भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.359

7.359.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम्

7.359.2

शृंगारेश्वरनामा च तत्र देवः प्रतिष्ठितः ॥
शृङ्गारं विधिवच्चक्रे यत्र गोपीयुतो हरिः

7.359.3

शृङ्गारेश्वरनामा च तेन पापौघनाशनः ॥
पूजयेद्यो विधानेन तत्र स्थाने स्थितं भवम् ॥
दारिद्र्यदुःखसंयुक्तो न स भूयाद्भवे क्वचित्

7.359.359

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगारेश्वरमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc