्ठप्रवर्तनापरपर्यायशब्दभावनाशब्दितपुरुषप्रवर्तकरूपविधिविषयभूता भाव्यत्वेन न स्वीकरोतीति तदाकाङ्क्षापूरणाय फलपदाध्याहारस्यावश्यकत्वादस्ति फलवत्वमिति सिद्धान्तयित्वा तत्किं सर्वफलार्थत्वमुतैकफलार्थत्वमिति पुनः संशये विशेषाभावात्सर्वफलार्थत्वे प्राप्ते एतफलेनैव भाव्याकाङ्क्षापूर्तेर्नानेककल्पना युक्तेति"तत्सार्वार्थमानादेशादिति"षष्ठाधिकरणे विचार्य"स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वादिति"सप्तमनये तदेकं फलमेवं 1 रूपमिति विशिष्यानिर्णयात् पुनः सर्वार्थत्वमेवेति प्राप्त स्वर्गस्य दुःखासंभिन्नसुखरूपतया सर्वाभिलषितत्वात् स्वर्गे एवाध्याहारेण कल्प्य इति
सिद्धान्तितं पूर्वतन्त्रे । तथा च तत्र भाव्यतयेष्टसामान्याकाङ्क्षायां सत्यामेव स्वर्गरूपेष्टविशेषकल्पनं यत्कृतं तच्च न स्यादित्यर्थः ।
कृसात्वा-दिष्टेसा-त्ववित्वङ्गः) विधिवादः पु - 339.
---------------------------- -------- ---------
- 1 मिष्टत्वेन विशेषणीयमेव ।.
एतदप्युक्तमिष्टसाधनतामेवेति । न तु साधनत्वमात्रमित्यर्थः ॥
बलवदनिष्टाननुबन्धित्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
इष्टत्वेनेति ॥ इष्टेतिविशेषणेनेष्टसाधत्वमित्येवंरूपेण विशेषणीयमित्यर्थः ॥
बलवदिष्टाननुबन्धित्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
कृतिसाध्यत्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
ननु तथापीष्टसाधनत्वं तक्षकचूडामण्याहरणादावप्रवृत्यर्थं कृतिसाध्यत्वेनावश्यं विशेषणीयमिति चेन्न ।
कृतिसाध्यत्वविशिष्टेसाधनत्वस्य विधित्वभङ्गः
तथापीति । मण्याद्युक्तरीत्या चतुर्धाविशेषणीयत्वाभावेपीत्यर्थः । कृतिसाध्यत्वेनावश्यं विशेषणीयमिति ॥ कृतिसाध्यं यदिष्टसाधनं तत्वज्ञानं प्रवर्तकमिति वाच्यमित्यर्थः। तक्षकचूडामण्याहरणादिकं च तक्षकदंशन 3 भीत्या कृत्यसाध्यमिति भावः ।
1.नत्वमि - नं.ग.रा.सु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 340.
----------------------- ------------- ----------
कृतिसाध्यत्व 1 ज्ञानदशायां प्रवृत्यापादने इष्टापत्तेः । तदसाध्यत्वज्ञानदशायां तु 2 कृत्या फलं साधयिष्यामीति कृतिसाध्यत्वप्रकारिकायाः फलेच्छाया
अभावादेवाप्रवृत्तेः । न हि साधने कृत्यसाध्यत्वेन ज्ञाते फले कृतिसाध्यत्वं ज्ञातुं शक्यम् । न च फलस्य कृतिसाध्यत्वाज्ञाने फले तत्प्रकारिकेच्छायुक्ता । कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानं वा कार्यताज्ञानं वा प्रवर्तकमिति मते ऽपि हि उक्ता फलेच्छाऽवश्यकी ।
असाध्यत्वाज्ञानदशायां विशेषणीयं उत तत्वेन ज्ञानकाले । आद्य आह -- कृतीति ॥ अन्त्ये त्वन्यथैवाप्रवृत्युपपत्तौ किं विशेषणेनेत्याह -- तदसाध्यत्वेति ॥ साधनस्य कृत्यसाध्यत्वज्ञानकाले फलेच्छाया अभाव एव कुत इति चेत् । कृतिसाध्यत्वप्रकारकफलगोचरेच्छायाः कृतिसाध्यत्वप्रकारकफलविशेष्यकज्ञानजन्यत्वात् तादृशज्ञानस्य च कृतिसाध्यत्वप्रकारसाधनगोचरज्ञानजन्यत्वात्कारणाभावादेव फलेच्छारूपकार्याभाव इत्येतद्व्यतिरेकमुखेनोपपादयति -- न हीति ॥ अस्त्वेवं तथापि फलेच्छाया आवश्यकत्वमेव कुत इत्यतः प्रतिज्ञापूर्वं हेतुमाह -- कृतिसाध्यत्वेति ॥ आद्यं तार्किकरीत्योक्तम् । अन्त्यं प्राभाकररीत्या । कुत इत्यत आह -- उक्त इति ॥ ज्ञानद्वये ॥ कार्यत्वज्ञानंवेत्यन्तेनोक्तज्ञानद्वय इत्यर्थः ।
1.त्वेन -ज्ञा - ज.क. 2.कृत्यसाध्यत्वाज्ञानद -रा.सु. 2.आवश्यक्या इत्यधिकम् - रा.सु. 3.नादिभी -ए.
