तन्त्रालोक · अध्याय 36
आयातिरथ शास्त्रस्य कथ्यते@वसरागता ।0ब्
श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता ।
भैरवो भैरवी देवी स्वच्छन्दो लाकुलो@णुराट् ॥ 1
गहनेशो@ब्जजः शक्रो गुरुः कोट्यपकर्षतः ।
नवभिः क्रमशो@धीतं नवकोटिप्रविस्तरम् ॥ 2
एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् ।
दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥ 3
पादं च वामनादिभ्यः पादार्धं भार्गवाय च ।
पादपादं तु बलये पादपादस्तु यो@परः ॥ 4
सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे ।
पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥ 5
स्वर्गादर्धं रावणो@थ जह्रे रामो@र्धमप्यतः ।
विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥ 6
खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः ।
खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥ 7
पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः ।
सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥ 8
देव्यो@त्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण ।
नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥ 9
रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्यो@पि दानवाः ।
गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ 10
तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा ।
तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥ 11
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ।
द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ 12
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ।
स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥ 13
अतश्चार्धचतस्रो@त्र मठिकाः संततिक्रमात् ।
शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥ 14
अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् ।
विधाय तन्त्रालोको@यं स्यन्दते सकलान्रसान् ॥ 15
उक्तायातिरुपादेयभावो निर्णीयते@धुना ।
मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0