भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रालोक · अध्याय 24

24.1

अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥ 1ब्

24.2

सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् ।
शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥ 2

24.3

ऊर्ध्वशासनगानां च समयोपहतात्मनाम् ।
अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥ 3

24.4

समयाचारदोषेषु प्रमादात्स्खलितस्य हि ।
अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥ 4

24.5

यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ ।
प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥ 5

24.6

श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते ।
अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥ 6

24.7

संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता ।
पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥ 7

24.8

पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये ।
आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥ 8

24.9

अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि ।
मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥ 9

24.10

कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना ।
न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥ 10

24.11

केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि ।
पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥ 11

24.12

संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् ।
तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥ 12

24.13

बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् ।
घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥ 13

24.14

सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः ।
ताडयेत कलाः सर्वाः कम्पते@सौ ततः पशुः ॥ 14

24.15

उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे ।
प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥ 15

24.16

तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः ।
इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥ 16

24.17

साध्यो@नुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः ।
दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥ 17

24.18

तद्विधिः श्रुतिपत्रे@ब्जे मध्ये देवं सदाशिवम् ।
ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥ 18

24.19

पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् ।
ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ 19

24.20

एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः ।
एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥ 20

24.21

पुर्यष्टकस्याभावे च न स्वर्गनरकादयः ।
तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥ 21

24.22

उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि ।
पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥ 22

24.23

शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् ।
क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥ 23

24.24

इत्युक्तो@न्त्येष्टियागो@यं परमेश्वरभाषितः ॥ 24

मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc