भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.67

7.67.1

॥ ईश्वर उवाच ॥ ॥
ततो गछेन्महालिंगं कामेश्वरमिति श्रुतम् ॥
कामेनाराधितं पूर्वं दैत्यसूदनपश्चिमे

7.67.2

धनुषां सप्तके तत्र स्थितं देवि महाप्रभम् ॥
निर्दग्धस्तु यदा काम स्तृतीयेनाग्निना मम

7.67.3

तदा वर्षसहस्रं तु समाराध्य महेश्वरम् ॥
प्रपेदे कामनासर्गं यत्रानंगः पुरा किल

7.67.4

तेन कामेश्वरंनाम ख्यातं लिंगं धरातले ॥
सर्वपापहरं देवि सर्वकामफलप्रदम्

7.67.5

त्रयोदश्यां विधानेन शुक्लायां मासि माधवे ॥
संपूज्य तं विधानेन स स्त्रीणां कामवद्भवेत्

7.67.67

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc