भाषा

ENहिગુ
ग्रंथ पाठ

श्रीव्यंकटेशस्तोत्रम् · अध्याय 1

1

यो लोकरक्षार्थमिहावतीर्य वैकुंठलोकात्सुरवर्यवर्यः॥
शेषाचले तिष्ठति योस्नवद्ये तं व्यंकटेशं शरणं प्रपद्ये

2

पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः॥
हंसात्मनादिष्टनिजस्वभावस्तं व्यंकटेशं शरणं प्रपद्ये

3

महाविभूतिः स्वयमेव यस्य पदारविंदं भजते चिरस्य॥
तथापि योस्र्थं भुवि संचिनोति तं व्यंकटेशं शरणं प्रपद्ये

4

य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुंगम्॥
यत्पादमीक्षन्ति तरन्ति ते वै तं व्यंकटेशं शरणं प्रपद्ये

5

प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद॥
दारिद्र्यदुःखादिभयं हरस्व तं व्यंकटेशं शरणं प्रपद्ये

6

यदि प्रमादेन कृतोस्पराधः श्रीव्यंकटेशाच्छितलोकबाधः॥
स मामव त्वं प्रणमामि भूयस्तं व्यंकटेशं शरणं प्रपद्ये

7

न मत्समो यद्यपि पातकीह न त्वत्समः कारुणिकोस्पि चेह॥
विज्ञापितं मे शृणु शेषशायिन् तं व्यंकटेशं शरणं प्रपद्ये

8

व्यंकटेशाष्टकमिदं त्रिकालं यः पठेन्नरः।
स सर्वपापनिर्मुक्तो व्यंकटेशप्रियो भवेत्

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीव्यंकटेशस्तोत्रं संपूर्णम्॥

मूल पाठ: śrīvyaṃkaṭeśastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc