श्री सुब्रह्मण्यपञ्चरत्नम् · अध्याय 1
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये
जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये
सुरारि घोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये
इष्टार्थसिद्धिप्रदमीशपुत्रं मिष्टान्नदं भूसुर कामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये
यः श्लोकपञ्चमिदं पठतीह भक्त्या ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्ट- मन्ते स गच्छति मुदा गुहसाम्यमेव ॥
॥ इति श्री सुब्रह्मण्यपञ्चरत्नं समाप्तम् ॥
मूल पाठ: śrī subrahmaṇyapañcaratnam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0