श्रीबिल्वाष्टकम् · अध्याय 1
त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम्
त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम्
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारम् एकबिल्वं शिवार्पणम्
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम्
तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।
पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम्
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम्
दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम्
सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।
यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम्
अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।
तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम्
एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।
महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम्
अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।
मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः
मूल पाठ: śrībilvāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0