तैत्तिरीयोपनिषद · अध्याय 3.10
न कञ्चन वसतौ प्रत्याचक्षीत । तदव्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतो ऽनं राद्धम् । मुखतो ऽस्मा अन्नं राध्यते । एतद्वै मध्यतो ऽनं राद्धम् । मध्यतो ऽस्मा अन्नं राध्यते । एदद्वै अन्ततो ऽन्नं राद्धम् । अन्ततो ऽस्मा अन्नं राध्यते ॥
क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥
यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति ॥
तन्नम इत्युपासीत । नम्यन्ते ऽस्मै कामाः । तदब्रह्मेत्युपासीत । ब्रह्मवान्भवति । तदब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि ये ऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥
स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य ।एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमांल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा3वु हा3वु हा3वु ॥
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो3 ऽहमन्नादो3 ऽहमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता3स्य । पूर्वं देवेभ्यो ऽमृतस्य ना3भायि । यो मा ददाति स इदेव मा3वाः । अहमन्नमन्नमदन्तमा3द्मि । अहं विश्वं भुवनमभ्यभवा3म् । सुवर्न ज्योतिः । य एवं वेद । इत्युपनिषत् ॥
मूल पाठ: Taittirīya-Upaniṣad with Śaṃkarabhāṣya · Edition: Ten Principal Upaniṣads with Śaṅkarabhāṣya, Works of Śaṅkarācārya in original Sanskrit, vol. 1, Delhi: Motilal Banarsidass (first edition 1964, reprint 2007) Aitareya-Āraṇyaka Aitareya-Brāhmaṇa Aitareya-Upaniṣad Bṛhadāraṇyaka-Upaniṣad Bhagavad-Gītā Chāndogya-Upaniṣad Īśā-upaniśad Kaṭha-Upaniṣad Kauṣītaki-Upaniṣad Mānava-Dharma-Śastra Mahābhārata Muṇḍaka-Upaniṣad Praśna-Upaniśad Śatapatha-Brāhmaṇa · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0