तर्कसोपान · भाग 13
विद्याकरशान्ति: तर्कसोपान
नमो मञ्जुश्रिये ॥
संसारसरसि कोलतुइयम् अज्ञानभेदिनः ।
स्मरणंमे हेवज्रस्य वर्ततां हृदि वश्चिरम् ॥
1. हिताहितप्राप्तिपरिहारहेतुर् नियमेन प्रमाणम् इति संक्षेपतस् तद् व्युत्पाद्यते ॥ प्रमाणम् अविसंवादि ज्ञानम् । विसंवदनं विसंवादः । न विसंवादो ऽविसंवादः । स यस्यास्ति तद् अविसंवादि । संवाद्य् एवेत्यर्थः ॥ अविसंवादः पुनर् उपदर्शिता र्थ प्रतिबद्धार्थक्रियाप्रापणम् । प्रापणम् अपि प्रापकत्वं तद्योग्यता च । अव्यवहितायाम् अर्थक्रियायां प्रमाणस्य प्रापकत्वम् एव । व्यवहितायां प्रवर्तकत्वम् अपि । प्रापकत्वं चोपदर्शकत्वम् एव । करणधर्मस्योपदर्शकत्वस्य ग्रहणाद् गृहीतग्रहिणाम् अकरणत्वेन व्युदासान् नातिव्यापिता । अत एवाचार्यो धर्मोत्तरो ऽप्य् आह ॥ येनैव प्रथमम् उपदर्शितार्थस् तेनैव प्रवर्तितः पुरुषः प्रापितश् चार्थः किम् अन्येनाधिकं कार्यम् । मरीचिकाजलज्ञानादीन्य् उपदर्शितार्थप्रतिबद्धार्थक्रियाप्रापणासंभवाद् एव निरस्तानीति । ज्ञानग्रहणेन चाज्ञानस्य इन्द्रियादेर् निरासः । करणविहितप्रत्ययेन च गृहीतग्राहिणः । तेन यद् अभिमतार्थक्रियासमर्थार्थप्रापणयोग्यम् अपूर्वविषयं ज्ञानं तत् प्रमाणम् ॥
2. तद् द्विविधम् । प्रत्यक्षम् अनुमानं च ।
3. प्रतिगतम् आश्रितम् अक्षं प्रत्यक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः ॥ प्राप्तापन्नालङ्गतिसमासेषु परवल् लिङ्गप्रतिषेधः । तेन प्रत्यक्षः प्रत्ययः प्रत्यक्षा बुद्धिः । प्रत्यक्षं ज्ञानम् इति सिद्धं भवति । अक्षाश्रितत्वं च प्रत्यक्षस्य व्युत्पत्तिमात्रनिमित्तं । प्रवृत्तिनिमित्तं तु साक्षात्करणम् एव । तेन यत् किंचिद् विषयस्य साक्षात्कारि ज्ञानं तत् सर्वं प्रत्यक्षशब्दवाच्यं सिध्यति । मीयते ऽनेनेति मानम् । लिङ्गग्रहणसंबन्धस्मरणयोः पश्चान्मानम् अनुमानम् । एतच् च रूढिवशाल् लभ्यते । तेन धर्मिविशेषवर्ति लिङ्गं दृष्टवतो इइङ्ग लिङ्गिनोश् च संबन्धं स्मृतवतो यतः परोक्षवस्त्वालम्बनं ज्ञानम् उत्पद्यते तद् अनुमानशब्देनाभिधीयते ॥
4. चकारः प्रत्यक्षानुमानयोस् तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वात् प्रत्यक्षं प्रमाणम् । तथानुमानम् अप्य् अर्थाविनाभावि प्रमाणम् इति तद् उक्तम् ॥
अर्थस्यासंभवे ऽभावात् प्रत्यक्षे ऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् इति ॥
अनेनैव तुल्यबलत्वख्यापनेन यद् अपि मीमांसकैर् उक्तं सर्वप्रमाणानां प्रत्यक्षम् एव ज्येष्ठं तत्पूर्वकत्वाद् अनुमानादेर् इति तद् अपि निरस्तम् ॥ आत्मसत्तालाभे सर्वप्रमाणानां स्वकारणापेक्षत्वान् ( त्स् 77 ) न ज्येष्ठेतरभावकल्पना साध्वीति । एवं प्रत्यक्षानुमानभेदेन द्विप्रकारम् एव प्रमाणं ॥
5. द्विविधवचनेनैकं प्रमाणं त्रीणि चत्वारि पञ्च षद् इति विप्रतिपत्तयो निरस्यन्ते । तथाहि प्रत्यक्षम् एव प्रमाणं बार्हस्पत्यानाम् । प्रत्यक्षानुमानागमाः प्रमाणानि आंख्यानाम् । उपमानम् अपि नैयायिकानाम् । अर्थापत्तिर् अपि प्राभाकराणाम् । अभावो हि प्रत्यक्षं शब्दश् च प्रमाणम् इति वैयाकराणः ॥
6. तत्र प्रत्यक्षं कल्पनापोधम् अभ्रान्तम् । यज् ज्ञा नं कल्पनया कल्पनात्वेन रहितम् अभ्रान्तं च तद् एव प्रत्यक्षम् । एतेन यद् उक्तम् उद्योतकरेण । यदि प्रत्यक्षशब्देन प्रत्यक्षम् अभिधीयते । कथं तत् कल्पनापोढम् । अथ कल्पनापोधं कथं प्रत्यक्षं कल्पनापोधम् इत्य् अनेन शब्देनोच्यत इति । यद् अपि भर्तृहरिणोक्तम् । कल्पना हि ज्ञानं प्रत्यक्षम् अपि ज्ञानं । प्रत्यक्षज्ञाने कल्पनाज्ञानं प्रतिषेधतान्यस्मिन् ज्नाने ज्ञानान्तरम् अस्तीति प्रतिपादितम् । प्राप्तिपूर्वका हि प्रतिषेधा भवन्तीति न्यायाद् इति । तत् सर्वम् अपास्तम् । तादात्म्यप्रतिषेधस्यात्राभिमतत्वात् । अत एव विवृतं कल्पनया कल्पनात्वेन रहितम् इति ।
7. कुतः पुनः कल्पनाभ्रमयोर् अभावः प्रत्यक्ष इति चेत् । यस्मात् कल्पनाविभ्रमयोर् अर्थरूपसाक्षात्करणं नास्ति । तथा हि । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना । अभिलापो वाचकः शब्दः । स च सामान्याकारः । तेन संसर्ग्यस् तद्योग्यः ( त्स् 278 ) प्रतिभासो यस्यां प्रतीतौ सा अभिलापसंसर्गयोग्यप्रतिभासा । योग्यग्रहणेनाव्युत्पन्नसंकेतस्य बालकस्य कल्पना संगृह्यते । यद्य् अपि तस्याम् अभिलापसंसर्गो नास्ति तद्योग्या तु भवत्य् एव । तत्प्रतिभासिनो ऽर्थाकारस्येच्छाधीनसंकेतानुविधायिना शब्देनाभिधातुं शक्यत्वात् । कुतः पुनर् बालकस्य कल्पना सिद्धेति चेत् । तत्कार्यस्य प्रवृत्त्यादिलक्षणस्य प्रदर्शनात् ॥ तथा हि बालको ऽङ्गुर्यादिपरिहारे स्तनादौ प्रवर्तते । तद् उक्तं ।
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
तां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यत ॥ इति
बालके पुनः संमूर्च्छिताक्षराकारध्वनिविशिष्टा बुद्धिविपरिवर्तिनी कल्पना ऊह्या यया पश्चात् संकेतग्रहणकुशलो भवति । न चेदृशीयम् अर्थरूपं साक्षात्करोति । अव्यापृतेन्द्रियस्य दर्शणवद् बुद्धौ शब्देनाप्रतिभासनाद् अर्थ रूप स्य । स हि शब्दस्यार्थो यः शाब्दे प्रत्यये प्रतिभासते । उपायभेदात् प्रति पत्ति भेदो नार्थभेदात् । यथैक एव देवदत्तो द्वाराद् दृश्यते जालेन चेति चेत् । अयुक्तम् एतत् । उपायभेदे ऽपि तद्रूपस्यैव ग्रहणात् कथं प्रतिपत्तिभेदः । न च वस्तूनां द्वे रूपे स्पष्टास्पष्टलक्षणे विरोधाद् एतन्निबन्धनत्वाच् च भेदस्य । अत एव दृष्टान्तो ऽप्य् असिद्धः । तद् उक्तम् ।
जातो नामाश्रयो नान्यश् चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तद् ॥
इति । तद् एवम् अभिलपितुं शक्यम् एवार्थं कल्पना ( त्स् 279 ) शब्देन संयोज्य गृह्णीयात् । अभिलाप्यं च वस्तु साक्षात्क्रियमाणं शब्देनायोजितम् एव साक्षात्कर्तव्यम् इति । सिद्धम् एतत् कल्पनाया नास्ति वस्तुसाक्षात्करणम् इति ।
8.भ्रान्तम् अपि ज्ञानं तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमम् अर्थरूपविसंवादकम् । तत् कथम् अन्यथा स्थितम् अर्थं साक्षात्कुर्यात् । स्वरूपप्रतिभासस्य साक्षात्करणशब्दवाच्यत्वात् । तस्मान् नास्ति वस्तुसाक्षात्करणं विभ्रमस्यापीति सिद्धम् । अतश् च विज्ञानं विषयसाक्षात्कारि नियमेन कल्पनाविभ्रमाभ्यां विपरीतं भवत् कल्पनापोढम् अभ्रान्तं चावतिष्ठते । तत्र कल्पनापोढपदेनानुमानस्य निरोधः । अभ्रान्तपदेन द्विचन्द्रज्ञानादेः । अन्यार्थं कृतम् अन्यार्थं भवतीति न्यायात् परविप्रतिपत्तिर् अपि निराकृता द्रष्टव्या । तथा हि वैयाकरणैर् उक्तम् ।
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ।
अनुविद्धम् इव ज्ञानं सर्वं शब्देन जायत ॥
इति । सर्वप्रत्ययानां शब्दानुगतरूपत्वे सति कस्यचिद् अपि ज्ञानस्यार्थसाक्षात्करणयोगात् । अनुभवसिद्धं च कल्पनापोढं प्रत्यक्षं कथम् अङ्कयते । अश्वविकल्पनकाले गोर् अनुभवात् । तद् एवाविकल्पकं प्रत्यक्षं । न चाश्वविकल्प एव गां प्रतिपद्यते । स्वनामोपसंहितस्य तस्य तेन ग्रहणात् । न च विकल्पान्तरं दृष्यं संवेद्यते । एतेनाश्वादिविकल्पकाले गवादिविकल्पो ऽपि व्याख्यातः । तथा मीमांसकैर् अपि ।
अस्ति ह्य् आलोचनाज्ञनं प्रथमंनिर्विकल्पकं ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
ततः परं पुनर् वस्तुधर्मैर् जात्यादिभिर् यया ।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥ इत्य्
अनेन विकल्पस्यापि प्रत्यक्षत्वम् इष्टम् । नैयायिकादिभिर् अपि व्यवसायात्मकम् इत्य् आदिना निश्चयस्यैव प्रत्यक्षत्वम् उक्तम् एतद् अपि कल्पनापोढम् इत्य् अनेनैव निरस्तम् । यदि कल्पनात्मकं प्रत्यक्षं स्याद् अर्थसाक्षात्करितैव हीयेत इति॥
9. अभ्रान्तग्रहणेनापि शुक्लशङ्खादौ पीतशङ्खादिविज्ञानं निरस्यते । सत्य् अपि भ्रमे ऽर्थक्रियाविसंवादाभावात् । नापि तद् अनुमानं युज्यते लिङ्गजत्वात् । अतः प्रत्यक्षम् इति । कथं पुनर् एतद् अभ्रान्तग्रहणेनाविसंवादार्थेन निरस्यते । उच्यते । अध्यवसितार्थाकारप्रतिरूपार्थक्रियाप्राप्तेर् असंभवात् । यदि ह्य् अविसंवादितामात्रेण प्रमाणं स्यात् केशोण्डुकादिज्ञाने ऽपि आलोकादेः संवादसंभवात् तद् अपि प्रमाणं स्यात् ॥
10. तत् प्रत्यक्षं चतुर्विधं । इन्द्रियज्ञानं मानसं स्वसंवेदनं योगिज्ञानं चेति ॥
11. इन्द्रियाणां चक्षुःश्रोतघ्राणजिह्वाकायानाम् आश्रितं ज्ञानम् इन्द्रियज्ञानं । स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोमात्राश्रयत्वान् मानसम् । सर्वचित्तचैत्तानाम् आत्मा संवेद्यते येन रूपेण तत् स्वसंवेदनम् । योगः शमथः प्रज्ञा येषाम् अस्ति ते योगिनः । तेषां यज् ज्ञानं प्रमाणोपपन्नार्थ भावना प्रकर्षपर्यन्तजं तद् योगिज्ञानम् । ( त्स् 281) प्रकारचतुष्टयाख्यानेन यैर् इन्द्रियम् एव द्रष्टृ कल्पितं मानसे च प्रत्यक्षे दोष उद्भावितः स्वसंवेदनं नाभ्युपगतं योगिज्ञानं च योगिन एव न सन्ति कुतस् तेषां ज्ञानम् इति ते सर्वे निरस्ता भवन्ति ॥
12. तथा हि वैभाषिकैस् तावज् ज्ञानस्याप्रतिघत्वाद् यदि तद् द्रष्टृ स्याद् तदा व्यवहितम् अपि गृह्णीयाद् इतीन्द्रियं द्रष्टृ कल्पितं । न चैतद् युक्तम् । यदि हि ज्ञानं गत्वार्थं गृह्णाति तदा गमनविबन्धकाभावाद् व्यवहितम् अपि गृह्णीयाद् इति युज्यते वक्तुम् । किं तु । यदाकारं तज् ज्ञानम् उत्पद्यते तत् तेन गृहीतम् इत्य् उच्यते न चायोग्यदेशस्थो ऽर्थस् तत्सरूपकः । तत् कथं तस्य तेन ग्रहणं स्यात् । किं च । यदीन्द्रियं द्रष्टृ स्यात् तदा काचादिव्यवहितस्यार्थस्य ग्रहणं न स्यात् । सप्रतिघा दश रूपिण इति सिद्धान्तात् । कथम् आगमे उक्तम् । चक्षुषा गृह्यते रूपम् इति । औपचारिको ऽसौ निर्देशः ॥
13. यद् अपि कुमारिलादिभिर् उक्तम् । यदीन्द्रियज्ञानगृहीतम् अर्थं गृह्णाति मानसम् । तदा गृहीतग्राहित्वाद् अस्याप्रामाण्यम् । अथेन्द्रियज्ञानागृहीतम् अर्थं गृह्णाति । तदा चान्धबधिराद्यभावदोषप्रसङ्ग इति । तद् अपि स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन यज् जनितम् इत्य् अनेनैव निरस्तम् । तथा हीन्द्रियज्ञानविषयोपादेयभूतक्षणग्राहि मानसम् । न च इन्द्रियज्ञानम् अन्धादीनाम् अस्ति । तत् कुतो ऽन्धबधिराद्यह्हावदोषः । नापि ( त्स् 282 ) गृहीतग्राहिता । इन्द्रियज्ञानविषयोपादेयभूतक्षणस्यानेन ग्रहणात् । एतच् च मानसं प्रत्यक्षम् उपरतव्यापारे चक्षुरादौ प्रत्यक्षम् इष्यते । व्याप्रियमाणे पुनर् एतस्मिन् यत् प्रत्यक्षं तच् चेद् अनिन्द्रियजं किम् अन्यद् इन्द्रियजं भविष्यति । न च निमीलिताक्षस्य रूपदर्शनाभावाद् अनुभवविरुद्धत्वम् आशङ्कनीयम् । क्षणमात्रभावित्वेन दुरवधारत्वात् ॥
14. किम् अर्थं तर्ह्य् एतद् उपन्यस्तम् इति चेत् । उच्यते । यत् तत् सिद्धान्ते मानसम् उक्तं तद् यद्य् एवंलक्षणं स्याद् तदा न कश्चित् परोक्तो दोष इत्य् आदर्शयितुम् । यद् अपि स्वसंवेदनं नाभ्युपग म्य ते परैस् चित्तचैत्तानां तद् अपि अयुक्तम् । न तावच् चित्तचैत्तानां प्रकाशो नास्त्य् एव । प्रकाशस्य सर्वप्राणिनाम् अनुभवसिद्धत्वात् । न चैषां परेण प्रकाशो युक्तः । तद् धि परं समानकालभावि तावत् प्रकाशकम् अनुपपन्नम् उपकाराभावात् । भिन्नकालभाव्य् अपि न प्रकाशकं प्रकाश्याभावात् । तस्माद् यथा प्रदीपः प्रकाशकस्वभावत्वाद् आत्मानं प्रकाशयति तथा ज्ञानम् अपीति । ननु प्रदीपो ऽपि चक्षुषा प्रकाश्यत इति चेत् । न सजातीयप्रकाशनिरपेक्षत्वेन दृष्टान्तीकृतत्वात् ॥
15. किं च । यदि ज्ञानम् आत्मानं न संवेदयते । तदा स्वतो ऽप्रत्यक्षत्वे ऽर्थानुद्भवो ऽप्य् अप्रत्यक्षतया न स्यात् । अत्र प्रयोगः । यद् अव्यक्तव्यक्तिकं न तद् व्यक्तं । यथा किंचित् कदाचित् कथंचिद् अव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश् च ज्ञानपरोक्षत्वे घटादिर् अर्थ इति व्यापकानुपलब्धिप्रसङ्गः । इह व्यक्तत्वं निषेध्यं । तस्य व्यापकं व्यक्तव्यक्ति क त्वम् । तस्य चेहानुपलब्धिर् इति । ज्ञानस्य ज्ञानान्तरेण व्यक्तेर् हेतुर् अयम् असिद्ध इति चेत् । ( त्स् 283 ) न । घटादिज्ञानोदयकाले सिद्धत्वात् । न च भवताम् अपि सर्वं विज्ञानम् एकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साभावे तदभावात् । यथोपेक्षणीयविषया संवित् । तत उपेक्षणीयम् एव तावद् अव्यक्तव्यक्तिकत्वाद् अव्यक्तं प्रसज्यते ।
16. किं च । ज्ञानं ज्ञानस्यापि कथं व्यक्तिर् इति वक्तव्यम् । अन्यज्ञानेन तस्य सिद्धत्वाद् उच्यमानायां तत्राप्य् एवम् इत्य् अनवस्था स्यात् । न चेयं संदिग्धविपक्षव्यावृत्त्यानैकान्तिकी । तथाहि यद्य् अव्यक्तव्यक्तिकम् अपि व्यक्तव्यवहारविषयः स्यात् तदा पुरुषान्तरवर्तिज्ञान म् अ व्यक्तम् अपि स्वज्ञान् ओदयकालवत् तथैव व्यक्तं व्यवह्रियेतेति । तद् अयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्यापी । सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिर् ऐकान्तिकीति । नापि स्वात्मनि क्रियाविरोधः । यदा जडपदार्थवैलक्षण्येनोत्पत्तिर् एव स्वसंवित्तिः । तद् उक्तम् आचार्यशान्तिरक्षितपादैः ॥
विज्ञानं जडरूपेभ्यो व्यावृत्तम् उपजायते ।
इयम् एवात्मसंवित्तिर् अस्य याजडरूपता ॥
स्वसंविच्छब्दार्थो ऽपि तैर् एव दर्शितः ।
स्वरूपवेदनायान्यद् वेदकं न व्यपेक्षते ।
न चाविदितम् अस्तीति सो ऽर्थो ऽयं स्वसंविद ॥ इति
17. यद् अप्य् उक्तं योगिन एव न सन्ति कुतस् तेषां ज्ञानम् इति । तद् असारम् । भावना हि भूतार्थविषया तदितरा वा प्रकर्षपर्यन्तवर्तिनी स्फुटतरग्राह्याकारं विज्ञानं जनयति । तथा हि शोकाद्युपप्लुतचित्तवृत्तयः पुत्रादिभावनासमाप्तौ परिस्फुटसमावर्तितत्प्रतिभासवन्तो भवन्ति । तत्र यत् ( त्स् 284 ) प्रमाणोपपन्नार्थभावनाप्रकर्षपर्यन्ताज् जातम् करतलामलकवद् भाव्यमानार्थस्पष्टतराकारग्राहि तद् योगिप्रत्यक्षम् इति । यद् आह ।
भावनाबलतः स्पष्टं भयादाव् इव शंसते ।
यज् ज्ञानम् अविसम्वादि तत् प्रत्यक्षम् अकल्पकम् इति ॥
18. तस्य विषयः स्वलक्षणं । तस्य चतुर्विधस्यानन्यसाधारणेन रूपेण यल् इअक्ष्यते तद् विषयः । अनेन सामान्यविषयत्वारोपः प्रत्यक्षे प्रत्युक्तः । यस्यार्थस्य संनिधाना संनिधाना भ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणं । यस्य ज्ञानविषयस्य संनिधानं योग्यदेशावस्थानम् । असंनिधानं योग्यदेशे ऽभावः सर्वथा । ताभ्यां यो ज्ञानप्रतिभासं ग्राह्याकारं भिनत्त्य् उत्पादानुत्पादात् तत् स्वलक्षणम् ॥ अन्यत् सामान्यलक्षणं सो ऽनुमानस्य विषयः । एतस्मात् स्वलक्षणाद् यद् अन्यत् साधारणं लक्षणं सो ऽनुमानस्य विषयः ।
19. तद् एव प्रत्यक्षं ज्ञानं प्रमाणफलम् । अर्थप्रतीतिरूपत्वात् यद् एवानन्तरम् उक्तं प्रत्यक्षंज्ञानंतद् एव प्रमाणस्य फलम् । अर्थस्य प्रतीतिर् अवगमः । तद्रूपत्वात् । यदि तद् एव ज्ञानं प्रमाणफलं नेष्यते तदा भिन्नविषयत्वं स्यात् प्रमाणफलयोः । न चैतद् युक्तम् । न हि परश्वादिके खदिरप्राप्ते पलाशे च्छिदा भवति ॥
20. अर्थसारूप्यम् अस्य प्रमाणम् । तद्वशाद् अर्थप्रतीतिसिद्धेः । इह यस्माद् विषयाद् विज्ञानम् उदेति तत्सरूपं तद् भवति । अतत्सरूपेण ज्ञानेनार्थवेदनायोगात् । तथा हि विज्ञानं बोधमात्रस्वभावम् ( त्स् 285 ) उत्पद्यते । तदा नीलस्येदं वेदनं पीतस्येति प्रतिकर्मव्यवस्था न स्यात् । यादृशं हि तन् निले पीते ऽपि तादृशं चेति । अर्थसारूप्ये तु सति यस्यैवाकारम् अनुकरोति ज्ञानं तत्संवेदनं भवति नान्यस्य । तच् चास्य सारूप्यं नियतार्थप्रतीतिव्यवस्थायां साधकतमत्वात् प्रमाणम् । न चैतत् मन्तव्यम् । कथं साध्यसाधनयोर् अभेद इति । जन्यजनकभावेनात्र साध्यसाधनभावाभावात् । व्यवस्थाप्यव्यवस्थापकभावेन चैकस्यापि घटते । नापि लोकबाधा । लोको पि कदाचिद् एकधनुरादिकं कर्तृत्वादिना वदत्य् एव । तथाहि वक्तारो भवन्ति । धनुर् विध्यति । धनुषा विध्यति । धनुषो निसृत्य सरो विध्यतीति । एतेन पूर्वं पूर्वं ज्ञानं प्रमाणम् उत्तरम् उत्तरं फलम् इति प्रमाणफलभ्रान्तिर् अपास्ता ॥ ॥
तर्कसोपाने प्रत्यक्षपरिच्छेदः प्रथमः ॥ ॥
1. अनुमानं द्विधा स्वार्थं परार्थं च । स्वस्मायिदं स्वार्थं । येन स्वयं प्रतिपद्यते । परस्मायिदं परार्थम् । येन परं प्रतिपादयति ।
2. तत्र त्रिरूपलिङ्गाद् यद् अनुमेये ज्ञानं रूपत्रययुक्ताल् लिङ्गाद् यद् अनुमेयालम्बनं ज्ञानं उत्पद्यते तत् स्वार्थम् अनुमानम् । त्रिरूपग्रहणम् एकैकद्विद्विरूपव्यवच्छेदार्थम् । तत्रैकैकरूपो हेतुर् न भवति । यथा नित्यः शब्दः कृतकत्वात् । मूर्तत्वात् । अप्रमेयत्वाद् इति । यथाक्रमम् अनुमेये सत्त्वसपक्षसत्त्वविपक्ष व्या वृत्ति ( त्स् 286 ) मात्रम् अस्ति तथा हि द्विद्विरूपो यथानित्यो ध्वनिः । अमूर्तत्वात् । श्रावणत्वात् । चाक्षुषत्वाद् इति । यथाक्रमम् अनुमेये सत्त्वसपक्षसत्त्वासपक्षासत्त्वमात्रस्याभावात् । तद् उक्तम् आचार्यपादैः ।
एकैकद्विद्विरूपाद् वा लिङ्गान् नार्थः कृतो ऽर्थतः ॥
कृतकत्वाद् ध्वनिर् नित्यो मूर्तत्वाद् अप्रमेयतः ।
अमूर्तश्रावणत्वाभ्याम् अनित्यश् चाक्षुषत्वत ॥ इति ।
3. अनुमेयग्रहणेनापरोक्षविषयस्य निरासः । प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ] यथा प्रत्यक्षे तस्यैव नीलादिसारूप्यं प्रमाणम् उक्तं नीलादिप्रतीतिश् च फलं तथात्रापि वह्न्याद्याकारः प्रमाणं वह्न्यादिविकल्पनरूपता च फलम् इति ।
4. लिङ्गस्य त्रीणि रूपाणि । अनुमेये सत्त्वम् एव निश्चितम् । अनुमेये वक्ष्यमाणलक्षणे लिङ्गस्य सत्त्वम् एव निश्चितम् एकरूपम् ] तत्र सत्त्ववचनेनासिद्धो निरस्तः । यथा नित्यः शब्दः । चाक्षुषत्वाद् इति । एवकारेण पक्षैकदेशासिद्धः निरस्तो हेतुः । यथा चेतनास् तरवः स्वापाद् इति । पक्षीकृतेषु तरुषु पत्र संकोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः । किं तु केचिद् एव । सत्त्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः । अन्यथा ह्य् अनित्यः स्रावणत्वाद् इत्य् अस्यैव हेतुत्वं स्यात् । निश्चितग्रहणेन संदिग्धासिद्धादेर् व्यवच्छेदः । यथा बाष्पादिभावेन संदिह्यमानो भूतसंघातो ऽग्निसिद्धाव् उपादीयमानः । सपक्ष एव सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणस् तस्मिन् एव सत्त्वं निश्चितं द्वितीयं रूपम् । ( त्स् 287 ) इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । यथा नित्यः कृतत्वाद् इति । यस्माद् अस्यैव सपक्षे नास्ति । एवकारेण साधारणानैकान्तिकः । यथा नित्यः प्रमेयत्वाद् इति । स हि न सपक्ष एव वर्तते किंतूभयत्रापि । सत्त्ववचनात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि कथितं हेतुत्वम् । यथा नित्यः प्रयत्नानन्तरीयकत्वात् । निश्चितवचनेन चानुवृत्तेन संदिग्धान्वयो ऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद् वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् असपक्षे चासत्त्वम् एव निश्चितम् इत्य् अत्रापि वर्तते । असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्न् असत्त्वम् एव निश्चितं तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षे ऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर् निरासः । यथा प्रयत्नानन्त् अर् ईयकः शब्दो ऽनित्यत्वाद् इति । प्रयत्नानन्तरियकत्वे हि साध्ये ऽनित्यत्वं विपक्षैकदेशे विद्युदादाव् अस्ति । आकाशादौ नास्ति । ततो ऽवधारणेनास्य निरासः । असत्त्वशब्दात् पूर्वस्मिन्न् अवधारणे ऽयम् अर्थः स्याद् । विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षे ऽपि नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितग्रहणेन संदिग्धविपक्षव्यावृत्तिको निरस्तः । यथा देवदत्तपुत्रः श्यामस् तत्पुत्रत्वात् परिदृश्यमानपुत्रवद् इति ।
ननु सपक्षे सत्त्वम् इत्य् उक्ते सपक्षे सत्त्वम् एवेति गम्यते तत् किम् अर्थम् उभयोर् उपादानम् । सत्यम् । किंत्व् अन्वयो व्यतिरेको वा नियमवान् एव प्रयोक्तव्यो येनान्वयप्रयोगे चान्वयगतिर् इति । तेन न द्वयोर् उपादानम् एकत्र प्रयोगे कर्तव्यम् इति शिक्षणार्थम् अत्रोभयोर् उपादानं कृतम् ।
5. अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी । अत्रेति हेतुलक्षणे निश्चेतव्ये । जिज्ञासितविशेषग्रहणेन चाज्ञातविशेषतामात्रम् उपलक्ष्यते अन्यथा हि व्याप्तिस्मरणयुक्तस्याग्न्यादिकं पर्येषमाणस्य धूमादिदर्शनमात्राद् एव नगनितं बा दौ वह्न्यादिप्रतीतिर् या सा न संगृहिता स्यात् । साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः समानः सदृशो यो ऽर्थः पक्षेण स सपक्ष उक्तः । उपचारात् समानशब्देन विशिष्यते । समानः पक्षः सपक्षः । समानस्य च स शब्दादेशो योगविभागात् । समानः पक्षो ऽस्येति तु न कर्तव्यम् । एवं हि पक्षेण सादृश्यं स पक्षस्य न प्रतिपादितं स्यात् । पक्षस्यैव च सपक्षसादृश्यं प्रतिपादितं स्यात् । न चैतत् । सपक्षस्याप्रसिद्धत्वात् । इदानीम् एव हि तल्लक्षणं क्रियते । समानता च साध्यधर्मसामान्येन ।
7. न सपक्षो ऽसपक्षः [ ततो ऽन्यस् तद्विरुद्धस् तदभावश् च । त्रिरूपाणि च त्रीण्य् एव लिङ्गाणि । अनुपलब्धिः स्वभावः कार्यं चेति । तत्र प्रतिषेध्यस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावव्यवहारसाधनी । उपलब्धिलक्षणप्राप्तिर् उपलम्भप्रत्ययान्तरसाकल्यम् । ( त्स् 289 ) स्वभावविशेषश् च । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति । उपलब्धिलक्षणप्राप्तो ऽर्थः । दृश्य इत्य् अर्थः । अविद्यमानो ऽप्य् असाव् अत्र यदि भवेद् दृश्य एव भवेद् इति संभवनविषय उपलब्धिलक्षणप्राप्त इत्य् उच्यते । तस्यानुपलब्धिर् अभावव्यवहारं साधयति । देशकालस्वभावविप्रकृष्टप्रत्ययान्तरविकलव्यवच्छेदार्थं विशेषणोपादानम् । न चात्र प्रतिषेधमात्रम् अनुपलब्धिः तस्य स्वयम् असिद्धेः सिद्धेश् चानङ्गत्वात् । किं तु वस्त्वन्तरस्योपलब्धिर् एव । वस्तुनो ऽपि न यस्य कस्यचित् । अपि तु प्रतिषेध्याभावाक्षेपकस्यैव । न त्व् एकज्ञानसंसर्गिन एव । यदि ह्य् एकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽनुपलब्धेर् लक्षणं स्यात् तदा इह देवदत्तोपलम्भाद् बहिरभावस् तस्यैव कथं सिध्यति । न हि तत्रैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽस्ति ॥
8. इयं चानुपलब्धिः कर्म कर्तृधर्मतया द्विप्रकारा । तत्र यदा कर्मधर्मो ऽनुपलब्धिस् तदा घटविविक्तभूतलम् । यदा तु कर्तृधर्मस् तदा तदाश्रितं ज्ञानम् । तत्र यत् तद् घटवैकल्यं तद् भूतलस्य स्वरूपम् एवेति तद्ग्राहिना ज्ञानेन गृहीतम् एवेति । तस्माद् इयम् अनुपलब्धिर् मूढम् प्रत्य् अभावव्यवहारम् एव साधयति । अमूढस्य प्रत्यक्ष एव सिद्धत्वात् । कारणानुपलब्ध्यादयस् तु परोक्षे विषये प्रवर्तमाना अभावं साधयन्त्य् एव । वर्तमानकाला चेयं गमिका अतीतकाला चासति स्मृतिमनस्कारभ्रंशे । ततो नास्तीह घटो ऽनुपलभ्यमानत्वात् । नासीद् इह घटो ऽनुपलब्धाद् इति ( त्स् 290 ) शक्यं अवसातुम् । न तु न भविष्यत्य् अत्र घटो ऽनुपलप्स्यमानत्वाद् इति । अनागतायाः संदिग्धरुपत्वात् ॥
9. इयं च प्रयोगभेदाद् अनेकप्रकारा । तत्र
1) स्वभावानुपलब्धिः । यथा नास्तीह धूम उपैअब्धिलक्षणप्राप्तस्यानुपलब्धेः । प्रतिषेध्यो हि धूमस् तस्य यः स्वभावस् तस्यानुपलब्धिः ।
2) कारणानुपलब्धिः । यथा नात्र धूमो वह्न्यभावात् । प्रतिषेध्यस्य हि धूमस्य कारणं वह्निस् तस्येहानुपलब्धिः ।
3) व्यापकानुपलब्धिर् याथा नात्र शिंशपा वृक्षाभावात् । प्रतिषेध्या हि शिंशपा तस्याश् च व्यापको वृक्षस् तस्यानुपलब्धिः ।
4) कार्यानुपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावद् इति । प्रतिषेध्यानां धूमकारणानां कार्यं धूमस् तस्य चेहानुपलब्धिः ।
5) स्वभावविरुद्धोपलब्धिः । यथा नात्र शीतस्पर्शो वह्नेर् इति । प्रतिषेध्यस्य शीतस्पर्शस्य यः स्वभावस् तस्य विरुद्धो वह्निस् तस्य चेहोपलब्धिः ।
6) कारणविरुद्धोपलब्धिर् यथा नास्य रोमहर्षादिविशेषाः सन्ति संनिहितदहनविशेषत्वाद् इति । प्रतिषेध्यानां रोमहर्षादिविषेसाणां कारणं शीतं तस्य विरुद्धो दहनविशेषस् तस्य चेहोपलब्धिः ।
7) व्यापकविरुद्धोपलब्धिर् यथा नात्र तुषारस्पर्शो दहनाद् इति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धो दहनस् तस्य चेहोपलब्धिः ।
8) कार्यविरुद्धोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेर् इति । प्रतिषेध्यानं ( त्स् 291 ) शीतकारणानां कार्यं शीतं तस्य विरुद्धो वह्निस् तस्य चेहोपलब्धिः ।
9) स्वभावविरुद्धव्याप्तोपलब्धिर् यथा नात्र वह्निस् तुषारस्पर्शाद् इति । प्रतिषेध्यस्य वह्नेर् यः स्वभावस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः ।
10) कारणविरुद्धव्याप्तोपलब्धिर् यथा नात्र धूमस् तुषारस्पर्शाद् इति । प्रतिषेध्यस्य हि धूमस्य यत् कारणम् अग्निस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः ।
11) व्यापकविरुद्ध् अव्याप्त् ओपलब्धिर् यथा नायं नित्यः कदाचित्कार्यकारित्वाद् इति । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं व्यापकं तस्य विरुद्धं सातिशयत्वं तेन व्याप्तं कदाचित्कार्यकारित्वं तस्य चेहोपलब्धिः ।
12) कार्यविरुद्धव्याप्तोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शाद् इति । प्रतिषेध्यानां हि वह्निकारणानां कार्यं वह्निस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः ।
13) स्वभावविरुद्धकार्योपलब्धिर् यथा । नात्र शीतस्पर्शो धूमाद् इति । प्रतिषेध्यस्य हि शीतस्पर्शस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः ।
14) कारणविरुद्धकार्योपलब्धिर् यथा न रोमहर्षादिविशेषयुक्तपुरुषवान् अयं प्रदेशो धूमाद् इति । प्रतिषेध्यानां रोमहर्षादिविशेषानां कारणं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपब्धिः ।
15) व्यापकविरुद्धकार्योपलब्धिर् यथा । नात्र तुषारस्पर्शो धुमाद् इति । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः ।
16) कार्यविरुद्धकार्योपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमाद् इति । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः ॥
10. इमे सर्वे कारणानुपलब्ध्यादयः पञ्चदशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहम् उपयान्ति पारंपर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगह्हेदे ऽपि स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्छन्ति । एतद् उक्तं भवति । अनुपलब्धिरूपता तावत् सर्वासाम् अविशिष्टा । तथा स्वभावविरुद्धोपलब्ध्यादाव् अप्य् अनुपलब्धिरूपता विद्यत एव । सहाभावाक्षेपिका यस्योपलब्धिः सा तस्यानुपलब्धिर् इत्य् अनुपलब्धिलक्षणयोगात् । तथा हि येयं वह्नेर् उपलब्धिः सा शीताभावम् आक्षिपति ।
11. भवत्व् अनुपलब्धिः सा दृश्यता तु कथम् । उच्यते । दृश्यत्वे ऽप्य् अनुपलब्धिर् इति कृत्वा । तथा हि यदि शीतस्पर्शो दृश्यो भवेत् तदा तस्योपलब्धिं निषेध्याभावव्याप्तो वह्निर् विरुणद्ध्य् एव । एवम् अभावसाधनी सर्वैवानुपलब्धिर् व्याप्तिसामर्थ्याद् ( त्स् 293 ) दृश्यस्योपलब्धिं विरुणद्धीति सामर्थ्यात् स्वभावानुपलब्धिर् भवति । न साक्षात् । यस्यां त्व् अनुपलब्धौ तदैव तम् एव प्रतिपत्तारं प्रति दृश्यत्वं प्रतिषेध्यस्य सिद्धं दृश्यानुपलब्धिर् एव तस्याः स्वलक्षणम् इति साक्षात् स्वभावानुपलब्धिः । यत् पुनर् अन्यैर् उच्यते । यद्य् अपि संप्रतितनी दृश्यानुपलब्धिर् नास्ति विरोधादिकाले त्व् आसीद् सैव भावप्रतिपत्तिनिबन्धनम् इति । तेन दृष्यानुपलब्धिपूर्वत्वात् स्वभावविरुद्धोपलब्ध्यादीनां दृश्यानुपलब्धाव् अन्तर्भावः । संप्रतितन्यश् च दृश्यानुपलब्धेर् अभावात् तत्स्वभावानुपलब्धेर् अन्यासाम् अनुपलब्धीनां भेद इति ।
12. यद् अपि कैश्चित् स्वभावविरुद्धोपलब्ध्यादीनाम् अनुमितानुमानतया दृश्यानुपलब्धिरूपतोच्यते । दूराद् वह्ने रूपविशेषं दृष्ट्वा उष्णस्पर्शविशेषस् तद्देशव्यापको ऽनुमीयते तस्माच् च शीतस्पर्शाभावप्रतीतिः । आहत्य तु दृश्यानुपलब्धेर् अनुदयाद् दृश्यानुपलब्धेर् भेदेन निर्देशः । अत एव चानुमितानुमानम् एतत् केवलम् अत्यन्ताभ्यासाज् झटिति तथाभूतप्रतीत्युदये सत्य् एकम् अनुमानम् उच्यते । वस्तुतस् त्व् अनेकम् अनुमानम् एतत् एवम् अन्यत्रापि व्यापकविरुद्धोपलम्भादाव् ऊह्यम् इति द्वयम् अप्य् एतन् न मनसि तोषम् आदधाति ॥
13. स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः । यो हेतोर् आत्मनः सत्ताम् अपेक्ष्य विद्यमानो न हेतुसत्ताव्यतिरिक्तं किंचिद् धेतुम् अपेक्षते । तस्मिन् साध्ये यो हेतुःस स्वभावः । अनेन च विशेषणे नान्त्यात् कारणात् कार्यं यद् उत्पद्यते तस्य संग्रहः ( त्स् 294 ) कृतः । तद् अपि हि तस्य स्वभाव एव । तत्सत्तामात्रभावित्वात् । अन्यार्थम् अपि कृतम् अन्यार्थं भवतीति न्यायात् परविप्रतिपत्तिर् अपि निरा कृता । परे हि पश्चात्कालभाविनम् अपि कृतकत्वादिधर्मं स्वभावम् इच्छन्तीति । यथा वृक्षो ऽयं शिंशपात्वाद् इति । कार्यं यावद्भिः स्वभावैर् अविनाभावि कारणे हेतुर् इति प्रकृतम् । कारणे साध्ये यावद्भिः स्वभावैर् अविनाभावि तैर् एव हेतुः । यथा ऽग्निर् अत्र धूमात् ॥
14. एतानि च त्रीणि लिङ्गानि साध्यभेदात् । साध्यापेक्षया हि लिङ्गव्यवस्था । साध्यश् च विधिः प्रतिषेधो वा अन्योन्यलक्षणव्यवच्छेदलक्षणत्वाद् अनयोः । विधिर् अप्य् अनर्थान्तरार्थान्तरभेदाद् द्विविधः । तत्रानर्थान्तरे गम्ये स्वभावहेतुः । अर्थान्तरे तु गम्ये कार्यम् इति द्वाव् एतौ विधिसाधनौ । स्वभावप्रतिबन्धे हि सत्य् अर्थो ऽर्थं गमयेत् । स्वभावेन प्रतिबन्धः प्रतिबद्धस्वभावत्वम् । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् । तस्माद् अनयोर् एव विधिसाधनता । ननु स्वभावप्रतिबन्धम् अन्तरेणापि चन्द्रोदयात् कुमुदविकासप्रतिपत्तिः समुद्रवृद्धिश् च । आतपसद्भावात् परभागे छायाप्रतिपत्तिः । कृत्तिकाद्युदयानन्तरश् च रोहिण्यादीनाम् उदयः प्रतीयते । तत् कथम् उच्यते स्वभावप्रतिबन्धे सत्य् अर्थो ऽर्थं गमयेद् इति । तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । तद् इति ( त्स् 295 ) स्वभाव उक्तः । तेनाप्रतिबद्धस् तदप्रतिबद्धः । यो यत्र स्वभावेन न प्रतिबद्धःस तर्न् अप्रतिबद्धविषयम् अवश्यम् एव न न व्यभिचरतीति नास्ति तयोर् अव्यभिचारनियमः । यातु चन्द्रोदयादेः समुद्रवृद्ध्यादिप्रतीतिः सानुमानाद् एव । तथा हि हेतुधर्मस्यैव तादृशो ऽत्रानुमितिर् यत्राम्भ् ओजबोधा दय एककाला जाताः । एवं सति कार्याद् इयं कारणसिद्धिः । वायुविशेष एव च यः कृत्तिकाद्युदयकारणंस एव हि संतत्या रोहिण्याद्युदयकारणं । हेतुधर्मप्रतीतेस् तत्प्रतीतिर् इति । एवम् अत्रापि । यत्राव्यभिचारस् तत्र प्रतिबन्धो ऽभ्यूह्यः । स च प्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य । वस्तुतस् तदात्म्यात् तदुत्पत्तेश् च । अतत्स्वभावस्यातदुत्पत्तेश् च तत्राप्रतिबद्धस्वभावत्वात् । ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोर् एवेति । ताभ्याम् एव वस्तुसिद्धिः । प्रतिषेधसिद्धिस् तु यथोक्ताया एवानुपलब्धेः । नन्व् अनुपलब्धौ कः प्रतिबन्धः । प्रतिबद्धश् च हेतुर् गमकः । इदानिम् एव हि कथित म् । स्वभावप्रतिबन्धे हि सत्य् अर्थो ऽर्थं गमयेद् इति । तत्र स्वभावानुपलब्धौ तादात्म्यं प्रतिबन्धः । तथा हि तत्राभावव्यवहारयोग्यता साध्यते । योग्यता च योग्यस्वभावभूतैवेति । कारणानुपलब्ध्यादौ मौलप्रतिबन्धनिबन्धनो गम्यगमकभावः । विरुद्धोपलब्ध्यादौ तु तत्तद्विविक्तप्रदेशादिकार्यत्वात् तादृशस्य ( त्स् 296 ) दहनादेस् तदुत्पत्तिनिबन्धन एव इति ॥ ॥
॥ तर्कसोपाने स्वार्थानुमानपरिच्छेदो द्वितियः ॥ ॥
1. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् । पूर्वम् उक्तं यत् त्रिरूपं लिङ्गं तस्य यत् प्रकाशकं वचनं तत् परार्थम् अनुमानं कारणे कार्योपचारात् । अनुमानकारणे त्रिरूपैइङ्गे कार्यस्यानुमानस्योपचारात् समारोपात् । यथा नड्वलोदकं पादरोग इति । तद् द्विविधं प्रयोगभेदात् । साधर्म्यवत् । वैधर्म्यवच् च ॥
2. समानो धर्मो यस्य स सधर्मा । तस्य भावः साधर्म्यं । दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं सादृश्यम् । विसदृशो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं वैसादृश्यम् । यस्य साधनवाक्यस्य साधर्म्यम् अभिधेयं तत्साधर्म्यवत् । यस्य च वैधर्म्यम् अभिधेयं तद् वैधर्म्यवत् । ननु च साधर्म्यवति साधनवाक्ये व्यतिरेको नास्ति । वैधर्म्यवति चान्वयस् तत् कथं त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानं स्यात् । नैष दोषः । साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिः । असति तस्मिन् साध्येन हेतोर् अन्वयायोगात् । साधर्म्याभिधेयेन युक्ते प्रयोगे समर्थ्याद् व्यतिरेकस्य प्रतीतिस् तस्मात् त्रिरूपलिङ्गाख्यानम् । तस्मिन् व्यतिरेके बुद्ध्यावसीयमाने ऽसति साध्येन हेतोर् अन्वयस्य बुद्ध्यावसितस्याभावात् ॥
3. तथा वैधर्म्येणाप्य् अन्वयगतिः । असति तस्मिन् साध्याभवे हेत्वभावस्यासिद्धेः । तथेति यथान्वयवाक्ये तथार्थाद् एव वैधर्म्येण प्रयोगे ऽन्वयस्यानभिधीयमानस्यापि गतिः । असति तस्मिन्न् अन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धेर् अनवसायात् । तस्माद् एकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर् लिङ्गस्य सदसत्त्वख्यापनं कृतं ब्ःअवतीति नावश्यं वाक्यद्वयप्रयोगः ॥
4. तत्रानुपलब्धेः साधर्म्यवान् प्रयोगः यद् यत्रोपलब्धिलक्षणप्राप्तं सन् नोपलभ्यते स तत्रासद्व्यवहारविषयः । यथा शशशिरसि शृङ्गं । नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धिलक्षणप्राप्तो घट इति । अत्र दृष्टान्तधर्मिणः शशशिरसः साध्यधर्मिणश् च प्रदेशविशेषस्योपलब्धिलक्षणप्राप्तप्रतिषेध्यानुपलम्भहेतुकृतं सादृश्यम् अभिधेयम् ॥
5. तथा स्वभावहेतोः प्रयोगः । यत् सत् तत् सर्वम् अनित्यं यथा घटः संश् च शब्दः । शुद्धस्य स्वभावस्य प्रयोगः । सत्त्वमात्रस्योपध्यनपेक्षत्वात् । यद् उत्पत्तिमत् तद् अनित्यम् । यथा घटः । उत्पत्तिमच् च सुखम् इत्य् अव्यतिरिक्तविशेषणस्य । उत्पत्तिर् हि स्वरूपलाभः । सा च भावस्यात्मभूतैव केवलं कल्पनया व्यतिरेकिणीव प्रदर्श्यते । यत् कृतकं तद् अनित्यं यथा घटः कृतकश् च शब्द इति व्यतिरिक्तविशेषणस्य । अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतक इति । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । अत्र हि दृष्टान्तधर्मिभिः साध्यधर्मिणां हेतुकृतं सादृश्यम् अभिधेयम् । सर्व एते साधनधर्मा यथास्वं ( त्स् 298 ) प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मे ऽवगन्तव्याः । वस्तुतस् तस्यैव तत्स्वभावत्वात् । तन्निष्पत्ताव् अनिष्पन्नस्य तत्स्वभावत्वायोगात् । विरुद्धधर्माध्यासस्य भेदैअक्षणत्वात् ॥
6. कार्यहेतोः साधर्म्यवान् प्रयोगः । यत्र यत्र धूमस् तत्र तत्र वह्निर् यथा महानसे । धूमस् चात्र । अत्र दृष्टान्तधर्मिणो महानसस्य साध्यधर्मिणश् च प्रदेशविशेषस्य धूमहेतुकृतं सादृश्यम् अभिधेयम् । इहापि त्रिभिर् अनुपलम्भैर् द्वाभ्यां प्रत्यक्षाभ्यां सिद्धे कार्यकारणभवे कारणे साध्ये कार्यहेतुर् वक्तव्यः । अनुपलब्धेर् वैधर्म्यवान् प्रयोगः । यत् सद् उपलब्धिलक्षणप्राप्तंतद् उपलभ्यत एव । यथा नीलविशेषः । न चैवम् इहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिर् इति । अत्र हि दृष्टान्तधर्मिणो निलविशेषस्य साध्यधर्मिणश् च प्रदेशस्योपलब्धिलक्षणप्राप्तनिषेध्यानुपलम्भाख्यहेतुकृतं वैसादृश्यम् अभिधेयम् ।
7. स्वभावहेतोर् वैधर्म्यवन्तः प्रयोगाः असत्य् अनित्यत्वे नास्ति क्वचित् सत्त्वं यथा गगनमलिने । संश् च शब्दः । असत्य् अनित्यत्वे न क्वचिद् उत्पत्तिमत्त्वं यथाकाशे । उत्पत्तिमच् च सुखम् । असत्य् अनित्यत्वे न क्वचित् कृतकत्वं यथा कुर्मरोम्नि । कृतकश् च शब्द इति । अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यम् अभिधेयम् ॥
8. कार्यहेतोर् वैधर्म्यवान् प्रयोगः । असत्य् अग्नौ न भवत्य् एव धूमो यथा महाह्रदे । धूमश् चात्रेति । ( त्स् 299 ) अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यम् अभिधेयम् ॥
9. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् इत्य् अर्थान् न पक्षादिवचनम् अनुमानम् उक्तं भवति । तत्र प्रतिज्ञा तावन् न साक्षात् साधनम् । अर्थाद् एवार्थगतेः । अर्थ एव ह्य् अर्थं गमयति प्रतिबन्धान् । नाभिधानं विपर्ययात् । पारंपर्येणापि न भवति । साध्यस्यैवाभिधानात् । साध्यसाधनधर्मविशेषोपदर्शनार्थम् अनवयवभूतापि प्रतिज्ञा दृष्टान्तवत् प्रयुज्यत इति चेत् । न । एवं ह्य् अनुज्ञादिवाक्यम् अपि प्रयोक्तव्यं स्यात् । न हि तैर् विना एव साधनस्य प्रवृत्तिर् संभवति । विषयोपदर्शनम् अपि निष्फलम् । तेनापि विना साध्यप्रतीतेः । तथा हि यत् कृतकं तत् सर्वम् अनित्यं कृतकश् च शब्द इत्य् एतावन्मात्रे प्रयुक्ते ऽनित्यः शब्द इति प्रतीतिर् भवत्य् एवान्तरेण प्रतिज्ञावचनम् । नन्व् असति प्रतिज्ञावचने सपक्षादिव्यवस्था कथम् । तथा हि साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः । तदभावप्रभावितश् चासपक्ष इति । असति हि प्रतिज्ञानिर्देशे पक्षापेक्षानिबन्धनं त्रैरूप्यं नास्तीति । असद् एतत् । तथा हि प्रतिज्ञावचनम् अन्तरेणापि सर्वं संपद्यत एव । उपनय न स्य पुनर् अर्थः पक्षधर्मवचनेनैव निर्दिष्ट इति न तत्पूर्वके तस्य कश्चिद् उपयोगः । व्याप्तिपूर्वके वचने पक्षधर्मवचनाद् एव तदर्थसिद्धेः किम् अनेनोपनयेन । निगमनम् अप्य् अनिष्टं साधनवाक्याङ्गम् इति ॥
10. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् इत्य् उक्तम् । त्रयाणां रूपाणाम् एकस्यापि रूपस्यानुक्तौ साधनाभासः । उक्तस्याप्य् असिद्धौ संदेहे च प्रतिपा द्यप्रतिपा दकयोः । त्रयाणां रूपाणां मध्य एकस्यानुक्तौ । अपिशब्दाद् द्वयोर् अपि । साधनस्याभासः साधनस्य सदृशम् इत्य् अर्थः । उक्तस्यापिशब्दाद् अनुक्ताव् अपि । असिद्धौ संदेहे वा प्रतिपाद्यस्य प्रतिपादकस्य हेत्वाभासः ।
11. तत्रैकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो हेत्वाभासः । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वम् उभयासिद्धम् । चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम् । विज्ञानेन्द्रियायुर्निरोधैअक्षणस्य मरणस्यानेनाभ्युपगमात् । अचेतनाः सुखादय इति साध्य उत्पत्तिमत्त्वम् अनित्यत्वं वा सांख्यस्य स्वयंवादिनो ऽसिद्धम् । अत्र चोत्पत्तिमत्त्वम् अनित्यत्वं वा पर्यायेण हेतुर् न युगपत् तथा हि परार्थो हेतूपन्यासः । परस्य चासत उत्पाद उत्पत्तिमत्त्वं सतश् च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् इति । तथा स्वयं तदाश्रयणस्य वा संदेहे ऽसिद्धः । यथा बास्पादिभावेन संदिग्धो भूतसंघातो ऽग्निसिद्धौ भूतानां पृथिव्यादीनां संघातः समूहो ऽग्निसिद्ध्यर्थम् उपादीयमानो ऽसिद्धः । यथा चेह निकूञ्जेमयूरः केकायिताद् इति तदापातदेशविभ्रमे । आपातनम् आपातस् तस्य केकायितस्यापात उत्पादस् तस्य देशस् तस्य विभ्रमो भ्रान्तिः । अथ वा आपतत्य् आगच्छत्य् अस्माद् इत्य् आपातः । स एव देशस् तदापातदेशः । तस्य विभ्रमे । यत् पुनर् उच्यते ऽन्यैर् आपात आगमनम् इति तद् अयुक्तम् । ( त्स् 301 ) न हि श्रोत्रेन्द्रियस्य प्राप्यकारिता घटते । नापीदं बौद्धदर्शनम् । तथा ह्य् उक्तम् अभिधर्मकोशे ।
चक्षुःश्रोत्रमनो ऽप्राप्तविषयं त्रयम् अन्यथेति ।
आश्रयासिद्ध्याप्य् असिद्धः । यथा सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वाद् आकाशवत् । सर्वत्रोपलभ्यमानगुणाः सुखादयो यस्य तद्भावस् तत्त्वं । तस्माद् यद्य् अयम् आत्मा सर्वगतो न भवेत् । कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्यन्ते । आकाशवद् इति दृष्टान्ते आकाशस्य गुणः शब्दः । स च यथा विकारिणि पुरुष उपलभ्यते तथान्यत्रापीति । स्याद् एष हेतुर् यदि बौद्धस्य सर्वत्रोपलभ्यमानगुणत्वम् आत्मनः सिद्धं स्यात् । यावद् आत्मैव न सिद्धः ॥ तद् एवम् असिद्धः षट्प्रकारः ॥ ॥ ॥
12. तथैकस्य रूपस्यासपक्षे ऽसत्त्वस्यासिद्धाव् अनैकान्तिको हेत्वाभासः । यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेय त्वा दिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः । नित्यत्वादिक इत्य् आत्रादिशब्देन प्रयत्नानन्तरीयकत्वाप्रयत्नानन्तरीयकत्वयोर् ग्रहणम् । प्रमेयत्वादिक इत्य् अत्रादिशब्देनानित्यत्वास्पर्शत्वयोर् ग्रहणम् । किंभूतः प्रमेयत्वादिको धर्मो ऽनैकान्तिकः । सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः । नित्यः शब्दः प्रमेयत्वाद् इत्य् अत्र नित्यत्वे साध्ये प्रमेयत्वं सपक्षविपक्षयोर् वर्तते । एकदेशे च वर्तमान इत्य् अत्रापि सपक्षविपक्षयोर् इति संबन्धनीयं । चशब्देनैतत् कथयति । न केवलं सपक्षविपक्षव्यापि ( त्स् 302 ) प्रमेयत्वम् अनैकान्तिको हेत्वाभासः । यो ऽपि सपक्षव्यापी विपक्षैकदेशवृत्तिः । तथा विपक्षव्यापी सपक्षैकदेशवृत्तीः । यो वा सपक्षविपक्षयोर् एकदेशवृत्तिः सर्वो ऽसाव् अनैकान्तिको हेत्वाभास इति । तत्र प्रयत्नानन्तरियकः शब्दो ऽनित्यत्वाद् घटवद् इत्य् अयं विपक्षैकदेशवृत्तिः । विद्युति वर्तमान् अत्व् आद् आकाशादाव् अवर्तमान् अत्व् आत् सपक्षव्यापी तु भवत्य् एव । सर्वस्य प्रयत्नानन्तरीयकस्यानित्यत्वात् । अप्रयत्नानन्तरीयकः शब्दो ऽनित्यत्वाद् विद्युद् इव । अयं सपक्षैकदेशवृत्तिः । अप्रयत्नानन्तरीयको ऽस्य सपक्षो ऽविद्युदाकाशादिः । तत्रानित्यत्वं विद्युति वर्तते नाकाशादौ । विपक्षव्यापीतु भवत्य् एव । सर्वप्रयत्नानन्तरीयके ऽनित्यत्वस्य गतत्वात् । नित्यः शब्दो ऽस्पर्शत्वात् परशुवत् । अस्पर्शत्वं हि विपक्षैकदेशे बुद्ध्यादौ सपक्षैकदेशे चाकाशादौ वर्तत इत्य् उभयपक्षैकदेशवृत्तिः । एवं चतुर्विधः साधारणानैकान्तिको निर्दिष्टः ॥
13. तथा ऽस्यैव रूपस्य संदेहे ऽप्य् अनैकान्तिक एव । यथा सर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः । सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यत इति । एवं प्रकारस्यानुपलम्भस्यादृष्यात्मविषयत्वेन संदेहहेतुत्वात् । असर्वज्ञविपर्ययाद् वक्तृत्वादेर् व्यावृत्तिः संदिग्धा ॥
14. द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धः । कयोर् द्वयोः । सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धहेत्वाभासः ॥ द्वयोर् उपादानम् असपक्षव्याप्यसपक्षैकदेशवृत्तित्वेन भेदात् । अनयोः ( त्स् 303 ) सपक्षे ऽसत्त्वम् असपक्षे च सत्त्वम् इति विपर्ययसिद्धिः । एतौ साध्यविपर्ययसाधनाद् विरुद्धौ ॥ द्वयो रूपयोर् एकस्यासिद्धाव् अपरस्य च संदेहे ऽनैकान्तिकः । द्वयोर् इत्य् अन्वयव्यतिरेकयोः । एकस्यासिद्धाव् इति । असपक्षे ऽसत्त्वस्य । अपरस्य संदेह इति सपक्षे सत्त्वस्य । यथा वीतरागः सर्वज्ञो वा वक्तृत्वाद् इति । व्यतिरेको ऽत्रासिद्धः संदिग्धो ऽन्वयः । सर्वज्ञवीतरागयोर् विप्रकर्षाद् वचनादेस् तत्र सत्त्वम् असत्त्वं वा संदिग्धम् । अनयोर् एव द्वयो रूपयोः संदेहे ऽनैकान्तिकः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति । न हि सात्मकानत्मकाभ्याम् अन्यो राशिर् अस्ति यत्र प्रणादिर् व र् तते । नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः । अत एवान्वयव्यतिरेकयोः संदेहाद् अनैकान्तिकः । साध्येतरयोर् अतो निश्चयाभवात् ।
15. एवम् एतेषां त्रयाणां रूपाणां एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ संदेहे च यथायोगम् असिद्धविरुद्धानैकान्तिकास् त्रयो हेत्वाभासाः । एवम् अनन्तरोक्तेन क्रमेण त्रयो हेत्वाभसः । असिद्धविरुद्धानैकान्तिकाः । त्रायाणां रूपाणां पक्षधर्मान्वयव्यतिरेकाख्यानां मध्ये । एकैकस्य रूपस्यासिद्धौ संदेहे च । तथा द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ संदेहे च यथायोगम् इति यथासंभवम् । तत्र धर्मिसंबन्धस्यैकस्य रूपस्यासिद्धाव् असिद्धः । तथा सपक्षे सत्त्वस्यासिद्धौ संदेहे चानैकान्तिक उक्तः । एवम् एकैकस्य रूपस्यासिद्धौ संदेहे चासिद्धो ऽनैकान्तिकश् च हेत्वाभास ( त्स् 304 ) उक्तः । तथा द्वयोर् द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धो हेत्वाभास उक्तः । असपक्षे सत्त्वस्य च संदेहे वा ऽनैकान्तिक उक्तः । तथा सपक्षासपक्षयोर् अपि हेतोः सदसत्त्वसंदेहे ऽनैकान्तिक एव । एवं द्वयोर् द्वयोर् असिद्धौ संदेहे च विरुद्धो ऽनैकान्तिकश् च हेत्वाभास इति ।
16. ननु कथम् उक्तं त्रयो हेत्वाभासा इति । यावता वैफल्यम् अपि हेतोः पृथग्दूषणम् अस्ति । तद् उक्तम् ।
साधनं यद् विवादेन न्यस्तं तच् चेन् न साध्यते ।
किं साध्यम् अन्यथानिष्टं भवेद् वैफल्यम् एव वा ॥ इति
अत्र केचिद् आहुः सत्यम् अस्त्य् एव वैफल्यं हेतोः पृथग्दूषणं । यत् पुनर् असिद्धविरुद्धानैकान्तिककथनं विनिश्चयादौ तद् असामर्थ्यप्रभेदेन । द्विविधं हि साधनस्य दूषणं भवति । असामर्थ्यं वैयर्थ्यं च । असामर्थ्यं त्व् असिद्धविरुद्धानैकन्तिकभेदात् त्रिविधम् । वैयर्थ्यं त्व् एकम् एवेति । स्याद् एतद् यदि वैयर्थ्यं नाम हेतो र् दूषणं स्यात् किं तु प्रमाणस्य । तद् उक्तम् उद्योतकरेणापि । अधिगतम् अपि गमयता प्रमाणेन पिष्टं पिष्टं स्याद् इति । न्यायपरमेश्वरैर् अपि कीर्त्तिपादैर् उक्तम् ।
निष्पादितक्रिये कश्चिद् विशेषम् असमादधत् ।
कर्मण्य् ऐन्द्रियम् अन्यद् वा साधनं किम् इतीष्यत इति
ततश् च कथम् इदं वैयर्थ्यं हेतोर् दूषणम् । ( त्स् 305 ) अथैवम् उच्यते प्रमाणाजनकत्वाद् धेतुर् अपि व्यर्थ उच्यत इति । एवं हि वास्तवम् इदं हेतोर् न दूषणं स्यात् । वास्तवं दूषणं वक्तव्यं । किं च । यदि वैयर्थ्यं हेतोर् दूषनं भिन्नं स्यात् । यथासिद्धताप्रतिपक्षेण हेतो रूपं पक्षधर्मता । विरुद्धताप्रतिपक्षेणान्वयः । अनैकान्तिकताप्रतिपक्षेन च व्यतिरेकश् चोक्तः । तथा वैयर्थ्यप्रतिपक्षेणाप्य् अन्यद् रूपम् उक्तं स्यात् । न चान्यद् रूपं हेतोर् घटते । यदि तर्हीदं वैयर्थ्यं न पृथग्दूषणं कथं तर्ह्य् अनेन वादी निगृह्यते ॥
17. अत्र केचिद् आहुः । असिद्ध एव वैयर्थ्यं अन्तर् भवतीति । तथा हि जिज्ञासितविशेषो धर्मी पक्षः । तद्धर्मश् च हेतुः । ततो ऽपक्षधर्मत्वाद् वैयर्थ्यम् असिद्ध एवान्तर्याति । अन्ये तु सुधिय एवम् आहुः । नेदं हेतोर् दूषणं किं तु परार्थानुमाने वक्तुर् अपि गुणदोषा श् चिन्त्यन्ते इति विफलाभिधायी अप्रतिभयैव निगृह्यत इति । तथा हि प्रकृतम् एव साध्यं नाप्रकृतम् इति साध्यतायाः प्रकृतेर् नियामक एष पन्था । एवं कृत्वा परिसंख्यानं न विरुध्यते । दोषाः पुनर् न्यूनत्वम् असिद्धिर् वादिना साधयितुम् इष्टस्यार्थस्य विपर्ययसाधनम् अष्टादश दृष्टान्तदोषाश् चेति । अत्र च यच् चोद्यं परिहारश्च तद् ग्रन्थविस्तरभयान् न लिखितम् इति । स्थितम् एतद् ( त्स् 306 ) यदि वैयर्थ्यं हेतोर् दूषणं तदासिद्ध एवान्तर्भवति । नो चेद् अप्रतिभयैवेति ॥
18. त्रिइअक्षणो हेतुर् उक्तस् तावतार्थप्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथग् उच्यते गतार्थत्वात् । हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती रूपम् उक्तम् अभेदेन इ पुनर् अविशेषेण कार्यस्वभावयोर् जन्मतन्मात्रानुबन्धौ दर्शनीयाव् उक्तौ । रूपशब्दः प्रत्येकम् अभिसंबध्यते । हेतोः सपक्ष एव सत्त्वम् इति साध्येनानुगतम् इदम् एकं रूपम् असपक्षाच् च सर्वतो व्यावृत्तिर् इति साध्यनिवृत्त्या निवृत्तिर् अस्य द्वितीयं रूपम् उक्तम् । अभेदेनेति स्वभावादिहेतुम् अकृत्वा । जन्मतन्मात्रे सत्य् अनुबद्धौ । साधानं कृतेति समासः । तच् च दर्शयता धूमस् तत्राग्निर् इति असत्य् अग्नौ न क्वचिद् धुमो यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम् अनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोर् इति दर्शनीयम् । न ह्य् अन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुं । तत्कार्यतानियमः कार्यलिङ्गस्य च स्वभावव्याप्तिः । तस्याग्न्यादेः कार्यं तत्कार्यं तस्य भावस् तत्कार्यता । न ह्य् अन्यथा शक्यो दर्शयितुम् इति लिङ्गवचनविपरिणामेन सम्बन्धनीयम् ॥
19. अस्मिंश् चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति । एतावन्मात्रत्वात् तस्येति । एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति । एतेनैवेति हेतुलक्षणाभिधानेनैव दृष्टान्तस्यापि सामर्थ्याद् गतार्थत्वेन दृष्टान्तदोषा ( त्स् 307 ) अपि साधनत्वेन प्रत्याख्याता भवन्ति । येन हेतोः सामान्यविशेषलक्षणं यथोक्तं प्रदर्श्यते स संयग्दृष्टान्तः । येन पुनस् तस्य लक्षणद्वयं न प्रदर्श्यते सो दृष्टान्ताभास इत्य् उक्तं भवति । यथा नित्यः शब्दः । अमूर्तत्वात् । कर्मवद् इति साध्यधर्मविकलो दृष्टान्ताभासः । अत्र हि कर्मणि नित्यत्वं साध्यधर्मो नास्ति । अनित्यत्वात् कर्मनः । अमूर्तत्वं हि साधनधर्मो ऽस्ति । अमूर्तत्वाद् अस्य । नित्यः शब्दः । अमूर्तत्वात् परमाणुवद् इति । साधनधर्मविकलः । साध्यधर्मो ऽत्र नित्यत्वम् अस्ति नित्यत्वात् परमाणोः । नित्यः शब्दो ऽमूर्तत्वाद् घटवद् इति । उभयधर्मविकलो ऽनित्यत्वान् मूर्तत्वाद् घटस्य । रागादिमान् अयं पुरुषो वचनात् । रथ्यापुरुषवत् । संदिग्धसाध्यधर्मो ऽयं दृष्टान्ताभासः । रथ्यापुरुषे वचनं प्रत्यक्षेणैव निश्चितम् इति साधनधर्मस् तत्र सिद्धः । साध्यधर्मस् तु रागादिमत्वं संदिग्धम् । मरणधर्मा ऽयं पुरुषः । रागादिमत्वाद् रथ्यापुरुषवत् । रथ्यापुरुषे मरणधर्मत्वं साध्यधर्म उत्पत्तिमत्त्वादिना लिङ्गेन निश्चितं रागादिमत्त्वं त्व् अनिश्चितम् इति संदिग्ध साधन धर्मा । असर्वज्ञो ऽयं पुरुषो रागादीमत्त्वाद् रथ्यापुरुषवत् । संदिग्धोभयधर्मा । साध्यधर्मसाधनधर्मव्यावृत्तेर् रथ्यापुरुषे निश्चेतुम् अशक्यत्वाद् अन्वयो । यत्र साध्येन हेतोर् व्याप्तिर् नास्ति सो ऽनन्वयः । यो वक्ता स रागादिमान् इष्टपुरुषवत् । अत्रान्वयो नास्ति । न हि रागादीनां वचनस्य तादात्म्यलक्षणस् तदुत्पत्तिलक्षनो वा प्रतिबन्धो ऽस्ति येनात्रान्वयः ( त्स् 308 ) स्यात् । अप्रतिदर्शितान्वयः । यथानित्यः शब्दः कृतकत्वाद् घटवद् । अत्र यद्य् अपि कृतकत्वस्यानित्यत्वेनान्वयो ऽस्ति । न तु वचनेनाख्यात इत्य् अविद्यमान इवासौ । व्याप्यव्यापकभावस्य वचनेनाप्रदर्शितत्वाद् इति । विपरीतान्वयः । यथा यद् अनित्यं तत् कृतकम् । अत्र हि यत् कृतकं तद् अनित्यम् इत्य् अन्वये वक्तव्ये यद् अनित्यं तत् कृतकम् इति विपरीतम् अन्वयं करोति सर्व एते दृष्टान्तदोषाः साधर्म्येण ॥
20. तथा वैधर्म्येणापि । यथा नित्यः शब्दः । अमूर्तत्वात् । परमाणुवद् इति साध्याव्यतिरेकी । नित्यत्वात् परमाणोः साध्यं न व्यावृत्तम् । अत्रैव कर्मवद् इति दृष्टान्ते साधनाव्यतिरेकी । अमूर्तत्वात् कर्मणः । साधनम् अत्राव्यावृत्तम् । आकाशवद् इति कृत उभयाव्यतिरेकी । अतो ह्य् उभयं न व्यावृत्तं । नित्यत्वाद् अमूर्तत्वाद् आकाशस्य । तथा संदिग्धसाध्यव्यतिरेकः । यथा ऽसर्वज्ञाः कपिलादयः । अविद्यमानसर्वज्ञतालिङ्गभूतप्रमाणातिशयशासनत्वात् । अत्र वैधर्म्योदाहरणम् । यः सर्वज्ञः स ज्योतिर्ज्ञानादिकम् उपदिष्टवान् । यथा वर्धमानादिः । वर्धमानादेर् असर्वज्ञतायाः साध्यधर्मस्य संदिग्धो उभयव्यतिरेकः । संदिगह व्यतिरेकः । संदिग्धसाधन्व्यतिरेकः यथा न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वात् । अत्र वैधर्म्योदाहरणम् । ये ग्राह्यवचना न ते रागादिमन्तस् तद् यथा गौतमादयो धर्मशास्त्राणां प्रणेतारः । गौतमादिभ्यो रगादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा । संदिग्धोभयव्यतिरेकः । यथावीतरागाः कपिलादयः । परिग्रहाग्रहयोगात् । परिग्रहो जीवितपरिष्काराणं स्वीकारः । आग्रहस् तेष्व् ( त्स् 309 ) एवाभिष्वङ्गः । अत्र वैधर्म्याद् उदाहरणम् । यो वीतरागो न तस्य परिग्रहाग्रहौ । यथा ऋषभादेः । ऋषभादेर् अवीतरागत्वपरिग्रहाग्रहयोः साध्यसाधनधर्मयोर् व्यतिरेकः संदिग्धः । अव्यतिरेको यथावीतरागो वक्तृत्वात् । यत्र वीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्य् अपि उपलखण्डाद् उभयं व्यावृत्तं । तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेर् अव्यतिरेकः । अप्रदर्शितव्यतिरेकः । यथानित्यः शब्दः कृतकत्वाद् आकाशवद् इति वैधर्म्येण । यो ह्य् अनित्यः शब्दः कृतकत्वाद् इति प्रयोगे वैधर्म्येणाकाशवद् इति ब्रूयात् तेन विद्यमानो ऽपि व्यतिरेको न प्रदर्शितः तथा । यदाशेषपदार्थोपसंहारेणानित्यत्वाभावे कृतकत्वाभावो यथाकाशवद् इति करोति तदा व्यतिरेको दर्शितो भवति । न पुनर् उपमानमात्रेण । विपरीतव्यतिरेकः । यथा यद् अकृतकं तन् नित्यम् । अत्र हि यन् नित्यं तद् अकृतकम् इति वक्तव्ये । यद् अकृतकं तन् नित्यम् इति वदति ॥
21. न ह्य् एभिर् दृष्टान्ताभासैर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वम् असपक्षे चासत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । एभिः साध्यविकलैर् दृष्टान्ताभासैर् हेतोः सामान्यलक्षणं निश्चयेन न शक्यं दर्शयितुं विशेषलक्षणं वेति संबन्धनीयं तदर्थापत्त्यैषा ं निरासो वेदितव्यः । यस्माद् एभिर् दृष्टान्ताभासैर् द्विविधम् अपि लक्षणं न शक्यं दर्शयितुम् । तस्माद् अर्थापत्त्यैषां निरासो द्रष्टव्यः ॥
22. दूषणा न्यूनताद्युक्तिः । दूष्यते ऽनयेति दूषणा । ( त्स् 310 ) ण्यासश्रन्थो युच् । आदिशब्देनासिद्धविरुद्धानैकान्तिकाः । दृष्टान्तदोषाश् च गृह्यन्ते ये पूर्वं न्यूनतादयः साधनदोषा उक्तास् तेषाम् उद्भावनं तेन परेष्टार्थसिद्धिप्रतिबन्धात् । अनेन च यद् अह्रीकेणोक्तं विपर्ययसाधनम् एव दूषणं नान्यद् इति तद् अपि परास्तं द्रष्टव्यं । न हि विपर्ययसाधनाद् एव दूषणं । विरुद्धवत् । अपि तु परस्याभिप्रेतनिश्चयप्रतिबन्धात् । निश्चयाभावो वा भवति निश्चयविपर्यय इत्य् अस्त्य् एव विपर्ययसिद्धिः । दूषणाभासास् तु जातयः । अभूतदोषोद्भावनानि जात्युत्तराणि । जात्या सदृश्येनोत्तराणि । उत्तरस्थानप्रयुक्तत्वाद् ॥
इति तर्कसोपाने परार्थानुमानपरिच्छेदस् तृतीयः ।
यत् तर्कसोपानम् इदं विधाय पुण्यं मयाप्तं शरदिन्दुशुभ्रम् ।
तेनोत्तमां बोधिम् अहं लभेय लोकश् च निर्यातु भवाद् अशेषः ॥
कृतिर् इयं पण्डितविद्याकरशान्तिपादानाम् ॥ ॥
मूल पाठ: Tarkasopāna · Edition: Giuseppe Tucci in: Minor Buddhist Texts, Part I. Roma 1956 (Serie Orientale Roma, 9), pp. 275-310. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0