कृसात्वा-दिष्टेसा- त्ववित्वङ्गः) विधिवादः पु - 341.
----------------------------- -------- --------
उक्ते ज्ञानद्वये सत्यप्युक्तफलेच्छारहितस्य चेतनस्याप्रवृत्तेः । दृश्यते हि फलं दैवादन्यकृतितो ऽपि वा मम सिध्यत्वितीच्छायां त्वदुक्तविशिष्टेष्टसाधनत्वज्ञाने कृतिसाध्यत्वज्ञाने च सत्यपि फलं कृत्यासाधयिष्यामीतीच्छाभावेन प्रवृत्यभावः ॥
नन्वेवं क्रियायाः कृतिसाध्यत्वज्ञानमपि त्वयापि प्रवर्तकत्वेन स्वीकृतमिति चेत् । सत्यम् ।
उक्तफलेच्छेति ॥ कृत्या फलं साधयिष्यामीत्युक्तकृतिसाध्यत्वप्रकारेच्छेत्यर्थः ।
चेतनस्येति ॥ स्पष्टार्थं ज्ञानद्वये सतीत्यस्य घटनार्थं वेति ध्येयम् । कथमेतदित्ययो व्यनक्ति -- दृश्यते हीति ॥ प्रवृत्यभाव इत्यन्वयः । दैवादित्यत्रापि वाशब्दोन्वेति । दैवाद्वान्यकृतितो वेत्यर्थः । उक्तविशिष्टेति ॥ कृतिसाध्यत्वविशिष्टेत्यर्थः । कार्यत्वज्ञानं वेत्यस्य विवरणेन निर्देशः -- कृतिसाध्यत्वज्ञानेचेति ॥ इच्छाभावेनेति ॥ इच्छाया अभावेनेत्यर्थः ॥
गूढाभिप्रायेण शङ्कते -- नन्वेवमिति ॥ कृतिसाध्यत्वप्रकारकफलेच्छायाः प्रवृत्तिहेतुत्वोपगम इत्यर्थः । प्रवर्तकत्वेनेति ॥ उक्तरूपफलेच्छां प्रति हेतुत्वेन फले कृतिसाध्यत्वज्ञानस्याङ्गीकृतत्वादिति भावः । तथाच तज्ज्ञानस्य लिङ्गादिविधिप्रत्ययजन्यत्वात्कृतिसाध्यत्वस्यापि लिङ्गाद्यर्थत्वं प्राप्तमिति हृदयम् । विदिताभिप्रायः"लिङ्गाद्यर्थस्तु इष्टासाधनत्वमेवे"ति कर्मनिर्णयवाक्यं हृदि कृत्वा परिहरति --सत्यमित्यादिना ॥ केन तर्हि कृतिसाध्यत्वज्ञानं कुतो लिङ्गादिजन्यं नेत्यत आह -- क्रियाया इति ॥ यागादिरूपाया इत्यर्थः ॥
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 342.
----------------------- ------------ ---------
न तु तल्लिङ्शब्दजन्यम् । क्रियायाः कृतिसाध्यत्वस्य कृत्यन्वयव्यतिरेकगम्यत्वेन तत्र लिङ् 1 शक्ते रकल्पनात् । न हि यजेतेतिशब्दः स्वर्गकामस्य यागः शक्य इत्याह । किन्त्विष्टसाधनमित्येव 2 । तत्र शक्तः प्रवर्तते । अशक्तस्तु न । किं च कृतिसाध्यत्वे सतीष्टसाधनत्वं न लिङर्थः । साध्यत्वसाधनयत्वयोः प्रतियोगिभेदेन कालभेदेन 3 चाविरोधेपि --
ननु --यथा साधनत्वमात्रस्य लिङर्थत्वसंभवे ऽपि प्रतीतिबलादिष्टसाधनत्वं लिङारद्यर्थ इत्युच्यते तथैव प्रतीतिबलात्कृतिसाध्यत्वमपि लिङ्गाद्यर्थ इत्युच्यतामित्यत आह -- नहीति ॥ शक्य इति ॥ कृतिसाध्य इत्याहेत्यर्थः । इष्टसाधनमित्येवेति ॥ याग इति योज्यम् । एवं तर्हि सर्वेपि कुतो न प्रवर्तन्ते कुतो वा सर्वे ऽपि न निवर्तन्ते इत्यत आह -- तत्र शक्त इति ॥ क्रियां कृत्या साधयितुं समर्थ इत्यर्थः । प्रतीत्यभावे विप्रतिपन्नं प्रत्याह -- किं चेति ॥ अत्रोच्यत इत्यादिना विधिवादसिद्धान्तमणिग्रन्थोक्तदिशा तयोरविरोधमनुवदति -- साध्यत्वेत्यादि ॥ प्रतियोगीति ॥ यद्यपि - एकस्य पाकादेर्यं प्रति साध्यत्वं तं
प्रति साधनत्वं विरुद्धम् । काष्ठादिरूपस्वकारणं प्रति साध्यत्वमोदनादि 4 कार्यं प्रति साधनत्वमविरुद्धम्। निरूपकभेदात्। तथा यदा साध्यत्वं तदैव साधनत्वम् । -------------------------------------------------------------------------
1.शब्द इत्यधिकम् - ग.रा.सु. 2.वम् -क.ग.नं. 3.न वा वि-ग.क. 4.स्वार्थ इत्यधिकम् -नं.उ.
कृसात्वा-दिष्टेसा-त्वदित्वङ्गः) विधिवादः पु - 343.
----------------------------- --------- ---------
सकृत्प्रयोक्तेन लिङ्शब्देनावृत्तिं विनोपस्थित्यसंभवात् । अन्यथा वाजिपेयाधिकरणे ऽपि पूर्वपक्षरीत्या यजिना
तयोर्युगपदुपस्थितिसंभवेन तदसंभवनिबन्धनः सिद्धान्तो न सिध्येत् ॥
तत्प्रयोजकयोरसिद्धत्वयोरेकदैकस्मिन्विरोधात् । कालभदेन तु 1 न विरुद्धम् । असिद्धताकाले साध्यत्वस्य सिद्धत्वदशायां साधनत्वस्य च संभवात् । तथापीत्यर्थः । उपस्थित्यसंभवादिति ।थ साध्यत्वसाधनत्वयोरित्यनुषङ्गः ॥
अन्यथेति ॥ आवृत्तिं विनापि युगपदुपस्थितावित्यर्थः । आद्यस्य चतुर्थपादे"नामधेये गुणश्रुतेः स्याद्विधानमिति चेदि"ति पञ्चमे ऽधिकरणे --"वाजपेयेन स्वाराज्यकामो द्रवरूपद्रव्याख्यागुणविधिपरो ऽथ कर्मनामधेयमिति संशये 3 यजेतेति श्रुत्या 4 ख्यातोपात्तप्रयत्नापरपर्यायभावनया यागस्य प्रकृतिप्रत्यसमभिव्याहारबलेनकर्मत्व 5 कारणत्वसाधारणसंबन्धसामान्ये ऽवगमे सति कर्मत्वांशमादाय वाजपेयपदोक्तगुणस्य पेयरूपवाजेन यागं कुर्यादित्यन्वयस्य युगपदेव संभवाद्गुणविधिपर इति प्राप्ते कर्मत्वकारणत्वौदासीन्येन संबन्धमात्रावगतौ गुणफलयोरन्यतरस्यापि यागेनान्वयापातात् विशिष्य कर्मत्वकारणत्वयोरुपस्थितेरावृत्तिमन्तरेणा संभवात् यागस्य कारणत्वेनैव बोधमुपेत्य फलान्वय एव वाच्यः वाजपेयपदं तु नामधेयमिति सिद्धान्तितम् ।
1.तु वि-नं.उ. 2.त्र किं वा-नं.उ. 3.ये याय -उ. ए 4.त्याख्या नं.उ. 5.स्थल चतुष्टये करण इत्येवास्ति - नं. उ. ए.
न्यायदीपयुततर्कताण्डवम्(द्वि.परिच्छेदःपु - 344.
अपि च न कृतिसाध्यत्वेन ज्ञानमात्रं प्रवर्तकम् । अन्यकृतिसाध्यत्वे ऽपि स्वकृत्यसाध्यत्वे प्रवृत्यदर्शनात् । किं तु स्वकृतसाध्यत्वेन । न च शब्देन स्वकृतिसाध्यत्वं बोध्यते । किं त्वयं यागो मत्कृतिसाध्यो मत्कृतिं विनासत्वात् इत्यनुमानेन 1 । तथा च प्रवर्तकं ज्ञानमानुमानिकं स्यात् । न तु शाब्दात् ॥
न च प्रवर्तकज्ञानजनकस्य लिङ्गस्य शब्देनोपस्थापनाच्छाब्दत्वमिति वाच्यम् । अयं यागः स्वर्गकामेन मया कर्तव्यः स्वर्गकामपदसमभिव्याहृतप्रमाणवाक्यस्थलिङ्शिरस्काधात्वर्थत्वात् यदेवं तदेवं यथौदनकामपदसमभिव्याहृताप्तवाक्यस्थविङ्शिरस्कपचिधात्वर्थ इत्यनुमानेनैव सर्वस्य सिद्ध्या लिङ आख्यातान्तरवत्कृतिरेवार्थो न त्विष्टसाधनत्वमपीत्यापत्तेः ॥-----------------------------------------------------------------------
तत्सिद्धान्तभङ्गप्रसङ्ग 2 इति भावः ॥
कृतिसाध्यत्वेष्टसाधनत्वयोरुपस्थापकत्वायोगात् न विशिष्टं विङादिविधिप्रत्ययार्थोपि तु तदुपस्थितेरन्यतः सिद्धत्वान्न लिङ्गादेस्तदर्थकत्वमित्याह -- अपि चेति ॥ इत्यनुमानेनैवेति ॥ तथैव विधिवादे त्वयोक्तेरिति भावः ।
1.नैव । एवं च लिङा कृतिसाध्ये यागे स्वर्गसाधनत्वेनोक्तेमानान्तरेण च स्वकृतचिसाध्यत्वे बुद्धे स्वर्गं कृत्या साधयिष्यामीति फलेच्छायां च सत्यां यागे चिकीर्षाकृती भवतः । तस्मादावश्यक्या यत्नेन फलं साधयिष्यामीति फलेच्छयैवातिप्रसङ्गनिवारणात्, स्वकृतिसाध्यत्वस्यान्वयव्यतिरेकगम्यत्वेन शब्दाबोध्यत्वात्, विरुद्ध(त्रिक) वृत्तिद्वयापाताच्च, कृतिसाध्यत्वमपि न लिङर्थः । इतः"एतदेवाभिप्रेत्य"इतिवपर्यन्तस्य स्थाने इत्यमस्ति - ग.रा.सु. 2.त्यर्थः-नं.उ.
कृसात्व-दिष्टेसा-त्ववित्वङ्गः) विधिवादः पु - 345.
--------------------------- --------- ---------
मन्मते तु स्वकृतिसाध्यत्वज्ञानं न प्रवर्तकमिति नानुमानापेक्षा । यागे
स्वर्गसाधनत्वेन ज्ञाते स्वस्योक्तायां स्वर्गेच्छायां च सत्यां प्रवृत्ताववतिलम्बात् । तस्मात्कृतिसाध्यत्वमपि न लिङर्थः
॥
एतदेवाभिप्रेत्य सुधायां"कृतिसाध्यत्वविशेणस्य व्यर्थत्वादित्युक्तम् ।
प्रवृत्तिकारणानि निष्कृष्याह -- एवं चेति ॥ स्वकृतिसाध्यत्वज्ञानस्यानुमानिकत्वे सतीत्यर्थः। प्रवृत्तिशब्दार्थविवरणं चिकीर्षाकृती भवत इति । उपसंहरति -- तस्मादिति ॥ तस्मादिति परामृष्टं हेतुत्रयं व्यनक्ति -- आवश्यकेत्यादिना ॥ इति फलेच्छयेति ॥ कृतिसाध्यत्वप्रकारकफलविशेष्यकेच्छयैव प्रवृत्तिहेतुसामग्रीकोटिप्रवविष्टया निषिद्धकर्मणि प्रवृत्तिरूपातिप्रसङ्गनिवारणादित्यर्थः। विरुद्धत्रिकेति ॥"वाजपेयेन स्वाराज्यकामो यजेते"त्यादौ यजि 1 नोक्तयागस्य उद्देश्यत्वानुवाद्यत्वप्राधान्यरूप धर्मत्रयं, साधनतत्वसमानाधिकरणं यत्रिकं उपादेयत्व विधेयत्व गुणत्वरूपधर्मत्रयं,
परस्परविरुद्धमुद्देश्यत्वादिधर्मत्रयस्य यथाक्रमुपादेयत्वादिधर्मत्रयप्रतिद्वन्द्वित्वाद्विरुद्धं यत्रिकद्वयं तस्य यागे आपाताच्चेति किं चेत्यादिनोक्तहेत्वुवादः । अपि चेत्यादिनोक्तस्य कृत्यन्वयव्यतिरेकगम्यत्वेनेत्युक्तस्य चैकप्रमेयत्वात्पूर्वमनुवादः कुतः । ननु तथापीत्यादिनोपपादितमर्थं मूलारूढं करोति -- एतदेवेति ॥ जिज्ञासाधिकरणे"कार्यता च न काचित्स्या"दित्यादिपरकीयकार्यताखण्डनप्रकरणे"तदिष्टं साधनं तथा"इत्युपसंहारवाक्यव्याख्यावसरे सुधायामुक्तमित्यर्थः । कृतिसाध्यतेति ॥ कृतिसाध्यतयैकस्मिन्नर्थे समवता या इष्टसाधनता तज्ज्ञानादित्यर्थः।
1. जिना या -नं. उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 346.
----------------------- ------------ ----------
न चैवं सुधायाः, कृतिसाध्यतैकार्थसमवेतेष्टसाधनताज्ञानादेव प्रवृत्युपपत्तरिति कर्मनिर्णयटीकाया, कृतिसाध्येष्टसाधनतायाः कार्यता 1 पर्यायत्वादिति निष्णुतत्वनिर्णयटीकाया च सह विरोध इति वाच्यम् । सुधया निर्णयटीकायभ्यामुक्तां मानान्तरजस्य कृतिसाध्यत्वज्ञानस्य प्रवृत्तिहेतुतां
स्वीकृत्यैव कृतिसाध्यत्वस्य लिङर्थत्वमात्रनिषेधात् ।
अत एव कर्मनिर्णये लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति लिङादेस्त्त्विष्टसाधनतार्थत्वेनैव कृतार्थत्वमिति चोक्तम् । तट्टीकायामपि कृतिसाध्यतायाः --
ज्ञानादिति ॥ लिङ्गादिशब्दजन्यादिति शेषः । इति कर्मनिर्षयटीकयेति ॥ न च सिद्धेर्ऽथछे वाक्यस्य प्रामाण्याभावादित्यादिप्रकरणेन 2 चार्थापत्तिः अनुपपत्त्यभावादित्येतव्द्याख्यानरूपयेत्यर्थः । तत्वनिर्णयटीकयेति ।"ज्ञात्वैव हीष्टसाधनतां प्रवर्तते । निवर्तते च विपर्ययेणे"त्येतव्द्याख्यानरूपेत्यर्थः । सुधयेति ॥ तृतीयान्तस्य निषेथादित्यन्वयः । निर्णयटीकाभ्यामिति ॥ प्रागुक्तकर्मनिर्णयतत्वनिर्णयटाकावाक्याभ्यामित्यर्थः । लिङर्थत्वमात्रनिषेधपरत्वे ज्ञानपकमाह -- अत एवेति ॥ कृतिसाध्यत्वस्य लिङाद्यर्थत्वाभावादवेत्यर्थः । तट्टीकायमपीति । अत एवेत्यनुषङ्गः।
1.तापरपर्या -ग.नं.रा.सु. 2.वार्थां -नं.उ.
कृसात्व-दिष्टेसा-त्ववित्वङ्गः) विधिवादः पु - 347.
--------------------------- --------- ----------
--स्वरूपतः क्रियासमयवाय 1 मुक्त्वेष्टसाधनताया ज्ञानमुक्तम् ॥
एतदप्युक्तमिष्टसाधनतामेवेति । न तु कृतिसाध्यत्वविशेषितामित्यर्थः। शब्दादित शेषः ॥
कृतिसाध्यत्वस्य लिङाद्यर्थत्वाभावेन तज्ज्ञानजनकस्य कस्य चिदपि शब्दस्याभावादेव कर्मनिर्णयटीकायां कृतिसाध्यतैकार्थसमवेतेति पूर्ववाक्ये कृतिसाध्यताविशिष्टेष्टसाधनताज्ञानादित्येवंरूपवाक्यविन्यासेन विङादिजन्यज्ञानविषयकोटौ कृतिसाध्यत्वस्य प्रवेशमकृत्वा कृतिसाध्यतैकार्थेत्यादिरूपेणेष्टासाधनतया लिङादिवाच्यया साकं यागादिक्रियानिष्ठत्वमात्रं कृतिसाध्यत्वस्योक्तम् । न तु तस्यापि लिङादिजन्यज्ञानविषयत्वमपीत्यर्थः । कर्मनिर्णयतट्टीकाभ्यामेकार्थत्वं
तत्वनिर्णयवाक्यस्याह -- एतदपीति । लिङादिना प्रवृत्तिकारणमिष्टसाधनताज्ञानमेव जायते न तु कृतिसाध्यताज्ञानपीत्येतदपीत्यर्थः । पूर्वोक्तार्थसमुच्चये ऽपिपदम् । ऐकार्थ्यघटनाय तत्वनिर्णयवाक्ये ऽध्याहारमाह - शब्दादिति शेष इति ॥ लिङादिशब्दादिष्टसाधनतामेव ज्ञात्वा प्रवर्तत इति तत्वनिर्णयवाक्यार्थ इति भावः ॥
एतेन -- कर्मनिर्णयटीकायां कृतिसाध्यत्वं प्रवर्तकज्ञानकोटौ न प्रवेशितम् । तत्वनिर्णयटीकायां तु प्रवर्तकज्ञानविषयताभिमतकार्यताकोटौ कृतिसाध्यत्वस्य प्रवेशात्तस्यापि प्रवर्तकज्ञानविषयकौटौ प्रवेशः कृतः । इति निर्णयटीकयोर्विरोध इत्यपि निरस्तम् । उभयत्र लिङ्गादिजन्यज्ञानविषयकोटावप्रवेशाभिप्रायस्योक्तत्वात् ॥
1. मात्रमित्यधिकम् -ज.क.नं.रा.सु.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 348.
----------------------- ------------ ------------
यद्वा शब्दजन्यमिष्टसाधनत्वज्ञानमेव प्रवर्तकं मानान्तरजन्यं यागादेः कृतिसाध्यत्वज्ञानं तु फलं कृत्या साधयिष्यामीति कृतिसाध्यत्वप्रकारिका यावश्यकी फलेच्छा तदुत्पादनोपक्षीणम् । न तु प्रवर्तकम् । तथा च सुधा कृतिसाध्यत्वज्ञानस्य साक्षादुपयोगनिषेधिका निर्णयटीके तु परंपरोपयोगपरे इतिन विरोधः ॥
केचित्तु - शब्दजन्यमिष्टसाधनत्वज्ञानमेव प्रवर्तकम् । तक्षकचडूमण्याहरणादौ तु मानान्तरजन्यं कृत्यसाध्यत्वज्ञानं प्रतिबन्धकमिति कृतिसाध्यत्वज्ञानं प्रतबन्धकनिरासापेक्षणिम् ।
एवं कृतिसाध्यत्वज्ञानस्य प्रवृत्तिहेतुत्वं सर्वग्रन्थाभिमतम्, लिङादिजन्यं तदित्येव नाभिमतमित्युपेत्य विरोधः परिहृतः । अधुना कृतिसाध्यत्वज्ञानस्य साक्षात्प्रवृत्तिहेतुत्वं न क्वाप्यभिमतमित्युपेत्य विरोधं प्रकारान्तरेण निराह -- यद्वेति ॥ मानान्तरेति ॥ प्रागुक्तानुमानरूपेणेत्यर्थः । ज्ञानन्त्वित्यस्थोपक्षीणमित्यन्वयः । शब्दन्यमिति ॥ लिङ्गादिशब्दजन्यमित्यर्थः
॥
अत्रारुचिबीजं तु -- कृत्यसाध्यत्वज्ञानापेक्षया कृतिसाध्यत्वज्ञानस्यैवोक्तादिशोपयोगकल्पनं लघु । किञ्च कृत्यसाध्यत्वज्ञानस्य प्रतिबन्धकत्वं कारणीभूतकिञ्चिद्विघटकत्वेनैवोपेयमिति कृतिसाध्यत्वज्ञानस्य वा कृतिसाध्यत्वप्रकारकफलेच्छाय वा विधटनेनेति वाच्यमिति पूर्वोक्तदिशा फलेच्छाद्वारा प्रवृत्युपयोग एव युक्तः । एवं सति निर्णयद्वयटीकास्थप्रवृत्तिपदप्रयोगस्वारस्यं चेति ध्येयम् ॥
कृसात्वा-दिष्टेसा-त्ववित्वङ्गः) विधिवादः पु - 349.
---------------------------- ------- ----------
प्रतिबिन्धकाभावश्च सर्वकार्यापेक्षितः । एवं च सुधा कृतिसाध्यत्वज्ञानस्यानन्यथा सिद्धिनिषेधिका । निर्णयटीके तु उपयोगमात्रास्तित्वपरे इति न विरोध इत्याहुः॥
तस्माद्विधिप्रत्यय इष्टसाधनत्वबोधनेनैव प्रवृत्तिहेतुः । फलेच्छा त्वात्ममनःसंयोगादिवत्स्वरूपसतीष्टसाधनविषयककृतिरूपपप्रवृत्तिहेतुः । सा च साधनविषयक 1 कृतिं प्रति किञ्चिदन्तरिताषऽपि स्वविरोधिव्यापारानन्तरिता प्रवृत्तिहेतुरिति त्वयापि स्वीकार्यम् ॥
तदेवं प्रवृत्तिनिवृत्तयोर्लिङागग्यर्थभूतेष्टानिष्टसाधनत्वे --
ननु -- यदुक्तं प्राक्फलेच्छायां साधने चिकार्षाकृती भवत इति, तदयुक्तम् । साधनचिकीर्षया व्यवहिता सती फलेच्छ कथं साधनगोचरकृतिं प्रतिहेतुः स्यादित्याशङ्कां परिहरन् टीकाद्यविरोधोक्तेरुपयोगं च विवक्षुः प्रवृत्तिहेतुं विष्कृष्य दर्शयति -- तस्मादिति ॥ मूलग्रन्खथानानेकार्थतात्पर्यकत्वादित्यर्थः । हेतुरित्यनेनान्वयः । यद्वा कृतिसाध्यत्वज्ञानस्य साक्षात्प्रवृत्तिहेतुत्वाभावादित्यर्थः ॥
नन्विष्टानिष्टसाधनताज्ञान एव प्रवृत्तिनिवृत्तिहेतू 2 इत्ययुक्तम् । रागद्वेषयोरपि कामिनीसंभोगसर्पदंशनादौ प्रवृत्तिनिवृत्तिहेतुतोपलब्धेः । बावस्य स्तन्यपानादाविष्टसाधनताबोधकशब्दाभावाच्चेत्याशाङ्कां निवारयन्नेव भङ्गार्थमुपसंहरति -- तदेवमिति ॥
1.का- ज.क. 2.तुरित्य-नं.उ.
न्यायदीपयुततर्कताण्डवम् (द्वि.परिच्छेदः पु - 350.
----------------------- ----------- ----------
-- ज्ञाते रागद्वेषौ तु स्वरूपसन्तौ हेतू बालस्याद्यप्रवृत्ताविष्टसाधनताज्ञानं तु जीवनादृष्टबलेन जन्मान्तरीयसंस्कारादिति सर्वं सुस्थम् ॥
कृतिसाध्यत्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः
ज्ञातं सद्यत्प्रवृत्यादिकारणं तदिष्टसाधनत्वादिरूपमेवेत्युक्तौ दोषाभावादिति भावः॥
कृतिसाध्यत्वविशिष्टसाधनत्वस्य विधित्वभङ्गः
मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0