भाषा

ENहिગુ
ग्रंथ पाठ

श्रीघनाचारसंग्रह · अध्याय 4

4.1

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावोपायो नाम तृतीयो ऽध्याय ॥
चतुर्थो ऽध्यायः
अन्ये चाचाराः
चम्पूकलहदन्तादकाष्ठो वृद्धान्तिको यतिः ।
स्नानपानाशनस्तोत्रव्यग्रो नग्नैकवस्त्र[कः]

4.2

मृत्कर्मव्यापृतस् तूर्णं गच्छन् [च] द्वित्रिभूमिकं ।
आशु व्रजन् पचन् पात्रं व्यग्रश् चीवरकर्मणा

4.3

चूर्णचैलक्रियासक्तो ऽक्ताक्षो[च] धूम्रमापिबन् ।
लिखन् यो पुस्तकं वापि यो वाचयति सो ऽपि न

4.4

विट्प्रस्रावकुटीं गच्छन् तिष्ठन् तमसि वोद्दिशन् ।
वासयन्नथ प्रावृण्वन न वन्द्यो यतिना यतिः

4.5

अवगुण्ठितशीर्षेण सोपानत्केन जानुनोः ।
मुण्डस्फोटं हि जंघायां न दद्यादविना यथा

4.6

समवस्थानिषण्णेन वन्द्यमानेन पद्युगे ।
गृहीत्वा कर्कटग्राहं वाच्यमारोग्यमस्त्विति

4.7

भिक्षुविनयसंक्षेपादाचारान्तरमुद्धृतं ।
श्रोतव्यो ऽन्यदुपाध्यायाद् भाव्यं सगौरवेण च

4.8

शतद्वयेन संहत्य श्रीघनाचार संग्रहं ।
सुकृतं कर्म यत्तेन जनो प्राप्नोत्वसंस्कृतं

मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc