भाषा

ENहिગુ
ग्रंथ पाठ

तैत्तिरीयसंहिता · श्लोक 1.3-2

1.3-2.11

अनुवाक

सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)
अंशुरंशुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥
या तव तनूर् इयं सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि
या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीं स्वाहा ॥

मूल पाठ: taittirīyasaṃhitā(visvaraḥ) · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc