भाषा

ENहिગુ
ग्रंथ पाठ

श्रीकृष्णाष्टकं · अध्याय 1

1

वसुदेवसुतं देवं कंसचाणूर मर्दनं ।
देवकीपरमानंदं कृष्णं वंदे जगद्गुरूं

2

अतसीपुष्पसंकाशं हारनूपुर शोभितं ।
रत्नकंकण केयूरं कृष्णं वंदे जगद्गुरूं

3

कुटिलालक संयुक्तं पूर्णचंद्र निभाननं ।
विलसत्कुंडलधरं देवं कृष्णं वंदे जगद्गुरूं

4

मंदारगंध संयुक्तं चारुहासं चतुर्भुजं ।
बहिर्पिंछाव चूडांगं कृष्णं वंदे जगद्गुरूं

5

उत्फुल्लपद्म पत्राक्षं नीलजीमूत सन्निभं ।
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरूं

6

रुक्मिणीकेळि संयुक्तं पीतांबरं सुशोभितं ।
अवाप्त तुळसीगंधं कृष्णं वंदे जगद्गुरूं

7

गोपिकानां कुचद्वंदं कुंकुमांकित वक्षसं ।
श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरूं

8

श्रीवत्सांकं महोरस्कं वनमाला विराजितं ।
शंखचक्रधरं देवं कृष्णं वंदे जगद्गुरूं

कृष्णाष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥ फलश्रुति ॥

मूल पाठ: śrīkṛṣṇāṣṭakaṃ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc