तारास्रग्धरास्तोत्र · भाग 14
आर्यतारास्रग्धरास्तोत्र
ओं नमो भगवत्यै आर्यतारायै.
बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री-
संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती ।
भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस्
तारिण्य् आपच्छरण्यैर् नवनुतिकुसुमस्रग्भिर् अभ्यर्चयामि ॥ त्स्स्_1
दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर् दुर्भगः कांदिशीकः
किं किं मूढः करोमीत्य् असकृद् अपि कृतारम्भवैयर्थ्यखिन्नः ।
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम्
आलोकाशानिबद्धः परगतिगमनस् त्वां श्रये पापहन्त्रीं ॥ त्स्स्_2
सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणम् उपगतं मादृशस्याप्य् अवश्यम् ।
सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं
दुःखीवाहं तथापि प्रतपति धिग् अहो दुष्कृतं दुर्विदग्धम् ॥ त्स्स्_3
धिग् धिग् मां मन्दभाग्यं दिवसकररुचाप्य् अप्रणुण्णान्धकारं
तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः ।
रत्नद्वीपप्रतोल्याविपुलमणिगुहागेहगर्भे दरिद्रं
नाथीकृत्वाप्य् आनाथं भगवति भवतीं सर्वलोकैकधात्रीम् ॥ त्स्स्_4
मातापि स्तन्यहेतोर् विरुवति बहुशः खेदम् आयाति पुत्रे
क्रोधं धत्ते पितापि प्रतिदिवसम् असत्प्रार्थनासु प्रयुक्तः ।
त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली
सर्वेभ्यो ऽभ्यार्चितार्थान् विसृजसि न च ते विक्रिया जातु काचित् ॥ त्स्स्_5
यो यः क्लेशोघवह्निज्वलिततनुर् अहं तारणी तस्य तस्ये-
त्यात्मोपज्ञां प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने ।
वर्धन्ते यावद् अन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः
सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावद् एवानुकम्पा ॥ त्स्स्_6
इत्य् उच्चैर् ऊर्ध्वबाहौ नदति नुतिपदव्याजम् आक्रन्दनादं
नार्हत्य् अन्यो ऽप्य् उपेक्षां जननि जनयितुं किं पुनर् यादृशी त्वम् ।
त्वत्तः पश्यन् परेषाम् अभिमतविभवप्रार्थनाः प्राप्तकामा
दह्ये सह्येन भूयस्तरम् अरतिभुवा संततान्तर्ज्वरेण ॥ त्स्स्_7
पापी यद्य् अस्मि कस्मात् त्वयि मम महती वर्धते भक्तिर् एषा
श्रुत्या स्मृत्या च नाम्नो ऽप्य् अपहरसि हठात् पापम् एका त्वम् एव ।
त्यक्तव्यापारभारा नुदसि मयि कथं कथ्यतां तथ्यकथ्ये
पथ्यं ग्लाने मरिष्यत्य् अपि विपुलकृपः किं भिषग् रोरुधीति ॥ त्स्स्_8
मायामात्सर्यमानप्रभृतिभिर् अधमैस् तुल्यकालं क्रमाच् च
स्वैर् दोषैर् वाक्यमानो मठकरभ इवानेकसाधारणांसः ।
युष्मत्पादाब्जपूजां क्षणम् अपि न लभे यत् तदर्थं विशेषाद्
एषा कार्पण्यदीनाक्षरपदरचना स्यान् ममावन्ध्यकामा ॥ त्स्स्_9
कल्पान्तभ्रान्तवातभ्रमितजलवलल्लोलकल्लोलहेला-
संक्षोभोत्क्षिप्तवेलातटविकटचटस्फोटमोटाट्टहासात् ।
मज्जद्भिर् भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः
स्वच्छन्दं देवि सद्यस् त्वदभिभूतिपरैस् तीरम् उत्तीर्यते ऽब्धेः ॥ त्स्स्_10
धूमभ्रान्ताभ्रगर्भोद्भवगगणगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग-
स्फूर्जज् ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः ।
त्वय्य् आबद्धप्रणमाञ्जलिपुटमुकुटा गद्गदोद्गीतयाज्ञाः
प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैर् आप्रियन्ते क्षणेन ॥ त्स्स्_11
दानांभःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला-
हुंकाराहूयमानप्रतिगजजनितद्वेषवह्नेर् द्विपस्य ।
दन्तान्तोत्तुङ्गदोलातलतुलिततनुस् त्वाम् अनुस्मृत्य मृत्युं
प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः ॥ त्स्स्_12
प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां
शून्याटव्यां कराग्रग्रहविलसदसिस्फोटकस्फीतदर्पान् ।
दस्यून् दास्ये नियुङ्क्ते सभृकुटीकुटिलभ्रूकटाक्षेक्षिताक्षांश्
चिन्तालेखन्य् अखिन्नस्फुटलिखितपदं नामधामश्रियां ते ॥ त्स्स्_13
वज्रक्रूरप्रहारप्रखरणखमुखोत्खातमत्तेभकुम्भश्
च्योतत्सान्द्रास्रधौतस्फुटविकटसटासंकटस्कन्धसंधिः ।
क्रुध्यन्न् आपित्सुर् आराद् उपरि मृगरिपुस् तीक्ष्णदांष्ट्रोत्कटास्यस्
त्रस्यन्न् आवृत्य याति त्वदुचितरचितस्तोत्रदुग्धार्थवाचः ॥ त्स्स्_14
धूमावर्तान्धकाराकृतिविकृतिफणिस्फारफूत्कारपूर-
व्यापारव्यात्तवक्त्रस्फुरदुरुरसनारज्जुकीनाशपाशैः ।
पापात् संभूय भूयस् तव गुणगणना तत्परस् त्वत्परात्मा
धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिं ॥ त्स्स्_15
भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेशश्
चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः ।
क्षुत्तृट्क्षामोष्ठकण्ठस् त्यजति स सपदि व्यापदं तां दुरन्तां
यो यायाद् आर्याताराचरणशरणतां स्निग्धवन्धूज्झितो ऽपि ॥ त्स्स्_16
मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या-
रूपारम्भानुरूपप्रहरणकिरणाडंबरोड्डामराणि ।
त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्या वहन्त्य् अप्रधृष्यं
प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्राञ्जि रक्षांसि रक्षां ॥ त्स्स्_17
गर्जज्जीमूतमूर्तित्रिमदमदनदीबध्हधारान्धकारे
विद्युद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे ।
रुद्धः संग्रामकाले प्रबलभुजबलैर् विद्विषद्भिर् द्विषद्भिस्
त्वद्दत्तोत्साहपुष्टिः प्रसभम् अरिमहीम् एकवीरः पिनष्टि ॥ त्स्स्_18
पापाचारानुबन्धोद्धतगदविगलत्पूतिपूयास्रविस्र-
त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः ।
युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता
जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः ॥ त्स्स्_19
विश्रान्तं श्रोत्रपात्रे गुरुभिर् उपहृतां यास्य नाम्नायं भैक्ष्यं
विद्वद्गोष्ठीषु यश् च श्रुतधनविरहान् मूकताम् अभ्युपैति ।
सर्वालंकारभूषाविभावसमुदितं प्राप्य वागीश्वरत्वं
सो ऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि ॥ त्स्स्_20
भूशय्याधूलिधूम्रस्फुटितकटकटीकर्पटोद्घाटिताङ्गो
यूकायुंषि प्रपिंशन् परपुरपुरतः कर्परे तर्पणार्थी ।
त्वाम् आराध्याध्यवस्यन्वरयुवतिवहच्चामरस्मेरचार्वीम्
उर्वीं धत्ते मदान्धद्विपदशनघनाम् उद्धृतैकातपत्रां ॥ त्स्स्_21
सेवाकर्मान्तशिल्पाप्रणयविनिमयोपायपर्यायखिन्नः
प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तम् अप्राप्नुवन्तः ।
दैवातिक्रामनीं त्वां कृपणजनजनन्य् अर्थम् अभ्यर्थ्य भूयो
भूमेर् निर्वान्तचामीकरनिकरनिधीन् निर्द्धना प्राप्नुवन्ति ॥ त्स्स्_22
वृत्तिछेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो
दूराद् आत्मंभरित्वात् स्वजनसुतसुहृद्बन्धुभिर् वर्ज्यमानः ।
त्वय्य् आवेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम्
ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः ॥ त्स्स्_23
चक्रंदिक्चक्रचुम्बि स्फुरदुरुकिरणा लक्षणालंकृतास्त्री
षड्दन्तो दन्तिमुख्यः शिखिगलरुचिरश्यामरोमा वराश्वः ।
भास्वद्भास्वन्मयूखो मणिर् अमलगुणः कोषभृत् पूर्णकोषः
सेनानीर् वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् ॥ त्स्स्_24
स्वच्छन्दश् चन्दनांभःसुरभिमणिशिलादत्तसंकेतकान्तः
कान्ताक्रीडानुरागाद् अभिनवरचितातिथ्यतथ्योपचारः ।
त्वद्विद्यालब्धसिद्धिर् मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशुश्यामपीनोन्नतभुजपरिघ प्रोल्लसत्पारिहार्यः ॥ त्स्स्_25
हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्धमानायताक्षा
मन्दारोदारवेणीतरुणपरिमलामोघमाद्यद्द्विरेफाः ।
काचीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास्
त्वन्नाथं प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः ॥ त्स्स्_26
रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम्
उन्मज्जत्पारिजातद्रुमधुरमधूद्धूतधूलीवितानाम् ।
वीणावेणुप्रवीणामरपुररमणीदत्तमाधूर्यतूर्यां
कृत्वायुष्मत्सपर्याम् अनुभवति चिरं नन्दनोद्यानयात्राम् ॥ त्स्स्_27
कर्पूरैलालवङ्गत्वगगरुनलदक्षोगन्धोदकायां
दान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् ।
मन्दाकिन्याम् अमन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः
क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः ॥ त्स्स्_28
गीर्वाणग्रामणीभिर् विनयभरनमन्मौलिभिर् वन्दिताज्ञः
स्वर्गोत्सङ्गे धिरूढः सुरकरिणि रणद्भूषणोद्भासिताङ्गे ।
शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः
पूतस् त्वद्दृष्टिपातैर् अवति सुरमहीं हीरभिन्नप्रकोष्ठः ॥ त्स्स्_29
चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं
प्रोद्यद्बालार्ककोटिपटुतरकिरणापूर्यमानत्रिलोकम् ।
प्रौढालीढैकपदं क्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णु
त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् ॥ त्स्स्_30
पश्यन्त्य् एके सकोपं प्रहरणकिरणोद्गूर्णदोर्दण्डखण्ड-
व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्याम् ।
द्विष्टव्युत्त्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला-
वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् ॥ त्स्स्_31
केचित् त्व् एकैकरोमोद्गमगतगगणाभोगभूभूतलस्थ-
स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् ।
दिक्चक्राक्रामिधामस्थितसुगतशतानन्तनिर्माणचित्रम्
चित्रं त्रैलोक्यवन्द्यं स्थिरचररचिताशेषभावस्वभावम् ॥ त्स्स्_32
लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यम् एके
श्रीमत्सान्द्रेन्द्रनीलोपलदलदलितक्षोदनीलं तथान्ये ।
क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित्
त्वद्रूपं विश्वरूपं स्फटिकवद् उपधायुक्तिभेदाद् विभिन्नम् ॥ त्स्स्_33
सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी
साक्षाद् वेत्ति त्वदीयं गुणगणगणनां सर्ववित् तत्सुतो वा ।
यत् तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रटीति
व्यापत् सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः ॥ त्स्स्_34
यन् मे विज्ञप्स्यमानं प्रथमतरम् अदस् त्वं विशेषेण वेत्त्री
त्वद्व्याहारातिरेकश्रमविधिर् अबुधस्वान्तसंतोषहेतुः ।
किं तु स्निग्धस्य बन्धोर् विषं इव पुरतो दुःखम् उद्गीर्य वाचा
ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव ॥ त्स्स्_35
कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं
पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्तः ।
त्वत्स्तोत्रांभःपवित्रीकृतमनसि मयि श्रेयसः स्थानम् एकं
दृष्टं यस्माद् अमोघं जगति तव गुणस्तोत्रमात्रं प्रजानाम् ॥ त्स्स्_36
संस्तुत्य त्वद्गुणौघावयवम् अनियतेयत्तम् आप्तं मया यत् ।
पुण्यं पुण्याहवाञ्छाफलमधुररसास्वादम् आमुक्तिभोग्यम् ।
लोकस् तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्नाम्
अह्नायायं प्रयायात् सुगतसुतमहीं तां सुखावत्युपाख्याम् ॥ त्स्स्_37
मूल पाठ: Tārāsragdharāstotra · Edition: Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0