Svabodhasiddhi · अध्याय 1
भूति(राज): स्वबोधसिद्धि
नमः सकलकल्याणमयकैवल्यदायिने ।
शिवाय शमिताशेषभवाध्वध्वान्तभानवे
अशेषदर्शनावेशविशेषाधिविवर्जितम् ।
स्वसंवेदनसंवेद्यं स्वस्थं वन्दे परं शिवम्
निरस्तकल्पनाजालविकल्पौघविघातिने ।
नमो ऽस्तु परमानन्दपदातीताय शम्भवे
जयन्त्य् अपारसंसारसारासारविभागदाः ।
कैवल्यज्ञानसंबोधहेतवश् शम्भवाङ्घ्रयः
मनो बुद्धिर् अहं प्राणास् तन्मात्रेन्द्रियजीवनम् ।
यं दृष्ट्वा विनिवर्तन्ते तम् उपास्यम् उपास्महे
ममाहम् इति हृद्ग्रन्थिच्छेदनैककृपाणिकाम् ।
स्पन्दास्पन्दकृतग्रासां नौम्य् अहं शुद्धसंविदम्
व्यपदेशविहीनस्य तत्त्वस्य कथनं कथम् ।
स्वसंवेदनसद्युक्त्या गम्यते यदि केनचित्
ज्ञानयोगोपदेशेन यस्य नाश्वास आन्तरः ।
समाश्वासविहीनत्वात् कथं नैःश्रेयसं फलम्
उपेयप्राप्त्युपायो ऽयं स्वबोधे जागरूकता ।
स्वबोधजागरूकत्वान् निर्विभागा स्थितिर् मुनेः
उपायो नापरः कश्चित् स्वसत्तानुगमाद् ऋते ।
ताम् एवानुसरन् योगी स्वस्थो यः स सुखी भवेत्
स्वसंकल्पपरामर्शाद् विशुद्धज्ञानसंश्रयात् ।
परमाह्लादलाभाच् च बोधैकघनता मुनेः
निगृहीते स्वसंकल्पे शक्तेः शक्तिमति स्थितिः ।
शक्तिशक्तिमतोर् ऐक्यम् इत्य् उपेयं च योगिनाम्
प्राप्ते स्वरूपविज्ञाने सन्त्यक्ते तत्त्वकञ्चुके ।
उद्योगकारणे कीर्णे मुक्तः स किल कथ्यते
बोधमात्रे ग्रहः कार्यः सुप्रबुद्धेन चेतसा ।
तावद् यावत् स्वसामर्थ्यात् स्वनिष्ठः केवलो भवेत्
सर्वदा सुप्रबुद्धस् सन् पश्यत्य् आत्मानम् आत्मना ।
द्रष्टुः स्वरूपसंस्थस्य किम् अन्यद् अवशिष्यते
सदैव सुप्रबुद्धत्वम् एतावन् मनसः क्षयः ।
तत्क्षयाद् योगिनां सम्यक्साक्षात्कारो भवत्य् अलम्
पर्यावृत्तः स्वसंवित्तौ वर्तते यस् त्व् अभेदतः ।
स सम्राड् योगयुक्तानाम् अज्ञानध्वान्तभास्करः
स्वरूपानुभवाह्लाददशातीतेन्दुसंस्थितिः ।
अवाप्तव्यं किम् अस्तीह क्षीणान्तःकरणस्य मे
स्वपरिज्ञप्तिविश्रान्ती सुदृढे यस्य सुस्फुटे ।
तस्य वृत्तिविमुक्तस्य भवेत् केवलताचिरात्
ग्राह्यग्रहणसंस्कारतिरस्कारैकचेतसाम् ।
योगिनां स्वात्मनिष्ठानां मोक्षलक्ष्मीर् न दुर्लभा
लब्धा स्वरूपविश्रान्तिर् निर्वृत्ता क्लेशसन्ततिः ।
ग्राह्यग्राहकता भग्ना स्वरूपस्थोऽ स्मि संस्थितः
अभेदबोधसंबोधस्वरूपानुभवस्थितिम् ।
व्युत्थितः सन्निरुद्धो वा लभते यः स तत्त्ववित्
यस्य सर्वास्व् अवस्थासु स्वस्थितिर् नैव लुप्यते ।
तस्य किं नाम कुर्वन्ति शास्त्रभ्रमणविभ्रमाः
विगलितसदसद्विकल्पसदसद्भ्रमजनितमोहमुक्तात्मा ।
जीवन्न् अपि जनमध्ये विगतभयः सर्वदा योगी
निरस्तकरणो येन समाधिः सेवितः सकृत् ।
परः साक्षात्कृतस् तेन चरितार्थेन योगिना
अहमात्मन्य् असम्भिन्नः संगृह्य स्वप्रयत्नतः ।
प्रबुद्धः स्यात् स्वनिष्ठः सन् यावत् सादाशिवद्युतिः
निरस्तसर्वार्थनिरंशवृत्तिर् ज्ञानी सकृत् स्वात्मनि लब्धलाभः ।
सम्यङ्निबोधैकपरः स्वनिष्ठः स्वकञ्चुकं हन्त जहाति योगी
वागनुभवसद्युक्तिर् यस्यास्ति निरन्तरं स्वसंवित्तौ ।
तस्योपदेशकरणं युक्तं शिष्येषु बोधनं सम्यक्
नैर्वासन्यात् स्वसंबोधात् त्यागाद् आशाभिमानयोः ।
सदसत्पदविच्छेदान् न पुनर् विग्रहग्रहः
आश्वस्तान्तःकरणः क्षीणविकल्पः स्वरूपलाभरतः ।
स्वानुभवामृततृप्तः कैवल्यं याति चरितार्थः
इत्थम् उपेयप्राप्तौ विगतमला चित्प्रकाशिका सत्या ।
कैवल्यभूतिजननी स्वबोधसिद्धिर् मया गदिता
येनोपदेशेन नलब्धलाभो भवत्य् अलं संशयदोषमुक्तः ।
तेनोपदेशेन नसंशयेन किं नाम कुर्याद् बहुशास्त्रपाठी
अशेषकृतमङ्गलं विविधकर्मदावानलं स्वरूपपददर्शकं सकलकल्पनावर्जितम् ।
समस्तसुखमन्दिरं विविधदुःखमूलच्छिदे नमाम्य् असमसुन्दरं गुरुमुखोपदिष्टं शिवम्
मूल पाठ: Svabodhasiddhi · Edition: Hanneder, Jürgen: Bhūtis Svabodhasiddhi. IN: ZDMG 167 (2017), 153-166 · Data entry Jürgen Hanneder · GRETIL (Göttingen) · CC BY-NC-SA 4.0