भाषा

ENहिગુ
ग्रंथ पाठ

तैत्तिरीयोपनिषद · अध्याय 2.6

2.6.1

असन्नेव स भवति । असदब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातो ऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती3 आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता3उ । सो ऽकामयत । बहु स्यां प्रजायेयेति । स तपो ऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । अ तदप्येष श्लोको भवति ॥

मूल पाठ: Taittirīya-Upaniṣad with Śaṃkarabhāṣya · Edition: Ten Principal Upaniṣads with Śaṅkarabhāṣya, Works of Śaṅkarācārya in original Sanskrit, vol. 1, Delhi: Motilal Banarsidass (first edition 1964, reprint 2007) Aitareya-Āraṇyaka Aitareya-Brāhmaṇa Aitareya-Upaniṣad Bṛhadāraṇyaka-Upaniṣad Bhagavad-Gītā Chāndogya-Upaniṣad Īśā-upaniśad Kaṭha-Upaniṣad Kauṣītaki-Upaniṣad Mānava-Dharma-Śastra Mahābhārata Muṇḍaka-Upaniṣad Praśna-Upaniśad Śatapatha-Brāhmaṇa · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc