भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.16

1.16.1

अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ॥

1.16.2

यथोवाच भगवान् धनवतरिअः ॥

1.16.3

रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते । तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्र्शस्तेषु तिथिकरणमुहूर्तनक्षत्रेषे कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधाराङ्के वा कुमारमुपवेश्य बालक्रीडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत् प्रतनुकं सूच्या बहलमारया पूर्वं दक्षिणं कुमारस्य वामं कुमार्याः ततः पिचुवर्तिं प्रवेशयेत् ॥

1.16.4

शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात् निरुपद्रवतया तद्देशविद्धमिति ॥

1.16.5

तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति । तत्र कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति । तेषु यथास्वं प्रतिकुर्वीत् ॥

1.16.6

क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानं तु पूर्वोक्तमेव ॥

1.16.7

तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्त्र्यहात्त्र्यहाच्च वर्तिं स्थूलतरां दद्यात् परिषेकं च तमेव ॥

1.16.8

अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघुवर्धनकं कुर्यात् ॥

1.16.9

एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् ।

1.16.9

दोषतो वाभिघाताद्वा सन्धानं तस्य मे शृणु ॥

1.16.10

तत्र समासेन पञ्चदशकर्णबन्धाकृतयः । तद्यथा नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति । तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः वृत्तायतसमोभयपालिरुत्पलभेद्यकः ह्र्स्ववृत्तसमोभयपालिर्वल्लूरकः अभ्यन्तरदीर्घैकपालिरासङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्णः अपालिरुभयतोऽप्याहार्यः पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः स्थूलाणुसमविषमपालिर्व्यायोजिमः अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः भाह्यदीर्घैकपालिरिताराल्पपालिरर्धकपाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्याः तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः । संक्षिप्तादयः पञ्चासाध्याः । तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः तनुविषमाल्पपालिर्वल्लीकर्णः ग्रथितमांसस्तब्धसिरासंततसूक्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति । बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ॥

1.16.11

भवन्ति चात्र ।

1.16.11

यस्य पालिद्वयमपि कर्णस्य न भवेदिह ।

1.16.11

कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ॥

1.16.12

बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् ।

1.16.12

आभ्यन्तरायां दीर्घायां भाह्यसन्धिरुदाहृतः ॥

1.16.13

एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या ।

1.16.13

तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥

1.16.14

गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता ।

1.16.14

कर्णपालीमापालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ॥

1.16.15

अतोन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति । ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः मुपरिगृहीतं च कृत्वा बन्धमुपधार्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य स्ह्तितरक्तं सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णेनावकीर्याचारिकमुपदिशेद्द्विव्रणीयोक्तेन च विधानेनोपचरेत् ॥

1.16.16

भ्वति चात्र ।

1.16.16

विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् ।

1.16.16

व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् ॥

1.16.17

न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् । स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान् पित्तदुष्टे दाहपाकरागवेदनावान् श्लेष्मदुष्टे स्तब्धः कण्डूमान् अतिप्रवृत्तरक्ते श्यावशोफवान् क्षीणोऽल्पमांसो न वृद्धिमुपैति ॥

1.16.18

आमतैलेन त्रिरात्रं परिषेचयेत् त्रिरात्राच्च पिचुं परिवर्तयेत् । स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैश्शनैरभिवर्धयेत् । अतोऽन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा ॥

1.16.19

अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः । तद्यथा गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् ॥

1.16.20

स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् ।

1.16.20

अतःनुपद्रवः सम्यग्बलवांश्च विवर्धते ॥

1.16.21

यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम् ।

1.16.21

शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ॥

1.16.22

तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् ।

1.16.22

ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः ॥

1.16.23

तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु ।

1.16.23

बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततो ध्रुवाः ॥

1.16.24

बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत् ।

1.16.24

आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते ॥

1.16.25

जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः ।

1.16.25

सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ॥

1.16.26

अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह ।

1.16.26

यो यथा सुविशिष्टः स्यात्तं त्तथा विनियोजयेत् ॥

1.16.27

विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् ।

1.16.27

नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य ॥

1.16.28

तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् ।

1.16.28

विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्तः ॥

1.16.29

सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा ।

1.16.29

प्रान्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ॥

1.16.30

संछाद्य सम्यक् पिचुना सितेन तैलन सिञ्चेदसकृत्तिलानाम् ।

1.16.30

घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥

1.16.31

रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् ।

1.16.31

हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ॥

1.16.32

नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् ।

1.16.32

य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc