भाषा

ENहिગુ
ग्रंथ पाठ

श्यामलादण्डक · भाग 12

महाकविश्रीकालिदासकृतं श्यामलादण्डकम् ।
माणिक्यवीणामुपलापयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलोपलकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि ॥
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय संगीतरसिके जय लीलाशुकप्रिये ॥
जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्पद्रुमाकल्पकादम्बकान्तारवासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये ।
सादरारब्धसंगीतसंभावनासंभ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके ।
शेखरीभूतपीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते लोकसंभाविते ।
कामलीलाधनुःसंनिभभ्रूलतापुष्पसंदोहसंदेहकृल्लोचने वाक्सुधासेचने ।
चारुगोरोचनापङ्ककेलीललामाभिरामे सुरामे रमे ।
प्रोल्लसद्बालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्तकस्तूरिकापत्त्ररेखासमुद्भूतसौरभ्यसंभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीस्वरे सुस्वरे भास्वरे ।
वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते सिद्धसंमानिते ।
दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णैकनीलोत्पले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले ।
स्वेदबिन्दूल्लसद्भाललावण्यनिष्यन्दसंदोहसंदेहकृन्नासिकामौक्तिके सर्वविश्वात्मिके कालिके ।
मुग्धमन्दस्मितोदारवक्त्रस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसंपत्करे पद्मभास्वत्करे ।
कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोकसंमेलनस्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे ॥ 1 ॥
सुललितनवयौवनारम्भचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिब्बोकभृत्कंधरे सत्कलामन्दिरे मन्थरे ।
दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्द्योतमानानवद्यांशुशोभे शुभे ।
रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्लताराजिते योगिभिः पूजिते ।
विश्वदिङ्मण्डलव्यापिमाणिक्यतेजःस्फुरत्कङ्कणालंकृते विभ्रमालंकृते साधकैः सत्कृते ।
वासरारम्भवेलासमुज्जृम्भमानारविन्दप्रतिद्वन्द्विपाणिद्वये संततोद्यद्दये अद्वये ।
दिव्यरत्नोर्मिकादीधितिस्तोमसंध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दुप्रभामण्डले संनताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले ।
तारकाराजिनीकाशहारावलिस्मेरचारुस्तनाभोगभारानमन्मध्यवल्लीबलिच्छेदवीचीसमुल्लाससंदर्शिताकारसौन्दर्यरत्नाकरे वल्लकीभृत्करे किंकरश्रीकरे ।
हेमकुम्भोपमोत्तुङ्गवक्षोजभारावनम्रे त्रिलोकावनम्रे ।
लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे मञ्जुसंभाषणे ।
चारुशिञ्जत्कटीसूत्रनिर्भर्त्सितानङ्गलीलाधनुःशिञ्जिनीडम्बरे दिव्यरत्नाम्बरे ।
पद्मरागोल्लसन्मेखलाभास्वरश्रोणिशोभाजितस्वर्णभूभृत्तले चन्द्रिकाशीतले ॥ 2 ॥
विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूतसिन्दूरशोणायमानेन्द्रमातङ्गहस्तार्गले वैभवानर्गले श्यामले ।
कोमलस्निग्धनीलोपलोत्पादितानङ्गतूणीरशङ्काकरोदारजङ्घालते चारुलीलागते ।
नम्रदिक्पालसीमन्तिनीकुन्तलस्निग्धनीलप्रभापुञ्जसंजातदूर्वाङ्कुराशङ्कसारङ्गसंयोगरिङ्खन्नखेन्दूज्ज्वले प्रोज्ज्वले निर्मले ।
प्रह्वदेवेशलक्ष्मीशभूतेशतोयेशवाणीशकीनाशदैत्येशयक्षेशवाय्वग्निकोटीरमाणिक्यसंघृष्टबालातपोद्दामलाक्षारसारुण्यतारुण्यलक्ष्मीगृहीताङ्घ्रिपद्मे सुपद्मे उमे ॥ 3 ॥
सुरुचिरनवरत्नपीठस्थिते सुस्थिते ।
रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते ।
तत्र विघ्नेशदुर्गाबटुक्षेत्रपालैर्युते ।
मत्तमातङ्गकन्यासमूहान्विते मञ्जुलामेनकाद्यङ्गनामानिते भैरवैरष्टभिर्वेष्टिते ।
देवि वामादिभिः शक्तिभिः सेविते ।
धात्रिलक्ष्म्यादिशक्त्यष्टकैः संयुते ।
मातृकामण्डलैर्मण्डिते ।
यक्षगन्धर्वसिद्धाङ्गनामण्डलैरर्चिते ।
पञ्चबाणात्मिके ।

पञ्चबाणेन रत्या न संभाविते ।
प्रीतिभाजा वसन्तेन चानन्दिते ।
भक्तिभाजं परं श्रेयसे कल्पसे ।
योगिनां मानसे द्योतसे ।
छन्दसामोजसा भ्राजसे ।
गीतविद्याविनोदातितृष्णेन कृष्णेन संपूज्यसे ।
भक्तिमच्चेतसा वेधसा स्तूयसे ।
विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ॥ 4 ॥
श्रवणहरणदक्षिणक्वाणया वीणया किंनरैर्गीयसे ।
यक्षगन्धर्वसिद्धङ्गनामण्डलैरर्च्यसे ।
सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे ।
सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ।
पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन संचिन्त्यसे तस्य वक्त्रान्तराद्गद्यपद्यात्मिका भारती निःसरेत् ।
येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः ।
येन वा शातकुम्भद्युतिर्भाव्यसे सो ऽपि लक्ष्मीसहस्रैः परिक्रीडते ।
किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः ।
तस्य लीलासरो वारिधिस्तस्य केलीवनं चन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किंकरी तस्य चाज्ञाकरी श्रीः स्वयम् ।
सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वशक्त्यात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्वविद्यात्मिके सर्वयोगात्मिके सर्वनादात्मिके सर्वशब्दात्मिके सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥ 5 ॥
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥
इति महाकविश्रीकालिदासकृतं श्यामलादण्डकं समाप्तम् ।

मूल पाठ: Śyāmalādaṇḍaka · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 8-11. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc