तन्त्राख्यायिक · अध्याय 1
[1,1 : अffए उन्द् केइल्]
अस्ति कश्चिद् वणिजकः ।
नगरसमीपे तेन देवतायतनं क्रियते ।
तत्र ये कर्मकारास् स्थपत्यादयः ! मध्याह्नवेलायाम्
आहारनिमित्तं भोजनमण्डपम् अनुप्रविष्टाः ।
अकस्माच् चानुषङ्गिकं देवगृहे वानरयूथम् आगतम् ।
अथ तत्रैकस्य शिल्पिनो ऽर्धस्फोटितकाष्ठस्तम्भो
अर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावस्तब्धो
अवतिष्ठते ।
तत्र कदाचिद् वानरयूथो गिरिशिखराद् अवतीर्य स्वेच्छया
तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुम् आरब्धः ।
एकस् तु तत्रासन्नविनाशश् चापलाद् उपविश्य स्तम्भे यन्त्रचारम्
उद्दिश्येदम् आह ।
केनायम् अस्थाने कीलको निखातः ।
इति पाणिभ्याम् एव सङ्गृह्योत्पाटितुम् आरब्धः ।
स्थानाच् चलिते कीले यद् वृत्तम् ! तद् अनाख्येयम् ! एवम् एव भवता
ज्ञातम् इति ।
[1,2 स्छकल् उन्द् त्रोम्मेल्]
अस्ति कश्चिद् गोमायुर् आहारविच्छेदात् क्षुत्क्षामकण्ठ इतश् च
इतः परिभ्रमन्न् उभयसैनस्यायोधनभूमिम् अपश्यत् ।
तत्र च महान्तं शब्दम् अशृणोत् ।
तद्भयसंक्षुभितहृदयः किम् इदम् ! विनष्टो ऽस्मि ! कस्यायं
शब्दः ! क्व वा कीदृशो वैष शब्द इति ! चिन्तयता दृष्टा
गिरिशिखराकारा भेरी ।
तां च दृष्ट्वाचिन्तयत् ।
किम् अयं शब्दो ऽस्यास् स्वाभाविकः ! उत परप्रेरित इति ।
अथ सा यदा वायुप्रेरितैर् वृक्षाग्रैस् स्पृश्यते ! तदा शब्दं करोति !
अन्यदा न ! इति तूष्णीम् आस्ते ।
स तु तस्यास् सारासारतां ज्ञातुं संनिकर्षम् उपश्लिष्टः ।
स्वयं च कौतुकाद् उभयोर् मुखयोर् अताडयत् ! अचिन्तयच् च।
गम्यं चैतद् भक्स्यं च मम ।
इत्य् अवधार्यैकदंष्ट्रया क्षुधाविष्टः पाटितवान् ।
परुषत्वाच् च चर्मणः कथमपि न दंष्ट्राभङ्गम् अवाप्तवान् ।
प्रतिबद्धाश् च पुनर् अप्य् अचिन्तयत् ।
नूनम् अस्या अन्तर् भक्ष्यं भविष्यतीति ।
इत्य् अध्यवस्य भेर्या मुखं विदार्यान्तः प्रविष्टः ।
तस्मिन्न् अपि न किञ्चिद् आसादितवान् ।
प्रतिनिवर्तितुम् अशक्तो ऽन्तर्लीनार्धकायो विहस्याब्रवीत् ।
पूर्वम् एव मया ज्ञातम् इति ।
[1,3 द्रेइ सेल्ब्स्त्वेर्स्छुल्देते उन्fäल्ले]
अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम ।
तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान् महत्य्-
अर्थमात्रा संवृत्ता ।
स च न कस्यचिद् अपि विश्वासं याति ।
अथ कदाचिद् आषाढभूतिर् नाम परवित्तापहृत् कथम् इयम्
अर्थमात्रास्य मया परिहर्तव्येति वितर्क्यावलगनरूपेण
उपगम्य तत्कालेन च विश्वासम् अनयत् ।
अथ कदाचिद् असौ परिव्राजकस् तीर्थयात्राप्रसङ्गे तेन
आषाढभूतिना सह गन्तुम् आरब्धः ।
तत्र च कस्मिंश्चिद् वनोद्देशे नदीतीरे मात्रान्तिक
आषाढभूतिम् अवस्थाप्यैकान्तम् उदकग्रहणार्थं गतः ।
अपश्यच् च महन् मेषयुद्धम् ।
अनवरतयुद्धशक्तिसम्पन्नयोश् च तयोश्
शृङ्गपञ्जरान्तरोद्भूतसृग् बहु भूमौ निपतितं दृष्ट्वा
आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस् तज्जिघृक्षुस्
सम्पीडितोद्घातात् सद्यः पञ्चत्वम् अगमत् ।
अथ परिव्राड् विस्मयाविष्टो ऽब्रवीत् ।
जम्बुको हुडुयुद्धेनेति ।
कृतशौचश् चागतस् तम् उद्देशम् आषाढभूमिम् अपि
गृहीतार्थमात्रासारम् अपक्रान्तं नापश्यद् देवशर्मा ।
केवलं त्व्
अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्य्
अपश्यत् ! अचिन्तयच् च ।
क्वासाव् आषाढभूतिः ।
नूनम् अहं तेन मुषितः ।
इत्य् उक्तवान् ।
वयं चाषाढभूतिनेति ।
अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद् ग्रामम् अस्तं
गच्छति रवौ प्रविष्टः ।
प्रविशन्न् एकान्तवासिनं तन्त्रवायम् अपश्यत् ! आवासकं च
प्रार्थितवान् ।
तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य भार्या
अभिहिता ।
यावद् अहं नगरं गत्वा सुहृत्समेतो मधुपानं क्र्त्वा
आगच्छामि ! तावद् अप्रमत्तया गृहे त्वया भाव्यम् ।
इत्य् आदिश्य गतः ।
अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता शरीरसंस्कारं कृत्वा
परिचितसकाशं गन्तुम् आरब्धा ।
अभिमुखश् चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः
परिस्खलितगतिर् अवस्रस्तवासास् समायातः ।
तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलाद् आकल्पम् अपनीय
पूर्वप्रकृतम् एव वेषम् आस्थाय पादशौचशयनाद्यारम्भम्
अकरोत् ।
कौलिकस् तु गृहं प्रविश्य निद्रावशम् अगमत् ।
सुप्तप्रतिबुद्धश् चासौ ताम् आक्रोष्टुम् आरब्धः ।
पुंश्चलि ! त्वद्गतम् अपचारं सुहृदो मे वर्णयन्ति ।
भवतु ।
पुष्टं निग्रहं करिष्यामीति ।
असाव् अपि निर्मर्यादा प्रतिवचनं दातुम् आरब्धा ।
पुनर् अपि चासौ प्रतिबुद्धस् तां मध्यस्तूणायां रज्ज्वा
सुप्रतिबद्धां कृत्वा प्रसुप्तः ।
दूतिकैतां पुनर् गमनाय प्रचोदितवती ।
सा तूत्पन्नप्रतिभा दूतिकाम् आत्मीयदर्शनसंविधानेन
बद्ध्वा कामुकसकाशं ययौ ।
असाव् अपि प्रतिबुद्धस् तथैव ताम् आक्रोष्टुम् आरब्धः ।
दूतिका तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किञ्चिद्
उक्तवती ।
तन्त्रवायस् तु शाठ्याद् इयं न किञ्चिन् ममोत्तरं प्रयच्छति
इत्य् उत्थाय तस्यास् तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत् ।
तिष्ठैवंलक्षणा ।
कस् त्वाम् अधुना वार्त्तां पृच्छति ।
इत्य् उक्त्वा निद्रावशम् उपागमत् ।
आगता च सा तन्त्रवायी दूतिकाम् अपृच्छत् ।
का ते वार्त्ता ।
किम् अयं प्रतिबुद्धो ऽभिहितवान् ।
कथय कथयेति ।
दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षम् आह ।
शिवास् ते सर्वा वार्त्ताः ।
मुञ्च ।
गच्छामीति ।
तथा त्व् अनुष्ठिते नासिकाम् आदायापक्रान्ता ।
तन्त्रवाय्य्- अप्य् कृतकबद्धम् आत्मानं तथैवाकरोत् ।
कौलिकस् तु यथापूर्वम् एव प्रतिबुद्धस् ताम् आक्रोशत् ।
असाव् अपि दुष्टा बहु धृष्टरम् आह ।
धिग्घतो ऽसि ।
को मां निरागसं विरूपयितुं समर्थः ।
शृण्वन्तु मे लोकपालाः ।
यथाहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं
मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं मुखम् अस्त्व्
इति ।
अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्काम्
अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य
हृष्टमना बन्धवाद् अवमुच्य पीडितं च परिष्वज्य शय्याम्
आरोपितवान् ।
परिव्राजकस् त्व् आदित एवारभ्य यथावृत्तम् अर्थम् अभिज्ञातवान् ।
दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् ।
किम् अधुना कर्तव्यम् इति ।
अथ तस्या भर्ता नापितो राजकुलात् प्रत्यूषस्य् आगत्य तां भार्याम् आह
।
समर्पय ! भद्रे ! क्षुरभाण्डम् ।
राजकुले कर्म कर्तव्यम् इति ।
सा च दुष्टाभ्यन्तरस्थैव क्षुरम् एव प्राहिणोत् ।
स च समस्तक्षुरभाण्डासमर्पणात् क्रोधाविष्टचित्तो
नापितस् तम् एव तस्याः क्षुरं प्रतीपं प्राहिणोत् ।
अथासाव् आर्तरवम् उच्छैः कृत्वा पाणिना नासापुटं प्रमृज्य
असृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् ।
परित्रायध्वम् ! परित्रायध्वम् ।
अनेनाहम् अदृष्टदोषा विरूपितेति ।
तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा
विरूपां कीलपार्ष्णिलगुडैर् अतीव हतं पश्चाद् बाहुबन्धश्
च तया सह धर्मस्थानम् उपनीतो नापितः ।
पृच्छ्यमानश् चाधिकृतैः किम् इदं महद् विशसनं स्वदारेषु
त्वया कृतम् इति यदा बहुश उच्यमानो नोत्तरं प्रयच्छति ! तदा
धर्माधिकृताश् शूले ऽवतंस्यताम् इत्य् आज्ञापितवन्तः ।
निष्पापं च परिव्राट् च्छूलस्थानं नीयमानं नापितं दृष्ट्वा
सत्त्वानुकम्पया चोपलब्धतत्त्वार्थो ऽधिकरणम् उपगम्य
धर्मस्थानाधिकृतान् अब्रवीत् ।
नार्हथैनम् अदोषकर्तारं नापितं शूले समारोपयितुम् ।
यत्कारणम् ! इदम् आश्चर्यत्रयं श्रूयताम् ।
[ जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयो ऽनर्थास् स्वयं कृतः
]
समुपलब्धतत्त्वार्थैश् चाधिकृतैः परित्रायितो नापित इति ।
[1,4 क्र्äहे उन्द् स्छ्लन्गे]
अस्ति कस्मिंश्चित् प्रदेशे वृक्षः ! तस्मिंश् च वायसौ दम्पती
प्रतिवसतस् स्म ।
तयोस् तु प्रसवकाले तद्वृक्षविवरानुसार्य्- असञ्जातक्रियाण्य्
एवापत्यानि कृष्णसर्पो भक्षयति स्म ।
अथ तेनापकारनिर्वेदनाद् अन्यवृक्षमूलवासिनं
प्रियसुहृदं गोमायुम् अपृच्छ्यत ! यथा ।
भद्र ! किम् एवं गते प्राप्तकालं भवान् मन्यते ।
बालघातित्वाच् च वृद्धयोर् अभाव एवावयोः ।
गोमायुः ।
[ भक्षयित्वा बहून् मत्स्यान् उत्तमाधममध्यमान् ।
अतिलौल्याद् बकः पश्चान् मृतः कर्कटविग्रहात्
]
वायसः ।
कथं चैतत् ।
गोमायुः ।
[1,5 रेइहेर् उन्द् क्रेब्स्]
अस्ति ! कश्चिद् बको वृद्धभावात् सुखोपायां वृत्तिम्
आकाङ्क्षमाणः कस्मिंश्चित् सरःप्रदेशे ऽधृतिपरीतम् इव
आत्मनो रूपं प्रदर्शयन्न् अवस्थितः ।
तत्रानेकमत्स्यपरिवृत एकः कुलीरको ऽब्रवीत् ।
माम ! किम् अद्याहारकृत्यं नानुष्ठीयते यथा पुरेति ।
बकः ।
अहं मत्स्यादः ।
तेनोपाधिना विना युष्मान् ब्रवीमि ।
मया युष्मान् आसाद्य पूर्वं प्राणरक्षा कृता ।
सम्प्राप्तो ममाद्य वृत्तिविच्छेदः ।
अतो ऽहं विमनाः ।
कुलीरकः ।
माम ! केन कारणेन ।
बकः ।
अद्य मत्स्यबन्धैर् एतत्सरस्समीपेनातिक्रामद्भिर् अभिहितम् ।
बहुमत्स्यो ऽयं ह्रदः ।
अस्मिञ् जालं प्रक्षिपामः ।
नगरसमिपे ऽन्ये ह्रदा अनासादिताः ।
तान् आसाद्य पुनर् आगमिष्याम इति कथयाम् आसुः ।
तत् ! भद्र ! विनष्टा नाम यूयम् ।
अहम् अपि वृत्तिच्छेदाद् उत्सन्न एव ।
ततस् तैर् विज्ञप्तः ! यथा ।
यतैवापायश् श्रूयते ! तत एवोपायो ऽपि लभ्यते ।
तद् अर्हस्य् अस्मान् परित्रातुम् ।
बकः ।
अण्डजो ऽहम् असमर्थो मानुषविरोधे ।
किन्त्व् अस्माद् ध्रदाद् अन्यं जलाशयं युष्मान् सङ्क्रामयिष्यामि
।
ततस् तैर् विश्वासम् उपगतैस् तात ! भ्रातर् ! मातुल ! मातुल ! मां नय
! मां नय ! प्रथमतरं नयस्वेत्य् अभिहितम् ।
असाव् अपि दुष्टमतिः क्रमेण नीत्वा कौशलाद् अजस्रं तान् भक्षयन्
परं परितोषम् उपागतः ।
कुलीरकस् तु मृत्युभयोद्विग्नो मुहुर् मुहुस् तं प्रार्थितवान् ।
माम ! माम् अपि तावद् अर्हसि मृत्युमुखात् परित्रातुम् इति ।
स तु दुष्टात्माचिन्तयत् ।
निर्विण्णो ऽस्म्य् अनेनैकरसेन मत्स्यपिशितेन ।
एनम् अपि तावद् रसविशेषम् आस्वादयिष्यामि ।
ततस् समुत्क्षिप्य वियत् सर्वाम्भस्स्थानानि परिहृत्यैकदेशे
तप्तशिलायाम् अवतीर्णः ।
कुलीरको ऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वा
एवाचिन्तयत् ।
निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः ।
तत् किम् अधुना प्राप्तकालम् ।
अथवा ।
[ अभियुक्तो यदा पश्येन् न काञ्चिद् गतिम् आत्मनः ।
युध्यमानस् तदा प्राज्ञो म्रियेत रिपुणा सह
]
अनभिज्ञो ऽपि बकः कुलीरकसन्दंशग्रहस्य मौर्ख्यात्
कुलीरकसकाशाच् छिरश्छेदम् अवाप्नवान् ।
कुलीरको ऽपि गृहीत्वा बकग्रीवाम् उत्पलनालवद्
आकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकम् एव प्रायात् ।
तैश् चाभिहितः ।
भ्रातः ! क्वासौ माम इति ।
अथासाव् अब्रवीत् ।
पञ्चत्वम् उपगतः ।
तस्यैतद् दुरात्मनश् शिरः ।
भक्षितास् तेनोपधिना बहवस् स्वयूथ्या वः ।
सो ऽपि मत्सकाशाद् विनष्ट इति ।
अतो ऽहं ब्रवीमि ।
भक्षयित्वा बहून् मत्स्यान् इति ।
अथ वायसो जम्बुकम् आह ।
आवयोः किं प्राप्तकालं मन्यसे ।
गोमायुः ।
सुवर्णसूत्रम् आदायात्रावासके स्थाप्यताम् ।
असंशयं तत्स्वामी तं कृष्णसर्पं घातयिष्यति ।
इत्य् उक्त्वा स सृगालो ऽपक्रान्तः ।
अथ वायसस् सुवर्णसूत्रान्वेषी राजगृहं प्रायात् ।
दृष्टं च तेनान्तःपुरैकदेशे धौतवस्त्रयुगलोपरि
सुवर्णसूत्रम् उत्तममणिविरचितं महार्हं प्रक्षाल्य चेटिकया
स्थापितम् ।
तच् चावस्थाप्यान्यया सह कथां कर्तुम् आरब्धा ।
वायसस् तु तद् गृहीत्वा वियता शनैर् आत्मानं दर्शयन् स्वम् आलयं
प्रति प्रायात् ।
अथारक्षिपुरुषैः प्रासमुद्गरतोमरपाणिभिर् महता जवेन
गत्वा वृक्षो ऽवलोकितः ! यावत् तेन तत् स्वनीडे स्थापितम् ।
तत्रैकेनारोहता दृष्टम् ! कृष्णभुजङ्गो वायसपोतान्
भक्षयित्वा निद्रावशम् अगमत् ।
तेन चासौ सुप्त एव घातितः ।
तत् कृत्वा सुवर्णसूत्रम् आदाय गत इति ।
[1,6 ल्öwए उन्द् हसे]
अस्ति ! कस्मिंश्चिद् वनान्तरे महान् सिंहः प्रतिवसति स्म ।
सो ऽजस्रं मृगोत्सादं कुरुते ।
अथ ते मृगास् सर्वए एवाभिमुखाः प्रणतचित्ता
हरिततृणाङ्कुरवक्त्रधारिणो ऽवनितलासक्तजानवस् तं
मृगराजं विज्ञापयाम् आसुः ।
भो मृगराज किम् अनेन परलोकविरुद्धेन स्वामिनो नृशंसेन
निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन ।
वयं तावद् विनष्टा एव ! तवाप्य् आहारस्याभावः ।
तद् उभयोपद्रवः ।
तत् प्रसिद ।
वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं
प्रेषयामः ।
तथा कृते कालपर्ययाच् छशकस्य वारो ऽभ्यागतः ।
स तु सर्वमृगाज्ञापितो रुषितमनाश् चिन्तयाम् आस ।
अन्तकरो ऽयं मृत्युमुखप्रवेशः ।
किम् अधुना प्राप्तकालं ममेति ।
अथवा बुद्धिमतां किम् अशक्यम् ।
अहम् एवोपायेन व्यापादयामि सिंहम् ।
इति तस्याहारवेलां क्षपयित्वा गतः ।
असाव् अपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनस्
स्फुरद्वदनदशनसङ्घर्षदंष्ट्राकरालो
लाङ्गूलास्फालनाकारभयकृत् तम् आह ।
सुक्रुद्धैर् अपि किं क्रियते ऽन्यत्र प्राणवियोगात् ।
स त्वम् अद्य गतासुर् एव ।
को ऽयं तव वेलात्ययः ।
शशकः ।
न ममात्मवशस्यातिक्रान्ता ! स्वामिन् ! आहारवेला ।
सिंहः ।
केन विधृतो ऽसि ।
शशः ।
सिंहेनेति ।
तच् छ्रुत्वा परमोद्विग्नहृदयस् सिंहो ऽब्रवीत् ।
कथम् अन्यो ऽत्र मद्भुजपरिरक्षिते वने सिंह इति ।
शशो बाढम् इत्य् आह ।
अथ सिंहो व्यचिन्तयत् ।
किम् अनेन हतेन कारणं मम ।
तं सपत्नं सन्दर्शयिष्यतीति ।
तं च व्यापाद्यैनं भक्षयिष्यामि ।
इति तम् आह ।
मम तं दुरात्मानं दर्शयस्वेति ।
असाव् अपि शशो ऽन्तर्लीनम् अवहस्य बृहस्पत्युशनसोर् नीतिशास्त्रं
प्रमाणीकृत्य स्वार्थसिद्धये विमलजलसंपन्नं
द्विपुरुषप्राप्योदकम् इष्टकाचितं महान्तं कूपम् अदर्शयत् ।
असाव् अप्य् आत्मकायप्रतिबिम्बानभिज्ञतया
कुमार्गापन्नचित्तो ऽयम् असौ सपत्न इति मत्वा सहसैव तस्य
उपरि सन्निपतितो मौर्ख्यात् पञ्चत्वम् अगमत् ।
[1,7 लौस् उन्द् fलोह्]
अस्ति कस्यचिद् राज्ञस् सर्वगुणोपेतम् अनन्यसदृशं शयनम् ।
तस्मिन् प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म ।
अथ तस्मिंष् टिण्टिभो नाम मत्कुणो वायुना प्रेरितस् सन्निपतितः ।
स तु तच् छयनम् अतिसूक्ष्मोत्तरच्छदम् उभयोपधानं
जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं
परितोषम् उपगतः ।
तत्स्पर्शाकृष्टमना इतश् चेतः परिभ्रमन् कथम् अपि तया
मन्दविसर्पिण्या समेतः ।
तयाभिहितः ।
कुतस् त्वम् अस्मिन्न् अयोग्याधिवास आगतः ।
अपगम्यताम् अस्माद् इति ।
मत्कुणः ।
आर्ये ! मया तावद् इहानेकप्रकाराणि मांसान्य् आस्वादितानि
ब्राह्मणक्षत्रियविट्छूद्रान्तस्स्थानि रुधिराणि च ।
तानि तु रूक्षाणि पिच्छिलान्य् अतुष्टिकराण्य् अमनोज्ञानि ।
यः पुनर् अस्य शयनस्याधिष्ठाता ! तस्य मनोरमम् अमृतोपमम्
असृग् भविष्यति ।
अजस्रं भिषग्भिः प्रयत्नाद् औषधाद्युपक्रमाद्
वातपित्तश्लेष्मनिरोधाद् अनामयतया स्निग्धपेशलद्रवैस्
सखण्डगुडदाडिमत्रिकटुकपटुभिस्
स्थलजजलजखेचरबलवत्प्रधानपिशितोपब्र्ंहितैर् आहारैर्
उपचितं रुधिरं रसायनम् इव मन्ये ।
तच् च सुरभि पुष्टिकरं चेच्छाम्य् अहं त्वत्प्रसादाद्
आस्वादयितुम् इति ।
अतो ऽसौ मन्दविसर्पिण्य्- आह ।
असम्भाव्यम् एतत् त्वद्विधानाम् अग्निमुखानां दंशवृत्तीनाम् ।
अपगम्यताम् अस्माच् छयनात् ।
ततो ऽसौ तस्याः पादयोर् निपतितः ।
सा तु दाक्षिण्यात् तथा नामेति प्रतिपन्ना ।
किन्तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यम् इति ।
सो ऽब्रवीत् ।
को ऽस्य कालः ।
अनभिज्ञो ऽहम् अपरिचितत्वात् ।
सा त्व् अकथयत् ।
मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च
शनैर् मृदुतया भवता विचारणीयम् ।
मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यतएइति ।
एवम् अवस्थापिते प्रथमप्रदोषए एवाकालज्ञेन दष्टः ।
असाव् अपि पर्थिव उल्मुकदग्ध इव संलीनकुक्षिप्रदेशस्
ससम्भ्रमम् उत्थायाह ।
अहो ! दष्टो ऽस्मि केनापि ।
अथ मत्कुणश् चकितत्वाद् राजवचनं श्रुत्वा शयनाद् अवतीर्य
अन्यद् विवरम् आश्रितः ।
शय्यापालैर् अपि स्वाम्यादेशात् सुनिपुणम् अन्विषद्भिर् वस्त्रं
परिवर्तयद्भिर् अन्तर्लीना मन्दविसर्पिणी समासादिता व्यापादिता च ।
[1,8 देर् ब्लौए स्छकल्]
अस्ति कस्मिंश्चिन् नगरसमीपे सन्निकृष्टविवराभ्यन्तरशायी
जम्बुकश् चण्डरवो नाम ।
स कदाचिद् आहारम् अन्वेषमाणः क्षपाम् आसाद्य क्षुत्क्षामगलस्
सम्मीलितलोचनः परिभ्रमन् नगरं प्रविष्टः ।
तन्नगरवासिभिश् च सारमेयैस्
तीक्ष्णदशनकोटिविलुप्यमानावयवो
भयभैरवफेत्काररवपूरितदिग्विवर इतस् ततः प्रस्खलन्
पलायमानः कस्मिंश्चिद् अज्ञानान् नीलीकलशे सन्निपतितः ।
श्वगणश् च यथागतं प्रायात् ।
असाव् अपि कृच्छ्रेणायुश्शेषतयास्मान् नीलीकलशात् समुत्तस्थौ
।
अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः
क्रोष्टुकगणाः को ऽयम् इति भयतरलदृशस् सर्वा दिशः
प्रदुद्रुवुः ।
असाव् अप्य् अचिन्तयत् ।
नूनम् इमां स्वरूपविकृतिं दृष्ट्वैते पलायन्तए इति ।
अथ धीरचित्तस् तांश् छनैर् अवादीत् ।
अलं सम्भ्रमेण ।
अहम् आखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः
क्षितितलम् आगत इति ।
अथ तद्वचनम् आकर्ण्य
सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुका
दयश् श्वापदगणास् तं प्रणेमुः ।
प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैर्
आपूर्यमाणकुक्षिः कक्षम् इव तं जम्बुकपूगं बहिः कृत्वा
सिंहव्याघ्रादीन् आसन्नवर्तिनश् चकार ।
एकदा त्व् असौ विविधपिशितनाशितक्षुद् दिक्षु स्थितानां
क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरम् उच्चैर् निननाद
।
अतस् ते सिंहादयस् त्रपया भूभागदृष्टिभाजः कष्टम् अहो !
वञ्चितास् स्मः ! क्रोष्टायम् इत्य् अवधार्य रुषा तं परुषगिरं
नाशितवन्त इति ।
[1,9 कमेल्, ल्öwए, पन्थेर्, क्र्äहे उन्द् स्छकल्]
अस्ति ! कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म ।
तस्यानुचरास् त्रयः पिशिताशिनो द्वीपिवायसगोमायवः ।
अथ तैर् भ्रमद्भिर् दृष्टस् सार्थवाहपरिभ्रष्ट उष्ट्रः ।
तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः
पृष्टवान् ।
इदम् अपूर्वं सत्त्वम् इह वने पृच्छ्यताम् ।
कस् त्वम् इति ।
ततो ऽवगततत्त्वार्थो वायसो ऽब्रवीत् ।
आख्यातनामोष्ट्रो ऽयम् इति ।
ततस् तेन सिंहसकाशं विश्वास्यानीतः ।
तेनापि यथावृत्तम् आत्मनो वियोगस् सार्थवाहात् समाख्यातः ।
सिंहेन चास्याभ्यवपत्तिर् अभयप्रदानं च दत्तम् ।
एवं च वर्तमाने कदाचित् सिंहो
वन्यगजयुद्धरदनक्षतशरीरो गुहावासी संवृत्तः ।
पञ्चषड्दिवसातिक्रान्ते च काले सर्वए एव तए आहारवैकल्याद्
आत्ययिकम् आपतिताः ।
यतो ऽवसन्नाः ! ततस् सिंहेनाभिहिताः ।
अहम् अनया रुजा न क्षमः पूर्ववद् आहारं भवताम् उत्पादयितुम् ।
ते यूयम् आत्मार्थे ऽपि तावद् अभ्युद्गमं कुरुत ।
ते तम् आहुः ।
एवं गते किम् अस्माकम् आत्मपुष्ट्यर्थेनेति ।
सिंहः ।
साध्व् अनुजीविवृत्तं मदुपरि भक्तिश् च भवताम् ।
अतिशोभनम् अभिहितम् ।
शक्ता भवन्तः ! सरुजश् चाहम् ।
तन् ममैतदवस्थस्योपनयताहारम् इति ।
यदा च न किञ्चिद् ऊचुः ! तदा तेनाभिहिताः ।
किम् अनया व्रीडया ।
अन्विष्यतां किञ्चित् सत्त्वम् ।
अहम् एतदवस्थो ऽपि युष्माकम् आत्मनश् चोत्पादयिष्ये
प्राणयात्रार्थम् इति ।
एवम् उक्त्वा ते ऽप्य् उत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः ।
व्युदस्य क्रथनकं दुष्टमन्त्रम् आरब्धाः ।
तत्र वायस आह ।
विनाशिता वयम् अनेन स्वामिना स्वाधीने ऽप्य् अर्थे ।
ताव् आहतुः ।
कथम् ।
सो ऽब्रवीत् ।
नन्व् अयं क्रथनक इति ।
तए आहुः ।
अयम् अस्माकं विश्वासोपगतशरणागतो वयस्यत्वे ऽनुज्ञातः ।
स आह ।
शष्पभुजः पिशिताशिनश् च विषमसम्बन्धाः ।
ततस् ताव् ऊचतुः ।
स्वामिनायम् अभयप्रदानेन रक्ष्यते ।
तेन चायुक्तम् अशक्यं चैतद् इति ।
पुनर् अपि वायसो ऽब्रवीत् ।
तिष्ठत यूयं यावद् अहम् एवैतद् अर्थं सम्प्रतिपादयिष्यामि ।
इत्य् उक्त्वा सिंहसकाशम् अगमत् ।
सिंहेन चाभिहितम् ।
अन्विष्टं युष्माभिः किञ्चित् सत्त्वम् इति ।
काकः ।
यस्य चक्षुर् बलं वा स्यात् ! सो ऽन्विष्यतु ।
वयं तु सर्वए एवाहारवैकल्याद् अन्धाः परिक्षीणशक्तयश्
च।
किन्तु प्राप्तकालम् अवश्यं विज्ञप्यसे ।
स्वामिना विनाशितस् स्वात्मनात्मा स्वाधीने ऽप्य् अर्थे ।
सिंहः ।
कथम् ।
काकः ।
नन्व् अयं क्रथनक इति ।
सिंहः ।
कष्टम् ।
नृशंसम् एतत् ।
मयास्याभ्यवपत्तिर् अभयं च प्रसादीकृतम् ।
अपि च ।
[ न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानम् ।
यथा वदन्तीह महाप्रधानं
सर्वप्रधानेष्व् अभयप्रदानम्
]
काकः ।
अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा ।
एतद् अन्यद् अपि प्रधानं महर्षिवचनम् ! यथा श्रेयसाम् अर्थे
पापीयान् आरम्भः ।
अपि चोक्तम् ।
[ त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्
]
पुनश् चाह ।
मा स्वामी स्वयं व्यापादयतु ।
मयास्योपधिना वध आरब्धः ।
सिंहः ।
कथम् इव ।
काकः ।
अयं तावद् एतदवस्थं स्वामिनम् अस्मांश् च दृष्ट्वा स्वयम्
आत्मानम् अन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय निवेदयति ।
एवम् अभिहितवति वायसे सिंहो मतिभ्रमम् इवार्पितो न किञ्चिद् अप्य्
उदाहृतवान् ।
असाव् अपि पुनस् तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं
विज्ञापितवान् ।
सिंहान्तिकं गतैर् युष्माभिर् एवं वक्तव्यम् इति ।
ततः कृतसंविदस् सह क्रथनकेन सिंहसकाशं गताः ।
अथ वायसः प्रणम्य सिंहं विज्ञापितवान् ।
देव ! स्वामिशरीरं सर्वथा रक्ष्यम् अस्मच्छरीरेणेति ।
अथासाव् आह ।
अकल्पकायो भवान् ।
न युष्मच्छरीरोपभोगे कृते ऽप्य् अस्माकं किञ्चित्
तृप्तिकारणं भवति ।
तस्मिंश् चापयाते गोमायुर् अभिहितवान् ।
अस्मान् मम विशिष्टतरं शरीरम् ।
तन् मत्प्राणैः क्रियतां प्राणयात्रेति ।
तम् अपि तथैवाभिहितवान् ।
अपयाते च तस्मिन् द्वीप्य्- आह ।
आभ्यां मम विशिष्टतरं शरीरम् इदम् उपयुज्यताम् इति ।
तम् अप्य् असाव् आह ।
अकल्पकायो भवान् अपीति ।
तच् छ्रुत्वा क्रथनको ऽचिन्तयत् ।
नैवात्र कश् चिद् विनाश्यते ।
तद् अहम् अप्य् एवम् एव ब्रवीमि ।
तत उत्थाय सिंहान्तिकम् उपगम्याब्रवीत् ।
देव ! एभ्यो मम विशिष्टतरं शरीरम् ।
तस्मान् मच्छरीरेणात्मनः प्राणयात्रा क्रियताम् इति ।
एवम् अभिवदन्न् एव द्वीपिगोमायुभ्यां विदारितोभयकुक्षिस् सद्यः
पञ्चत्वम् उपगतो भक्षितश् चेति ।
[1,10 स्त्रन्द्ल्äउfएर् उन्द् मेएर्]
अस्ति ! समुद्रतीरैकदेशे टीटिभदम्पती प्रतिवसतस् स्म ।
अथ कदाचित् प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः ।
किञ्चित् स्थानम् अन्विष्यताम् ! यत्राहं प्रसुवे ।
असाव् अकथयत् ।
नन्व् एतद् एव स्थानं वृद्धिकरम् ।
अत्रैव प्रसूष्वेति ।
साब्रवीत् ।
अलम् अनेन सापायेन ।
अवश्यम् एव समुद्रजलवेलाप्लवनान् ममापत्यविनाशो भवति
।
असाव् आह ।
भद्रे ! न शक्तो महोदधिर् मया सार्धम् ईदृशं
वैरानुबन्धं कर्तुम् इति ।
साब्रवीत् ।
बह्व् असदृशं तव समुद्रेण बलम् ।
कथम् आत्मनो ज्ञायते सारासारता ।
उक्तं च ।
[ दुःखम् आत्मा परिच्छेत्तुम् एवं योग्यो न वेति वा ।
एवंविद् यस्य विज्ञानं सफलास् तस्य बुद्धयः
]
अपि च ।
[ मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति
]
टीटिभः ।
कथं चैतत् ।
टीटिभी ।
[1,11 हंसस् उन्द् स्छिल्द्क्र्öते]
अस्ति ! कस्मिंश्चित् सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म ।
तस्य द्वौ सुहृदौ विकटसंकटनामानौ हंसौ ।
अथ कालविपर्यये द्वादशवार्षिक्य्- अनावृष्टिर् आपतिता ।
ततस् तयोर् मतिर् उत्पन्ना ।
क्षीणतोयम् इदं सरः ।
अन्यं जलाशयं गच्छावेति ।
किं पुनश् चिरोषितं प्रियमित्रं कम्बुग्रीवम् आमन्त्रयावहे ।
तथा चानुष्ठिते कच्छपेनाभिहितौ ।
कस्मान् ममामन्त्रणं क्रियते ।
यदि तु स्नेहो ऽस्ति ! ततो माम् अप्य् अस्मान् मृत्युमुखात् त्रातुम् अर्हथः
।
यत्कारणम् ! युवयोस् तावद् आहारवैकल्यं केवलम् अस्मिन्
स्वल्पोदके सरसि ! ममात्र तु मरणम् एव ।
तद् विचिन्त्यताम् ! आहारसुहृद्वियोगयोः को गरीयान् ।
ताभ्याम् अभिहितम् ।
युक्तम् आत्थ ।
एवम् एतत् ।
किं पुनः प्राप्तकालं भवाञ् जानाति ।
अवश्यं नयावावां भवन्तम् ।
त्वया पुनश् चापलान् न किञ्चिद् वक्तव्यम् ।
इमां तु यष्टिं मध्ये दशनैर् आपीडय ।
एवम् अनयैवोद्धृत्य षष्टिमात्राणि योजनानि महत् सरो
भवन्तं नयावः ।
तत्र सुखं यापयिष्याम इति ।
एवं च निष्पन्ने तज्जलाशयसन्निकृष्टनगरस्योपरिष्टान्
नीयमानं दृष्ट्वा ! किम् इदं शकटचक्रप्रमाणं वियता
नीयतए इति जनस् सकलकलस् सम्वृत्तः ।
तच् च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहितवान्
।
अहं कच्छपः ।
चापलाद् एष लोकः प्रलपति ! इति ब्रुवन् वचनसमकालम् एवाश्रयात्
परिभ्रष्टो भूमौ निपतितः ! मांसार्थिना च लोकेन
पातसमकालम् एव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति ।
[1,12 दिए द्रेइ fइस्छे]
अस्ति ! कस्मिंश्चिन् महाह्रदे महाकायास् त्रयो मत्स्याः प्रतिवसन्ति
स्म ! तद् यथा ।
अनागतविधाता प्रत्युत्पन्नमतिर् यद्भविष्यश् चेति ।
तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित् तत्समीपे
मत्स्यबन्धानाम् अतिक्रामतां वचनं श्रुतम् ।
बहुमत्स्यो ऽयं ह्रदः ।
अत्र मत्स्यबन्धं कुर्मः ।
तच् च श्रुत्वानागतविधात्रा चिन्तितम् ।
अवश्यम् एतए आगन्तारः ।
तद् अहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यम्
अच्छिन्नस्रोतस्कं ह्रदं संश्रयामीति ।
ततस् ताव् आहूय पृष्टवान् गमनाय ।
तत्र प्रत्युत्पन्नमतिर् मतिनिवारितो ऽभयचित्तः कथम् अपि
प्रमादान् नानुयातः ।
यद्भविष्यस् त्व् आसन्नविनाशस् तद्वचनम् अनादृत्य निरारम्भ एव
आसीत् ।
अन्येद्युश् चापयाते ऽनागतविधातरि मत्स्यबन्धैर् अन्तस्स्रोतो
निरुध्य प्रक्षिप्तं सम्वर्तजालम् ।
अपकृष्टे च जाले तस्मिन् ह्रदे नाप्य् एकतरो ऽवशिष्टः ।
एवं गते प्रत्युत्पन्नमतिर् मृतरूपं कृत्वात्मानं जलस्य
उपरि दर्शितवान् ।
तैर् अपि स्वयम् एव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः ।
तस्माद् उत्प्लुत्यान्यं जलाशयं गतः ।
यद्भविष्यस् त्व् अनेकलगुडप्रहारजर्जरितशरीरः पञ्चत्वम्
उपनीत इति ।
अतो ऽहं ब्रवीमि ।
अनागतविधाता चेति ।
अथ कदाचित् प्रसूतायां टीटिभ्यां तद्भर्तृजिज्ञासया समुद्रेण
अपहृतास् ते ऽण्डकाः ! पश्यामि तावत् ! अयं किम् आरम्भतए इति ।
अथ टीटिभी शून्यम् अपत्यस्थानं दृष्ट्वा परमाविग्नहृदया
भर्तारम् आह ।
इदं तद् आपतितं मन्दभाग्यायाः ।
असाव् अन्तर्लीनम् अवहस्य ताम् आह ।
ममापि तावत् ! भद्रे ! दृश्यतां सामर्थ्यम् इति ।
ततस् तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं
दुःखम् ।
तत्रैकेनाभिहितम् ।
असमर्था वयं महोदधिविग्रहाय ।
किं पुनर् अत्र प्राप्तकालम् ।
सर्वए एव वयम् आक्रन्देन गरुत्मन्तम् उद्वेजयामः ।
सैव नो दुःखम् अपनेष्यति ।
इत्य् अवधार्य तत्सकाशं गताः ।
असाव् अपि देवासुररणनिमित्तम् आहूतो विष्णुना गरुडस् तत्
स्वयूथ्यव्यसनं दृष्ट्वा मन्युम् आजगाम ।
देवो ऽपि विष्णुस् त्रैकाल्यदर्शनसामक्ष्यात् तस्यान्तर्गतं मत्वा
स्वयम् एव तत्सकाशम् अगमत् ।
अथ देवं दृष्ट्वा सुतराम् आविग्नहृदयो ऽब्रवीत् ।
युक्तं त्वया नाथेन सता समुद्रापसदान् ममायं परिभव इति
।
ज्ञात्वा च देवः परिहस्य समुद्रस्येदम् उवाच ।
समर्पयाधुनापत्यानि टीटिभस्येति ।
अन्यथा त्वाम् आग्नेयास्त्रप्रतापितम्
अनेकवडवामुखसहस्रपरिक्षीणतोयं सद्यः करिष्यामीति ।
एवम् उक्तो महोदधिश् चिन्तयाम् आस ।
ममाण्डजेन सर्वनाश एव प्रारब्धः ।
इति मत्वा प्रणम्य देवं समर्पितवान् इति ।
[1,13 देर् लिस्तिगे स्छकल्]
अस्ति ! कस्मिंश्चिद् वनोद्देशे वृकजम्बुककरभसहितो
वज्रदन्तो नाम सिंहः प्रतिवसति स्म ।
कदाचिद् असौ वन्यद्विपरदनकोटिपाटितवक्षा एकदेशस्थः
क्षुत्क्षामतनुः क्षुधा परिगतान् तान् सचिवान् आह ।
किञ्चिद् अन्विष्यतां वने सत्त्वजातम् ! येनाहम् एतदवस्थो ऽपि
भवतां वृत्तिम् आपादयिष्यामि ।
अथ तदाज्ञासमकालम् एव ते ऽरण्ये पर्यटन्तो यदा न किञ्चिद्
आसेदुः ! तदासौ जम्बुकस् तं शङ्कुकर्णनामानं करभं
विविक्ते ऽभिहितवान् ।
किम् अत्र प्राप्तकालं मन्यते भवान् ।
स्वामी वज्रदन्तो ऽस्मदीयपर्यटनम् अनर्थकं श्रुत्वा कदाचिद्
विनाशाय प्रवर्तते ।
तद् अहं किञ्चिद् भवतः प्रार्थये ! यदि प्रतीच्छसीति ।
स आह ।
किं ममास्ति ! वयस्य ! यत् प्रार्थ्यते ।
शरीरम् अपि मे त्वदायत्तम् ।
यथाभिमतम् उपयुज्यताम् इति ।
अथ जम्बुको ऽब्रवीत् ।
एतद् एवात्र कारणम् ।
अहं ते द्विगुणं शरीरं सिंहसकाशाद् दापयिष्ये ।
त्वयाप्य् एवं वयम् आत्मा च संवर्धितास् स्युर् इति ।
प्रतिपन्नश् चासौ ।
एवम् अभिधाय सिंहसकाशं गत्वा तम् आह ।
स्वामिन् ! न किञ्चित् सत्त्वम् आसादितम् ।
एष पुनश् शङ्कुकर्णो ऽभिधत्ते ।
बृहत्प्रस्थेन द्विगुणया तुलयोज्जास्यं शरीरं सम्प्रयच्छामि
इति ।
तच् छ्रुत्वा सिंहः प्रहृष्ट आह ।
एवं क्रियताम् ।
अथ प्रतिपन्ने शङ्कुकर्णः पपात भूमौ ! खण्डशश् च कृतः ।
ततश् चतुरकस् तं सिंहं रुधिररक्तसर्वगात्रं दृष्ट्वा
अब्रवीत् ।
गच्छतु स्वामी स्नानम् आचरितुम् ! यावद् अहं क्रव्यमुखसहितस्
तिष्ठामि ।
गते च तस्मिंश् चतुरकस् तं क्रव्यमुखम् आह ।
भक्षय तावद् अतः पिशितम् ! यावद् असौ स्नातुं गतः ।
सो ऽब्रवीत् ।
भक्षयित्वा किम् उत्तरं दास्यामि ।
जम्बुको ऽब्रवीत् ।
किं तवानेन विचारेण ।
अहम् एतस्य प्रतिवचनं दास्यामि ।
त्वया पुनर् मम मुखम् एवावलोकितव्यम् इति ।
एवम् उक्ते ताभ्यां क्रव्यम् अतिबहु भक्षितम् ।
अत्रान्तरे सिंहस् सम्प्राप्तो यावत् पश्यति सकलं जठरपिशितम्
उपभुक्तम् ! ततश् चतुरकम् आह ।
माम ! क्व तज् जथरपिशितम् ।
एवं वदति सिंहे क्रव्यमुखो मुखं चतुरकस्यावलोकितवान् ।
चतुरको ऽब्रवीत् ।
किम् अधुना मन्मुखम् अवलोकयसि ।
स्वामिन् ।
भक्षितम् अनेनेति ।
अथ सिंहः कुलिशखरनकरो भ्रूकुटिलमुखः प्रकटितरोषस्
तं हन्तुम् ऐच्छत् ।
अथासाव् अपि वृको मुखवैवर्ण्यवेपथुव्याप्ततनुर्
अतनुपदविक्षेपः क्षिप्रपलायनपटुर् अटवीम् उद्दिश्य जगाम ।
सिंहो ऽपि किञ्चिद् अनुसृत्य प्रतिनिवृत्तः ।
एतस्मिंश् चान्तरे कथमपि च तत्समीपम् अथ कश्चित् सार्थवाहो
अनेन पथायातः ।
तस्य च सार्थाग्रेसरं कटाहेन गलबद्धेन करभम्
आगच्छन्तं दृष्ट्वा कृतकविषादो जम्बुकस् तं सिंहम् आह ।
देव ! विनष्टाव् आवाम् ।
मा खलु कश्चिद् वनं धारयतु ।
यावद् अद्यापि पिशितं नोपभुज्यते ! तावद् बृहत्प्रस्थम् आदाय
धनिकाचारेणायं करभकस् सम्प्राप्तः ।
तत् किम् अत्र प्राप्तकालम् ।
गच्छतु स्वामी दिगन्तरम् अन्यत् ! यावद् अहम् एनं
लब्धचित्ताभिप्रायं करोमीति ।
एवम् अभिहिते सिंहस् तस्माद् अपयातः ।
चतुरको ऽपि बहुदिनानि तत् पिशितम् उपभुक्तवान् ।
[1,14 üबेल् अन्गेब्रछ्तेर् रत्]
अस्ति कस्मिंश्चिद् वनोद्देशे महान् वानरयूथः ।
स कदाचिद् धेमन्तकाले ऽसुखासीनो ऽतिविह्वलतया
खद्योतं दृष्ट्वाग्निर् अयम् इत्य् आहार्यैश् शुष्कतृणपर्णैर्
आच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान्
कण्डूयमानः प्रतापमनोरथसुखानि किलानुभवति ।
तत्रैकश् शाखामृगस् तद्गतमना मुहुर्मुहुस् तम् एव
मुखेनोपाधमत् ।
अथ सूचीमुखो नाम ।
तेन वृक्षाद् अवतीर्याभिहितः ।
मा क्लिशः ।
नायं वह्निः ! खद्योतो ऽयम् इति ।
अथासाव् अधमत् तस्य तद् वचनम् अवमन्यैव ।
पुनश् च तेनासकृद् वार्यमाणो नैव शाम्यति ।
किं बहुना ! तावत् तेन कर्णाभाशम् आगत्यागत्य प्रबलम्
उद्वेजितः ! यावत् तेन सहसा गृहीत्वा शिलायाम् आविध्य विगतप्राणः कृतो
असाव् इति ।
[1,15 दुष्टबुद्धि उन्द् अबुद्धि]
अस्ति ! कस्मिंश्चिद् अधिष्ठाने वणिक्सुतौ सुहृदौ स्तः ।
एको दुष्टबुद्धिर् अपरो धर्मबुद्धिः ।
ताव् अर्थोपार्जननिमित्तं विशिष्टं देशान्तरं गतौ ।
अथ तत्र धर्मबुद्धिर् नामैकस् सार्थवाहसुतो यस् तेन कस्यचित्
साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं
रौप्यदीनारसहस्रं प्राप्तम् ।
स दुष्टबुद्धिना सह सम्प्रधार्य कृतार्थाव् आवां स्वदेशं
गच्छाव इति प्रत्यागतौ ।
अधिष्ठानसमीपे धर्मबुद्धिनाभिहितम् ।
दीनारा अर्धविभागेन विभज्यन्ताम् ।
स्वगृहान् प्रविशावः ।
अधुना सुःर्त्स्वजनादिसमक्षम् उज्ज्वलं वत्स्यावः ।
अथ दुष्टबुद्धिर् अन्तःकठिनहृदयस् स्वार्थसिद्धये तम् आह ।
भद्र ! वित्तशेषो यावद् आवयोस् सामान्यः ! तावद् अविच्छिन्नस्
स्नेहसद्भावः ।
किन्त्व् एकम् एकं शतं गृहीत्वा प्रविशावः ।
यत्कारणम् ! पुण्यपरीक्षा ह्रासवृद्धिभ्यां भविष्यत्य्
एकार्थता च जनस्पृहणीया ।
तथा चानुष्ठिते शेषं कुत्रचित् सुगुप्तं कृत्वा प्रविष्टौ ।
अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिर् असद्व्ययव्यसनित्वाद्
भाग्यच्छिद्रतया च क्षीणप्रत्यंशः पुनर् अपि च निधितो
धर्मबुद्धिना सहापरशतं विभक्तवान् ।
तद् अपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् ।
एवं गते दुष्टबुद्धिश् चिन्तयाम् आस ।
यदि पुनश् शतविभागेन विभजावः ! तत् किं मया कृतं भवति ।
शेषैष् षड्भिर् अपहृतैस् समस्तान्य् एवासादयामि ।
एवं मत्वैकाकी भूत्वा ताम् अर्थमात्राम् अपनीय प्रदेशं
समीकृत्य मासातिक्रान्ते काले धर्मबुद्धिम् अभिहितवान् ।
भद्र ! समविभागं शेषवित्तस्य कुर्व इति ।
प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तम् एवोद्देशं खातकर्म
कर्तुम् आरब्धः ।
खन्यमाने च यदा न दृश्यते ! तदा प्रथमतरं धृष्टतया
दुष्टबुद्धिः पाषाणेनात्मनश् शिरो ऽताडयद् अब्रवीच् च
ससम्भ्रमम् ।
क्व तद् ब्रह्महृदयम् ! धर्मबुद्धे ।
नूनं त्वयापहृतम् इति ।
एवं परस्परशङ्कया विवदमानौ धर्मस्थानम् उपागतौ ।
आवेदिते च तस्मिन्न् अर्थे ऽवगते ऽव्यक्तव्यवहारदुश्छेदतया
सन्निरुद्धौ ।
पञ्चरात्राभ्यन्तराच् च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम्
।
साक्षिणो मम सन्त्य् अत्रव्यवहारदीनाराणाम् इति ।
तैस् तु व्यवहारनिवर्तनार्थं पृष्टः ।
कस् ते साक्षी ।
दर्शयस्वेति ।
सो ऽब्रवीत् ।
यस्यैव वृक्षस्याधस्तात् स्थापितं द्रव्यम् ! तेनैव विभावयामि
इति ।
अथ ते विस्मयम् उपगताः ! कथं वनस्पतिर् मन्त्रयिष्यतीति ।
कृतप्रतिभुवौ स्वगृहं विसर्जितौ ।
अथ दुष्टबुद्धिना स्वगृहं गतेन पिताभिहितः ।
तात ! मद्धस्तगतास् ते पणाः ।
किन्तु वाङ्मात्रावबद्धास् तिष्ठन्ति ।
अहं तु त्वाम् अद्य रात्रौ वृक्षविवरे ऽस्मिन् स्थापयामि ।
प्रभाते धर्माधिकृतसमक्षं पृष्टस् तं विभावयेति ।
ततस् तेनाभिहितम् ।
पुत्र ! विनष्टाव् आवाम् ।
किं कारणम् ! अनुपाय एषः ।
तथा च ।
[ उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैर् भक्षितास् सुताः
]
सो ऽब्रवीत् ।
कथम् एतत् ।
असाव् आह ।
[1,16 रेइहेर् उन्द् इछ्नेउमोन्]
अस्ति ! कस्मिंश्चिद् अर्जुनवृक्षे बकदम्पती प्रतिवसतस् स्म ।
तत्र च वृक्षविवरानुसारी महाकायो ऽहिर् असञ्जातक्रियाण्य् एव
अपत्यानि भक्षयति स्म ।
तेन च निर्वेदेन नष्टसञ्ज्ञाव् आहारक्रियाम् उत्सृज्य
जलाशयैकदेशे विमनस्काव् आसाते ।
अथ तत्रैकः कुलीरकस् तम् आह ।
माम ! किम् अद्याप्य् आहारो अनुष्ठीयतए इति ।
बकः ।
अधृतिपरीतस्य मे कुत आहाराभिलाष इति ।
यतो ऽसाव् आह ।
किंलक्षणसमुत्थाधृतिः ।
स तु तस्मै यथावृत्तम् अपत्यभक्षणम् आख्यातवान् ।
कुलीरकस् तु तं समर्थितवान् ।
अहम् उपायं तद्वधाय कथयामि ।
येयं नकुलवसतिर् एतत्प्रभृत्यविच्छिन्नपरम्परया
मत्स्यपिशितं प्रकीर्यताम् ! यावत्सर्पवसतिः ।
ततस् तए एवैनं घातयिष्यन्ति ।
तथा चानुष्ठिते नकुलैः पिशितमार्गानुसारिभिः
पूर्ववैरक्रियाम् अनुस्मरद्भिः खण्डशो ऽहिं कुर्वद्भिः
पूर्वदृष्टमार्गम् आधावद्भिर् बकावासं गत्वा बकस्य
शेषापत्यभक्षणं कृतम् इति ।
[1,15]
अतो ऽहं ब्रवीमि ।
उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् ।
इति ब्रुवन्न् अपि तेनासौ नीत्वा स्थापितो वृक्षविवरे ।
अथ प्रभातसमये ऽधिकरणप्रकृतिप्रत्यक्षं
धर्मशास्त्रवचनाभिश्रावितेन वनस्पतिना यथाप्रस्तुतम्
अभिहितम् ।
धर्मबुद्धिनार्थो ऽपहृत इति ।
तच् च श्रुत्वा धर्मबुद्दिश् चिन्तयाम् आस ।
कथम् अवाक् पादपो वाचं व्याहरिष्यति ।
तत् कारणेनात्र भवितव्यम् ।
सर्वथा बुद्धिसाध्यम् एतत् ।
अथ धर्मस्थानीयान् आह ।
अहो विस्मयः ।
अद्याप्य् अविप्लुतए एव लोके धर्मबुद्दिर् अहं विजने ऽस्मिन् वनए
एकाक्य्- आगम्य तद् द्रव्यं गृहीतवान् ।
अथापश्यम् अहिम् अतिकायम् आयान्तम् ।
चिन्तितं च मया ।
कष्टम् इदम् आपतितम् ।
अभिहितं च ।
पुनर् अपि विषया लभ्यन्ते ! न तु प्राणाः ।
पुनर् आगमिष्यामि ।
इत्य् अत्रैव वृक्षमूले ऽवस्थापितम् ।
अधुनावश्यं राजवशात् समर्पितव्यम् ।
किन्त्व् अस्मात् स्थानाद् एकान्ते ऽवस्थानं कुरुध्वम् ! यावद् अहम्
एनं निधिपालं कृष्णसर्पं पराजयामि ।
इत्य् उक्त्वाहार्यैश् शुष्कदारुपर्णनिचयैर् वृक्षविवरम्
आपूर्याग्निम् आदीपयितुम् आरब्धः ।
दुष्टबुद्धिस् त्व् अधोमुखेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं
वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् ।
प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद् वृक्षविवरात् स्फटिततनुः
प्लुष्टकेशस् स्रस्तत्वग् यदा जातो वणिक् ! तदा भूमौ निपतितः ।
तत् तु महद् वैकारिकं दृष्ट्वा किम् इदम् इति परं विस्मयम् उपगताः ।
किञ्चिज् जीवितं च प्रत्यक्षम् अभिज्ञाय वणिक्पुत्रं पप्रच्छुः ।
किम् इदम् ईदृशम् अग्निपतनम् अध्यवसितं भवतेति ।
ततो ऽसाव् अब्रवीत् ।
अनेन दुष्पुत्रेणाहम् अवस्थाम् इमां प्रापित इति ।
एवम् अभिवदन् पञ्चत्वम् उपगतः ।
अनन्तरं धर्माधिकृतास् तम् अर्थं ज्ञात्वाभिहितवन्तः ।
दुष्टबुद्धिर् अयं पापश् शूले ऽवतंस्यताम् इति ।
[1,17]
अस्ति कस्मिंश्चिद् अधिष्ठाने क्षीणबान्धवो वणिक्सुतः ।
स देशान्तरम् अर्थोपार्जननिमित्तं प्रस्थितः ।
तस्य तुला लोहसहस्रकृता विद्यते ।
सो ऽन्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरम् अर्थोपार्जनाय
प्रायात् ।
क्षीणभाग्यत्वाच् च तेन बहुनापि कालेन न किञ्चिद् आसादितम् ।
प्रत्यागतश् च तां तुलां तस्मात् प्रार्थितवान् ।
तेनोक्तं च ।
सा मूषकैर् भक्षितेति ।
अथासाव् अचिन्तयत् ।
विस्मयनीयम् एतत् ।
कथं लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति ।
अन्तर्लीनम् अवहस्याब्रवीत् ! अवश्यम् एतद् एवम् ! यत्कारणम् ।
वृष्यं स्वादु मृदु च लोहं कथम् आखवो न भक्षयिष्यन्ति ! इति
प्रतिपन्नवाक् ।
असाव् अपि सुपरिहृष्टहृदयः पाद्यादिपुरस्सरां तस्य पूजां
कर्तुम् आरब्धवान् भोजने च प्रार्थितवान् ।
तस्य च नातिदुरे नदी ।
तत्र स्नानाभ्युद्यतस्य च तस्य स्वीयं पुत्रम् एकम्
आमलकस्नानशाटिकासमेतं पृष्टतः प्रेषितवान् ।
असाव् अपि प्रत्यागच्छन् दारकम् अन्यस्मिन् मित्रगृहे सुगुप्तं कृत्वा
प्रविष्टः ।
अथ भोजनसमये सार्थवाहो दारकम् अदृष्ट्वा समाकुलमनाश्
शङ्कितहृदयश् च तम् अपृच्छत् ।
क्वासौ दारकस् तवानुपदप्रेषितः ।
इह न प्रविष्ट इति ।
अथ सो ऽब्रवीत् ।
श्येनेनापहृतः ।
तच् छ्रुत्वा परमाविग्नो निर्दयीभूतश् च तं बाहौ गृहीत्वा
धर्मस्थानं नीतवान् ! आह च ।
परित्रायध्वम् ।
अनेन मे दारकः क्वापि गोपित इति ।
पृष्टश् चासौ प्राड्विवाकैः ।
किम् एतत् ।
कथ्यताम् इति ।
स विहस्याब्रवीत् ।
श्येनेनापहृत इति ।
ततस् तैर् विस्मितमनोभिर् अभिहितः ।
कथं श्येनो दारकम् अपहरिष्यतीति ।
धर्माधिकृतैस् तथ्यं पृच्छ्यमानो ऽब्रवीत् ।
किम् अत्र चित्रम् ।
यत्र तुला लोहसहस्रस्यास्य गेहे मदीया मूषकैर् भक्षिता ! तत्र
कथं दारकश् श्येनेन नापह्रियतए इति ।
तच् च श्रुत्वा प्रतिपादितवन्तस् ते प्राड्विवाकाः परस्परस्य
तत्तुलातद्दारकदानम् इति ।
[इइ,1 हिरन्यस् एर्लेब्निस्से]
अस्ति दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् ।
तस्य नातिदूरे परिव्राजकावसथः ।
तत्र परिव्राड् जूटकर्णो नाम प्रतिवसति स्म ।
स भिक्षावेलायां तस्मान् नगरात् तीर्थभूत इति
ब्राह्मणगृहेभ्यस् सखण्डगुडदाडिमगर्भाणां
स्निग्धद्रवपेशलानाम् अन्नविशेषाणां भिक्षाभाजनं
परिपूर्णं कृत्वा तम् आवसथम् अवगम्य यथाविधि व्रतकालं
कृत्वा तत्र शेषम् आपोतके सुगुप्तं कृत्वा नागदन्तके स्थापयति ।
अहं सपरिजनस् तेन वर्ते ।
एवं भक्ष्यमाणे तस्मिन् सुप्रयत्नस्थापिते ऽपि निर्विण्णस् स्थानात्
स्थानम् उच्चैर् मत्प्रति भयात् सङ्क्रमयति ।
तद् अप्य् अहम् अनायासेन प्राप्नोमि भक्षयामि च ।
अथैवं गच्छति काले कदाचित् तस्य परिव्राड् बृहत्स्फिग् नाम
प्राहुणक आगतः ।
स जूटकर्णस् तस्य स्वागताद्युपचारं कृत्वा
कृतयथोचितव्रतकालस् तस्मिन्न् आपोतके शेषं सुगुप्तं
कृत्वा खट्वासीनश् शयनगतं बृहत्स्फिजम् अपृच्छत् ।
भवान् इतोमया वियुक्तः ।
तत आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति ।
असाव् अकथयत् ।
अथ कदाचिद् अहं महाकार्त्तिक्यां महातीर्थवरे पुष्करे
स्नानं कृत्वा महतो जनसमूहदोषाद् भवता वियुक्तः ।
ततो ऽहं गङ्गाद्वारप्रयागवाराणस्य्-आदिष्व्
अनुकूलप्रतिकूलं जाह्नवीम् अनु पर्यटन् ! किं बहुना ! कृत्स्नं
महीमण्डलं समुद्रपर्यन्तम् अवलोकितवान् ।
अर्धाख्याते च तस्मिञ् जूटकर्णः परिव्राड् नागदन्तोपश्लिष्टो
मुहुर्मुहुर् जर्जरम् अवादयत् ।
कथ्यमानविघ्ने च क्रियमाणे कुपितोबृहत्स्फिग् आह ।
अहम् आदृतो भूत्वा भवतः कथयामि ! भवतस् तु किमर्थम्
अनादरः ।
तथा च ।
[ विमानना दुश्चरितानुकीर्तनं
कथाप्रसङ्गो वचनाद् अविस्मयः ।
न दृष्टिदानं कृतपूर्वनाशनं
विरक्तभावस्य नरस्य लक्षणम्
]
सो ऽब्रवीत् ।
भद्र ! न मन्युः करणीयः ।
पश्य ! अयं मे मूषको महतो ऽपकारान् करोति !
भिक्षाभाजनप्रध्वंसान् न चाहम् एनं शक्नोमि निवारयितुम् ।
सो ऽब्रवीत् ।
किम् एष एकको ऽत्र मूषकः ! उतान्ये ऽपि मूषकाः ।
सो ऽब्रवीत् ।
किम् अन्यैर् मूषकैः ।
अयं मां दुष्टो योगीवाजस्रं छलयति ।
तच् छ्रुत्वासाव् आह ।
जूटकर्ण ! न मूषकमात्रस्येदृशी शक्तिर् भवति ! किं तर्हि
कारणेनात्र भवितव्यम् ।
उक्तं च ।
[ नाकस्माच् छाण्डिली माता विक्रीणाति तिलैस् तिलान् ।
लुञ्चितांल् लुञ्चितैर् अव कार्यम् अत्र भविष्यति
]
जूटकर्ण आह ।
कथं चैतत् ।
सो ऽब्रवीत् ।
[इइ,2 एन्थ्üल्स्तेन् सेसम् füर् एन्थ्üल्स्तेन्]
अस्ति ! अहं कदाचिद् अभ्यर्णासु वर्षासु कस्मिंश्चिद् अधिष्ठाने
स्थितिग्रहणनिमित्तं कञ्चिद् ब्राह्मणम् आवासं प्रार्थितवान् ।
वर्षास्व् अतीतासु पुनर् विहारार्थं प्रहरशेषायां शर्वर्यां
प्रतिबुद्धो ऽचिन्तयम् ।
कतमेन दिग्भागेनावगन्तव्यम् ।
अथ युगपद् असाव् अपि ब्राह्मणस् तस्यां वेलायां प्रतिबुद्धो
जालकान्तरितां भार्याम् अपृच्छत् ।
ब्राह्मणि ! श्रूयताम् ।
श्वः पर्वकालो भविता ।
तत्र त्वया यथाशक्ति ब्राह्मणभोजनं कर्तव्यम् इति ।
असाव् आह बहुपरुषाक्षरया गिरा ।
कुतस् ते ब्राह्मणभोजनस्य शक्तिर् अत्यन्तदरिद्रस्येति ।
एवम् उक्तो ऽसौ कूपे प्रक्षिप्त इव न वचः किञ्चिद् अवोचत् ।
पुनर् अपि चिराद् अब्रवीत् ।
ब्राह्मणि !
[ कर्तव्यस् सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः ।
अतिसञ्चयशीलो ऽयं धनुषा जम्बुको हतः
]
असाव् अब्रवीत् ।
कथं चैतत् ।
ब्राह्मणो ऽब्रवीत् ।
[इइ,3 देर् अल्ल्zउगिएरिगे स्छकल्]
अस्ति कस्मिंश्चिद् अधिष्ठाने मांसवृत्तिर् व्याधः ।
स प्रत्युषस्य् उत्थाय किञ्चिद् वनम् अनुप्रविश्य शीघ्रम् एव मृगं
विद्ध्वा कृतमांससञ्चयः प्रत्यागच्छन् महति तीर्थावतारे
अवतरन् महिषशावतुल्यम् उद्धृतविषाणं
कर्दमपिण्डावलिप्तगात्रं सूकरम् अपश्यत् ।
तं दृष्ट्वाशुभनिमित्तप्रचोदितोभयम् आगतः ।
प्रतिनिवृत्य च प्रतिबद्धगतिस् सूकरेण मांसं सङ्कोचितकं
भूमौ प्रक्षिप्य धनुस् स शरं च कृत्वेदम् उवाच ।
[ न मे धनुर् नापि च बाणसन्धनं
किम् एष शङ्कां समुपैति सूकरः ।
प्रसह्य पश्याम्य् अहम् अस्य निश्चयं
यमेन नूनं प्रहितोममान्तिकम्
]
इत्य् उक्त्वा तस्मै विषदिग्धम् इषुं प्राहिणोज् जत्रुस्थाने विद्ध्वा
परपार्श्वगतं च कृतवान् ।
सूकरेणापि प्रहारमूर्च्छितेनोत्तमं जवम्
आस्थायावस्करप्रदेशे तथाभ्याहतः ! येन गतासुस्
त्रिधागतशरीरो निपतितः ।
अथ तस्मिन् महति विषमे वृत्ते मृगलुब्धकसूकरप्रस्तरे
क्षुत्क्षामकुक्षिर् दर्दुरको नाम गोमयुर् आहारार्थी तम् उद्देशम्
आगतो ऽपश्यन् मृगसूकरलुब्धकान् ।
तांश् च दृष्ट्वा परं परितोषम् उपागतः ।
आह च ।
[ नान्नपानानि सततम् उत्पद्यन्ते हि देहिनाम् ।
लब्ध्वा प्रभूतम् अन्नाद्यं क्रमशस् तूपयोजयेत्
]
इति ।
एवम् उक्त्वा धनुःप्रतिबन्धं भक्षयितुम् आरब्धः ।
कथमपि दैवाच् छिन्ने प्रतिबन्धे वक्षःप्रदेशे भिन्नः पञ्चत्वम्
उपगत इति ।
[2,2]
अतो ऽहं ब्रवीमि ।
कर्तव्यस् सञ्चयो नित्यम् इति ।
तत् ! ब्राह्मणि ! स्पाष्ट्याज् जीव्यते ।
तच् च श्रुत्वा ब्राह्मण्य्- आह ।
अस्ति मे तिलस्तोकं तण्डुलस्तोकं च ।
स त्वं प्रत्युषस्य् उत्थाय समित्कुशाद्यानयनार्थं वनं
गच्छ ।
अहम् अपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य
साधयिष्यामि कृसरम् इति ।
तथा चानुष्ठिते तिलप्रस्थं कामन्दकिनाधिष्ठितं
लुञ्चयेत्यास्तापितम् ।
तथा चातिव्यग्रत्वात् ते तिलाः कथमपि दैवाच् छुना विट्वालिताः ! तया
चाभ्यन्तरस्थया दृष्टाः ।
ततो ऽसाव् अब्रवीत् ।
कामन्दके ! न शोभनम् आपतितम् ।
विघ्नम् उत्पन्नं ब्राह्मणतर्पणस्य ।
तथापि गच्छ ! इमांस् तिलांल् लुञ्चितान् अपि कृष्णतिलैः परावर्तयित्वा
शीघ्रम् आगच्छ ।
कृष्णकृसरम् एव करिष्यामि ।
तथा चानुष्ठिते यस्मिन् वेश्मन्य् अहं भिक्षार्थम् उपागतः !
तस्मिन्न् एव कामन्दकिर् अपि तिलविक्रयार्थम् अनुप्रविष्टो ऽकथयत् ।
गृह्यन्ताम् इमे तिलाः ।
ब्राह्मण्याभिहितः ।
कथं तिला दीयन्तए इति ।
कामन्दकिर् आह ।
[ शुक्लान् कृष्णैः प्रयच्छामि यदीष्टं गृह्यताम् इति ।
तथेमे लुञ्चिता भद्रे लुञ्चितान् एव देहि मे
]
तथा च वृत्ते भर्तास्यास् समागतः ।
तेनाभिहितम् ।
भद्रे ! किम् एतद् इति ।
सा तम् आह ।
समार्घास् तिला मया लब्धाः ! शुक्लाः कृष्णैः ।
ततो ऽसौ विहस्याब्रवीत् ।
[ नाकस्माच् छाण्डिली माता विक्रीणाति तिलैस् तिलान् ।
लुञ्चितांल् लुञ्चितैर् एव हेतुर् अत्र भविष्यति
]
इति ।
एवम् आख्यायाब्रवीत् परिव्राट् ।
अस्ति किञ्चित् खनित्रम् इति ।
जूटकर्ण आह ।
बाढम् ! अस्ति ।
उपनीते च तस्मिन् कक्ष्यां बद्ध्वा सन्दष्टौष्ठपुटः पृष्टवान् ।
कतरस् तस्य सञ्चरणमार्ग इति ।
आख्याते च तस्मिन् खातकर्म कर्तुम् आरब्धः ।
अहं चादाव् एव तयोर् आत्मगतम् आलापं श्रुत्वाहरम् उत्सृज्य
कौतुकपरो ऽवस्थित आसम् ।
यदा त्व् असौ दुर्गान्वेषणं कर्तुम् आरब्धः ! तदा मया ज्ञातम् ।
उपलब्धम् अनेन दुरात्मना मदीयविवरद्वारम् इति ।
मयापि केनापि साधुना पूर्वस्थापितं सुवर्णम् आप्तम् आसीत् ।
तत् प्राधान्याच् चाहं शक्तिमन्तम् आत्मानं मन्ये ।
असाव् अपि दुष्टो विवरानुसारात् तद् उपलभ्य गृहीत्वा च धनं पुनर्
आवस्थं प्राप्तो जूटकर्णम् अब्रवीत् ।
इदं तस्य तद् ब्रह्महृदयम् ! यस्यासौ सामर्थ्याद् अशक्यम् अपि
स्थानम् उत्पतति ।
अधार्धं च विभज्य सुखासीनौ स्थितौ ।
तं चाहम् आत्मनो ऽवसादं प्राप्याचिन्तयम् ।
कदाचिद् इहस्थस्य मे प्रदीपम् उज्ज्वाल्यासंशयम् आसाद्य मां
हन्युः ।
इति तस्मात् स्थानाद् अन्यद् दुर्गस्थानं कृतवान् ।
अन्ये च ! ये ममानुचराः ! तए आगत्य माम् अब्रुवन् ।
भद्र हिरण्य ! त्वत्समीपवर्तिनो वयम् अत्यन्तक्षुधार्ताः ।
ग्रासमात्रम् अप्य् अस्माकं नास्ति ।
अस्तं गते ऽपि दिवसे न किञ्चिद् अस्माभिर् आसादितम् ।
तद् अर्हस्य् अद्यापि तावद् अस्मान् सन्तर्पयितुम् इति ।
तथा नामेत्य् उक्त्वाहम् आवसथं तैस् समं गतः ।
एकान्तावस्थितश् च तयोर् दुरात्मनोः पूर्वाख्याते शेषम् आलापम्
अशृनवम् ।
अथ जूटकर्णस् तथैवाख्याने वंशम् चालयति स्म ।
तेनाभिहितः ।
किम् अद्यापि निराकृते तस्मिन् मुहुर्मुहुश् चालयसि वंशम् ।
स्थीयताम् ।
अलम् इति
यतो ऽसाव् आह ।
भद्र ! एष ममापकारी मूषकः पुनः पुनर् आयाति ।
स विहस्याब्रवीत् ।
मा भैषीः ।
न किञ्चिद् अस्त्य् एतत् ।
यतः ।
[ भवत्य् अर्थेन बलवान् अर्थाद् भवति पण्डितः ।
पश्येमं मूषकं पापं स्वजातिसमतां गतम्
]
अपि च ।
यद् अस्योत्पतने शक्तिकारणम् ! तद् आवयोर् एव हस्तगतम् ।
अहं तु तथैव समर्थितवान् ।
सत्यम् आहायम् ।
न ममाद्याङ्कुलकस्याप्य् उत्पतने शक्तिर् अस्तीति ।
शृणोमि चानुचराणां परस्परालापम् ।
आगच्छत ! गच्छामः ।
नायम् अद्य तृणस्यापि कुब्जीकरणे समर्थः ।
एवम् उक्त्वा पञ्चाशन्मात्रा गताः ! पुनर् अपि पञ्चविंशतिः ! दश
पञ्च चेति ! अथान्ये द्वादशाष्टौ ।
अथावशिष्टौ द्वौ ।
तत्राप्य् एको ऽब्रवीत् ।
अयम् आत्मनो ऽप्य् उदरभरणे न समर्थः ! किं पुनर् अन्येषाम् ।
इत्य् उक्त्वा निरपेक्षो ऽसाव् अपि प्रायात् ।
ततो ऽहं परिचिन्त्यैतवद् इति स्वम् आलयं गतः ।
प्रभातसमये सर्वए एव सपत्नसकाशं गताः ! दरिद्रो ऽसाव् इति
वदन्तः ।
तथा प्रवृत्तानाम् अनुचराणाम् एको ऽपि न मत्सकाशम् आगच्छत् ।
पश्यामि च ! मां दृष्ट्वा सम्मुखं तए एव मत्सपत्नैस् सह
परस्परं किलकिलायन्तो हस्तास्फालनैर् ममानुचरास् सङ्क्रीडन्ति
स्म ।
चिन्तितं च मया ! यथा ।
एवम् एतत् ।
[ यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः ।
यस्यार्थास् स पुमांल् लोके यस्यार्थास् स च पण्डितः
]
अपि च ।
[ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियास् सर्वा ग्रीष्मे कुसरितोयथा
त्यजन्ति मित्राणि धनैर् विहीनं
पुत्राश् च दाराश् च सुहृज्जनाश् च ।
तम् अर्थवन्तं पुनर् आश्रयन्ते ।
अर्थो हि लोके पुरुषस्य बन्धुः
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च ।
काले ऽप्य् उक्तं वाक्यं न कश्चित् प्रतिपद्यते
चण्डालश् च दरिद्रश् च द्वाव् एतौ सदृशौ मतौ ।
चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति
अर्थेन परिहीणं तु नरम् अस्पृश्यतां गतम् ।
त्यजन्ति बान्धवास् सर्वे मृतं सत्त्वम् इवासवः
अर्थेन हीनः पुरुषस् त्यज्यते मित्रबान्धवैः ।
त्यक्तलोकक्रियादारः परासुर् इव निष्प्रभः
शून्यम् अपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् ।
मूर्खस्य दिशश् शून्यास् सर्वं शून्यं दरिद्रस्य
[ उत्तिष्ठ क्षणम् एकम् उद्वह सखे दारिद्र्यभारं गुरुं
क्लिष्टो यावद् अहं चिरं मरणजं सेवे त्वदीयं सुखम् ।
इत्य् उक्तो धनवर्जितेन विदुषा गत्वा श्मशाने शवो
दारिद्र्यान् मरणं वरं सुखकरं ज्ञात्वा स तूष्णीं स्थितः
]]
किम् अपरं भोः ।
न कश्चिद् अन्यः प्रतिवचनम् अपि ददाति ।
[ तानीन्द्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिर् अप्रतिहता वचनं तद् एव ।
अर्थोष्मणा विरहितः पुरुषस् स एव
शेते हकार इव सङ्कुचिताखिलाङ्गः
]
तत् प्रायशो लोके स्वरूपम् ईदृशम् ।
विनिपतितम् आर्यम् अपि जनं दृष्ट्वा धन्य्- अन्धो मूकश् च भवति
धनमदावलेपात् ।
तथा च ।
[ विलोचने चाविकले च वीक्षते
स्फुटा च वाग् अस्ति न चापभाषणम् ।
अहो नृशंसैर् विभवैस् तथा कृतं
यथेश्वरो याचनयन्त्रतां गतः
]
तन् मादृशानां किं नाम तद् वरं स्यात् ! यस्य स्याद् ईदृशः
फलविपाकः ! यत् सततं देहीति वक्ति ।
तत् सर्वथा धनहीनस्य ममाधुना नेह श्रेयः ।
उक्तं च ।
[ वसेन् मानाधिकं स्थानं मानहीनं न संवसेत् ।
मानहीनं सुरैस् सार्धं विमानम् अपि वर्जयेत्
]
एवम् उक्त्वाप्य् अहं पुनर् अप्य् एवम् अचिन्तयम् ।
किमर्थितां कस्यचित् करोमि ।
तद् एतत् कष्टतरम् ।
यत्कारणम् !
[ कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः ।
तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य चिह्नानि यानि तान्य् एव याचतः
]
तद् अर्थित्वम् अपि जघन्यम् ।
[ वैराग्याहरणं धियो ऽपहरणं मिथ्याविकल्पास्पदं
पर्यायो मरणस्य दैन्यवसतिश् शङ्कानिधानं परम् ।
मूर्तं लाघवम् आस्पदं च विपदां तेजोहरं मानिनाम्
अर्थित्वं हि मनस्विनां न नरकात् पश्यामि वस्त्वन्तरम्
]
अपि च ।
[ निर्द्रव्यो ह्रियम् एति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान् निर्वेदम् आगच्छति ।
निर्विण्णश् शुचम् एति शोकमनसो बुद्धिः परिभ्रश्यति
निर्धीकः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम्
]
अपि च ।
[ वरम् अहिमुखे क्रोधाविष्ठे करौ विनिवेशितौ
विषम् अपि वरं पीत्वा सुप्तं यमस्य निवेशने ।
गिरिवरतटाद् आत्मा मुक्तो वरं शतधा गतो
न तु खलजनावाप्तैर् अर्थैः प्रियं कृतम् आत्मनः
वरं विभवहीनेन प्राणैस् सन्तर्पितोअनलः
नोपचारपरिभ्रष्टः कृपणो ऽभ्यर्थितोजनः
]
अथैवं गते केनोपायेन जीवितं स्यात् ।
किं चौर्येण ।
तद् अपि परस्वादानं कष्टतरम् ।
यत्कारणम् !
[ वरं युक्तं मौनं न च वचनम् उक्तं यद् अनृतं
वरं मृत्युश् श्लाघ्यो न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवक्येष्व् अभिरतिर्
वरं भिक्षार्थित्वं न च परधनास्वादम् असकृत्
]
तद् अर्थित्वे ऽपि हि पुरुषस्य ध्रुवो ऽवमानः ।
कथम् ।
[ आकारपरिवृत्तिस् तु बुद्धेः परिभवः पुनः ।
आशाहानिर् इवार्थित्वं परासुत्वम् इवापरम्
]
अथ किं परपिण्डेनात्मानं यापयामि ।
कष्टं भोः ।
तद् अपि द्वितीयं मृत्युद्वारम् ।
[ रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज् जीवति तन् मरणं सो ऽस्य विश्रामः
]
अपि च ।
[ जातः कुले महति मानधनावलिप्तस्
सम्माननाभ्युदयकाल इव प्रहर्षी ।
तच् छेषपिण्डम् अपि नाम नृपस्य भुङ्क्ते
यस् सारमेय इव कष्टतरं किम् अन्यत्
]
[ आशाविप्लुतचेतसो ऽभिलषिताल् लाभाद् अलाभो वरस्
तस्यालाभनिराकृता हि तनुताम् आपद्यते प्रार्थना ।
इष्टावाप्तिसमुद्भवस् तु सुतरां हर्षः प्रमाथी धृतेस्
सेतोर् भङ्ग इवाम्भसां विवशतां वेगेन विस्तार्यते
]
अपि च ।
[ तिर्यक्पातितचक्षुषां स्मयवताम् उच्छैः कृतैकभ्रुवाम्
आढ्यानाम् अवलेपतुङ्गशिरसां श्रुत्वा गिरो दारुणाः ।
किं सद्यस् स्फुटनं प्रयुक्तम् उरसस् सेवाकृताम् अर्थिनाम्
अन्तस् तद् यदि वर्जसारदृढया नालिप्यते तृष्णया
दीना दीनमुखैर् यदि स्वशिशुकैर् आकृष्टचीराम्बरा
क्रोशद्भिः क्षुधितैर् निरन्नपिठिरा दृश्यते नो गेहिनी ।
याच्ञभङ्गभयेन गद्गदगलप्रोच्चारितार्धाक्षरं
को देहीति वदेत् स्वदग्धजठरस्यार्थे मनस्वी पुमान्
]
तन् निस्स्वतेयम् अनेकप्रकारं मरणम् ।
अथ चेत् तद् एव धनम् आत्मीकरोमि ।
मया तु तयोर् दुरात्मनोर् उपधानीकृता दृष्टपूर्वास् ते दीनारास्
स्थगिताः ।
एवं च सम्प्रधार्य गतो ऽहं तम् उद्देशम् ।
अथ ताव् अन्यमनस्कौ मत्वा सञ्जिघृक्षुर् अहम् उपश्लिष्टः ।
द्ष्ट्वा च मां बृहत्स्फिग् लगुडेनाताडयत् ।
अहम् अपि मुमूर्षुः कथमपि निवृत्तः ।
पुनर् अपि चिराद् बद्धाशस् समाश्वस्य दीनारान्तिकम् उपश्लिष्टस्
तेन निर्दयेनैवं शिरस्य् अभिहतः ! येनाद्यापि स्वप्नगतानाम् अपि
तादृशानाम् उद्विजे ।
पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् ।
साधु चेदम् उच्यते ।
[ सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं
प्राणानां च धनस्य साधनधियाम् अन्योन्यहेतुः पणः
]
सो ऽहं बहु विचिन्त्यास्तां धनम् एतन् ममेति निवृत्तस्
तृष्णातः ।
सुष्टु चेदम् उच्यते ।
[ ज्ञानं चक्षुर् नेदं शीलं कुलपुत्रता न कुलजन्म ।
सन्तोषश् च समृद्धिः पाण्डित्यम् अवार्यविनिवृत्तिः
सर्वास् सम्पत्तयस् तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य सर्वा चर्मावृतैव भूः
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्त्.उष्टस्य करप्राप्ते ऽप्य् अर्थे भवति नादरः
सर्पाः पिबन्ति पवनं न च दुर्बलास् ते
पर्णैस् तृणैर् वनगजा बलिनो भवन्ति ।
मूलैः फलैर् मुनिवराः क्षपयन्ति कालं
सन्तोष एव महतां परमा विभूतिः
]
तत् सर्वथासाध्ये ऽर्थे परिच्छेद एव श्रेयान् ।
[ दारिद्र्यस्य परा मूर्तिर् याच्ञा न द्रविणाल्पता ।
जरद्गवधनश् शम्भुस् तथापि परमेश्वरः
]
तथा च ।
[ को धर्मो भूतदया किं सौख्यम् अरोगता जन्तोः ।
कस् स्नेहस् सद्भावः किं पाण्डित्यं परिच्छेदः
सन्ति शाकान्य् अरण्येषु नद्यश् च विमलोदकाः ।
चन्द्रस् सामान्यदीपो ऽयं विभवैः किं प्रयोजनम्
]
इति ।
एवम् अवधार्याहं स्वभवनम् आगतो ऽपश्यं चित्रग्रीवं
पाशबद्धम् ।
इति च तं मोक्षयित्वानेन लघुपतनकेनाहं भवदन्तिकं
प्रापितः ।
[इइ,4 देर् अर्मे सोमिलक]
अस्ति ! कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिकः प्रतिवसति स्म ।
स यद् उपार्जयति ! तत् तस्य दिवसव्ययाद् ऋते ऽधिकतां नोपयाति ।
जातनिवेदश् चासौ देशान्तरम् अगमत् ।
तत्र महता क्लेशेन वर्षत्रयाभ्यन्तरे दीनारशतम् अर्जितम् !
स्वदेशं च प्रायात् ।
अर्धपथे सन्ध्यासमये प्राप्ते न्यग्रोधपादम् अरण्यमध्ये
समासादितवान् ! अचिन्तयच् च ।
क्व साम्प्रतं गमिष्यामि विप्रकृष्टतरं ग्रामस्येति ।
तद् अस्मिन्न् एव न्यग्रोधपादपए आरूढो यामिनीं यापयामि ।
इत्य् अवधार्य तथा कृतवान् ।
अर्धरात्रे च कतञ्चित् स्वप्नए इव पश्यति स्म द्वौ पुरुषौ
महाप्रमाणौ दिव्याकृती क्रोधसंरक्तनयनौ तस्याभ्याशम्
आयातौ ।
तयोर् एकेनाभिहितम् ।
भो वङ्कालक ! एवं भवान् ।
बहुशस् त्वं मया निवारितपूर्वः ! यथास्य सोमिलकस्य
पानभोजनाद् ऋते ऽपरं न किञ्चिद् दातव्यम् ।
अस्याद्य दीनारशतं वर्तते ।
शीघ्रम् अपहरस्वेति ।
अथासाव् आह ।
यथाज्ञापयसि ! देव ।
एवं करोमि ।
इत्य् आकर्ण्य प्रतिबुद्धो ऽसौ यावत् ! दीनारशतं नापश्यत् !
विषण्णहृदयश् चाचिन्तयत् ।
कष्टं भोः ।
किम् एतत् ।
कथम् इह केनापि भूतेन वञ्चितः ।
तत् किम् अधुना गृहं गत्वा करिष्ये ।
इतः प्रतिनिवृत्य पुनर् वित्तम् आसाद्य यावद् गच्छामि ।
एवं चिन्तयन् प्रभातायां रात्र्यां भूयो ऽपि नगरम् आसाद्य
वित्तोपार्जनाय चित्तम् आस्थाय कतिपयकालेन पञ्चाशद् दीनारान्
उपार्ज्य पुनस् स्वदेशगमनाय तेनैव मार्गेण प्रवर्तितः ।
दैवचोदितस्सन् नाधिकं लभते ! नान्यमार्गगमनं वा ।
तत्रैव नीयते ! यावद् अस्तं गच्छति भानौ तम् एव न्यग्रोधम्
आसादितवान् ! अचिन्तयच् च ।
कष्ठं भोः ।
किम् इदम् आरब्धं दैवहतकेन ।
पुनस् स एव न्यग्रोधरूपी राक्षस आपतित इति ।
एवं चिन्तयन् स्वप्नायमानः पश्यति स्म द्वावेतौ पुरुषौ ।
तयोर् एको ऽब्रवीत् ।
भो वङ्काल ! सोमिलकस्य पञ्चाशद् दीनारा वर्तन्ते ।
तन् न युक्तम् ।
ततो ऽसाव् आह ।
हृतान् अवधारयस्वेति ।
सोमिलकस् तु प्रतिबुद्धो नाद्राक्षीद् धृतान् इति ।
अथ जातनिर्वेदो ऽब्रवीत् ।
किं मम ज्-वितेन प्रयोजनम् ।
को ऽयं वृत्तान्तः ! केन वा कारणेन मम क्लेशार्जितवित्तम्
अपहरतीति न विजानामि ।
अथ प्राणांस् त्यक्ष्यामीति ।
एवं चिन्तयन् निराहारस् तत्र एव तस्थौ ! यावत् कतिपयैर् एवाहोभिर्
दिव्याकारं पुरुषं दृष्टवान् ।
तेनोक्तः ।
भोस् सोमिलक ! धनदो ऽस्मि ।
नाभाव्यं कस्मैचित् प्रयच्छामि धनम् ।
तथा च ।
[ यद् अभावि न तद् भावि भावि यत् तद् अनन्यथा ।
इति चिन्ताविषघ्नो ऽयम् अगदः किं न पीयते
शयान आकस्मिकम् अश्नुते फलं
कृतप्रयत्नो ऽप्य् अपरो ऽवसीदति ।
असंयमान् नृत्यति केवलं जनो
विधिस् तु यत्रेच्छति तत्र सम्पदः
नैवाकृतिः फलति नैव गुणा न शौर्यं
विद्या न चैव न च यत्नकृतो विशेषः ।
भाग्यानि कर्मफलसञ्चयसञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः
क्रुद्धो ऽपि कः कस्य करोति दुःखं
सुखं च कः कस्य करोति हृष्टः ।
स्वकर्मग्रन्थिग्रथितोहि लोकः
कर्ता करोतीति वृथाभिमानः
बुद्धिमन्तो महोत्साहाः प्राज्ञाश् शूराः कुलोद्गताः ।
पाणिपादैर् उपेताश् च परेषां भृत्यतां गताः
]
किम् अत्र परिदेवितेन ! सोमिलक ।
पानभोजनाद् ऋते तव वित्तोपार्जनं न किञ्चिद् अस्ति ।
[ वहन्ति शिविकाम् अन्ये सन्त्य् अन्ये शिविकां गताः ।
अकारणं हि वक्तृत्वं व्युत्थानं केवलं जरा
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा ।
अवश्यं लभते जन्तुर् अत्र का परिदेवना
लब्धव्यान्य् एव लभते गन्तव्यान्य् एव गच्छति ।
प्राप्तव्यान्य् एव चाप्नोति दुःखानि च सुखानि च
अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते
तत् को विशेषयति केन कृतो विशिष्टः
को वा धनैस् सह विजायति को दरिद्रः ।
भाग्यानि षट्पद इव स्थिरचञ्चलानि
नित्यं मनुष्यकुसुमेषु परिभ्रमन्ति
]
तथापि दैवपुरुषयोगाद् अर्थोत्पत्तिः ! पुरुषश् चरति ! दैवं
फलतीति ।
अत्रोद्योगपरेणाहं भवता दृष्टः ।
अमोघदर्शनो ऽस्मि ।
किं नु ते करवै ।
असौ विज्ञापितवान् ।
धनं मे देहीति ।
धनदो विहस्याब्रवीत् ।
मूढ ! किं न्व् अनेन क्रियते ।
उपभोगो ऽत्र कारणम् ।
गच्छ ! अस्मिन्न् एवाधिष्ठाने द्वौ वणिजकौ पश्य ।
एको धनी ! अपरो भोगवान् ।
तौ दृष्ट्वा यादृक् तयोर् अभिवाञ्छसीति ! तादृग् भविष्यसि ।
इत्य् उक्त्वान्तर्हितः ।
सोमिलको ऽपि प्रभाते तन् नगरं उपविश्य सार्थवाहं
धनगुप्तम् आससाद ।
तत्रासौ निर्भर्त्स्यमानो ऽपि कथमपि गृहे प्रविश्यालिन्दके
निपत्यावस्थितः ।
सो ऽपि वणिक् सन्ध्याम् अतिवाह्य निशामुखे किञ्चित्मात्रम् अशनम्
अकरोत् ।
सोमिलके ऽपि किञ्चित्मात्रम् अशनम् अदापयत् ।
अथासौ कौलिकः कुशान् आस्तीर्य भूमौ निपत्य सुप्तो ऽपश्यत् ताव् एव
द्वौ पुरुषौ ।
तयोर् एको ऽब्रवीत् ।
भो वङ्काल ! धनगुप्तेनाद्य कौलिकस्याशनं दापयता
द्विगुणव्ययेनात्मा नियोजित इति ।
सर्वस्य निपुणं गणयामि ।
नास्य स्थापनाद् ऋते दाने भोजने वा किञ्चिद् विहितम् ।
तद् अहं प्रातस् समीकरोमीति ।
एवं श्रुत्वा प्रतिबुद्धः ।
धनगुप्तो ऽपि प्रातर् विषूचिकया महानत्ययं गतः ।
स्वेदोष्णवारिपानादिना च परिक्लिष्योपोषितः ।
ततस् स कौलिकः प्रभाते दैवचोदितोअचिन्तयत् ।
ईदृशेन धनेन किं कारणम् ।
प्रकृतिर् दुस्त्यजेति ।
ततो द्वितीयं तं व्ययशीलं भोगवर्माणम् उद्दिश्य सोमिलको
गतः ।
तेनासौ महता भोजनपानादिना सत्कृतस् सोमिलकस् तथैव महति
शयने सोपचारे स्वास्तीर्णे निशायां सुप्तो ऽपश्यत् ताव् एव
पुरुषौ ।
तयोर् एको ऽब्रवीत् ।
भद्र वङ्काल ! शोभनम् अनुष्ठितं भोगवर्मणा प्राहुणकं
सोमिलकं सम्मानयता ।
तद्भूयो ऽपि प्रवर्धमानम् अर्थं व्ययोपभोगे ऽस्य दातव्यम् ।
स चाह ।
एवं क्रियते ।
प्रतिबुद्धस् सोमिलको ऽचिन्तयत् ।
भोगा ईदृशो मे भवन्तु ।
किं धनेन नाममात्रेण क्रियतएइति ।
तथा च समर्थितवान् ।
इइ.5 [चित्राङ्गस् एर्zäह्लुन्ग्]
अस्ति ! अहं कदाचिद् यमुनाकच्छे शालिग्राममध्ये
प्रियकमृग्याम् उत्पन्नः ।
वयं षड्जातयः ।
तथा च ।
चमूरः कदली कन्दली प्रियक एणक एते मृगयोनयस् स्तुताः पञ्च
एव ।
मातृदुग्धप्रसादेन द्वे गती जानन्ति ।
ऊर्ध्वा ! आञ्जसी चेति ।
एते न लुब्धकैः प्राप्यन्ते ।
प्रियकजातीयो ऽहं मनुष्यप्रियश् चिरेणाक्षिणी निमीलयामि ।
तथा सति मे माता यदा गता ! तदाहं लुब्धकैः पोतक एव गृहितः
।
स्त्रीक्षीरेण विवर्धितोयावत् तद्गृहे निवसामि ! तावन् मे माता
स्वयूथ्यैश् चरति ।
तयाभिहितम् ।
अहो दैवम् ।
अहम् अपुत्रवती क्व मे पुत्र इति ।
एवं मयाकर्ण्यावधारितम् ।
किं मे लुब्धकैः ।
निजकृत्रिमयोस् सहाययोर् निजस् सहायो गरीयान् इति ।
ततो लुब्धकगृहात् स्वैरं गत आसम् ।
अथ लुब्धकसकाशाद् आगत इति भयचकितदृशं मातरं
प्राप्तः ।
तयाहम् आनन्दितः ।
किम् एतद् आश्चर्यम् इति पृष्टः ।
स्तन्यक्षीरेण विवर्धितः ।
तेनातिमात्रम् अहं षण्मासजातशिशुस् स्वयूथ्यम् अध्यगतः ।
अभ्यधिकजवत्वाद् गच्छन् मृगान् आगतः प्रतिपालयामि ।
अस्माकं द्वे गती ! ऊर्ध्वा ! आञ्जसी च ।
तयोर् मातृकपयोविरहाद् अहम् आञ्जसीं वेद्मि ! नोर्ध्वम् ।
अथ कदाचिन् मृगांश् चरमाणान् नानुपश्यामि ।
आविग्नहृदयश् च क्व ते गता इति विलोकितवान् ।
पश्यामि तान् ऊर्ध्वगत्यभिज्ञतया जालं विलङ्घ्याग्रतो गतान् ।
अहं त्व् अनभिज्ञस् स्त्रीक्षीरदोषात् ।
तथा च ।
कार्यकाले तु सम्प्राप्ते नावज्ञेयं त्रयं सदा ।
बीजम् औषधम् आहारो यथा लाभस् तथाक्रयः
अहं तेन
क्षीराख्येनौषधेनोर्ध्वगत्यनभिज्ञतयाञ्जस्या गत्या
निष्पतितोजालेनाकुलीकृतः ।
ततश् च व्याधैर् दुरात्मभिर् जीवग्राहं गृहीत्वा क्रीडार्थं
राजपुत्रायोपनीतः ।
सो ऽपि मां दृष्ट्वातीव परितुष्टो व्याधान् प्रादेशिकेन
सम्मानितवान् ।
मां
चादरेणाङ्गोद्वर्तनस्नानभोजनधूपालङ्कारवासोविषे.
सैर् भोजनप्रकारैश् चासम्भाव्यैस् स्निग्धद्रवपेशलैस्
सखण्डगुडदाडिमचातुर्जातकविमिश्रैर् अन्यैश् च भोज्यैर्
अतर्पयत् ।
अथान्तःपुरिकाजनस्य राजकुमाराणां च हस्ताद् धस्तं च
कौतुकपरतया ग्रीवानयनकरचरणकर्णावकर्षणैः
परस्परेर्ष्याभी राजाङ्गनाभिस् सम्मानपरम्परतया क्लेशितो
अहम् ।
चिन्तितं च मया ।
किं सुवर्णेन श्रोत्रबाधाकरेण ।
हा कष्टम् ।
कदा तद् वनं प्राप्स्यामीति ।
निवृत्तकौतुकानां च कदाचिद् विविक्ते वर्तमाने
राजपुत्रशयनाधस्तान् मया प्रावृट्समये
मेघशब्दश्रवणोत्कण्ठितहृदयेन स्वयूथच्युतेन
स्वयूथ्यान् अनुस्मृत्याभिहितम् ।
वातवृष्ट्यवधूतस्य मृगयूथस्य धावतः ।
पृष्ठतो यद् गमिष्यामि कदा तन् मे भविष्यति
एवम् उच्चारयतो राजपुत्रेण बालभावाद् अभावितचित्तेनैतावच्
छ्रुत्वा सन्त्रस्तेन द्वास्स्थो ऽभिहितः ।
केनेदम् अभिहितम् इति ।
सन्तापितहृदयस् समन्ताद् अवलोकयन् माम् अपश्यत् ।
अहं च लुब्धकैर् मानुषीं वाचं शिक्षित आसम् ।
दृष्ट्वा च मां मानुषेणेवानेन मृगेनाभिहितम् ! विनष्टो ऽस्मीति
मत्वा परमावेगं गतः ।
अथ कथञ्चिद् विस्खलितवाग् असौ बहिर् निश्चक्राम ।
परमसत्त्वाधिष्ठित इव महद् अस्वास्थ्यम् आपेदे ।
ततस् सर्वाभिषग्भूततन्त्रिकान् महत्या अर्थमात्रया ज्वरपरीतः
प्रार्थितवान् ! एवं चाब्रवीत् ।
यो ममैतां रुजम् अपनयति ! तस्याहम् अकृशां पूजां
करिष्यामीति ।
अहम् अपि तत्रासमीक्षितकारिणा जनेन लगुडेष्टकादिभिर्
द्रुह्यमाणः केनापि साधुनावच्छन्नः ।
किम् अनेन कृतम् इति ।
अथ ममायुश्शेषतया तेनार्येण सर्वलक्षणविदा विज्ञापितो
राजपुत्रः ।
अविमर्शपरेण लोकेनेमाम् अवस्थां प्रापितस्त्वम् ।
पुनर् अपि तेनार्येणोक्तो यथा ।
प्रियको नामैष मृगो मानुषीं वाचं जानाति ।
नैष मानुषः ।
भद्र ! अनेन प्रावृट्कालमेघशब्दप्रतिबोधितचित्तेन
स्वयूथ्यानुस्मरणौत्सुक्याद् अभिहितम् ।
वातवृस्ट्यवधूतस्येति ।
किम् अत्र चित्रम् ।
प्रायेण पक्षिणः पशवश् च भयाहारमैथुनमात्रवेदिनो
भवन्ति ! इत्य् अधिगतम् एव देवेन ।
अतो ऽयम् अमानुषः ।
तथा च ।
[ यादृशैस् सन्निवसते यादृशांश् चोपसेवते ।
यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः
हीयते हि नरस् तात हीनैस् सह समागमात् ।
समैश् च समताम् एति विशिष्टैश् च विशिष्टताम्
]
तत् ! देव ! मनुष्यसम्पर्कात् प्रियकजातिवशाच् च मानुषीं वाचं
ददातीति सम्मानितः ।
तथा च ।
[ यथोदयगिरेर् द्रव्यं सन्निकर्षेण दीप्यते ।
]
इति ।
तत्र किम् असम्बद्धं ज्वरकारणम् ।
अपि च ।
[ मन्त्राणां परतो नास्ति बीजम् उच्चरणं तथा ।
असम्बद्धप्रलापा न कार्यं साधयितुं क्षमाह्
]
तथा च ।
[ शङ्खः कदल्यां कदली च भेर्यां
तस्यां च भेर्यां सुमहद् विमानम् ।
तच्छङ्खभेरीकदलीविमानम्
उन्मत्तशङ्काप्रतिमं बभूव
मूल पाठ: Tantrākhyāyika 1-2 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0