भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 3.4

3.4.1

अथातो गर्भव्याकरणं (नाम) शारीरं व्याख्यास्यामः॥

3.4.2

यथोवाच भगवान् धवन्तरिः॥

3.4.3

अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः॥

3.4.4

तस्य खल्वेवंप्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य[ऽशुक्रशोणितस्यऽइति केषुचिद्धस्तलिखितपुस्तकेषु नोपलभ्यते।] मानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति। तसां प्रथमावभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभागप्रमाणा, सिद्ध्मपद्मकंटकाधिष्ठाना; द्वितीया लोहिता नाम, व्रीहिषोडशभागप्रमाणा, तिलकलकन्यच्छव्यङ्गाधिष्ठाना; तृतीया श्वेता नाम,व्रीहिद्वादशभागप्रमाणा, चर्मदलाजगल्लीमशकाधिष्ठाना; चरुर्थी ताम्रा नाम व्रीहेरष्टभागप्रमाणा, विविधकिलासकुष्ठाधिष्ठाना; पञ्चमी वेदिनी नाम, व्रीहिपञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना; षष्ठी रोहिणी नाम, व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना; सप्तमी मांसधरा नाम, व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शोऽधिष्ठाना। यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु; यतो वक्ष्यत्युदरेषु---व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येदिति॥ [ऽशरीरे षट् त्वचः;-----ऽ(च.शा.अ.7.सू.5)। ऽषष्ठी तु प्राणधराऽ इति आष्टाङ्गसंग्रहे पाठः। ऽत्वचो नाम---सर्वदेहावरणरूपा भूमिः स्पर्शनेव्द्रियस्य स्रोतसाञ्च स्वेदवहानां, रोम्णामपि सरोमकूपानाम्। ताः स्थूलदष्ट्या स्तरद्वयविभक्ताः---बहिस्त्वग्भागोऽन्तरस्त्वग्भागश्चेति। तत्र बहिस्त्वङ्नामातीव तन्वी कृष्णगौरादिवर्णाधारा वह्निस्पर्शेन प्लोषपिडकाव्यञ्जना च। अन्तस्त्वड्नाम स्थूला शरीराभिरक्षणी स्नेहादिकर्षणी च। सैव प्रधानायतनं स्पर्शभूमेः स्वेदस्रुताञ्च मार्गाणाम्ऽ(प्रत्यक्षशारीर प्र. भा.पृ 5-6)।]

3.4.5

कलाः खल्वपि सप्त संभवन्ति धात्वाशयान्तरमर्यादाः॥

3.4.6

भवतश्चात्र।[ऽभवन्ति चात्रऽइति पा] यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते॥ तथा धातुर्हि मांसेषु छिद्यमानेषु दृश्यते॥

3.4.7

स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा॥ श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः॥ [ऽअस्याग्रेऽअधात्वाशयान्तरेऽन्नस्य यः क्लेदस्त्वधिष्ठति। देहोष्मणा विपक्वस्तु सा कलेत्यभिधीयतेऽ इत्यधिकं पठ्यते क्वचित्पुस्तके।]

3.4.8

तासं प्रथमा मांसधारा नाम; यस्यां मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति॥ [ऽमांसगतानांऽइति हाराणचन्द्रसंमतः पाठः। ऽमांससिरास्नायुधमनीस्रोतसांऽ इति वै.पं.हरिप्रपन्नसंमतः पाठः। विशेषविवरणं तु रसयोगसागरस्योपोद्धाते 164-165 पृष्ठयोर्द्रष्टव्यम्।]

3.4.9

भवति चात्र। यथा बिसमृणालानि विवर्धन्ते समन्ततः॥ भूमौ पङ्कोदकस्थानि तथा मांसे सिरादयः॥

3.4.10

द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति ॥

3.4.11

भवति चात्र। वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत् ॥ मांसादेवं क्षतात् क्षिप्रं शोणितं संप्रसिच्यते ॥

3.4.12

तृतीया मेदोधरा नाम; मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, महत्सु च मज्जा भवति॥ [ऽतदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं चऽ इत्यष्टाङ्गसंग्रहेऽधिकः पाठः। ऽमेदो नाम---सान्द्रसर्पिस्तुल्यः स्नेहधातुः शरीरस्य। तस्य स्थानमुदरान्तः, त्वचामधश्च। वसा तु मांसान्तरानुप्रविष्टः स्नेहस्तस्या मेदस्यनुप्रवेशस्तुल्योपादानत्वात्। मज्जा नाम अस्थिमध्यगतः स्नेहः। स द्विविधः पीतो रक्तश्च। तत्र पीतो नलकास्थ्नामन्तः, रक्तस्त्नितरास्थिषु, प्रान्तभाहेषु च नलकास्थ्नाम्। सोऽयं स्थूलस्वरूपेण मेदसोऽभिन्नोऽपिकर्मवैशेष्यात्पृथगेव धातुः,ऽ(प्रत्यक्षाशारीर प्र. भा.पृ.10।]

3.4.13

भवति चात्र। स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः॥ अथेतरेषु सर्वेषु सरक्तं मेद उच्यते॥ शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता॥

3.4.14

चतुर्थी श्लेष्मधरा नाम; सर्वसन्धिषु प्राणभृतां भवति॥

3.4.15

भवति चात्र। स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते॥ सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा॥

3.4.16

पञ्चमी पुरीषधरा नाम; याव्तःकोष्ठे मलमभिविभजते पक्वाशयस्था॥

3.4.17

भवति चात्र। यकृत्समन्तात् कोष्ठं च तथान्त्राणि समाश्रिता॥ उण्डुकस्थं विभजते मलं मलधरा कला॥

3.4.18

षष्ठी पित्तधरा नाम; या चतुर्विधमन्नपानमुपभु(यु)क्तमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति॥ [ऽषष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था। सा ह्यन्तरग्नेरधिष्ठानतयाआमाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्वं च विमुञ्चति। दोषाधिष्ठिता तु दौर्बल्यादाममेव। ततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा। बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति।ऽ (अष्टाङ्गसंग्रह शा.स्था.अ.)]

3.4.19

भवति चात्र। अशितं खादितं पीतं कोष्ठगतं नृणाम्॥ तज्जीर्यति यथाकालं शोषितं पित्ततेजसा॥

3.4.20

सप्तमी शुक्रधरा नाम; या सर्वप्राणिनां सर्वशरीरव्यापिनी॥

3.4.21

भवन्ति चात्र। यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा॥ शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः॥

3.4.22

द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः॥ मूत्रस्रोतःपथाच्च्गुक्रं पुरुषस्य प्रवर्तते॥ [ऽद्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः। मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्ततऽ इत्यत्रअद्व्यङ्गुले दक्षिणे वामऽ इत्येव साधीयान् पाठः, अन्यथा प्रत्यक्षविरोधात् स्वाक्तिविरोधाच्च। क्षुयते हिअशुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे शुक्रविसर्गाय चऽ इति सुश्रुते एवऽ (प्रत्यक्षशारीर, उपोद्धात, पृष्ठ 72)।]

3.4.23

कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा॥ स्त्रीषु व्यायच्छतश्चापि हर्शात्तत् संप्रवर्तते॥

3.4.24

गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्त गर्भेण, तस्माद्गृहीतगर्भाणामार्तवं न दृश्यते; ततस्तदधः प्रतिहतमूर्ध्वमागतमपरं चोपचीयमानमपराîत्यभिधीयते; शेषं चोर्ध्वतरमागतं पयोधरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति॥

3.4.25

गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभभवः फुप्फुसः, शोणितांकट्टप्रभभ्व उण्डुकः॥

3.4.26

असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः॥ तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति॥

3.4.27

ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः॥ उदरे पच्यमानानामाध्मानाद्रुक्मसारवत्॥

3.4.28

कफशोणितमांसानां सारो जिह्वा प्रजायते॥ यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत्॥ [ऽतत्रास्य मथ्यमानस्य ध्मायमानस्य रुक्मवत्। जिह्वा संजायते सौमी यया वेदयते रसान्ऽ इति पा]

3.4.29

अनुप्रविश्य पिशितं पेशीर्विभजते तथा॥ मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात्॥ [वै पं हरिप्रपन्नशर्मणा तु अयं पाठोऽन्यथा पठितो व्याख्यातश्च,अमेदः स स्नेहमादाय सिरास्नायुत्वमप्यथ। सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः॥ आशय्याभ्यासयोगेन करोत्याशयसंभवम्। स वायुः कर्ता, अन्नरसात् स्नेहमादाय मेदो विभजते अर्थादुदरे मेदश्चिमोति; अथ एवं सिरास्नायुत्वं विभजते अर्थात् सिरात्वं सिरास्वरूपं, स्नायुत्वं स्नायुस्वरूपं च विभजते। ननु समवायिकारणस्यैकत्वेऽपि कथमेतद्वेचित्र्यं संजायत इत्याह---सिराणां तु मृदुः पाक इत्यादि। ---सिराणामशुद्धरक्तवाहिनानां, धमनीरसायनीनामप्युपलक्षणमेतत्; अत्र मृदुः पाका भवति निरन्तररससंमृतत्वात्; स्नायूनां च पेशीप्रान्तानां खरः पाको भवति अल्परसगमनात्। ----स वायुः मांसपेशीषु आशय्य आसमन्तात् निवासं कृत्वा हृदयाद्याशयानां संभवमुत्पत्तिं करोतिऽ(रसयोगसागर, उपोद्धात, पृ 113-114)।]

3.4.30

सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः॥ आशय्याभ्यासयोगेन करोत्याशयसंभवम्॥

3.4.31

रक्तमेदःप्रसादाद्वृक्कौ; मांसासृक्कल्हमेदःप्रसादाद्वृषणौ; शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः; तस्याधो वामतः प्लीहा फुप्फुसश्च, दक्षिणतो यकृत् क्लोम च; तद्धृदयं विशेषेण चेतनास्थानम्, अतस्तस्मिंस्तमसाआवृते सर्वप्राणिनः स्वपन्ति॥ [यत्तुअहृदयस्याधो वामतः प्लीहा फुस्फुसश्च, दक्षिणतो यकृत् क्लोम चऽ इति सौश्रुतः पाठः तत्र प्रमाद एव दरीदृश्यते,अहृदयस्याधो वामतः प्लीहा, दक्षिणतो यकृत्, उभयतः क्लोम फुस्फुसौ चऽ इति तु साधीयान् पाठः, अन्यथा न केनापि कथमपि शक्यं समाधातुम्,(प्रत्यक्षशारीर, उपोद्धात, पृ 68)। क्लोम श्वासनलिका---ऽट्रेकिया "त्रछेअ"ऽ इति गणनाथसेनः (प्रत्यक्षशारीर, द्वितीयभाग, पृ 178),अगाल ब्लडर "गल्ल्-ब्लद्देर्"ऽ इति रसयोगसागरस्योपोद्धाते(पृ96-102) वै पं हरिप्रपन्नशर्मा। विस्तरस्तु तत्रैव द्रष्टव्यः।]

3.4.32

भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्॥ जाग्रतस्तद्विकसति स्वपतश्च निमीलति॥

3.4.33

निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति। तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा भवत्यनवबोधिनी , सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति॥

3.4.34

भवन्ति चात्र। हृदयं चेतनास्थानमुक्तं सुश्रुत! देहिनाम्॥ तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम्॥

3.4.35

निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते॥ स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते॥

3.4.36

पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः॥ रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान्॥

3.4.37

करणानां तु वैकल्ये[ऽवैगुण्येऽइति पा] तमसाभिप्रवर्धिते॥ अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते॥

3.4.38

सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्, प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं दिवास्वपनमप्रतिषिद्धम्। रात्रावपि जागरितवतां जागरितकालादर्धमिष्यते दिवास्वपनम्। विकृतिर्हि दिवास्वप्नो नाम; तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च, तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरो-गौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि[ऽगौरवज्वराग्निदौर्बल्यानिऽइति पा] भवन्ति; रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्रवा भवन्ति॥

3.4.39

भवन्ति चात्र। तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्॥ ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत्॥

3.4.40

अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः॥ नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम्॥

3.4.41

निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा॥ (दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः।) न तेषां स्वपतां दोषो जाग्रतां वापि जायते॥ [अयमर्धश्लोकः केषुचित्पुस्तकेषु नोपलभ्यते।]

3.4.42

निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि॥ संभवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति॥

3.4.43

निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम्॥ गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ॥

3.4.44

शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः॥ भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः॥

3.4.45

रसैर्बिलेशयानां च विष्किराणां तथैव च॥ द्राक्षासितेक्षुद्रव्याणामुपयोगो भवेन्निशि॥

3.4.46

शयनासनयानानि मनोज्ञानि मृदुनि च॥ निद्रानाशे तु कुर्वीत तथान्यान्यपि बुद्धिमान्॥

3.4.47

निद्रातियोगे वमनं हितं संशोधनानि च॥ लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च॥ [ऽवमेन्निद्रातियोगे तु कुर्यात्ऽइति पा]

3.4.48

कफमेदोविषार्तानां रात्रौ जागरणं हितम्॥ दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम्॥

3.4.49

इन्द्रियार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः॥ निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत्॥

3.4.50

पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः॥ यं मुञ्चति सनेत्रास्रं स जृम्भ इति संज्ञितः॥

3.4.51

योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः॥ क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः॥

3.4.52

सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता॥ शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते॥

3.4.53

उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितम्॥ हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत्॥

3.4.54

वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः॥ न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत्॥

3.4.55

आर्द्रचर्भावनद्धं वा(हि)यो गात्रमभिमन्यते॥ तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत्॥

3.4.56

मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद्भ्रमः॥ तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा॥

3.4.57

गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति॥

3.4.58

भवन्ति चात्र। तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम्॥ तदाधमति वातस्तु देहस्तेनास्य वर्धते॥

3.4.59

ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः॥ ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा॥

3.4.60

दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन ॥ ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम्॥

3.4.61

शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा॥ स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः॥

3.4.62

सप्त प्रकृतयो भवन्ति---दोषैः पृथक्, द्विशः, समस्तैश्च॥

3.4.63

शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः॥ प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु॥

3.4.64

तत्र यः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गान्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः[ऽअतिरूक्षश्मश्रुनखकेशःऽइति पा] क्राथी दन्तनखखादी च भवति॥

3.4.65

अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी॥ द्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति संभ्रमेण सुप्तः॥

3.4.66

अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसंचयमित्रः॥ किंचिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः॥

3.4.67

वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा॥ गृघ्रकाकखरादीनामनूकैः कीर्तिता नराः॥

3.4.68

स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलिपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यमषोलो मध्यमायुश्च भवति॥

3.4.69

मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः॥ सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्युदुल्काः॥

3.4.70

न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः॥ भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः॥

3.4.71

भुजङ्गोलूकगन्धर्वयक्षमार्जारवानरैः॥ व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराः स्मृताः॥

3.4.72

दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति॥

3.4.73

शुक्लाक्षः स्थिरकुटिलालि(ति)नीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः॥ सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि च जलाशयान् मनोज्ञान्॥

3.4.74

रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः॥ क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः॥

3.4.75

दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु॥ परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत्स सदा॥

3.4.76

ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः॥ तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः॥

3.4.77

द्वयोर्वा तिसृणां वापि प्रकृतीनां तु लक्षणैः॥ ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत्॥

3.4.78

प्रकोपो वान्यभावो वा क्षयो वा नोपजायते॥ प्रकृतीनां स्वभावेन जायते तु गतायुषः॥

3.4.79

विषजातो यथा कीटो न विषेण विपद्यते॥ तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम्॥

3.4.80

प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः॥ स्थिरविपुलशरीरः पार्थिवश्च क्षमावान् शुचिरथ चिरजीवी नाभसः खैर्महद्भिः॥

3.4.81

शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम्॥ प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम्॥

3.4.82

माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता॥ भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम्॥

3.4.83

शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता॥ प्रियवादित्वमित्येतद्दारुणं कायलक्षणम्॥

3.4.84

मध्यस्थता सहिष्णुत्वमर्थस्यागमसंचयौ॥ महाप्रसवशक्तित्वं कौबेरं कायलक्षणम्॥

3.4.85

गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता॥ विहारशीलता चैव गान्धर्वं कायलक्षणम्॥

3.4.86

प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमान् शुचिः॥ रागमोहमदद्देषैर्वर्जितो याम्यसत्त्ववान्॥

3.4.87

।जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम्॥ ज्ञानविज्ञानसंपन्नमृषिसत्त्वं नरं विदुः॥

3.4.88

सप्तैते सात्त्विकाः काया रजसांस्तु निबोधमे॥ ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम्॥

3.4.89

एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम्॥ तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा॥

3.4.90

विहाराचारचपलं सर्पसत्त्वं विदुर्नरम्॥ प्रवृद्धकामसेवी चाप्यजस्राहार एव च ॥[ऽअबद्धकामसेवीऽइति पा]

3.4.91

अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम्॥ एकान्तग्राहिता रौद्रमसूया धर्मबाह्यता॥

3.4.92

भृशमात्मस्तवश्चापि राक्षसं कायलक्षणम्॥ उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा॥

3.4.93

स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम्॥ असंविभागमलसं दुःखशीलमसूयकम्॥

3.4.94

लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम्॥ षडेते राजसाः कायाः, तामसांस्तु निबोध मे॥

3.4.95

दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता॥ निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः॥

3.4.96

अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता॥ परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम्॥

3.4.97

एकस्थानरतिर्नित्यमाहारे केवले रतः॥ वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः॥

3.4.98

इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा॥ कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत्॥

3.4.99

महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः॥ प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc