भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रसार · भाग 2121

पानोपभोगलीलाहासादिषु यो भवेद् विमर्शमयः ।
अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ अभ्त्स्_22.38
अव्युच्छिन्नानाहतपरमार्थैर् मन्त्रवीर्यं तत् ।
गमनागमविश्रान्तिषु कर्णे नयने द्विलक्ष्यसम्पर्के ॥ अभ्त्स्_22.39
तत्सम्मीलनयोगे देहान्ताख्ये च यामले चक्रे ।
कुचमध्यहृदयदेशाद् ओष्ठान्ते कण्ठगं यद् अव्यक्तम् ॥ अभ्त्स्_22.40
तच् चक्रद्वयमध्यगम् आकर्ण्य क्षोभविगमसमये यत् ।
निर्वान्ति तत्र चैवं यो ऽष्टविधो नादभैरवः परमः ॥ अभ्त्स्_22.41
ज्योतिर् ध्वनिश् च यस्मात् सा मान्त्री व्याप्तिर् उच्यते परमा ।
कर्मणि कर्मणि विदुषः स्याज् जीवतो मुक्तिः ॥ अभ्त्स्_22.42
तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः ।
शून्याशून्यालयं कुर्याद् एकदण्डे ऽनलानिलौ ॥ अभ्त्स्_22.43
शूलं समरसीकृत्य रसे रसम् इव स्थितम् ।
त्यक्ताशङ्को निराचारो नाहम् अस्मीति भावयन् ॥ अभ्त्स्_22.44
देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने ।
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ अभ्त्स्_22.45
ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम् ॥ अभ्त्स्_22.47
श्वभ्रे सुदूरे झटिति स्वदेहं संपातयन् वासम् असाहसेन ।
आकुञ्च्य हस्तद्वितयं प्रपश्यन् मुद्राम् इमां व्योमचरीं भजेत ॥ अभ्त्स्_22.48
इत्य् एष यामलयागः ॥ अभ्त्स्_22.49
उक्तव्याप्तिके प्राणे विश्वमये प्रोक्तसंविद्व्याप्त्या तर्पणान्नगन्धधूपादिसमर्पणेन उपोद्बलनं प्राणयागः ॥ अभ्त्स्_22.50
विश्रान्तिरूढिस् तु संविद्यागः प्राग् एव निरूपितः ॥ अभ्त्स्_22.51
एवम् एतेभ्यो यागेभ्यो ऽन्यतमं कृत्वा यदि तथाविधनिर्विचिकित्सतापचित्रितहृदयः शिष्यो भवति तदा तस्मै तद्यागदर्शनपूर्वकं तिलाज्याहुतिपूर्वकनिरपेक्षम् एव पूर्वोक्तव्याप्त्या अनुसंधानक्रमेण अवलोकनया दीक्षां कुर्यात् परोक्षदीक्षादिके नैमित्तिकान्ते तु पूर्व एव विधिः ॥ अभ्त्स्_22.52
केवलम् एतद् यागप्रधानतया इति ॥ अभ्त्स्_22.53
गुरुशरीरे सप्तमः कुलयागः सर्वोत्तमः सो ऽपि प्राग् यागसाहित्येन सकृद् एव कृतः सर्वं पूरयति इति शिवम् ॥ अभ्त्स्_22.54

मूल पाठ: Tantrasāra · Edition: Bombay : Nirnaya Sagara Press, 1918 (Kashmir Series of Texts and Studies ; 17) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc