भाषा

ENहिગુ
ग्रंथ पाठ

ताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र · भाग 13

आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र
ओं नमः श्रीमदार्यतारायै
श्रीमत्पोतलके रम्ये नानाधातुविराजिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥ त्भ्_1
नानानिर्झरझंकारे नानामृगसमाकुले ।
नानाकुसुमजातीभिः समन्ताद् अधिवासिते ॥ त्भ्_2
नानाहृदयफलोपेते षट्पदोद्गीतनिस्वने ।
किन्नरैर् मधुरैर् गीतैर् मत्तवारणसंकुले ॥ त्भ्_3
सिद्धविद्याधारगणैः गन्धर्वैश् च निनादिते ।
मुनिभिर् वीतरागैश् च सततं संनिषेविते ॥ त्भ्_4
बोधिसत्वगणैश् चान्यैः दशभूमीश्वरैर् अपि ।
आयतारादिभिर् देवीविद्याराज्ञीसहस्रकैः ॥ त्भ्_5
क्रोधराजगणैश् चान्यैः हयग्रीवादिभिर् वृते ।
सर्वसत्वहितोद्युक्तो भगवान् अवलोकितः ॥ त्भ्_6
विजहार ततः श्रीमान् पद्मगर्भासने स्थितः ।
महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥ त्भ्_7
धर्मं दिदेश तस्यां स महत्यां देवपर्षदि ।
तत्रोपविष्टम् आगम्य वज्रपाणिर् महाबलः ॥ त्भ्_8
परमकृपया युक्तः पप्रच्छेत्य् अवलोकितम् ।
तस्करोरगसिंहाग्निगजव्याघ्राम्बुसंकटे ॥ त्भ्_9
सीदन्त्य् अमी मुने सत्वा मग्नाः संसारसागरे ।
बद्धाः संसारकैः पाशै रागद्वेषतमोपहैः ॥ त्भ्_10
मुच्यन्ते येन संसारात् तन् मे ब्रूहि महामुने ।
एवम् उक्ते जगन्नाथः स श्रीमान् अवलोकितः ॥ त्भ्_10बिस्
उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनम् ।
शृणु गुह्यकराजेन्द्र अमिताभस्य तायिनः ॥ त्भ्_11
प्रणिधानवशोत्पन्ना ममाज्ञा लोकमातरः ।
महाकरुणयोपेता जगदुद्धरणोद्धृताः ॥ त्भ्_12
उदितादित्यसंकाशाः पूर्णेन्दुवदनप्रभाः ।
भासयन्ति द्रुमांस् ताराः सदेवासुरमानुषान् ॥ त्भ्_13
कम्पयन्ति त्रयो लोकान् त्रास्यन्ती यक्षराक्षसान् ।
नीलोत्पलकरा देवी मा भैर् मा भैर् इति ब्रुवन् ॥ त्भ्_14
जगत्संरक्षणार्थाय अहम् उत्पादिता जिनैः ।
कान्तारे शस्त्रसंपर्के नानाभयसमाकुले ॥ त्भ्_15
स्मरणाद् एव नामानि सत्वान् रक्षाम्य् अहं सदा ।
तारयिष्याम्य् अहं नाथ नानाभयमहार्णवात् ॥ त्भ्_16
तेन तारेति मं लोके गायन्ति मुनिपुंगवाः ।
कृताञ्जलिपुटा भूत्वा ततः सादरसाध्वसाः ॥ त्भ्_17
ज्वलतीर्यन्तरीक्षेस्थ इदं वचनम् अब्रवीत् ।
नामाष्टशतकं ब्रूहि यत् पुरा कीर्तितं जिनैः ॥ त्भ्_18

दाशभूमीश्वरैर् नाथैर् बोधिसत्वैर् महर्द्धिकैः ।
सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्धनम् ॥ त्भ्_19
धनहान्यकरं चैव आरोग्यपुष्टिवर्धनम् ।
मैत्रीम् आलम्ब्य सत्वानां तत् कीर्तय महामुने ॥ त्भ्_20
एवम् उक्ते ऽथ भगवान् प्रहसन्न् अवलोकितः ।
व्यवलोक्य दिशः सर्वा मैत्र्या स्फुरणया दृशा ॥ त्भ्_21
दक्षिणकरम् उद्धृत्य पुण्यलक्षणमण्डितम् ।
तम् उवाच महाप्राज्ञः साधु साधु महातपः ॥ त्भ्_22
नामानि शृणु महाभाग सर्वसत्वैकवत्सलः ।
यानि संकीर्त्य मनुजाः सम्यक् ते स्युर् धनेश्वराः ॥ त्भ्_23
सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः ।
अकालमृत्युनिर्दग्धाश् च्युता यान्ति सुखावतीम् ॥ त्भ्_24
तान्य् अहं संप्रवक्ष्यामि देवसंघाः शृणुध्व मे
अनुमोदेत सद्धर्मे भविष्यध्वं सुनिर्वृताः ॥ त्भ्_25
ओं लोचने सुलोचने तारे तारोत्सवे सर्वसत्वानुकम्पिनि ।
सर्वसत्वोत्तारिणि सहस्रभुजे सहस्रनेत्रे ॥ त्भ्_26
ओं नमो भगवते ऽवलोक्य आवलोक्या ।
सर्वसत्वानां चाहं फुट् स्वाहा ॥ त्भ्_27
ओं शुद्धे विशुद्धे शोधनविशोधनि ।
सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥ त्भ्_28
महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते ।
महारौद्रि विश्वरूपि महायश ॥ त्भ्_29
कल्पाग्निमहातेजा लोकधात्रीमहायशा ।
सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥ त्भ्_30
ओं धृतिदा पुष्टिदा स्वाहा ओंकारा कामरूपिणी ।
सर्वसत्वहितोद्युक्ता संग्रामे तारणी जया ॥ त्भ्_31
प्रज्ञापारमितादेवी आर्यातारा मनोरमा ।
दुन्दुभिसखिनी पूर्णविद्याराज्ञी प्रियंवदा ॥ त्भ्_32
चन्द्रानना महागौरी अजिता पीतवाससा ।
महामाया महाश्वेता महाबलपराक्रमा ॥ त्भ्_33
महारौद्री महाचण्डी दुष्टसत्वनिसूदनी ।
प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥ त्भ्_34
विद्युन्माली ध्वजी खड्गी चक्री चापयुतायुधा ।
जम्भनी स्तम्भनी काली कालरात्री निशाचरी ॥ त्भ्_35
रक्षणी मोहिनी शान्ता कान्ता विभाविनी शुभा ।
ब्राह्मणी वेदमाता च गुहा च गुहवासिनी ॥ त्भ्_36
माङ्गल्या शङ्करी सौम्या जातवेदा मनोजवा ।
कापालिनी महाभागा संध्या सत्यापराजिता ॥ त्भ्_37
सार्थवाहा कृपदृष्टी नष्टमार्गप्रदर्शनी ।
वरदा शासनी शास्त्री स्त्रीरूपामितविक्रमा ॥ त्भ्_38

शवली योगिनी सिद्धा चाण्डाली चामृता ध्रुवा ।
धन्या पुण्या महाभागा सुभागा प्रियदर्शनी ॥ त्भ्_39
कृतान्तत्रासनी भीमा उग्रा उग्रमहातपा ।
जगदेकहितोद्युक्ता शरण्य भक्तिवत्सला ॥ त्भ्_40
वागीश्वरी शिवा सूक्ष्मा नित्या सर्वार्थमातृका ।
सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनंजया ॥ त्भ्_41
अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा ।
तारा नामगुणानन्ता सर्वाशापरिपूरणी ॥ त्भ्_42
नामाष्टोत्तरशतकं तत् कीर्तितं हितेन वः ।
रहस्यम् अद्भुतं गुह्यं देवानाम् अपि दुर्लभम् । 43
सौभाग्यं भाग्यकरणं सर्वकील्बिषनाशनम् ।
सर्वव्याधिप्रशमनं सर्वसत्वसुखावहम् ॥ त्भ्_44
त्रिकारं यः पठेद् धीमान् शुचिः स्नानसमाहितः ।
अचिरेणैव कालेन राज्यश्रियम् अवाप्नुयात् ॥ त्भ्_45
दुःखितः स्यात् सुखी नित्यदरिद्रो धनवान् भवेत् ।
जडो भवेन् महाप्राज्ञो मेधावी च न संशयः ॥ त्भ्_46
बन्धनान् मुच्यते बद्धो व्यवहारे जयो भवेत् ।
शत्रवो मित्रतां यान्ति शृङ्गिणश् चाथ दंष्ट्रिणः ॥ त्भ्_47
संग्रामे संकटे दुर्गे नानाभयसमाकुले ।
स्मरणाद् एव नामानि सर्वपापान्य् अपोहति ॥ त्भ्_48
नाकालमृत्युर् भवति प्राप्नोति विपुलां श्रियम् ।
मानुश्यं सफलं जन्म यस्य कस्य महात्मनः ॥ त्भ्_49
यश् चेदं प्रातर् उत्थाय मानवः कीर्तयिष्यति ।
स दीर्घकालम् आयुष्मान् श्रियं च लभते नरः ॥ त्भ्_50
देवा नागास् तथा यक्षा गन्धर्वाः कटपूतनाः ।
पिशाचराक्षसा भूता मातरो रौद्रतेजसः ॥ त्भ्_51
क्षयापस्मारकारकश् चैव क्षतकाखोर्डकादयः ।
डाकिन्यास् तारका प्रेताः स्कन्दा मारा महाग्रहाः ॥ त्भ्_52
छायाम् अपि न लङ्घन्ते किं पुनस् तस्य विग्रहः ।
दुष्टसत्वा न वाधन्ते व्याधयो नाक्रमन्ति च ॥ त्भ्_53
देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः ।
सर्वैश्वर्यगुणैर् युक्तः पुत्रपौत्रैश् च वर्धते ॥ त्भ्_54
जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः ॥ त्भ्_55
प्रीतिमांश् च महावाग्मी सर्वशास्त्रविशारदः ॥ त्भ्_56
कल्याणमित्रसंसेवी बोधिचित्तविभूषितः ।
सदाविरहितो बुद्धैर् यत्र यत्रोपपद्यते ॥ त्भ्_57
इत्य् आर्यताराभट्टारिकाया नामाष्टोत्तरशतकं बुद्धभाषितं समाप्तम् ।
॥ शुभम् ॥

मूल पाठ: Tārābhaṭṭārikānāmāṣṭottaraśatakastotra · Edition: Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc