तन्त्रालोक · अध्याय 18
अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते ।
न रजो नाधिवासो@त्र न भूक्षेत्रपरिग्रहः ।
यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ 1
अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः ।
जननादिविहीनां तु येन येनाध्वना गुरुः ॥ 2
कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः ।
परामन्त्रस्ततो@स्येति तत्त्वं संशोधयाम्यथ ॥ 3
स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् ।
एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥ 4
परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् ।
शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥ 5
ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् ।
दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥ 6
प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् ।
यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥ 7
यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः ।
गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥ 8
श्रीब्रह्मयामले चोक्तं संक्षिप्ते@पि हि भावयेत् ।
व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥ 9
अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् ।
क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥ 10
संक्षिप्तो विधिरुक्तो@यं कृपया यः शिवोदितः ।
दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥ 11
मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0