भाषा

ENहिગુ
ग्रंथ पाठ

तैत्तिरीयोपनिषद · अध्याय 1.3

1.3.1

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषिदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिताया इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥

1.3.2

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥

1.3.3

अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥

1.3.4

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तर रूपम् । वाक्सन्धिः । जिह्वासन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥

मूल पाठ: Taittirīya-Upaniṣad with Śaṃkarabhāṣya · Edition: Ten Principal Upaniṣads with Śaṅkarabhāṣya, Works of Śaṅkarācārya in original Sanskrit, vol. 1, Delhi: Motilal Banarsidass (first edition 1964, reprint 2007) Aitareya-Āraṇyaka Aitareya-Brāhmaṇa Aitareya-Upaniṣad Bṛhadāraṇyaka-Upaniṣad Bhagavad-Gītā Chāndogya-Upaniṣad Īśā-upaniśad Kaṭha-Upaniṣad Kauṣītaki-Upaniṣad Mānava-Dharma-Śastra Mahābhārata Muṇḍaka-Upaniṣad Praśna-Upaniśad Śatapatha-Brāhmaṇa · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc