भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 3.10

3.10.1

अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः । ।

3.10.2

यथोवाच भगवान् धन्वन्तरिः । ।

3.10.3

गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुव्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत्, मलिनविकृतहीनगात्राणि न स्पृशेत्, दुर्गन्धदुर्दर्शनानि परिहरेत्, उद्वेजनीयाश् च कथाः, शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत, बहिर्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश् च भावान् उच्चैर् भाष्यादिकं च परिहरेद् यानि च गर्भं व्यापादयन्ति, न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत, न चायासयेच्छरीरं, पूर्वोक्तानि च परिहरेत्, शयनासनं मृद्व् आस्तरणं नात्युच्चम् अपाश्रयोपेतम् असंबाधं च विदध्यात्, हृद्यं द्रवए मधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत् , सामान्यम् एतद् आप्रसवात् । ।

3.10.4

विशेषतस् तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारम् उपसेवेत, विशेषतस् तु तृतीये षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषा चेत्येके, चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यम् अन्नं भोजयेत् , पञ्चमे क्षीरसर्पिःसंसृष्टं , षष्ठे श्वश्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा, सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम्, एवम् आप्यायते गर्भः; अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् पुराणपुरीषशुद्ध्यर्थम् अनुलोमनार्थं च वायोः, ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेत्, अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति, अत ऊर्ध्वं स्निग्धाभिर् यवाग्भिर् जाङ्गलरसैश्चोपक्रमेदाप्रसवकालात्; एवम् उपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते । ।

3.10.5

नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ, तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोधतिन्दुकभल्लातक-निर्मितं सर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कम् उपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्द्वारं कक्षिणद्वारं वा ऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसंपन्नं विधेयम् । ।

3.10.6

जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने । । सशूले जघने वारी ज्ञेया सा तु प्रजायिनी । ।

3.10.7

तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद् वेदना भवत्य् अभीक्ष्णं पुरीषप्रवृत्तिर् मूत्रं प्रसिच्यते योनिमुखाच् छ्लेष्मा च । ।

3.10.8

प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत्, ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्तितनखाः परिचरेयुरिति । ।

3.10.9

अथास्या विशिखान्तरमनुलोमम्-असुनुखमभ्यज्यानुब्रूयाच् चैनामिका ---सुभगे प्रवाहस्वेति, नचाप्राप्तावी प्रवाहस्व, ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः (पूर्वं ), ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमाविशल्यभावात्; अकालप्रवाहणाद्बधिरं मूकं कुब्जं व्यस्तहनुमूर्ध्वाभिघातिनं कासश्वासशोषोपद्रुतं विकटं वा जनयति । ।

3.10.10

तत्र प्रतिलोमम् अनुलोमयेत् । ।

3.10.11

गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा, बध्नीयाद् धिरण्यपुष्पीमूलं हस्तपादयोः, धारयेत् सुवर्चलां विशल्यां वा । ।

3.10.12

अथ जातस्योल्बमपनीय , मुखं च सैन्धवसर्पिषा विशोध्य, घृताक्तं मूर्ध्नि पिचुं दद्यात्; ततो नाभिवाडीमष्टाङ्गुलम् आयम्य सूत्रेण बद्ध्वा छेदयेत्, तत् सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् । ।

3.10.13

अथ कुमारं शीताभिर् अद्भिर् आश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णम् अङ्गुल्या ऽनामिकया लेहयेत्; ततो बलातैलेनाभ्यज्य, क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेद् एनं कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोषं यथाविभवं च । ।

3.10.14

धमनीनां हृदिस्थानां विवृतत्वाद् अनन्तरम् । ।
चतूरात्रात् त्रिरात्राद् वा स्त्रीणां स्तन्यं प्रवर्तते । ।

3.10.15

तस्मात् प्रथमे ऽह्नि मधुसर्पिर्-अनन्तमिश्रं मन्त्रपूतं त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, तृतीये च; ततः प्राङ्गिवारितस्तन्यं मधुसर्पिः स्वपाणितलसंमितं द्विकालं पाययेत् । ।

3.10.16

अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत् । सशेषदोषां तु तद् अहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं गुडोदकेनोष्णेन पाययेत्, एवं द्विरात्रं त्रिरात्रं वा कुर्याद् आदुष्टशोणितात् । विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत् त्रिरात्रम् । ततो यवकोलकुलत्थसिद्धेन शाल्योदनं भोजयेद् बलम् अग्निबलं चावेक्ष्य । अनेन विधिना ऽध्यर्धमासम् उपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधाना स्यात्, पुनर् आर्तवदर्शनाद् इत्य् एके । ।

3.10.17

धव्वभूमिजातां तु सूतिकां घृततैलयोर् अन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहन् इत्य् आ च स्यात् त्रिरात्रं पञ्चरात्रं वा (बलवती ;) अबलां यवागूं पाययेत् त्रिरात्रं पञ्चरात्रं वा । अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् । ।

3.10.18

प्रायशश् चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत्, क्रोधायासमैथुनादीन् परिहरेत् । ।

3.10.19

भवतश् चात्र ।
मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते । ।
स कृच्छ्रसाध्यो ऽसाध्यो वा भवेद् अत्यपतर्पणात् । ।

3.10.20

तस्मात् तां देशकालौ च व्याधिसात्म्येन कर्मणा । ।
परीक्ष्योपचरेन् नित्यम् एवं नात्ययम् आप्नुयात् । ।

3.10.21

अथापरा ऽपतन्त्य् आनाहाध्मानौ कुरुते, तस्मात् कण्ठमस्याः केशवेष्टितया ऽङ्गुल्या प्रमृजेत्, कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर् वा कटुतैलविमिश्रैर् योनिमुखं धूपयेत्, लाङ्गलीमूलकल्केन वा ऽस्याः पाणिपादतलम् आलिम्पेत्, मूर्ध्नि वा ऽस्या महावृक्षक्षीरम् अनुसेचयेत्, कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोर् अन्यतरेण पाययेत्, शालमूलकल्कं वा पिप्पल्यादिं वा मद्येन, सिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वा ऽस्थापयेत्, एतैर् एव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात्, स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत् । ।

3.10.22

प्रजातायाश् च नार्या रुक्षशरीरायास्तीक्ष्णैर्-अविशोधितं रक्तं वायुना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोर् बस्तौ बस्तिशिरसि वा ग्रन्थिं करोति; ततश् च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभिर् इव निस्तुद्यते भिद्यते दीर्यत इव च पक्वाशयः, समन्तादाध्मानमुदरे मूत्रसङ्गश् च भवतीति मक्कल्ललक्षणम् । तत्र (सर्पिषा सुखोष्णेन लवणचूर्णेन वा) वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत्, यवक्षारचूर्णं वा पिप्पल्यादिक्वाथेन, पिप्पल्यादिचूर्णं वा सुरामण्डेन, वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं, पृथक्पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं, पुराणगुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमुश्रं खादेत्, अच्छं वा पिबेद् अरिष्टम् इति । ।

3.10.23

अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, पीलुबदरीनिम्बपरूषकशाखाभिश् चैनं परिवीजयेत्, मूर्ध्नि चास्याहरहस्तैलपिचुम् अवचारयेत्, धूपयेच् चैनं रक्षोघ्नैर् धूपैः, रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्व् अवसृजेत्, तिलातसीसर्षपकणांश् चात्र प्रकिरेत्, अधिष्ठाने चाग्निं प्रज्वालयेत्, व्रणितोपासनीयं चावेक्षेत । ।

3.10.24

ततो दशमे ऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यात् आं यद् अभिप्रेतं नक्षत्रनाम वा । ।

3.10.25

ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्कामरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमलम्बोर्ध्वस्तनीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्मिणीं कुले जातामतो भूयिष्ठैश् च गुणैरन्वितां श्यामामारोग्यबलवृद्धये बालस्य । तत्रोर्ध्वस्तनी करालं कुर्यात् , लम्बस्तनी नासिकामुखं छादयित्वा मरणम् आपादयेत् । ततः प्रशस्तायां तिथौ शिरःस्नातम् अहतवाससम् उदङ्मुखं शिशुम् उपवेश्य धात्रीं प्राङ्मुखीम् उपवेश्य दक्षिणं स्तनं धौतम् ईषत्परिस्रुतम् अभिमन्त्र्य मन्त्रेणानेन पाययेत् । ।

3.10.26

`चत्वारः सागरास् तुभ्यं स्तनयोः क्षीरवाहिणः ।
भवन्तु सुभगे नित्यं बालस्य बलवृद्धये । ।

3.10.27

पयो ऽमृतरसंपीत्वा कुमारस् ते शुभानने ।
दीर्घम् आयुर् अवाप्नोतु देवाः प्राश्यामृतं यथा । । ऽ

3.10.28

अतो ऽन्यथा नानास्तन्योपयोगस्यासात्म्याद् व्याधिजन्म भवति । ।

3.10.29

अपरिस्रुते ऽप्य् अतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमी प्रादुर्भावः । तस्माद् एवं विधानां स्तन्यं न पाययेत् । ।

3.10.30

क्रोधशोकावात्सल्यादिभिश् च स्त्रियाः स्तन्यनाशो भवति । अथास्याः क्षीरजननार्थं सौमनस्यम् उत्पाद्य यवगोधूमशालिषष्टिकमांसरससुरासौवीरकपिण्याकलशुनमत्स्यकशेरुकशृङ्गाटकबिसविदारिकन्दमधुकशतावरीनलिकालाबूकालशाकप्रभृतीनि विदध्यात् । ।

3.10.31

अथास्याः स्तन्यम् अप्सु परीक्षेत, तच् चेच्छीतलम् अमलं तनु शङ्खावभासम् अप्सु न्यस्तम् एकीभावं गच्छत्य् अफेनिलम् अतन्तुम् अन्नोत्प्लवते ऽवसीदति वा तच् छुद्धम् इति विद्यात्, तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश् च भवति । न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूलविदग्धभक्तविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्; नाजीर्णौषधं च बालं, दोषौषधमलानां तीव्रवेगोत्पत्तिभयात् । ।

3.10.32

भवन्ति चात्र ।
धात्र्यास् तु गुरुभिर् भोज्यैर् विषमैर् दोषलैस् तथा । ।
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति । ।

3.10.33

मिथ्याहारविहारिण्य दुष्टा वातादयः स्त्रियाः । ।
दूषयन्ति पयस् तेन शारीरा व्याधयः शिशोः । ।
भवन्ति कुशलस् तांश् च भिषक् सम्यग् विभावयेत् । ।

3.10.34

अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते । ।
मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति । ।

3.10.35

निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत् । ।
बस्तिस् थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति । ।

3.10.36

विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः । ।
कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश् च रोदनैः । ।

3.10.37

तेषु च यथाभिहितं मृद्व् अच्छेदनीयम् औषधं मात्रया क्षीरपस्य क्षीरसर्पिषा धात्र्याश् च विदध्यात्, क्षीरान्नाद् अस्यात्मनि धात्र्याश् च, अन्नादस्य कषायादीन् आत्मन्य् एव न धात्र्याः । ।

3.10.38

तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रह(ण)संमितामौषधमात्रां विदध्यात्, कोलास्थिसंमितां कल्कमात्रां क्षीरान्नादाय, कोलसंमितामन्नादायेति । ।

3.10.39

येषां गदानां ये योगाः प्रवक्ष्यन्ते ऽगदङ्कराः । ।
तेषु तत् कल्कसंलिप्तौ पाययेत शिशुं स्तनौ । ।

3.10.40

एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे । ।
स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः । ।

3.10.41

न च तृष्णाभयाद् अत्र पाययेत शिशुं स्तनौ । ।
विरेकबस्तिवमनान्यृते कुर्याच् च नात्ययात् । ।

3.10.42

मस्तुलुङ्गक्षयाद् यस्य वायुस् ताल्व् अस्थि नामयेत् । ।
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् । ।

3.10.43

पानाभ्यञ्जनयोर् योज्यं शीताम्बूद्वेजनं तथा । ।
वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् । ।

3.10.44

मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः । ।
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् । ।
रसाञ्जनं विशेषेण पानालेपनयोर् हितम् । ।

3.10.45

क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पपीहरिद्राकुष्ठसैन्धवसिद्धं, क्षीरान्नादाय मधुकवचापिप्पलीचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधुकविडङ्ग-द्राक्षाद्विब्राह्मीसिद्दं ; तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति । ।

3.10.46

बालं पुनर् गात्रसुखं गृह्णीयात्, न चैनं तर्जयेत्, सहसा न प्रतिबोधयेद् वित्रासभयात्, सहसा नापहरेद् उत्क्षिपेद् वा वातादिविघातभयात्, नोपवेशयेत् कौब्ज्यभयात्, नित्यं चैनम् अनुवर्तेत प्रिय्शतैर् अजिघांसुः; एवम् अनभिहतमनास् त्व् अभिवर्धते नित्यम् उदग्रसत् त्व् असंपन्नो नीरोगः सुप्रसन्नमनाश् च भवति । वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्र(गृ)हच्छायादिभ्यो दुर्ग्रहोपसर्गतश् च बालं रक्षेत् । ।

3.10.47

नाशुचौ विसृजेद् बालं नाकाशे विषमे न च । । नोष्ममारुतवर्षेषु रजोधूमोदकेषु च । ।

3.10.48

क्षीरसात्म्यतया क्षीरमाजं गव्यम् अथापि वा । ।
दद्याद् आस्तन्यपर्याप्तेर् बालानां वीक्ष्य मात्रया । ।

3.10.49

षण्मासं चैनमन्नं प्राशयेल् लघु हितं च । ।

3.10.50

नित्यम् अवरोधरतश् च स्यात् कृतरक्ष उपसर्गभयात्; प्रयत्नतश् च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति । ।

3.10.51

अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंज्ञो भवति नखदशनैर्घात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्य् ऊर्ध्वं निरीक्षते फेनम् उद्वमति सन्दष्टौष्ठः कूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्बलो म्लानाङ्गो मत्स्यच्चहुच्छ्रुन्दरिमत्कुणगन्धो यथा पुरा धात्र्याः स्तन्यम् अभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणम् उक्तं, विस्तरेणोत्तरे वक्ष्यामः । ।

3.10.52

शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् । ।

3.10.53

अथास्मै पञ्चविंशतिवर्षाय द्वादशवर्षां पत्नीम् आवहेत् पित्र्यधर्मार्थकामप्रजाः प्राप्स्यतीति । ।

3.10.54

ऊनषोडशवर्षायाम् अप्राप्तः पञ्चविंशतिम् । । यद्य् आधत्ते उमान् गर्भं कुक्षिस्थः स विपद्यते । ।

3.10.55

जातो वा न चिरं जीवेज् जीवेद् वा दुर्बलेन्द्रियः । ।
तस्माद् अत्यन्तबालायां गर्भाधानं न कारयेत् । ।

3.10.56

अतिवृद्धायां दीर्घरोगिण्याम् अन्येन वा विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत । पुरुषस्याप्य् एवंविधस्य त एव दोषाः संभवन्ति । ।

3.10.57

तत्र पूर्वोक्तैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तदर्शनं च, तत्र शीतैः परिषेकावगाहप्रदेहादिभिर् उपचरेज्जीवनीयशृतक्षीरपानैश् च; गर्भस्फुरणे मुहुर्मुहुस् तत् सन्धारणार्थं क्षीरम् उत्पलादिसिद्धं पाययेत्; प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः, स्थानात् स्थानं चोपक्रामति गर्भे कोष्ठे संरम्भः, तत्र स्निग्धशीताः क्रियाः; वेदनायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्टकारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत्; मूत्रसङ्गे दर्भादिसिद्धं; आनाहे हिङ्गुसौवर्चललशुनवचासिद्धं; अत्यर्थं स्रवति रक्ते कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मधुना ऽवलिह्यात्, यथालाभं न्यग्रोधादित्वक्प्रवालकल्कं वा पयसा पाययेत्, उत्पलादिकल्कं वा कशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसा, उदुम्बरफलौदककन्दक्वाथेन वा शर्कराभधुमधुरेण शालिपिष्टं, न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रावयवं योन्यां धारयेत्; अथादृष्टशोणितवेदनायां मधुकदेवदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत्, तद् एवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा, बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा, एवं क्षिप्रम् उपक्रान्ताया उपावर्तन्ते रुजो गर्भश् चाप्य् आयते; व्यवस्थिते च गर्भे गव्येनोडुम्बरशलाटुसिद्धेन पयसा भोजयेत् ; अतीते लवणस्नेहवर्ज्याभिर् यवागूभिर् उद्दालकादीनां पाचनीयोपसंस्कृताभिर् उपक्रमेत यावन्तो मासा गर्भस्य तावन्त्य् अहानि; बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेद् अरिष्टं वा; वातोपद्रवगृहीतत्वात् स्रोतसां लीयते गर्भः, सो ऽतिकालम् अवतिष्ठमानो व्यापद्यते, तां मृदुना स्नेहादिक्रमेणोपचरेत्, उत्क्रोशरससंश्सिद्धाम् अनल्पस्नेहां यवागूं पाययेत्, माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन् मधुमाध्वीकं चानुपिबेत् सप्तरात्रं; कालातीतस्थायिनि गर्भे विशेषतः सधान्यम् उदूखलं मुसलेनाभिहन्याद् विषमे वा यान् आसने सेवेत; वाताभिपन्न एव शुष्यति गर्भः, स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च, तं बृंहणीयैः पयोभिर् मांसरसैश् चोपचरेत्; शुक्रशोणितं वायुना ऽभिप्रपन्नम् अवक्रान्तजीवम् आध्मापयत्य् उदरं, तं कदाचिद् यदृच्छयोपशान्तं नैगमेषापहृतम् इति भाषन्ते, तम् एव कदाचित् प्रलीयमानं नागोदरम् इत्य् आहुः; तत्रापि लीनवत् प्रतीकारः । ।

3.10.58

अत ऊर्ध्वं मासानुमासिकं वक्ष्यामः । ।

3.10.59

मधुकं शाकबीजं च पयस्या सुरदारु च । ।
अश्मन्तकस् तिलाः कृष्णास् ताम्रवल्ली शतावरी । ।

3.10.60

वृक्षादनी पयस्या च लता सोत्पलसारिवा । ।
अनन्ता सारिवा रास्ना पद्मा मधुकम् एव च । ।

3.10.61

बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास् त्वचो घृतम् । ।
पृश्निपर्णी बला शिग्रु श्वदंष्ट्रा मधुपर्णिका । ।

3.10.62

शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता । ।
वत्सैते सप्त योगाः स्युर् अर्धश्लोकसमापनाः । ।
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः । ।

3.10.63

कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका- । ।
मूलानि क्षीरसिद्धानि पाययेद् भिषग् अष्टमे । ।

3.10.64

नवमे मधुकानन्तापयस्यासारिवाः पिबेत् । ।
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद् दशमे हितम् । ।

3.10.65

सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च । ।
एवम् आप्यायते गर्भस् तीव्रा रुक् चोपशाम्यति । ।

3.10.66

निवृत्तप्रसवायास् तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं प्रसवम् आनाया नार्याः कुमारो ऽल्पायुर् भवति । ।

3.10.67

अथ गर्भिणीं व्याध्युत्पत्ताव् अत्यये छर्दयेन् मधुराम्लेनान्नोपहितेनानुलोमयेच् च, संशमनीयं च मृदु विदध्याद् अन्नपानयोः, अश्नीयाच् च मधुरप्रायं गर्भाविरुद्धं च, गर्भाविरुद्धाश् च यथायोगं विदधीत मृदु प्रायाः । ।

3.10.68

भवन्ति चात्र ।
सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा । ।
मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् । ।

3.10.69

अर्कपुष्पी मधुघृतं चूर्णितं कनकं वचा । ।
हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु । ।

3.10.70

चत्वारो ऽभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्व् अपि । ।
कुमाराणां वपुर् मेधा बलबुद्धिविवर्धनाः । ।

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc