भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.42

1.42.1

अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥

1.42.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.42.3

आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः तस्मादाप्यो रसः । परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्ति उत्कर्षापकर्षात्तु ग्रहणम् । स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते तद्यथा मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति । ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते । तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः भूम्यग्निगुणबाहुल्यादम्लः तोयाग्निगुणबाहुल्याल्लवणः वाय्वग्निगुणबाहुल्यात्कटुकः वाय्वाकाशगुणबाहुल्यात्तिक्तः पृथिव्यनिलगुणबाहुल्यात्कषाय इति ॥

1.42.4

तत्र मधुराम्ललवणा वातघ्नाः मधुरतिक्तकषायाः पितघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः ॥

1.42.5

तत्र वायो(आ.यु)रात्मैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति ॥

1.42.6

त एते रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ॥

1.42.7

केचिदाहुरग्नीषोमीयत्वाज्जगतो रसा द्विविधाः सौम्या आग्नेयाश्च । तत्र मधुरतिक्तकषायाः सौम्याः कट्वम्ललवणा आग्नेयाः । तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च कटुतिक्तकषाया रूक्षा लघवश्च सौम्याः शीता आग्नेयाश्चोष्णाः ॥

1.42.8

{ं.4} तस्य पुनरन्योनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवमौष्ण्याच्छैत्यं वैशद्यात्पैच्छिल्यमिति । तदेतन्निदर्शनमात्रमुक्तम् ॥

1.42.9

रसलक्षणमत ऊर्ध्वं वक्ष्यामः तत्र यः परितोषमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखो{ओ.आ}पलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सोऽम्लः यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवम् चापादयति स लवणः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापाद्यति हर्षं च स तिक्तः यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषायः ॥

1.42.11

अतः सर्वेषामेव द्रव्याण्युपदेक्ष्यामः । तद्यथा काकोल्यादिः क्षीरघृतवसामज्जशालिषष्टिकयवगोधूममाषशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकालावुकालिन्दकतकगिलोड्यपियालपुष्करबीजकाश्मर्यमधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकारबलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीरमोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्दबदरकोल्लप्राचीनामलकतिन्तिडीककोशाम्रकभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समासेनाम्लो वर्गः सैन्धवसौवर्चलविडपाक्यरोमकसामुद्रकपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशीतशिवकुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुको वर्गः आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्राद्वयेन्द्रयववरुणस्वादुकण्टकसप्तपर्णबृहतीद्वयशङ्खिनीद्रवन्तीत्रिवृत्कृतवेधनकर्कोटककारवेल्लवार्ताककरीरकरवीरसुमनःशङ्खपुष्प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्तीसुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः न्यग्रोधादिरम्बष्ठादिः प्रियङ्वादी रोध्रादिस्त्रिफला शल्लकीजम्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि नीवारकादयो मुद्गादयश्च वैदलाः समासेन कषायो वर्गः ॥

1.42.12

तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति । तद्यथा पञ्चदश द्विकाः विंशतिस्त्रिकाः पञ्चदश चतुष्काः षट् पञ्चकाः एकशः षड्रसाः एकः षट्क इति । तेषामन्यत्र प्रयोजनानि वक्ष्यामः ॥

1.42.13

भवति चात्र ।

1.42.13

जग्धाः षडधिगच्छन्ति बलिनो वशतां रसाः ।

1.42.13

यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc